.. देवी माहात्म्यम् .. .. श्री.. श्रीचण्डिकाध्यानम् ॐ बन्धूककुसुमाभासां पञ्चमुण्डाधिवासिनीम् . स्फुरच्चन्द्रकलारत्नमुकुटां मुण्डमालिनीम् .. त्रिनेत्रां रक्तवसनां पीनोन्नतघटस्तनीम् . पुस्तकं चाक्षमालां च वरं चाभयकं क्रमात् .. दधतीं संस्मरेन्नित्यमुत्तराम्नायमानिताम् . अथवा या चण्डी मधुकैटभादिदैत्यदलनी या माहिषोन्मूलिनी या धूम्रेक्षणचण्डमुण्डमथनी या रक्तबीजाशनी . शक्तिः शुम्भनिशुम्भदैत्यदलनी या सिद्धिदात्री परा सा देवी नवकोटिमूर्तिसहिता मां पातु विश्वेश्वरी .. अथ अर्गलास्तोत्रम् ॐ नमश्वण्डिकायै मार्कण्डेय उवाच --- ॐ जय त्वं देवि चामुण्डे जय भूतापहारिणि . जय सर्वगते देवि कालरात्रि नमोऽस्तु ते .. १.. जयन्ती मङ्गला काली भद्रकाली कपालिनी . दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमोऽस्तु ते .. २.. मधुकैटभविध्वंसि विधातृवरदे नमः . रूपं देहि जयं देहि यशो देहि द्विषो जहि .. ३.. महिषासुरनिर्नाशि भक्तानां सुखदे नमः . रूपं देहि जयं देहि यशो देहि द्विषो जहि .. ४.. धूम्रनेत्रवधे देवि धर्मकामार्थदायिनि . रूपं देहि जयं देहि यशो देहि द्विषो जहि .. ५.. रक्तबीजवधे देवि चण्डमुण्डविनाशिनि . रूपं देहि जयं देहि यशो देहि द्विषो जहि .. ६.. निशुम्भशुम्भनिर्नाशि त्रिलोक्यशुभदे नमः . रूपं देहि जयं देहि यशो देहि द्विषो जहि .. ७.. वन्दिताङ्घ्रियुगे देवि सर्वसौभाग्यदायिनि . रूपं देहि जयं देहि यशो देहि द्विषो जहि .. ८.. अचिन्त्यरूपचरिते सर्वशत्रुविनाशिनि . रूपं देहि जयं देहि यशो देहि द्विषो जहि .. ९.. नतेभ्यः सर्वदा भक्त्या चापर्णे दुरितापहे . रूपं देहि जयं देहि यशो देहि द्विषो जहि .. १०.. स्तुवद्भ्यो भक्तिपूर्वं त्वां चण्डिके व्याधिनाशिनि . रूपं देहि जयं देहि यशो देहि द्विषो जहि .. ११.. चण्डिके सततं युद्धे जयन्ति पापनाशिनि . रूपं देहि जयं देहि यशो देहि द्विषो जहि .. १२.. देहि सौभाग्यमारोग्यं देहि देवि परं सुखम् . रूपं देहि जयं देहि यशो देहि द्विषो जहि .. १३.. विधेहि देवि कल्याणं विधेहि विपुलां श्रियम् . रूपं देहि जयं देहि यशो देहि द्विषो जहि .. १४.. विधेहि द्विषतां नाशं विधेहि बलमुच्चकैः . रूपं देहि जयं देहि यशो देहि द्विषो जहि .. १५.. सुरासुरशिरोरत्ननिघृष्टचरणेऽम्बिके . रूपं देहि जयं देहि यशो देहि द्विषो जहि .. १६.. विद्यावन्तं यशस्वन्तं लक्ष्मीवन्तञ्च मां कुरु . रूपं देहि जयं देहि यशो देहि द्विषो जहि .. १७.. देवि प्रचण्डदोर्दण्डदैत्यदर्पनिषूदिनि . रूपं देहि जयं देहि यशो देहि द्विषो जहि .. १८.. प्रचण्डदैत्यदर्पघ्ने चण्डिके प्रणताय मे . रूपं देहि जयं देहि यशो देहि द्विषो जहि .. १९.. चतुर्भुजे चतुर्वक्त्रसंसुते परमेश्वरि . रूपं देहि जयं देहि यशो देहि द्विषो जहि .. २०.. कृष्णेन संस्तुते देवि शश्वद्भक्त्या सदाम्बिके . रूपं देहि जयं देहि यशो देहि द्विषो जहि .. २१.. हिमाचलसुतानाथसंस्तुते परमेश्वरि . रूपं देहि जयं देहि यशो देहि द्विषो जहि .. २२.. इन्द्राणीपतिसद्भावपूजिते परमेश्वरि . रूपं देहि जयं देहि यशो देहि द्विषो जहि .. २३.. देवि भक्तजनोद्दामदत्तानन्दोदयेऽम्बिके . रूपं देहि जयं देहि यशो देहि द्विषो जहि .. २४.. भार्यां मनोरमां देहि मनोवृत्तानुसारिणीम् . रूपं देहि जयं देहि यशो देहि द्विषो जहि .. २५.. तारिणि दुर्गसंसारसागरस्याचलोद्भवे . रूपं देहि जयं देहि यशो देहि द्विषो जहि .. २६.. इदं स्तोत्रं पठित्वा तु महास्तोत्रं पठेन्नरः . सप्तशतीं समाराध्य वरमाप्नोति दुर्लभम् .. २७.. .. इति श्रीमार्कण्डेयपुराणे अर्गलास्तोत्रं समाप्तम् .. .. अथ कीलकस्तोत्रम् .. ॐ नमश्चण्डिकायै मार्कण्डेय उवाच -- ॐ विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे . श्रेयःप्राप्तिनिमित्ताय नमः सोमार्धधारिणे .. १.. सर्वमेतद्विजानीयान्मन्त्राणामपि कीलकम् . सोऽपि क्षेममवाप्नोति सततं जप्यतत्परः .. २.. सिद्ध्यन्त्युच्चाटनादीनि कर्माणि सकलान्यपि . एतेन स्तुवतां देवीं स्तोत्रवृन्देन भक्तितः .. ३.. न मन्त्रो नौषधं तस्य न किञ्चिदपि विद्यते . विना जप्येन सिद्ध्येत्तु सर्वमुच्चाटनादिकम् .. ४.. समग्राण्यपि सेत्स्यन्ति लोकशङ्कामिमां हरः . कृत्वा निमन्त्रयामास सर्वमेवमिदं शुभम् .. ५.. स्तोत्रं वै चण्डिकायास्तु तच्च गुह्यं चकार सः . समाप्नोति स पुण्येन तां यथावन्निमन्त्रणाम् .. ६.. सोऽपि क्षेममवाप्नोति सर्वमेव न संशयः . कृष्णायां वा चतुर्दश्यामष्टम्यां वा समाहितः .. ७.. ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदति . इत्थं रूपेण कीलेन महादेवेन कीलितम् .. ८.. यो निष्कीलां विधायैनां चण्डीं जपति नित्यशः . स सिद्धः स गणः सोऽथ गन्धर्वो जायते ध्रुवम् .. ९.. न चैवापाटवं तस्य भयं क्वापि न जायते . नापमृत्युवशं याति मृते च मोक्षमाप्नुयात् .. १०.. ज्ञात्वा प्रारभ्य कुर्वीत ह्यकुर्वाणो विनश्यति . ततो ज्ञात्वैव सम्पूर्णमिदं प्रारभ्यते बुधैः .. ११.. सौभाग्यादि च यत्किञ्चिद् दृश्यते ललनाजने . तत्सर्वं तत्प्रसादेन तेन जप्यमिदम् शुभम् .. १२.. शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः . भवत्येव समग्रापि ततः प्रारभ्यमेव तत् .. १३.. ऐश्वर्यं तत्प्रसादेन सौभाग्यारोग्यमेव च . शत्रुहानिः परो मोक्षः स्तूयते सा न किं जनैः .. १४.. चण्डिकां हृदयेनापि यः स्मरेत् सततं नरः . हृद्यं काममवाप्नोति हृदि देवी सदा वसेत् .. १५.. अग्रतोऽमुं महादेवकृतं कीलकवारणम् . निष्कीलञ्च तथा कृत्वा पठितव्यं समाहितैः .. १६.. .. इति श्रीभगवत्याः कीलकस्तोत्रं समाप्तम् .. .. अथ देवी कवचम् .. ॐ नमश्चण्डिकायै मार्कण्डेय उवाच -- ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् . यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह .. १.. ब्रह्मोवाच -- अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् . देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने .. २.. प्रथमं शैलपुत्रीति द्वितीयं ब्रह्मचारिणी . तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् .. ३.. पञ्चमं स्कन्दमातेति षष्ठं कात्यायनी तथा . सप्तमं कालरात्रिश्च महागौरीति चाष्टमम् .. ४.. नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः . उक्तान्येतानि नामानि ब्रह्मणैव महात्मना .. ५.. अग्निना दह्यमानास्तु शत्रुमध्यगता रणे . विषमे दुर्गमे चैव भयार्ताः शरणं गताः .. ६. न तेषां जायते किञ्चिदशुभं रणसङ्कटे . आपदं न च पश्यन्ति शोकदुःखभयङ्करीम् .. ७.. यैस्तु भक्त्या स्मृता नित्यं तेषां वृद्धिः प्रजायते . ये त्वां स्मरन्ति देवेशि रक्षसि तान्न संशयः .. ८.. प्रेतसंस्था तु चामुण्डा वाराही महिषासना . ऐन्द्री गजसमारूढा वैष्णवी गरुडासना .. ९.. नारसिंही महावीर्या शिवदूती महाबला . माहेश्वरी वृषारूढा कौमारी शिखिवाहना .. १०.. लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया . श्वेतरूपधरा देवी ईश्वरी वृषवाहना .. ११.. ब्राह्मी हंसमारूढा सर्वाभरणभूषिता . इत्येता मातरः सर्वाः सर्वयोगसमन्विताः .. १२.. नानाभरणशोभाढ्या नानारत्नोपशोभिताः . श्रैष्ठैश्च मौक्तिकैः सर्वा दिव्यहारप्रलम्बिभिः .. १३.. इन्द्रनीलैर्महानीलैः पद्मरागैः सुशोभनैः . दृश्यन्ते रथमारूढा देव्यः क्रोधसमाकुलाः .. १४.. शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् . खेटकं तोमरं चैव परशुं पाशमेव च .. १५.. कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् . दैत्यानां देहनाशाय भक्तानामभयाय च .. १६.. धारयन्त्यायुधानीत्थं देवानां च हिताय वै . नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे .. १७.. महाबले महोत्साहे महाभयविनाशिनि . त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि .. १८.. प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता . दक्षिणेऽवतु वाराही नैऋत्यां खड्गधारिणी .. १९.. प्रतीच्यां वारुणी रक्षेद्वायव्यां मृगवाहिनी . उदीच्यां पातु कौबेरी ईशान्यां शूलधारिणी .. २०.. ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा . एवं दश दिशो रक्षेच्चामुण्डा शववाहना .. २१.. जया मामग्रतः पातु विजया पातु पृष्ठतः . अजिता वामपार्श्वे तु दक्षिणे चापराजिता .. २२.. शिखां मे द्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता . मालाधरी ललाटे च भ्रुवौ रक्षेद्यशस्विनी .. २३.. नेत्रयोश्चित्रनेत्रा च यमघण्टा तु पार्श्वके . त्रिनेत्रा च त्रिशूलेन भ्रुवोर्मध्ये च चण्डिका .. २४.. शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी . कपोलौ कालिका रक्षेत् कर्णमूले तु शङ्करी .. २५.. नासिकायां सुगन्धा च उत्तरोष्टे च चर्चिका . अधरे चामृताबाला जिह्वायां च सरस्वती .. २६.. दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका . घण्टिकां चित्रघण्टा च महामाया च तालुके .. २७.. कामाक्षी चिबुकं रक्षेद्वाचं मे सर्वमङ्गला . ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी .. २८.. नीलग्रीवा बहिः कण्ठे नलिकां नलकूबरी . स्कन्धयोः खड्गिनी रक्षेद् बाहू मे वज्रधारिणी .. २९.. हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च . नखाञ्छूलेश्वरी रक्षेत् कुक्षौ रक्षेन्नरेश्वरी .. ३०.. स्तनौ रक्षेन्महादेवी मनःशोकविनाशिनी . हृदये ललिता देवी उदरे शूलधारिणी .. ३१.. नाभौ च कामिनी रक्षेद् गुह्यं गुह्येश्वरी तथा . मेढ्रं रक्षतु दुर्गन्धा पायुं मे गुह्यवाहिनी .. ३२.. कट्यां भगवती रक्षेदूरू मे मेघवाहना . जङ्घे महाबला रक्षेत् जानू माधवनायिका .. ३३.. गुल्फयोर्नारसिंही च पादपृष्ठे तु कौशिकी . पादाङ्गुलीः श्रीधरी च तलं पातालवासिनी .. ३४.. नखान् दंष्ट्रकराली च केशांश्चैवोर्ध्वकेशिनी . रोमकूपेषु कौमारी त्वचं योगीश्वरी तथा .. ३५.. रक्तमच्चावसामांसान्यस्थिमेदांसि पार्वती . अन्त्राणि कालरात्रिश्व पित्तं च मुकुटेश्वरी .. ३६.. पद्मावती पद्मकोशे कफे चूडामणिस्तथा . ज्वालामुखी नखज्वालामभेद्या सर्वसन्धिषु .. ३७.. शुक्रं ब्रह्माणी मे रक्षेच्छायां छत्रेश्वरी तथा . अहङ्कारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी .. ३८.. प्राणापानौ तथा व्यानमुदानं च समानकम् . वज्रहस्ता च मे रक्षेत् प्राणान् कल्याणशोभना .. ३९.. रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी . सत्त्वं रजस्तमश्वैव रक्षेन्नारायणी सदा .. ४०.. आयू रक्षतु वाराही धर्मं रक्षतु पार्वती . यशः कीर्तिं च लक्ष्मीं च सदा रक्षतु वैष्णवी .. ४१.. गोत्रमिन्द्राणी मे रक्षेत् पशून् रक्षेच्च चण्डिका . पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी .. ४२.. धनेश्वरी धनं रक्षेत् कौमारी कन्यकां तथा . पन्थानं सुपथा रक्षेन्मार्गं क्षेमङ्करी तथा .. ४३.. राजद्वारे महालक्ष्मीर्विजया सतत स्थिता . रक्षाहीनं तु यत् स्थानं वर्जितं कवचेन तु .. ४४.. तत्सर्वं रक्ष मे देवि जयन्ती पापनाशिनी . सर्वरक्षाकरं पुण्यं कवचं सर्वदा जपेत् .. ४५.. इदं रहस्यं विप्रर्षे भक्त्या तव मयोदितम् .. पादमेकं न गच्छेत् तु यदीच्छेच्छुभमात्मनः .. ४६.. कवचेनावृतो नित्यं यत्र यत्रैव गच्छति . तत्र तत्रार्थलाभश्व विजयः सार्वकालिकः .. ४७.. यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् . परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् .. ४८.. निर्भयो जायते मर्त्यः सङ्ग्रामेष्वपराजितः . त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् .. ४९.. इदं तु देव्याः कवचं देवानामपि दुर्लभम् . यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः .. ५०.. देवीकला भवेत्तस्य त्रैलोक्ये चापराजितः . जीवेद्वर्षशतं साग्रमपमृत्युविवर्जितः .. ५१.. नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः . स्थावरं जङ्गमं चैव कृत्रिमं चैव यद्विषम् .. ५२.. अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले . भूचराः खेचराश्चैव कुलजाश्चौपदेशिकाः .. ५३.. सहजा कुलजा माला डाकिनी शाकिनी तथा . अन्तरिक्षचरा घोरा डाकिन्यश्च महारवाः .. ५४.. गृहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः . ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः .. ५५.. नश्यन्ति दर्शनात्तस्य कवचेनावृतो हि यः . मानोन्नतिर्भवेद्राज्ञास्तेजोवृद्धिः परा भवेत् .. ५६.. यशोर्वृद्धिर्भवेत् पुंसां कीर्तिवृद्धिश्च जायते . तस्मात् जपेत् सदा भक्तः कवचं कामदं मुने .. ५७.. जपेत् सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा . निर्विघ्नेन भवेत् सिद्धिश्चण्डीजपसमुद्भवा .. ५८.. यावद्भूमण्डलं धत्ते सशैलवनकाननम् . तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्रपौत्रिकी .. ५९.. देहान्ते परमं स्थानं सुरैरपि सुदुर्लभम् . प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः .. ६०.. तत्र गच्छति गत्वासौ पुनश्चागमनं नहि . लभते परमं स्थानं शिवेन समतां व्रजेत् .. ६१.. इति श्रीमार्कण्डेयपुराणे हरिहरब्रह्मविरचितं देवीकवचं समाप्तम् . .. अथ प्रथमचरित्रम् .. महाकालीध्यानम् ॐ खड्गं चक्रगदेषुचापपरिधान् शूलं भुशुण्डीं शिरः शङ्खं सन्दधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम् . यां हन्तुं मधुकैटभौ जलजभूस्तुष्टाव सुप्ते हरौ नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकाम् .. ॐ नमश्चण्डिकायै ॐ ऐं मार्कण्डेय उवाच .. १.. सावर्णिः सूर्यतनयो यो मनुः कथ्यतेऽष्टमः . निशामय तदुत्पत्तिं विस्तराद्गदतो मम .. २.. महामायानुभावेन यथा मन्वन्तराधिपः . स बभूव महाभागः सावर्णिस्तनयो रवेः .. ३.. स्वारोचिषेऽन्तरे पूर्वं चैत्रवंशसमुद्भवः . सुरथो नाम राजाभूत्समस्ते क्षितिमण्डले .. ४.. तस्य पालयतः सम्यक् प्रजाः पुत्रानिवौरंसान् . बभूवुः शत्रवो भूपाः कोलाविध्वंसिनस्तदा .. ५.. तस्य तैरभवद्ध्युद्धमतिप्रबलदण्डिनः . न्यूनैरपि स तैर्युद्धे कोलाविध्वंसिभिर्जितः .. ६.. ततः स्वपुरमायातो निजदेशाधिपोऽभवत् . आक्रान्तः स महाभागस्तैस्तदा प्रबलारिभिः .. ७.. अमात्यैर्बलिभिर्दुष्टैर्दुर्बलस्य दुरात्मभिः . कोशो बलं चापहृतं तत्रापि स्वपुरे ततः .. ८.. ततो मृगयाव्याजेन हृतस्वाम्यः स भूपतिः . एकाकी हयमारुह्य जगाम गहनं वनम् .. ९.. स तत्राश्रममद्राक्षीद्द्विजवर्यस्य मेधसः . प्रशान्तः श्वापदाकीर्णं मुनिशिष्योपशोभितम् .. १०.. तस्थौ कञ्चित्स कालं च मुनिना तेन सत्कृतः . इतश्चेतश्च विचरंस्तस्मिन् मुनिवराश्रमे .. ११.. सोऽचिन्तयत्तदा तत्र ममत्वाकृष्टमानसः .. १२.. मत्पूर्वैः पालितं पूर्वं मया हीनं पुरं हि तत् . मद्धृत्तैस्तैरसद्वृत्तैर्धर्मतः .. १३.. न जाने स प्रधानो मे शूरो हस्ती सदामदः . मम वैरिवशं यातः कान् भोगानुपलप्स्यते .. १४.. ये ममानुगता नित्यं प्रसादधनभोजनैः . अनुवृत्तिं ध्रुवं तेऽद्य कुर्वन्त्यन्यमहीभृताम् .. १५.. असम्यग्व्ययशीलैस्तैः कुर्वद्भिः सततं व्ययम् . सञ्चितः सोऽतिदुःखेन क्षयं कोशो गमिष्यति .. १६.. एतच्चान्यच्च सततं चिन्तयामास पार्थिवः . तत्र विप्राश्रमाभ्याशो वैश्यमेकं ददर्श सः .. १७.. स पृष्टस्तेन कस्त्वं भो हेतुश्चागमनेऽत्र कः . सशोक इव कस्मात्त्वं दुर्मना इव लक्ष्यसे .. १८.. इत्याकर्ण्य वचस्तस्य भूपतेः प्रणयोदितम् . प्रत्युवाच स तं वैश्यः प्रश्रयावनतो नृपम् .. १९.. वैश्य उवाच .. २०.. समाधिर्नाम वैश्योऽहमुत्पन्नो धनिनां कुले . पुत्रदारैर्निरस्तश्च धनलोभादसाधुभिः .. २१.. विहीनश्च धनैर्दारैः पुत्रैरादाय मे धनम् . वनमभ्यागतो दुःखी निरस्तश्चाप्तबन्धुभिः .. २२.. सोऽहं न वेद्मि पुत्राणां कुशलाकुशलात्मिकाम् . प्रवृत्तिं स्वजनानां च दाराणां चात्र संस्थितः .. २३.. किं नु तेषां गृहे क्षेममक्षेमं किं नु साम्प्रतम् .. २४.. कथं ते किं नु सद्वृत्ता दुर्वृताः किं नु मे सुताः .. २५.. राजोवाच .. २६.. यैर्निरस्तो भवाँल्लुब्धैः पुत्रदारादिभिर्धनैः .. २७.. तेषु किं भवतः स्नेहमनुबध्नाति मानसम् .. २८.. वैश्य उवाच .. २९.. एवमेतद्यथा प्राह भवानस्मद्गतं वचः . किं करोमे न बध्नाति मम निष्ठुरतां मनः .. ३०.. यैः सन्त्यज्य पितृस्नेहं धनलुभ्धैर्निराकृतः . पतिः स्वजनहार्दं च हादिर्तेष्वेव मे मनः .. ३१.. किमेतन्नाभिजानामि जानन्नपि महामते . यत्प्रेमप्रवणं चित्तं विगुणेष्वपि बन्धुषु .. ३२.. तेषां कृते मे निःश्वासो दौर्मनस्यं च जायते .. ३३.. करोमि किं यन्न मनस्तेष्वप्रीतिषु निष्ठुरम् .. ३४.. मार्कण्डेय उवाच .. ३५.. ततस्तौ सहितौ विप्र तं मुनिं समुपस्थितौ .. ३६.. समाधिर्नाम वैश्योऽसौ स च पार्थिवसत्तमः .. ३७.. कृत्वा तु तौ यथान्यायं यथार्हं तेन संविदम् . उपविष्टौ कथाः काश्चिच्चक्रतुर्वैश्यपार्थिवौ .. ३८.. राजोवाच .. ३९.. भगवंस्त्वामहं प्रष्टुमिच्छाम्येकं वदस्व तत् .. ४०.. दुःखाय यन्मे मनसः स्वचित्तायत्ततां विना .. ४१.. ममत्वं गतराज्यस्य राज्याङ्गेष्वखिलेष्वपि . जानतोऽपि यथाज्ञस्य किमेतन्मुनिसत्तम .. ४२.. अयं च निकृतः पुत्रैर्दारैर्भृत्यैस्तथोज्झितः . स्वजनेन च सन्त्यक्तस्तेषु हार्दी तथाप्यति .. ४३.. एवमेष तथाहं च द्वावप्यत्यन्तदुःखितौ . दृष्टदोषेऽपि विषये ममत्वाकृष्टमानसौ .. ४४.. तत्केनैतन्महाभाग यन्मोहो ज्ञानिनोरपि . ममास्य च भवत्येषा विवेकान्धस्य मूढता .. ४५.. ऋषिरुवाच .. ४६.. ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरे . विषयाश्च महाभाग यान्ति चैवं पृथक्पृथक् .. ४७.. दिवान्धाः प्राणिनः केचिद्रात्रावन्धास्तथापरे . केचिद्दिवा तथा रात्रौ प्राणिनस्तुल्यद्दष्टयः .. ४८.. ज्ञानिनो मनुजाः सत्यं किन्तु ते न हि केवलम् . यतो हि ज्ञानिनः सर्वे पशुपक्षिमृगादयः .. ४९.. ज्ञानं च तन्मनुष्याणां यत्तेषां मृगपक्षिणाम् . मनुष्याणां च यत्तेषां तुल्यमन्यत्तथोभयोः .. ५०.. ज्ञानेऽपि सति पश्यैतान् पतगाञ्छावचञ्चुषु . कणमोक्षादृतान् मोहात्पीडयमानानपि क्षुधा .. ५१.. मानुषा मनुजव्याघ्र साभिलाषाः सुतान् प्रति . लोभात् प्रत्युपकाराय नन्वेतान् किं न पश्यसि .. ५२.. तथापि ममतावर्ते मोहगर्ते निपातिताः . महामायाप्रभावेण संसारस्थितिकारिणा .. ५३.. तन्नात्र विस्मयः कार्यो योगनिद्रा जगत्पतेः . महामाया हरेश्चैषा तया सम्मोह्यते जगत् .. ५४.. ज्ञानिनामपि चेतंसि देवी भगवती हि सा . बलादाकृष्य मोहाय महामाया प्रयच्छति .. ५५.. तया विसृज्यते विश्वं जगदेतच्चराचरम् . सैषा प्रसन्ना वरदा नृणां भवति मुक्तये .. ५६.. सा विद्या परमा मुक्तेर्हेतुभूता सनातनी .. ५७.. संसारबन्धहेतुश्च सैव सर्वेश्वरेश्वरी .. ५८.. राजोवाच .. ५९.. भगवन् का हि सा देवी महामायेति यां भवान् . ब्रवीति कथमुत्पन्ना सा कर्मास्याश्च किं द्विज .. ६०.. यत्प्रभावा च सा देवी यत्स्वरूपा यदुद्भवा .. ६१.. तत्सर्वं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर .. ६२.. ऋषिरुवाच .. ६३.. नित्यैव सा जगन्मूर्तिस्तया सर्वमिदं ततम् .. ६४.. तथापि तत्समुत्पत्तिर्बहुधा श्रूयतां मम .. ६५.. देवानां कार्यसिद्ध्यर्थमाविर्भवति सा यदा . उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते .. ६६.. योगनिद्रां यदा विष्णुर्जगत्येकार्णवीकृते . आस्तीर्य शेषमभजत् कल्पान्ते भगवान् प्रभुः .. ६७.. तदा द्वावसुरौ घोरौ विख्यातौ मधुकैटभौ . विष्णुकर्णमलोद्भूतौ हन्तुं ब्रह्माणमुद्यतौ .. ६८.. स नाभिकमले विष्णोः स्थितो ब्रह्मा प्रजापतिः . दृष्ट्वा तावसुरौ चोग्रौ प्रसुप्तं च जनार्दनम् .. ६९.. तुष्टाव योगनिद्रां तामेकाग्रहृदयः स्थितः . विबोधनार्थाय हरेर्हरिनेत्रकृतालयाम् .. ७०.. विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम् . निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः .. ७१.. ब्रह्मोवाच .. ७२.. त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका . सुधा त्वमक्षरे नित्ये त्रिधामात्रात्मिका स्थिताः .. ७३.. अर्धमात्रा स्थिता नित्या यानुच्चार्याविशेषतः . त्वमेव सा त्वं सावित्री त्वं देवजननी परा .. ७४.. त्वयैतद्धार्यते विश्वं त्वयैतत् सृज्यते जगत् . त्वयैतत् पाल्यते देवि त्वमत्स्यन्ते च सर्वदा .. ७५.. विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने . तथा संहृतिरूपान्ते जगतोऽस्य जगन्मये .. ७६.. महाविद्या महामाया महामेधा महास्मृतिः . महामोहा च भवती महादेवी महासुरी .. ७७.. प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी . कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा .. ७८.. त्वं श्रीस्त्वमीश्वरी त्वं हीस्त्वं बुद्धिर्बोधलक्षणा . लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्तिरेव च .. ७९.. खड्गिनी शूलिनी घोर गदिनी चक्रिणी तथा . शङ्खिनी चापिनी बाणभुशुण्डीपरिघयुधा .. ८०.. सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी . परापराणां परमा त्वमेव परमेश्वरी .. ८१.. यच्च किञ्चित्क्वचिद्वस्तु सदसद्वाखिलात्मिके . तस्य सर्वस्य या शक्त्तिः सा त्वं किं स्तूयसे मया .. ८२.. यया त्वया जगत्स्रष्टा जगत्पातात्ति यो जगत् . सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः .. ८३.. विष्णुः शरीरग्रहणमहमीशान एव च . कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्त्तिमान् भवेत् .. ८४.. सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता . मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ .. ८५.. प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु .. ८६.. बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ .. ८७.. ऋषिरुवाच .. ८८.. एवं स्तुता तदा देवी तामसी तत्र वेधसा . विष्णोः प्रबोधनार्थाय निहन्तुं मधुकैटभौ .. ८९.. नेत्रास्यनासिकाबाहुहृदयेभ्यस्तथोरसः . निर्गम्य दर्शने तस्थौ ब्रह्मणोऽव्यक्तजन्मनः .. ९०.. उत्तस्थौ च जगन्नाथस्तया मुक्तो जनार्दनः . एकार्णवेऽहिशयनात्ततः स ददृशे च तौ .. ९१.. मधुकैटभौ दुरात्मानावतिवीर्यपराक्रमौ . क्रोधरक्तेक्षणावत्तुं ब्रह्माणं जनितोद्यमौ .. ९२.. समुत्थाय ततस्ताभ्यां युयुधे भगवान् हरिः . पञ्चवर्षसहस्राणि बाहुप्रहरणो विभुः .. ९३.. तावप्यतिबलोन्मत्तौ महामायाविमोहितौ .. ९४.. उक्तवन्तौ वरोऽस्मत्तो व्रियतामिति केशवम् .. ९५.. श्रीभगवानुवाच .. ९६.. भवेतामद्य मे तुष्टौ मम वध्यावुभावपि .. ९७.. किमन्येन वरेणात्र एतावद्धि वृतं मम .. ९८.. ऋषिरुवाच .. ९९.. वञ्चिताभ्यामिति तदा सर्वमापोमयं जगत् . विलोक्य ताभ्यां गदितो भगवान् कमलेक्षणः .. १००.. आवां जहि न यत्रोर्वी सलिलेन परिप्लुता .. १०१.. ऋषिरुवाच .. १०२.. तथेत्युक्त्वा भगवता शङ्खचक्रगदाभृता . कृत्वा चक्रेण वै छिन्ने जघने शिरसी तयोः .. १०३.. एवमेषा समुत्पन्ना ब्रह्मणा संस्तुता स्वयम् . प्रभावमस्या देव्यास्तु भूयः श्रृणु वदामि ते .. १०४.. .. इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये मधुकैटभवधो नाम प्रथमोऽध्यायः .. .. अथ मध्यमचरितम् .. महालक्ष्मीध्यानम् ॐ अक्षस्रक्परशुं गदेषुकुलिशं पद्मं धनुः कुण्डिकां दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् . शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवालप्रभां सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् .. ॐ ऋषिरुवाच .. १.. देवासुरमभूद्युद्धं पूर्णमब्दशतं पुरा . महिषेऽसुराणामधिपे देवानां च पुरन्दरे .. २.. तत्रासुरैर्महावीर्यैर्देवसैन्यं पराजितम् . जित्वा च सकलान् देवानिन्द्रोऽभून्महिषासुरः .. ३.. ततः पराजिता देवाः पद्मयोनिं प्रजापतिम् . पुरस्कृत्य गतास्तत्र यत्रेशगरुडध्वजौ .. ४.. यथावृत्तं तयोस्तद्वन्महिषासुरचेष्टितम् . त्रिदशाः कथयामासुर्देवाभिभवविस्तरम् .. ५.. सूर्येन्द्राग्न्यनिलेन्दूनां यमस्य वरुणस्य च . अन्येषां चाधिकारान्स स्वयमेवाधितिष्ठति .. ६.. स्वर्गान्निराकृताः सर्वे तेन देवगणा भुवि . विचरन्ति यथा मर्त्या महिषेण दुरात्मना .. ७.. एतद्वः कथितं सर्वममरारिविचेष्टितम् . शरणं वः प्रपन्नाः स्मो वधस्तस्य विचिन्त्यताम् .. ८.. इत्थं निशम्य देवानां वचांसि मधुसूदनः . चकार कोपं शम्भुश्च भ्रुकुटीकुटिलाननौ .. ९.. ततोऽतिकोपपूर्णस्य चक्रिणो वदनात्ततः . निश्चक्राम महत्तेजो ब्रह्मणः शङ्करस्य च .. १०.. अन्येषां चैव देवानां शक्रादीनां शरीरतः . निर्गतं सुमहत्तेजस्तच्चैक्यं समगच्छत .. ११.. अतीव तेजसः कूटं ज्वलन्तमिव पर्वतम् . ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगन्तरम् .. १२.. अतुलं तत्र तत्तेजः सर्वदेवशरीरजम् . एकस्थं तदभून्नारी व्याप्तलोकत्रयं त्विषा .. १३.. यदभूच्छाम्भवं तेजस्तेनाजायत तन्मुखम् . याम्येन चाभवन् केशा बाहवो विष्णुतेजसा .. १४.. सौम्येन स्तनयोर्युग्मं मध्यं चैन्द्रेण चाभवत् . वारुणेन च जङ्घोरू नितम्बस्तेजसा भुवः .. १५.. ब्रह्मणस्तेजसा पादौ तदङ्गुल्योऽर्कतेजसा . वसूनां च कराङ्गुल्यः कौबेरेण च नासिका .. १६.. तस्यास्तु दन्ताः सम्भूताः प्राजापत्येन तेजसा . नयनत्रितयं जज्ञे तथा पावकतेजसा .. १७.. भ्रुवौ च सन्ध्ययोस्तेजः श्रवणावनिलस्य च . अन्येषां चैव देवानां सम्भवस्तेजसां शिवा .. १८.. ततः समस्तदेवानां तेजोराशिसमुद्भवाम् . तां विलोक्य मुदं प्रापुरमरा महिषार्दिताः .. १९.. शूलं शूलाद्विनिष्कृष्य ददौ तस्यै पिनाकधृक् . चक्रं च दत्तवान् कृष्णः समुत्पाट्य स्वचक्रतः .. २०.. शङ्खं च वरुणः शक्तिं ददौ तस्यै हुताशनः . मारुतो दत्तवांश्चापं बाणपूर्णे ततेषुधी .. २१.. वज्रमिन्द्रः समुत्पाट्य कुलिशादमराधिपः . ददौ तस्यै सहस्राक्षो घण्टामैरावताद्गजात् .. २२.. कालदण्डाद्यमो दण्डं पाशं चाम्बुपतिर्ददौ . प्रजापतिश्चाक्षमालां ददौ ब्रह्मा कमण्डलुम् .. २३.. समस्तरोमकूपेषु निजरश्मीन् दिवाकरः . कालश्च दत्तवान् खड्गं तस्याश्चर्म च निर्मलम् .. २४.. क्षीरोदश्चामलं हारमजरे च तथाम्बरे . चूडामणिं तथा दिव्यं कुण्डले कटकानि च .. २५.. अर्धचन्द्रं तथा शुभ्रं केयूरान् सर्वबाहुषु . नूपुरौ विमलौ तद्वद् ग्रैवेयकमनुत्तमम् .. २६.. अङ्गुलीयकरत्नानि समस्तास्वङ्गुलीषु च . विश्वकर्मा ददौ तस्यै परशुं चातिनिर्मलम् .. २७.. अस्त्राण्यनेकरूपाणि तथाऽभेद्यं च दंशनम् . अम्लानपङ्कजां मालां शिरस्युरसि चापराम् .. २८.. अददज्जलधिस्तस्यै पङ्कजं चातिशोभनम् . हिमवान् वाहनं सिंहं रत्नानि विविधानि च .. २९.. ददावशून्यं सुरया पानपात्रं धनाधिपः . शेषश्च सर्वनागेशो महामणिविभूषितम् .. ३०.. नागहारं ददौ तस्यै धत्ते यः पृथिवीमिमाम् . अन्यैरपि सुरैर्देवी भूषणैरायुधैस्तथा .. ३१.. सम्मानिता ननादोच्चैः साट्टहासं मुहुर्मुहुः . तस्या नादेन घोरेण कृत्स्नमापूरितं नभः .. ३२.. अमायतातिमहता प्रतिशब्दो महानभूत् . चुक्षुभुः सकला लोकाः समुद्राश्च चकम्पिरे .. ३३.. चचाल वसुधा चेलुः सकलाश्च महीधराः . जयेति देवाश्च मुदा तामूचुः सिंहवाहिनीम् .. ३४.. तुष्टुवुर्मुनयश्चैनां भक्तिनम्रात्ममूर्तयः . दृष्ट्वा समस्तं संक्षुब्धं त्रैलोक्यममरारयः .. ३५.. सन्नद्धाखिलसैन्यास्ते समुत्तस्थुरुदायुधाः . आः किमेतदिति क्रोधादाभाष्य महिषासुरः .. ३६.. अभ्यधावत तं शब्दमशेषैरसुरैर्वृतः . स ददर्श ततो देवीं व्याप्तलोकत्रयां त्विषा .. ३७.. पादाक्रान्त्या नतभुवं किरीटोल्लिखिताम्बराम् क्षोभिताशेषपातालां धनुर्ज्यानिःस्वनेन ताम् .. ३८.. दिशो भुजसहस्रेण समन्ताद्व्याप्य संस्थिताम् . ततः प्रववृते युद्धं तया देव्या सुरद्विषाम् .. ३९.. शस्त्रास्त्रैर्बहुधा मुक्तैरादीपितदिगन्तरम् . महिषासुरसेनानीश्चिक्षुराख्यो महासुरः .. ४०.. युयुधे चामरश्चान्यैश्चतुरङ्गबलान्वितः . रथानामयुतैः षड्भिरुदग्राख्यो महासुरः .. ४१.. अयुध्यतायुतानां च सहस्रेण महाहनुः . पञ्चाशद्भिश्च नियुतैरसिलोमा महासुरः .. ४२.. अयुतानां शतैः षड्भिर्बाष्कलो युयुधे रणे . गजवाजिसहस्रौघैरनेकैः परिवारितः .. ४३.. वृतो रथानां कोट्या च युद्धे तस्मिन्नयुध्यत . बिडालाख्योऽयुतानां च पञ्चाशद्भिरथायुतैः .. ४४.. युयुधे संयुगे तत्र रथानां परिवारितः . अन्ये च तत्रायुतशो रथनागहयैर्वृताः .. ४५.. युयुधुः संयुगे देव्या सह तत्र महासुराः . कोटिकोटिसहस्रैस्तु रथानां दन्तिनां तथा .. ४६.. हयानां च वृतो युद्धे तत्राभून्महिषासुरः . तोमरैर्भिन्दिपालैश्च शक्तिभिर्मुसलैस्तथा .. ४७.. युयुधुः संयुगे देव्या खड्गैः परशुपट्टिशैः . केचिच्च चिक्षिपुः शक्तीः केचित् पाशांस्तथापरे .. ४८.. देवीं खड्गप्रहारैस्तु ते तां हन्तुं प्रचक्रमुः . सापि देवी ततस्तानि शस्त्राण्यस्त्राणि चण्डिका .. ४९.. लीलयैव प्रचिच्छेद निजशस्त्रास्त्रवर्षिणी . अनायस्तानना देवी स्तूयमाना सुरर्षिभिः .. ५०.. मुमोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्वरी . सोऽपि क्रुद्धो धुतसटो देव्या वाहनकेसरी .. ५१.. चचारासुरसैन्येषु वनेष्विव हुताशनः . निःश्वासान् मुमुचे यांश्च युध्यमाना रणेऽम्बिका .. ५२.. त एव सद्यस्सम्भूता गणाः शतसहस्रशः . युयुधुस्ते परशुभिर्भिन्दिपालासिपट्टिशैः .. ५३.. नाशयन्तोऽसुरगणान् देवीशक्त्युपबृंहिताः . अवादयन्त पटहान् गणाः शङ्खांस्तथापरे .. ५४.. मृदङ्गाश्च तथैवान्ये तस्मिन्युद्धमहोत्सवे . ततो देवी त्रिशूलेन गदया शक्तिवृष्टिभिः .. ५५.. खड्गादिभिश्च शतशो निजघान महासुरान् . पातयामास चैवान्यान् घण्टास्वनविमोहितान् .. ५६.. असुरान् भुवि पाशेन बद्ध्वा चान्यानकर्षयत् . केचिद् द्विधाकृतास्तीक्ष्णैः खड्गपातैस्तथापरे .. ५७.. विपोथिता निपातेन गदया भुवि शेरते . वेमुश्च केचिद्रुधिरं मुसलेन भृशं हताः .. ५८.. केचिन्निपतिता भूमौ भिन्नाः शूलेन वक्षसि . निरन्तराः शरौघेण कृताः केचिद्रणाजिरे .. ५९.. शल्यानुकारिणः प्राणान्मुमुचुस्त्रिदशार्दनाः . केषाञ्चिद्बाहवश्छिन्नाश्छिन्नग्रीवास्तथापरे .. ६०.. शिरांसि पेतुरन्येषामन्ये मध्ये विदारिताः . विच्छिन्नजङ्घास्त्वपरे पेतुरुर्व्यां महासुराः .. ६१.. एकबाह्वक्षिचरणाः केचिद्देव्या द्विधाकृताः . छिन्नेऽपि चान्ये शिरसि पतिताः पुनरुत्थिताः .. ६२.. कबन्धा युयुधुर्देव्या गृहीतपरमायुधाः . ननृतुश्चापरे तत्र युद्धे तूर्यलयाश्रिताः .. ६३.. कबन्धाश्छिन्नशिरसः खड्गशक्त्यृष्टिपाणयः . तिष्ठ तिष्ठेति भाषन्तो देवीमन्ये महासुराः ..६४.. पातितै रथनागाश्वैरसुरैश्च वसुन्धरा . अगम्या साभवत्तत्र यत्राभूत् स महारणः .. ६५.. शोणितौघा महानद्यस्सद्यस्तत्र विसुस्रुवुः . मध्ये चासुरसैन्यस्य वारणासुरवाजिनाम् .. ६६.. क्षणेन तन्महासैन्यमसुराणां तथाम्बिका . निन्ये क्षयं यथा वह्निस्तृणदारुमहाचयम् .. ६७.. स च सिंहो महानादमुत्सृजन् धुतकेसरः . शरीरेभ्योऽमरारीणामसूनिव विचिन्वति .. ६८.. देव्या गणैश्च तैस्तत्र कृतं युद्धं तथासुरैः . यथैषां तुष्टुवुर्देवाः पुष्पवृष्टिमुचो दिवि .. ६९.. .. इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये महिषासुरसैन्यवधो नाम द्वितीयोऽध्यायः .. .. अथ तृतीयोऽध्यायः .. ऋषिरुवाच .. १.. निहन्यमानं तत्सैन्यमवलोक्य महासुरः . सेनानीश्चक्षुरः कोपाद्ययौ योद्धुमथाम्बिकाम् .. २.. स देवीं शरवर्षेण ववर्ष समरेऽसुरः . यथा मेरुगिरेः श्रृङ्गं तोयवर्षेण तोयदः .. ३.. तस्य छित्वा ततो देवी लीलयैव शरोत्करान् . जघान तुरगान्बाणैर्यन्तारं चैव वाजिनाम् .. ४.. चिछेद च धनुः सद्यो ध्वजं चातिसमुच्छृतम् . विव्याध चैव गात्रेषु छिन्नधन्वानमाशुगैः .. ५.. स छिन्नधन्वा विरथो हताश्वो हतसारथिः . अभ्यधावत तं देवीं खड्गचर्मधरोऽसुरः .. ६.. सिंहमाहत्य खड्गेन तीक्ष्णधारेण मूर्धनि . आजघान भुजे सव्ये देवीमप्यतिवेगवान् .. ७.. तस्याः खड्गो भुजं प्राप्य पफाल नृपनन्दन . ततो जग्राह शूलं स कोपादरुणलोचनः .. ८.. चिक्षेप च ततस्तत्तु भद्रकाल्यां महासुरः . जाज्वल्यमानं तेजोभी रविबिम्बमिवाम्बरात् .. ९.. दृष्ट्वा तदापतच्छूलं देवी शूलममुञ्चत . तच्छूलं शतधा तेन नीतं स च महासुरः .. १०.. हते तस्मिन्महावीर्ये महिषस्य चमूपतौ . आजगाम गजारूढश्चामरस्त्रिदशार्दनः .. ११.. सोऽपि शक्तिं मुमोचाथ देव्यास्तामम्बिका द्रुतम् . हुङ्काराभिहतां भूमौ पातयामास निष्प्रभाम् .. १२.. भग्नां शक्तिं निपतितां दृष्ट्वा क्रोधसमन्वितः . चिक्षेप चामरः शूलं बाणैस्तदपि साच्छिनत् .. १३.. ततः सिंहः समुत्पत्य गजकुम्भान्तरस्थितः . बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा .. १४.. युध्यमानौ ततस्तौ तु तस्मान्नागान्महीं गतौ . युयुधातेऽतिसंरब्धौ प्रहरैरतिदारुणैः .. १५.. ततो वेगात् खमुत्पत्य निपत्य च मृगारिणा . करप्रहारेण शिरश्चामरस्य पृथक् कृतम् .. १६.. उदग्रश्च रणे देव्या शिलावृक्षादिभिर्हतः . दन्तमुष्टितलैश्चैव करालश्च निपातितः .. १७.. देवी क्रुद्धा गदापातैश्चूर्णयामास चोद्धतम् . बाष्कलं भिन्दिपालेन बाणैस्ताम्रं तथान्धकम् .. १८.. उग्रास्यमुग्रवीर्यं च तथैव च महाहनुम् . त्रिनेत्रा च त्रिशूलेन जघान परमेश्वरी .. १९.. बिडालस्यासिना कायात् पातयामास वै शिरः . दुर्धरं दुर्मुखं चोभौ शरैर्निन्ये यमक्षयम् .. २०.. एवं संक्षीयमाणे तु स्वसैन्ये महिषासुरः . माहिषेण स्वरूपेण त्रासयामास तान् गणान् .. २१.. कांश्चित्तुण्डाप्रहारेण खुरक्षेपैस्तथापरान् . लाङ्गूलताडितांश्चान्यान् श्रृङ्गाभ्यां च विदारितान् .. २२.. वेगेन कांश्चिदपरान्नादेन भ्रमणेन च . निःश्वासपवनेनान्यान्पातयामास भूतले .. २३.. निपात्य प्रमथानीकमभ्यधावत सोऽसुरः . सिंहं हन्तुं महादेव्याः कोपं चक्रे ततोऽम्बिका .. २४.. सोऽपि कोपान्महावीर्यः खुरक्षुण्णमहीतलः . श्रृङ्गाभ्यां पर्वतानुच्चांश्चिक्षेप च ननाद च .. २५.. वेगभ्रमणविक्षुण्णा मही तस्य विशीर्यत . लाङ्गूलेनाहतश्चाब्धिः प्लावयामास सर्वतः .. २६.. धुतश्रृङ्गविभिन्नाश्च खण्डं खण्डं ययुर्घनाः . श्वासानिलास्ताः शतशो निपेतुर्नभसोऽचलाः .. २७.. इति क्रोधसमाध्मातमापतन्तं महासुरम् . दृष्ट्वा सा चण्डिका कोपं तद्वधाय तदाकरोत् .. २८.. सा क्षिप्त्वा तस्य वै पाशं तं बबन्ध महासुरम् . तत्याज माहिषं रूपं सोऽपि बद्धो महामृधे .. २९.. ततः सिंहोऽभवत्सद्यो यावत्तस्याम्बिका शिरः . छिनत्ति तावत् पुरुषः खड्गपाणिरद्दश्यत .. ३०.. तत एवाशु पुरुषं देवी चिच्छेद सायकैः . तं खड्गचर्मणा सार्धं ततः सोऽभून्महागजः .. ३१.. करेण च महासिंहं तं चकर्ष जगर्ज च . कर्षतस्तु करं देवी खड्गेन निरकृन्तत .. ३२.. ततो महासुरो भूयो माहिषं वपुरास्थितः . तथैव क्षोभयामास त्रैलोक्यं सचराचरम् .. ३३.. ततः क्रुद्धा जगन्माता चण्डिका पानमुत्तमम् . पपौ पुनः पुनश्चैव जहासारुणलोचना .. ३४.. ननर्द चासुरः सोऽपि बलवीर्यमदोद्धतः . विषाणाभ्यां च चिक्षेप चण्डिकां प्रति भूधरान् .. ३५.. सा च तान्प्रहितांस्तेन चूर्णयन्ती शरोत्करैः . उवाच तं मदोद्धूतमुखरागाकुलाक्षरम् .. ३६.. देव्युवाच .. ३७.. गर्ज गर्ज क्षणं मूढ मधु यावत्पिबाम्यहम् . मया त्वयि हतेऽत्रैव गर्जिष्यन्त्याशु देवताः .. ३८.. ऋषिरुवाच .. ३९.. एवमुक्त्वा समुत्पत्य सारूढा तं महासुरम् . पादेनाक्रम्य कण्ठे च शूलेनैनमताडयत् .. ४०.. ततः सोऽपि पदाक्रान्तस्तया निजमुखात्ततः . अर्धनिष्क्रान्त एवासीद्देव्या वीर्येण संवृतः .. ४१.. अर्धनिष्क्रान्त एवासौ युध्यमानो महासुरः . तया महासिना देव्या शिरश्छित्त्वा निपातितः .. ४२.. ततो हाहाकृतं सर्वं दैत्यसैन्यं ननाश तत् . प्रहर्षं च परं जग्मुः सकला देवतागणाः .. ४३.. तुष्टुवुस्तां सुरा देवीं सहदिव्यैर्महर्षिभिः . जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः .. ४४.. .. इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये महिषासुरवधो नाम तृतीयोऽध्यायः .. .. अथ चतुर्थोऽध्यायः .. ऋषिरुवाच .. १.. शक्रादयः सुरगणा निहतेऽतिवीर्ये तस्मिन्दुरात्मनि सुरारिबले च देव्या . तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः .. २.. देव्या यया ततमिदं जगदात्मशक्त्या निःशेषदेवगणशक्त्तिसमूहमूत्यार् . तामम्बिकामखिलदेवमहर्षिपूज्यां भक्त्या नताः स्म विदधातु शुभानि सा नः .. ३.. यस्याः प्रभावमतुलं भगवाननन्तो ब्रह्मा हरश्च न हि वक्तुमलं बलं च . सा चण्डिकाखिलजगत्परिपालनाय नाशाय चाशुभभयस्य मतिं करोतु .. ४.. या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः पापात्मनां कृतधियां हृदयेषु बुद्धिः . श्रद्धा सतां कुलजनप्रभवस्य लज्जा तां त्वां नताः स्म परिपालय देवि विश्वम् .. ५.. किं वर्णयाम तव रूपमचिन्त्यमेतत् किञ्चातिवीर्यमसुरक्षयकारि भूरि . किं चाहवेषु चरितानि तवाति यानि सर्वेषु देव्यसुरदेवगणादिकेषु .. ६.. हेतुः समस्तजगतां त्रिगुणापि दोषै- र्न ज्ञायसे हरिहरादिभिरप्यपारा . सर्वाश्रयाखिलमिदं जगदंशभूत- मव्याकृता हि परमा प्रकृतिस्त्वमाद्या .. ७.. यस्याः समस्तसुरता समुदीरणेन तृप्तिं प्रयाति सकलेषु मखेषु देवि . स्वाहासि वै पितृगणस्य च तृप्तिहेतु- रुच्चार्यसे त्वमत एव जनैः स्वधा च .. ८.. या मुक्त्तिहेतुरविचिन्त्यमहाव्रता त्वं अभ्यस्यसे सुनियतेन्द्रियतत्त्वसारैः . मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषै- र्विद्यासि सा भगवती परमा हि देवि .. ९.. शब्दात्मिका सुविमलग्यर्जुषां निधान- मुद्गीथरम्यपदपाठवतां च साम्नाम् . देवी त्रयी भगवती भवभावनाय वातार् च सर्वजगतां परमातिर्हन्त्री .. १०.. मेधासि देवि विदिताखिलशास्त्रसारा दुर्गासि दुर्गभवसागरनौरसङ्गा . श्रीः कैटभारिहृदयैककृताधिवासा गौरी त्वमेव शशिमौलिकृतप्रतिष्ठा .. ११.. ईषत्सहासममलं परिपूर्णचन्द्र- बिम्बानुकारि कनकोत्तमकान्तिकान्तम् . अत्यद्भुतं प्रहृतमात्तरुषा तथापि वक्त्रं विलोक्य सहसा महिषासुरेण .. १२.. दृष्ट्वा तु देवि कुपितं भ्रुकुटीकराल- मुद्यच्छशाङ्कसदृशच्छवि यन्न सद्यः . प्राणान् मुमोच महिषस्तदतीव चित्रं कैर्जीव्यते हि कुपितान्तकदर्शनेन .. १३.. देवि प्रसीद परमा भवती भवाय सद्यो विनाशयसि कोपवती कुलानि . विज्ञातमेतदधुनैव यदस्तमेत- न्नीतं बलं सुविपुलं महिषासुरस्य .. १४.. ते सम्मता जनपदेषु धनानि तेषां तेषां यशांसि न च सीदति धर्मवर्गः . धन्यास्त एव निभृतात्मजभृत्यदारा येषां सदाभ्युदयदा भवती प्रसन्ना .. १५.. धम्यार्णि देवि सकलानि सदैव कर्मा- ण्यत्यादृतः प्रतिदिनं सुकृती करोति . स्वर्गं प्रयाति च ततो भवती प्रसादा- ल्लोकत्रयेऽपि फलदा ननु देवि तेन .. १६.. दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि . दारिद्र्यदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदाद्रर्चित्ता .. १७.. एभिर्हतैर्जगदुपैति सुखं तथैते कुर्वन्तु नाम नरकाय चिराय पापम् . संग्राममृत्युमधिगम्य दिवं प्रयान्तु मत्वेति नूनमहितान्विनिहंसि देवि .. १८.. दृष्ट्वैव किं न भवती प्रकरोति भस्म सर्वासुरानरिषु यत्प्रहिणोषि शस्त्रम् . लोकान्प्रयान्तु रिपवोऽपि हि शस्त्रपूता इत्थं मतिर्भवति तेष्वपि तेऽतिसाध्वी .. १९.. खड्गप्रभानिकरविस्फुरणैस्तथोग्रैः शूलाग्रकान्तिनिवहेन दृशोऽसुराणाम् . यन्नागता विलयमंशुमदिन्दुखण्ड- योग्याननं तव विलोकयतां तदेतत् .. २०.. दुर्वृत्तवृत्तशमनं तव देवि शीलं रूपं तथैतदविचिन्त्यमतुल्यमन्यैः . वीर्यं च हन्त्रु हृतदेवपराक्रमाणां वैरिष्वपि प्रकटितैव दया त्वयेत्थम् .. २१.. केनोपमा भवतु तेऽस्य पराक्रमस्य रूपं च शत्रुभयकार्यतिहारि कुत्र . चित्ते कृपा समरनिष्ठुरता च दृष्टा त्वय्येव देवि वरदे भुवनत्रयेऽपि .. २२.. त्रैलोक्यमेतदखिलं रिपुनाशनेन त्रातं त्वया समरमूर्धनि तेऽपि हत्वा . नीता दिवं रिपुगणा भयमप्यपास्तम् अस्माकमुन्मदसुरारिभवं नमस्ते .. २३.. शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके . घण्टास्वनेन नः पाहि चापज्यानिस्स्वनेन च .. २४.. प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे . भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि .. २५.. सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते . यानि चात्यन्तघोराणि तै रक्षास्मांस्तथा भुवम् .. २६.. खड्गशूलगदादीनि यानि चास्त्रानि तेऽम्बिके . करपल्लवसङ्गीनि तैरस्मान्रक्ष सर्वतः .. २७.. ऋषिरुवाच .. २८.. एवं स्तुता सुरैर्दिव्यैः कुसुमैर्नन्दनोद्भवैः . अर्चिता जगतां धात्री तथा गन्धानुलेपनैः .. २९.. भक्त्या समस्तैस्त्रिदशैर्दिव्यैर्धूपैः सुधूपिता . प्राह प्रसादसुमुखी समस्तान् प्रणतान् सुरान् .. ३०.. देव्युवाच .. ३१.. व्रियतां त्रिदशाः सर्वे यदस्मत्तोऽभिवाञ्छितम् .. ३२.. ददाम्यहमतिप्रीत्या स्तवैरेभिः सुपूजिता . देवा उचुः .. ३३.. भगवत्या कृतं सर्वं न किञ्चिदवशिष्यते . यदयं निहतः शत्रुरस्माकं महिषासुरः .. ३४.. यदि चापि वरो देयस्त्वयाऽस्माकं महेश्वरि . संस्मृता संस्मृता त्वं नो हिंसेथाः परमापदः .. ३५.. यश्च मत्यर्ः स्तवैरेभिस्त्वां स्तोष्यत्यमलानने . तस्य वित्तद्धिर्विभवैर्धनदारादिसम्पदाम् .. ३६.. वृद्धयेऽस्मत्प्रसन्ना त्वं भवेथाः सर्वदाम्बिके .. ३७.. ऋषिरुवाच .. ३८.. इति प्रसादिता देवैर्जगतोऽर्थे तथात्मनः . तथेत्युक्त्वा भद्रकाली बभूवान्तर्हिता नृप .. ३९.. इत्येतत्कथितं भूप सम्भूता सा यथा पुरा . देवी देवशरीरेभ्यो जगत्त्रयहितैषिणी .. ४०.. पुनश्च गौरीदेहा सा समुद्भूता यथाभवत् . वधाय दुष्टदैत्यानां तथा शुम्भनिशुम्भयोः .. ४१.. रक्षणाय च लोकानां देवानामुपकारिणी . तच्छृणुष्व मयाख्यातं यथावत्कथयामि ते .. ४२.. .. इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये शक्रादिस्तुतिर्नाम चतुर्थोऽध्यायः .. .. अथ उत्तमचरितम् अथ ध्यानम् घण्टाशूलहलानि शङ्खमुसले चक्रं धनुः सायकं हस्ताब्जैर्दधतीं घनान्तविलसच्छीतांशुतुल्यप्रभाम् . गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महा- पूर्वामत्रसरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम् .. .. अथ पञ्चमोऽध्यायः .. ॐ ऋषिरुवाच .. १.. पुरा शुम्भनिशुम्भाभ्यामसुराभ्यां शचीपतेः . त्रैलोक्यं यज्ञभागाश्च हृता मदबलाश्रयात् .. २.. तावेव सूर्यतां तद्वदधिकारं तथैन्दवम् . कौबेरमथ याम्यं च चक्राते वरुणस्य च .. ३.. तावेव पवनर्द्धिं च चक्रतुर्वह्निकर्म च . ततो देवा विनिर्धूता भ्रष्टराज्याः पराजिताः .. ४.. हृताधिकारास्त्रिदशास्ताभ्यां सर्वे निराकृताः . महासुराभ्यां तां देवीं संस्मरन्त्यपराजिताम् .. ५.. तयास्माकं वरो दत्तो यथापत्सु स्मृताखिलाः . भवतां नाशयिष्यामि तत्क्षणात्परमापदः .. ६.. इति कृत्वा मतिं देवा हिमवन्तं नगेश्वरम् . जग्मुस्तत्र ततो देवीं विष्णुमायां प्रतुष्टुवुः .. ७.. देवा ऊचुः .. ८.. नमो देव्यै महादेव्यै शिवायै सततं नमः . नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् .. ९.. रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः . ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः .. १०.. कल्याण्यै प्रणता वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः . नैऋत्यै भूभृतां लक्ष्मै शर्वाण्यै ते नमो नमः .. ११.. दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै . ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः .. १२.. अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः . नमो जगत्प्रतिष्टायै देव्यै कृत्यै नमो नमः .. १३.. या देवी सर्वभूतेषु विष्णुमायेति शब्दिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || १४-१६|| या देवी सर्वभूतेषु चेतनेत्यभिधीयते | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || १७-१९|| या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || २०-२२|| या देवी सर्वभूतेषु निद्रारूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || २३-२५|| या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || २६-२८|| या देवी सर्वभूतेषु छायारूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || २९-३१|| या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ३२-३४|| या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ३५-३७|| या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ३८-४०|| या देवी सर्वभूतेषु जातिरूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ४१-४३|| या देवी सर्वभूतेषु लज्जारूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ४४-४६|| या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ४७-४९|| या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ५०-५२|| या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ५३-५५|| या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ५६-५८|| या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ५९-६१|| या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ६२-६४|| या देवी सर्वभूतेषु दयारूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ६५-६७|| या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ६८-७०|| या देवी सर्वभूतेषु मातृरूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ७१-७३|| या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ७४-७६|| इन्द्रियाणामधिष्ठात्री भूतानाञ्चाखिलेषु या | भूतेषु सततं तस्यै व्याप्तिदेव्यै नमो नमः || ७७|| चितिरूपेण या कृत्स्नमेतद्व्याप्य स्थिता जगत् | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ७८-८०|| स्तुता सुरैः पूर्वमभीष्टसंश्रया- त्तथा सुरेन्द्रेण दिनेषु सेविता . करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहन्तु चापदः .. ८१.. या साम्प्रतं चोद्धतदैत्यतापितै- रस्माभिरीशा च सुरैर्नमस्यते . या च स्मृता तत्क्षणमेव हन्ति नः सर्वापदो भक्त्तिविनम्रमूर्तिभिः .. ८२.. ऋषिरुवाच .. ८३.. एवं स्तवादियुक्त्तानां देवानां तत्र पार्वती . स्नातुमभ्याययौ तोये जाह्नव्या नृपनन्दन .. ८४.. साब्रवीत्तान् सुरान् सुभ्रूर्भवद्भिः स्तूयतेऽत्र का . शरीरकोशतश्चास्याः समुद्भूताऽब्रवीच्छिवा .. ८५.. स्तोत्रं ममैतत्क्रियते शुम्भदैत्यनिराकृतैः . देवैः समेतैः समरे निशुम्भेन पराजितैः .. ८६.. शरीरकोशाद्यत्तस्याः पार्वत्या निःसृताम्बिका . कौशिकीति समस्तेषु ततो लोकेषु गीयते .. ८७.. तस्यां विनिर्गतायां तु कृष्णाभूत्सापि पार्वती . कालिकेति समाख्याता हिमाचलकृताश्रया .. ८८.. ततोऽम्बिकां परं रूपं बिभ्राणां सुमनोहरम् . ददर्श चण्डो मुण्डश्व भृत्यौ शुम्भनिशुम्भयोः .. ८९.. ताभ्यां शुम्भाप चाख्याता सातीव सुमनोहरा . काप्यास्ते स्त्री महाराज भासयन्ती हिमाचलम् .. ९०.. नैव तादृक् क्वचिद्रूपं दृष्टं केनचिदुत्तमम् . ज्ञायतां काप्यसौ देवी गृह्यतां चासुरेश्वर .. ९१.. स्त्रीरत्नमतिचार्वङ्गी द्योतयन्ती दिशास्त्विषा सा तु तिष्ठति दैत्येन्द्र तां भवान् द्रष्टुमर्हति .. ९२.. यानि रत्नानि मणयो गजाश्वादीनि वै प्रभो . त्रैलोक्ये तु समस्तानि साम्प्रतं भान्ति ते गृहे .. ९३.. ऐरावतः समानीतो गजरत्नं पुरन्दरात् . पारिजाततरुश्चायं तथैवोच्चैःश्रवा हयः .. ९४.. विमानं हंससंयुक्त्तमेतत्तिष्ठति तेऽङ्गणे . रत्नभूतमिहानीतं यदासीद्वेधसोऽद्भुतम् .. ९५ निधिरेष महापद्मः समानीतो धनेश्वरात् . किञ्जल्किनीं ददौ चाब्धिर्मालामम्लानपङ्कजाम् .. ९६.. छत्रं ते वारूणं गेहे काञ्चनस्नावि तिष्ठति . तथाऽयं स्यन्दनवरो यः पुरासीत्प्रजापतेः .. ९७.. मृत्योरुत्क्रान्तिदा नाम शक्त्तिरीश त्वया हृता . पाशः सलिलराजस्य भ्रातुस्तव परिग्रहे .. ९८.. निशुम्भस्याब्धिजाताश्च समस्ता रत्नजातयः . वह्निश्चापि ददौ तुभ्यमग्निशौचे च वाससी .. ९९.. एवं दैत्येन्द्र रत्नानि समस्तान्याहृतानि ते . स्त्रीरत्नमेषा कल्याणी त्वया कस्मान्न गृह्यते .. १००.. ऋषिरुवाच .. १०१.. निशम्येति वचः शुम्भः स तदा चण्डमुण्डयोः . प्रेषयामास सुग्रीवं दूतं देव्या महासुरम् .. १०२.. इति चेति च वक्त्तव्या सा गत्वा वचनान्मम . यथा चाभ्येति सम्प्रीत्या तथा कार्यं त्वया लघु .. १०३.. स तत्र गत्वा यत्रास्ते शैलोद्देशोऽतिशोभने . सा देवी तं ततः प्राह श्लक्ष्णं मधुरया गिरा .. १०४.. दूत उवाच .. १०५ देवि दैत्येश्वरः शुम्भस्त्रैलोक्ये परमेश्वरः . दूतोऽहं प्रेषितस्तेन त्वत्सकाशमिहागतः .. १०६.. अव्याहताज्ञः सर्वासु यः सदा देवयोनिषु . निर्जिताखिलदैत्यारिः स यदाह शृणुष्व तत् .. १०७ मम त्रैलोक्यमखिलं मम देवा वशानुगाः . यज्ञभागानहं सर्वानुपाश्नामि पृथक् पृथक् .. १०८.. त्रैलोक्ये वररत्नानि मम वश्यान्यशोषतः . तथैव गजरत्नं च हृतं देवेन्द्रवाहनम् .. १०९.. क्षीरोदमथनोद्भूतमश्वरत्नं ममामरैः . उच्चैःश्रवससंज्ञं तत्प्रणिपत्य समर्पितम् .. ११०.. यानि चान्यानि देवेषु गन्धर्वेषूरगेषु च . रत्नभूतानि भूतानि तानि मय्येव शोभने .. १११.. स्त्रीरत्नभूतां त्वां देवि लोके मन्यामहे वयम् . सा त्वमस्मानुपागच्छ यतो रत्नभुजो वयम् .. ११२.. मां वा ममानुजं वापि निशुम्भमुरुविक्रमम् . भज त्वं चञ्चलापाङ्गि रत्नभूतासि वै यतः .. ११३.. परमैश्वर्यमतुलं प्राप्स्यसे मत्परिग्रहात् . एतद्बुद्ध्या समालोच्य मत्परिग्रहतां व्रज .. ११४.. ऋषिरुवाच .. ११५.. इत्युक्त्ता सा तदा देवी गम्भीरान्तःस्मिता जगौ . दुर्गा भगवती भद्रा ययेदं धार्यते जगत् .. ११६.. देव्युवाच .. ११७.. सत्यमुक्त्तं त्वया नात्र मिथ्या किञ्चित्वयोदितम् त्रैलोक्याधिपतिः शुम्भो निशुम्भश्चापि तादृशः .. ११८.. किं त्वत्र यत्परिज्ञातं मिथ्या तत्क्रियते कथम् . श्रूयतामल्पवुद्धित्वात्प्रतिज्ञा या कृता पुरा .. ११९.. यो मां जयति सङ्ग्रामे यो मे दर्पं व्यपोहति . यो मे प्रतिबलो लोके स मे भर्ता भविष्यति .. १२०.. तदागच्छतु शुम्भोऽत्र निशुम्भो वा महासुरः . मां जित्वा किं चिरेणात्र पाणिं गृह्णातु मे लघु .. १२१.. दूत उवाच .. १२२.. अवलिप्तासि मैवं त्वं देवि ब्रूहि ममाग्रतः . त्रैलोक्ये कः पुमांस्तिष्ठेदग्रे शुम्भनिशुम्भयोः .. १२३.. अन्येषामपि दैत्यानां सर्वे देवा न वै युधि . तिष्ठन्ति सम्मुखे देवि किं पुनः स्त्री त्वमेकिका .. १२४.. इन्द्राद्याः सकला देवास्तस्थुर्येषां न संयुगे . शुम्भादीनां कथं तेषां स्त्री प्रयास्यसि सम्मुखम् .. १२५.. सा त्वं गच्छ मयैवोक्त्ता पार्श्वं शुम्भनिशुम्भयोः . केशाकर्षणनिर्धूतगौरवा मा गमिष्यसि .. १२६.. देव्युवाच .. १२७.. एवमेतद् बली शुम्भो निशुम्भश्चातिर्वीर्यवान् . किं करोमि प्रतिज्ञा मे यदनालोचिता पुरा .. १२८.. स त्वं गच्छ मयोक्त्तं ते यदेतत्सर्वमादृतः . तदाचक्ष्वासुरेन्द्राय स च युक्त्तं करोतु यत् .. १२९.. इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये देव्या दूतसंवादो नाम पञ्चमोऽध्यायः .. .. अथ षष्ठोऽध्यायः .. ऋषिरुवाच .. १.. इत्याकर्ण्य वचो देव्याः स दूतोऽमर्षपूरितः . समाचष्ट समागम्य दैत्यराजाय विस्तरात् .. २.. तस्य दूतस्य तद्वाक्यमाकर्ण्यासुरराट् ततः . सक्रोधः प्राह दैत्यानामधिपं धूम्रलोचनम् .. ३.. हे धूम्रलोचनाशु त्वं स्वसैन्यपरिवारतिः . तामानय बलाद्दुष्टां केशाकर्षणविह्वलाम् .. ४.. तत्परित्राणदः कश्चिद्यदि वोत्तिष्ठतेऽपरः . स हन्तव्योऽमरो वापि यक्षो गन्धर्व एव वा .. ५.. ऋषिरुवाच .. ६.. तेनाज्ञप्तस्ततः शीघ्रं स दैत्यो धूम्रलोचनः . वृतः षष्टया सहस्राणामसुराणां दृतं ययौ .. ७.. स दृष्ट्वा तां ततो देवीं तुहिनाचलसंस्थिताम् . जगादोच्चैः प्रयाहीति मूलं शुम्भनिशुम्भयोः .. ८.. न चेत्प्रीत्याद्य भवती मद्भर्तारमुपैष्यति . ततो बलान्नयाम्येष केशाकर्षणविह्वलाम् .. ९.. देव्युवाच .. १०.. दैत्येश्वरेण प्रहितो बलवान्बलसंवृतः . बलान्नयसि मामेवं ततः किं ते करोम्यहम् .. ११.. ऋषिरुवाच .. १२.. इत्युक्तः सोऽभ्यधावत्तामसुरो धूम्रलोचनः . हुङ्कारेणैव तं भस्म सा चकाराम्बिका ततः .. १३.. अथ क्रुद्धं महासैन्यमसुराणां तथाम्बिकाम् . ववर्ष सायकैस्तीक्ष्णैस्तथा शक्त्तिपरश्वधैः .. १४.. ततो धुतसटः कोपात्कृत्वा नादं सुभैरवम् . पपातासुरसेनायां सिंहो देव्याः स्ववाहनः .. १५.. कांश्चित्करप्रहारेण दैत्यानास्येन चापरान् . आक्रान्त्या चाधरेणान्यान् स जघान महासुरान् .. १६.. केषाञ्चित्पाटयामास नखैः कोष्ठानि केसरी . तथा तलप्रहारेण शिरांसि कृतवान्पृथक् .. १७.. विच्छिन्नवाहुशिरसः कृतास्तेन तथापरे . पापौ च रुधिरं कोष्ठादन्येषां धुतकेसरः .. १८.. क्षणेन तद्बलं सर्वं क्षयं नीतं महात्मना . तेन केसरिणा देव्या वाहनेनातिकोपिना .. १९.. श्रुत्वा तमसुरं देव्या निहतं धूम्रलोचनम् . बलं च क्षयितं कृत्स्नं देवीकेसरिणा ततः .. २०.. चुकोप दैत्याधिपतिः शुम्भः प्रस्फुरिताधरः . आज्ञापयामास च तौ चण्डमुण्डौ महासुरौ .. २१.. हे चण्ड हे मुण्ड बलैर्बहुलैः परिवारितौ . तत्र गछतं गत्वा च सा समानीयतां लघु .. २२.. केशेष्वाकृष्य बद्ध्वा वा यदि वः संशयो युधि . तदाशेषायुधैः सर्वैरसुरैर्विनिहन्यताम् .. २३.. तस्यां हतायां दुष्टायां सिंहे च विनिपातिते . शीग्रमागम्यतां बद्ध्वा गृहीत्वा तामथाम्बिकाम् .. २४.. इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये धूम्रलोचनवधो नाम षष्ठोऽध्यायः .. .. अथ सप्तमोऽध्यायः .. ऋषिरुवाच .. १.. आज्ञप्तास्ते ततो दैत्याश्चण्डमुण्डपुरोगमाः . चतुरङ्गबलोपेता ययुरभ्युद्यतायुधाः .. २.. दद्दृशुस्ते ततो देवीमीषद्धासां व्यवस्थिताम् . सिंहस्योपरि शैलेन्द्रशृङ्गे महति काञ्चने .. ३.. ते दृष्टा तां समादातुमुद्यमञ्चक्रुरुद्यताः . आकृष्टचापासिधरास्तथान्ये तत्समीपगाः .. ४.. ततः कोपं चकारोच्चैरम्बिका तानरीन्प्रति . कोपेन चास्या वदनं मषीवर्णमभूत्तदा .. ५.. भ्रुकुटीकुटिलात्तस्या ललाटफलकाद्दृतम् . काली करालवदना विनिष्क्रान्तासिपाशिनी .. ६.. विचित्रखट्वाङ्गधरा नरमालाविभूषणा . द्वीपिचर्मपरीधाना शुष्कमांसातिभैरवा .. ७.. अतिविस्तारवदना जिह्वाललनभीषणा . निमग्नारक्त्तनयना नादापूरितदिङ्मुखा .. ८.. सा वेगेनाभिपतिता घातयन्ती महासुरान् . सैन्ये तत्र सुरारीणामभक्षयत तद्बलम् .. ९.. पार्ष्णिग्राहाङ्कुशग्राहियोधघण्टासमन्वितान् . समादायैकहस्तेन मुखे चिक्षेप वारणान् .. १०.. तथैव योधं तुरगै रथं सारथिना सह . निक्षिप्य वक्त्रे दशनैश्चर्वयत्यतिभैरवम् .. ११.. एकं जग्राह केशेषु ग्रीवायामथ चापरम् . पादेनाक्रम्य चैवान्यमुरसान्यमपोथयत् .. १२.. तैर्मुक्त्तानि च शस्त्राणि महास्त्राणि तथासुरैः . मुखेन जग्राह रुषा दशनैर्मथितान्यपि .. १३.. बलिनां तद्बलं सर्वमसुराणां दुरात्मनाम् . ममर्दाभक्षयच्चान्यानन्यांश्चाताडयत्तथा .. १४.. असिना निहताः केचित्केचित्खट्वाङ्गताडिताः . जग्मुर्विनाशमसुरा दन्ताग्राभिहतास्तथा .. १५.. क्षणेन तद्बलं सर्वमसुराणां निपातितम् . दृष्ट्वा चण्डोऽभिदुद्राव तां कालीमतिभीषणाम् .. १६.. शरवर्षैर्महाभीमैर्भीमाक्षीं तां महासुरः . छादयामास चक्रैश्च मुण्डः क्षिप्तैः सहस्रशः .. १७.. तानि चक्राण्यनेकानि विशमानानि तन्मुखम् . बभुर्यथाऽर्कबिम्बानि सुबहूनि घनोदरम् .. १८.. ततो जहासातिरुषा भीमं भैरवनादिनी . काली करालवक्त्रान्तर्दुर्दर्शदशनोज्ज्वला .. १९.. उत्थाय च महासिंहं देवी चण्डमधावत . गृहीत्वा चास्य केशेषु शिरस्तेनासिनाच्छिनत् .. २०.. अथ मुण्डोऽभ्यधावत्तां दृष्ट्वा चण्डं निपातितम् . तमप्यपातयद्भूमौ सा खड्गाभिहतं रुषा .. २१.. हतशेषं ततः सैन्यं दृष्ट्वा चण्डं निपातितम् . मुण्डं च सुमहावीर्यं दिशो भेजे भयातुरम् .. २२ .. शिरश्चण्डस्य काली च गृहीत्वा मुण्डमेव च . प्राह प्रचण्डाट्टहासमिश्रमभ्येत्य चण्डिकाम् .. २३.. मया तवात्रोपहृतौ चण्डमुण्डौ महापशू . युद्धयज्ञे स्वयं शुम्भं निशुम्भं च हनिष्यसि .. २४.. ऋषिरुवाच .. २५.. तावानीतौ ततो दृष्ट्वा चण्डमुण्डौ महासुरौ . उवाच कालीं कल्याणी ललितं चण्डिका वचः .. २६.. यस्माच्चण्डम् च मुण्डं च गृहीत्वा त्वमुपागता . चामुण्डेति ततो लोके ख्याता देवी भविष्यसि .. २७.. इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये चण्डमुण्डवधो नाम सप्तमोऽध्यायः .. .ऽथ अष्टमोऽध्यायः .. ऋषिरुवाच .. १.. चण्डे च निहते दैत्ये मुण्डे च विनिपातिते . बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वरः .. २.. ततः कोपपराधीनचेताः शुम्भः प्रतापवान् . उद्योगं सर्वसैन्यानां दैत्यानामादिदेश ह .. ३.. अद्य सर्वबलैर्दैत्याः षडशीतिरुदायुधाः . कम्बूनां चतुरशीतिर्निर्यान्तु स्वबलैर्वृताः .. ४.. कोटिवीर्याणि पञ्चाशदसुराणां कुलानि वै . शतं कुलानि धौम्राणां निर्गच्छन्तु ममाज्ञया .. ५.. कालका दौर्हृदा मौर्याः कालिकेयास्तथासुराः . युद्धाय सज्जा निर्यान्तु आज्ञया त्वरिता मम .. ६.. इत्याज्ञाप्यासुरपतिः शुम्भो भैरवशासनः . निर्जगाम महासैन्यसहस्रैर्बहुभिर्वृतः .. ७.. आयान्तं चण्डिका दृष्ट्वा तत्सैन्यमतिभीषणम् . ज्यास्वनैः पूरयामास धरणीगगनान्तरम् .. ८.. ततः सिंहो महानादमतीव कृतवान्नृप . घण्टास्वनेन तान्नादानम्बिका चोपबृंहयत् .. ९.. धनुर्ज्यासिंहघण्टानां नादापूरितदिङ्मुखा . निनादैर्भीषणैः काली जिग्ये विस्तारितानना .. १०.. तं निनादमुपश्रुत्य दैत्यसैन्यैश्चतुर्दिशम् . देवी सिंहस्तथा काली सरोषैः परिवारिताः .. ११.. एतस्मिन्नन्तरे भूप विनाशाय सुरद्विषाम् . भवायामरसिंहानामतिवीर्यबलान्विताः .. १२.. ब्रह्मेशगुहविष्णूनां तथेन्द्रस्य च शक्तयः . शरीरेभ्यो विनिष्क्रम्य तद्रूपैश्चण्डिकां ययुः .. १३.. यस्य देवस्य तद्रूपं यथा भूषणवाहनम् . तद्वदेव हि तच्छक्त्तिरसुरान्योद्धुमाययौ .. १४.. हंसयुक्तविमानाग्रे साक्षसूत्रकमण्डलुः . आयाता ब्रह्मणः शक्तिर्ब्रह्माणी साभिधीयते .. १५.. माहेश्वरी वृषारूढा त्रिशूलवरधारिणी . महाहिवलया प्राप्ता चन्द्ररेखाविभूषणा .. १६.. कौमारी शक्तिहस्ता च मयूरवरवाहना . योद्धुमभ्याययौ दैत्यानम्बिका गुहरूपिणी .. १७.. तथैव वैष्णवी शक्तिर्गरुडोपरि संस्थिता . शङ्खचक्रगदाशार्ङ्गखड्गहस्ताऽभ्युपाययौ .. १८.. यज्ञवाराहमतुलं रूपं या बिभ्रतो हरेः . शक्तिः साप्याययौ तत्र वाराहीं बिभ्रती तनुम् .. १९.. नारसिंही नृसिंहस्य बिभ्रती सदृशं वपुः . प्राप्ता तत्र सटाक्षेपक्षिप्तनक्षत्रसंहतिः .. २०.. वज्रहस्ता तथैवैन्द्री गजराजोपरि स्थिता . प्राप्ता सहस्रनयना यथा शक्रस्तथैव सा .. २१.. ततः परिवृतस्ताभिरीशानो देवशक्तिभिः . हन्यन्तामसुराः शीघ्रं मम प्रीत्याह चण्डिकाम् .. २२.. ततो देवीशरीरात्तु विनिष्क्रान्तातिभीषणा . चण्डिका शक्तिरत्युग्रा शिवाशतनिनादिनी .. २३.. सा जाह धूम्रजटिलमीशानमपराजिता . दूतस्त्वं गच्छ भगवन्पार्श्वं शुम्भनिशुम्भयोः .. २४.. ब्रूहि शुम्भं निशुम्भं च दानवावतिगर्वितौ . ये चान्ये दानवास्तत्र युद्धाय समुपस्थिताः .. २५.. त्रैलोक्यमिन्द्रो लभतां देवाः सन्तु हविर्भुजः . यूयं प्रयात पातालं यदि जीवितुमिच्छथ .. २६.. बलावलेपादथ चेद्भवन्तो युद्धकाङ्क्षिणः . तदागच्छत तृप्यन्तु मच्छिवाः पिशितेन वः .. २७.. यतो नियुक्तो दौत्येन तया देव्या शिवः स्वयम् . शिवदूतीति लोकेऽस्मिंस्ततः सा ख्यातिमागता .. २८.. तेऽपि श्रुत्वा वचो देव्याः शर्वाख्यातं महासुराः . अमर्षापूरिता जग्मुर्यतः कात्यायनी स्थिता .. २९.. ततः प्रथममेवाग्रे शरशक्त्यृष्टिवृष्टिभिः . ववर्षुरुद्धतामर्षास्तां देवीममरारयः .. ३०.. सा च तान् प्रहितान् बाणाञ्छूलशक्तिपरश्वधान् . चिच्छेद लीलयाध्मातधनुर्मुक्त्तैर्महेषुभिः .. ३१.. तस्याग्रतस्तथा काली शूलपातविदारितान् . खट्वाङ्गपोथितांश्चारीन्कुर्वंती व्यचरत्तदा .. ३२.. कमण्डलुजलाक्षेपहतवीर्यान् हतौजसः . ब्रह्माणी चाकरोच्छत्रून्येन येन स्म धावति .. ३३.. माहेश्वरी त्रिशूलेन तथा चक्रेण वैष्णवी . दैत्याञ्जघान कौमारी तथा शक्त्याऽतिकोपना .. ३४.. ऐन्द्री कुलिशपातेन शतशो दैत्यदानवाः . पेतुर्विदारिताः पृथ्व्यां रुधिरौघप्रवर्षिणः .. ३५.. तुण्डप्रहारविध्वस्ता दंष्ट्राग्रक्षतवक्षसः . वाराहमूर्त्या न्यपतंश्चक्रेण च विदारिताः .. ३६.. नखैर्विदारितांश्चान्यान् भक्षयन्ती महासुरान् . नारसिंही चचाराजौ नादापूर्णदिगम्बरा .. ३७.. चण्डाट्टहासैरसुराः शिवदूत्यभिदूषिताः . पेतुः पृथिव्यां पतितांस्तांश्चखादाथ सा तदा .. ३८.. इति मात्रुगणं क्रुद्धं मर्दयन्तं महासुरान् . दृष्ट्वाऽभ्युपायैर्विविधैर्नेशुर्देवारिसैनिकाः .. ३९.. पलायनपरान्दृष्ट्वा दैत्यान्मातृगणार्दितान् . योद्धुमभ्याययौ क्रुद्धो रक्तबीजो महासुरः .. ४०.. रक्तबिन्दुर्यदा भूमौ पतत्यस्य शरीरतः . समुत्पतति मेदिन्यां तत्प्रमाणस्तदासुरः .. ४१.. युयुधे स गदापाणिरिन्द्रशक्त्या महासुरः . ततश्चन्द्रा स्ववज्रेण रक्तबीजमताडयत् .. ४२.. कुलिशेनाहतस्याशु बहु सुस्राव शोणितम् . समुत्तस्थुस्ततो योधास्तद्रूपास्तत्पराक्रमाः .. ४३.. यावन्तः पतितास्तस्य शरीराद्रक्तबिन्दवः . तावन्तः पुरुषा जातास्तद्वीर्यबलविक्रमाः .. ४४.. ते चापि युयुधुस्तत्र पुरुषा रक्तसम्भवाः . समं मात्रुभिरत्युग्रशस्त्रपातातिभीषणम् .. ४५.. पुनश्च वज्रपातेन क्षतमस्य शिरो