.. गीता शांकरभाष्य अध्याय २ १२..
Encoded by Kapila Shankaran utsaaha\@accglobal.net
Introduction
श्रीमच्छङ्कराचार्यविरचितं श्रीमद्भगवद्गीताभाष्यम् .
ॐ नमो भगवते वासुदेवाय |
उपद्धातः
नारायणः परोऽव्यक्तात् अण्डमव्यक्तसम्भवम् .
अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपा च मेदिनी ..
१. स भगवान् सृष्ट्वेदं जगत् तस्य च स्थिति चिकीर्षुः
मरीच्यादीन् अग्रे सृष्ट्वा प्रजापतीन् प्रवृत्तिलक्षणं धर्मं
ग्राहयामास वेदोक्तम् . ततः अन्यान् च सनकसनन्दनादीन्
उत्पाद्य निवृत्तिलक्षणं धर्मं ज्ञानवैराग्यलक्षणं ग्राहयामास .
द्विविधो हि वेदोक्तो धर्मः - प्रवृत्तिलक्षणः निवृत्तिलक्षणश्च
जगतः स्थितिकारणम् . प्राणिनां साक्षात् अभ्युदयनिःश्रेयसहेतुः
यः स धर्मः ब्राह्मणाद्यैः वर्णिभिः आश्रमिभिः श्रेयोर्थिभिः
अनुष्ठीयमानः . दीर्घेण कालेन अनुष्ठातॄणां कामोद्भवात्
हीयमानविवेकविज्ञानहेतुकेन अधर्मेण अभिभूयमाने धर्मे
प्रवधर्माने च अधर्मे जगतः स्थिति परिपिपालयिषुः सः आदिकर्ता
नारायणाख्यः विष्णुः भौमस्य ब्रह्मणः ब्राह्मणत्वस्य रक्षणार्थ
देवक्यां वसुदेवात् अंशेन कृष्णः किल सम्बभूव .
ब्राह्मणत्वस्य हि रक्षणे रक्षितः स्यात् वैदिको धर्मः तदधीनत्वात्
वर्णाश्रमभेदानाम् ..
२. स च भगवान् ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिः सदा सम्पन्नः
त्रिगुणात्मिकां वैष्णवीं स्वां मायां मूलप्रकृतिं वशीकृत्य अजः
अव्ययः भूतानां ईश्वरः नित्यशुद्धबुद्धमुक्तस्वभावोऽपि सन्
स्वमायया देहवान् इव जातः इव च लोकानुग्रहं कुर्वन् लक्ष्यते .
स्वप्रयोजनाभावेऽपि भूतानुजिघृक्षया वैदिकं धर्मद्व्यं अर्जुनाय
शोकमोहमहोदधौ निमग्नाय उपदिदेश गुणाधिकैः हि गृहीतः
अनुष्ठीयमानश्च धर्मः प्रचयं गमिष्यतीति . तं धर्मं
भगवता यथोपदिष्टं वेदव्यासः सर्वज्ञः भगवान् गीताक्यैः
सप्तभिः श्लोकशतैः उपनिबबन्ध ..
३. तत् इदम् गीताशास्त्रं समस्तवेदार्थसारसङ्ग्रहभूतं
दुर्विज्ञेयार्थं तदर्थाविष्करणाय अनेकैः
विवृतपदपदार्थवाक्यार्थन्यायम् अपि अत्यन्तविरुद्धानेकार्थत्वेन
लोकिकैः गृह्यमाणं उपलभ्य अहं विवेकतः अर्थनिर्धारणार्थं
संक्षेपतः विवरणं करिष्यामि ..
४. तस्य अस्य गीताशास्त्रस्य संक्षेपतः प्रयोजनं परं निःश्रेयसं
सहेतुकस्य संसारस्य अत्यन्तोपरमलक्षणम् . तच्च
सर्वकर्मसंयासपूर्वकात् आत्मज्ञाननिष्ठारूपात् धर्मात् भवति .
तथा इमं एव गीतार्थं धर्मं उद्दिश्य भग्तवता एव उक्तम् -
स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने . [म. भा. अश्व. १६. १२. ]
इति अनुगीतासु . तत्रैव च उक्तम् -
नैव धर्मी न चाधर्मी न चैव हि शुभाशुभी . [म. भा.
अश्व. १९ . ७. ]
यः स्यादेकासेन लीनः तूष्णीं किञ्चिदचिन्तयन् . [म. भा. अश्व.
१९ . १. ]
ज्ञानं सन्यासलक्षणम् [म. भा. अश्व. ४३ . २५. ]इति च .
इहापि च अन्ते उक्तं अर्जुनाय -
सर्वधर्मान् परिय्तज्य मामेकं शरणं व्रज . [१८. ६६. ]इति .
५. अभुदयार्थोऽपि यः प्रवृत्तिलक्षणः धर्मः वर्णान्
आश्रमांश्च उद्दिश्य विहितः स देवादिस्थानप्राप्तिहेतुः अपि सन्
ईश्वरार्पणबुद्ध्या अनुष्ठीयमानः सत्वशुद्धये भवति
फलाभिसन्धिवर्जितः . शुद्धसत्वस्य च
ज्ञाननिष्ठायोग्यताप्राप्तिद्वारेण ज्ञानोत्पत्तिहेतुत्वेन च
निःश्रेयसहेतुत्वम् अपि प्रतिपद्यते . तथा चेमम् एव अर्थम्
अभिसंधाय वक्ष्यति - ब्रह्मण्याधाय कर्माणि [५. १०. ]योगिनः कर्म
कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये [५. ११. ]
६. इमं द्विप्रकारं धर्मं निःश्रेयसप्रयोजनं परमार्थतत्वं च
वासुदेवाख्यं परब्रह्माभिधेयभूतं विशेषतः अभिव्यञ्जयत्
विशिष्टप्रयोजनसम्बन्धाभिधेयवत् गीताशास्त्रम् . यतः
तदर्थविज्ञाने स्मस्तपुरुषार्थसिद्धिः अतः तद्विवरणे यत्नः क्रियते
मया ..
अत्र च धृतराष्ट्र उवाच - धर्मक्षेत्रे इत्यादि .
अथ द्वितीयोऽध्यायः |
११. ० अ अत्र दृष्ट्वा तु पाण्डवानीकम् [१. २. ]इति आरभ्य
यावत् न योत्स्य इति गोविन्दमुक्त्वातूष्णीं बभूव ह . [१. ९. ]
इत्येतदन्तः प्राणिनं
शोकमोहादिसंसारबीजभूतदोषोद्भवकारणप्रदर्शनार्थत्वेन
व्याख्येयः ग्रन्थः . तथा हि - अर्जुनेत
राज्यगुरुपुत्रमित्रसुहृत्स्वजनसंबन्धिबान्धवेषु अहं एषां मम एते
इत्येवं भ्रान्तिप्रत्ययनिमितस्नेहविच्छेदादिनिमितौ आत्मनः शोकमोहौ
प्रदर्शितौ कथं भीष्ममहं संख्ये [२. ४. ]इत्यादिना .
शोकमोहाभ्यां हि अभिभूतविवेकविज्ञानः स्वतः एव क्षत्रधर्मे युद्धे
प्रवृतोऽपि तस्मात् युद्धात् उपरराम परधर्मं च भिक्षाजीवनादिकं
कर्तुं प्रववृते . तथा च सर्वप्राणिनां
शोकमोहादिदोषाविष्टचेतसां स्वभावतः एव स्वधर्मपरित्यागः
प्रतिषिद्धसेवा च स्यात् . स्वधर्मे प्रवृतानाम् अपि तेषां
वाङ्मनः कायादीनां प्रवृतिः फलाभिसन्धिपूर्विका एव साहङ्कारा च
भवति . तत्र एवं सति धर्माधर्मोपचयात्
इष्टानिष्टजन्मसुखदुःखप्राप्तिलक्षणः संसारः अनुपरतः भवति .
इत्यतः संसारबीजभूतौ शोकमोहौ . तयोश्च
सर्वकर्मसंयासपूर्वकात् आत्मज्ञानात् णान्यतः निवृतिः इति तत्
उपदिदिक्षुः सर्वलोकानुग्रहार्थं अर्जुनं निमितीकृत्य आह भगवान्
वासुदेवः - अशोच्यान् [२. ११. ]इत्वादि ..
११. ० आ. अत्र केचित् आहुः - सर्वकर्मसंयासपूर्वकात्
आत्मज्ञाननिष्ठामात्रात् एव केवलात् कैवल्यं न प्राप्यते एव . किं
तर्हि . अग्निहोत्रादिश्रौतस्मर्तकर्मसहितात् ज्ञनात् कैवल्यप्राप्तिः
इति कर्वासु गीतासु निश्चितः अर्थः इति . ज्ञापकं च आहुः अय्स
अर्थस्य - अथ चेत्वमिमं धर्म्यं संग्रामं न करिष्यसि [२ . ३३.
]कर्मण्येवादिकारस्ते [२ . ४७. ]कुरु कर्व्मैव तस्मात्वम् [४. १५. ]
इत्यादि . हिंसादियुक्तत्वात् वैदिक कर्म अधर्माय इति इयम् अपि
आशङ्का न कार्या . कथम् . क्षात्रं कर्म युद्धलक्षणं
गुरुभ्रातृपुत्रादिहिंसालक्षणं अत्यन्तक्रूरम् अपि स्वधर्मः इति कृत्वा
न अधर्माय तदकरणे च - ततः स्वधर्मं कीतिं च
हित्वापापमवाप्स्यसि . [२ . ३३. ]इति ब्रुवता
यावज्जीवादिश्रुतिचोदितानां पश्वादिहिसालक्षणानां च कर्मणां प्रागवे न
अधर्मत्वमिति सुनिश्चितं उक्तं भवति - इति .
११. ० इ. तत् असत् ज्ञानकर्मनिष्ठयोः विभागवचनात्
बुद्धिद्वयाश्रययोः . अशोच्यान् [\ २. ११. ]इत्यादिना भगवता
यावत् स्वधर्ममपि चावेक्ष्य [२ . ३१. ]इत्येतदन्तेन ग्रन्थेन
यत्परम्र्थात्मतत्वनिरूपणं कृतम् तत् सांख्यम् . तद्विषया
बुद्धिः आत्मनः जन्मादिषड्विक्रियाभावात् अकर्ता आत्मा इति
प्रकरणार्थनिरूपणात् या जायते सा सांख्यबुद्धिः . सायेषां ज्ञानिनां
उचिता भवति ते सांख्याः . एतस्याः बुद्धेः जन्मनः प्राक् आत्मनः
देहादिव्यतिरिक्तत्वकर्तृत्वभोक्तृत्वाद्यपेक्षः धर्माधर्म
विवेकपूर्वकः मोक्षसाधनानुष्ठानलक्ष्णः योगः . तद्विषया बुद्धिह्
योगबुद्धिः . सायेषां कर्मिणा उचिताभव्ति ते योगिनः . तथा च
भगवता विभक्ते द्वे बुद्धी निर्दिष्टे एषा एषा तेऽभिहिता सांख्ये
बुद्धिर्योगे त्विमां शृणु . [२. ३९. ]इति . तयोश्च
साङ्ख्यबुद्ध्याश्रयां ज्ञानयोगेन निष्ठां साङ्ख्यानां विभक्तां वक्ष्यति
पुरा वेदात्मना मया प्रोक्ता [३ . ३. ]इति . तथा च
योगबुद्ध्याश्रयां कर्मयोगेन निष्ठां विभक्तां वक्ष्यति - कर्मयोगेन
योगिनाम् [३. ३. ]इति . एवं साङ्ख्यबुद्धिं योगबुद्धिं च
आश्रित्य द्वे निष्ठे विभक्ते भगव्ता एव उक्ते ज्ञानकर्मणोः
कर्तृत्वाकर्तृत्विकत्वाने कत्वबुद्ध्याश्रययोः युगपत्
एकपुरुषाश्रयत्वासंभवं पश्यता .
११. ० ई. तथा एतत् विभागवचनं तथैव दर्शितं शातपथीये
ब्राह्मणे - एतमेव प्रव्राजिनो लोकमिच्छान्तो ब्राह्मणाः प्रव्रजन्ति इति
सर्वकर्मसंयास्ं विधाय तच्छेषेण किं प्रजया करिष्यामो येषां
नोऽयमात्माऽयं लोकः [बृ . उ. ४. ४. २२. ]इति . तत्रैव च्
प्राक् दारपरिग्रहात् पुरुषः आत्मा प्राकृतः धर्मजिज्ञासोतरकालं
लोकत्रयसाधनं - पुत्रं द्विप्रकारं च वितं - मानुषं दैवं च ;
तत्र मानुषं कर्मरूपं पितृलोकप्राप्तिसाधनं विद्यां च दैवं वितं
देवलोकप्राप्तिसाधनं सोऽकामयत इति अविद्याकामवतः एव सर्वाणि कर्माणि
श्रौतादीनि दर्शितानि . तेभ्यः (व्युत्थाय प्रव्रजन्ति इति )
व्युत्थानं आत्मनं एव लोकं इच्छतः अकामस्य विहितम् . तदेतत्
विभागवचनं अनुपपन्नं स्यात् यदि श्रौतकर्मज्ञानयोः समुच्चयः
अभिप्रेत स्यात् भगवतः ..
११. ० उ. न च र्जुनस्य प्रश्नः उपपन्नः भवति ज्यायसी
चेत्कर्मणस्ते [३. १. ]इत्यादिः . एकपुरुषानुष्ठेयत्वासंभवं
बुद्धिकर्मणोः भगवता पूर्वं अनुक्तं कथं अर्जुनः अश्रुतं बुद्धेश्च
कर्मणः ज्यायस्त्वं भगवति अध्यारोपयेत् मृषैव ज्यायसी
चेत्कर्मणस्ते मताबुद्धिः [३. १. ]इति ..
११. ० ऊ. किञ्च - यदि बुद्धिकर्मणोः सर्वेषां स्मुच्चयः उक्तः
स्यात् अर्जुनस्यापि सः उक्तः एव इति यच्छ्रेय एतयोरेकं तन्मे ब्रूहि
सुनिश्चितम् [५ . १ . ]इति कथमुभयोः उपदेशे सति
अन्यतरविषयः एव प्रश्नः स्यात् . न हि पितप्रशमनार्थिनः
वैद्येन मधुरं शीतं च भोक्तव्यमिति उपदिष्टे
तयोरन्यतरत्पितप्रशमनकारणं ब्रूहि इति प्रश्नः संभवति . अथ
अर्जुनस्य भगवदुक्तवचनार्थविवेकानवधारणनिमितः प्रश्नः कल्प्यते
तथाऽपि भगवता प्रश्नानुरूपं प्रतिवचनं देयं मया बुद्धिकर्मणोः
समुच्चयः उक्तः किमर्थम् इत्थं त्वं भ्रान्तोऽसि इति . न तु पुनः
प्रतिवचनमननुरूपं पृष्टात् अन्यत् एव द्वे निष्ठे मया पुरा
प्रोक्ते [३. ३. ]इति वक्तुं युक्तम् .
११. ० ऋ. नापि स्मार्तेनैव कर्मणा बुद्धेः समुच्चयेऽभिप्रेते
विभागवचनादि सर्वम् उपपन्नं किंच क्षत्रियस्य युद्धं स्मार्तं
कर्म स्वधर्म इति जानतः तत्किं कर्मणि घोरे मां नियोजयसि [३. १. ]
इति उपालम्भः अनुपपन्नः .
११. ० ॠ. तस्माद्गीताशास्त्रे ईषन्मात्रेणापि श्रौतेन स्मार्तेन वा
कर्मणाऽऽत्मज्ञानस्य समुच्चयः न केनचिद्दर्शयितुं शक्यः .
११. ऌ. यस्य तु अज्ञानाद्रागादिदोषतो वाकर्मणि प्रवृतस्य यज्ञेन
दानेन तपसा वा विशुद्धसत्वस्य ज्ञानमुत्पन्नं परमार्थतत्वविषयं
एकमेवेदं सर्वं ब्रह्म अकर्तृ च इति तस्य कर्मणि कर्मप्रयोजने च
निवृतेऽपि लोकसंग्रहार्थं यत्नपूर्वं यथा प्रवृतिः तथैव
कर्मणि प्रवृतस्य यत्प्रवृतिरूपं दृश्यते न तत्कर्म येन बुद्धेः
समुच्चयः स्यात् . यथा भगवतः वासुदेवस्य क्षात्रधर्मचेष्टितं
न ज्ञानेन समुच्चीयते पुरुषार्थसिद्धयेः
तद्वतत्फलाभिसंध्यहंकाराभावस्य तुल्यत्वात् विदुषः . तत्ववितु
न अहं करोमि इति मन्यते न च तत्फलम् अभिसंधते . यथा च
स्वर्गादिक्रामार्थिनः अग्निहोत्रादिकामसाधनानुष्ठानाय आहिताग्नेः काम्ये एव
अग्निहोत्रादौ प्रवृतस्य सामिकृते विनष्टेऽपि कामे तदेव अग्निहोत्रादि
अनुतिष्ठतोऽपि न तत्काम्यम् अग्निहोत्रादि भवति . तथा च
दर्शयति भगवान् कुर्वन्नपि न लिप्यते [५. ७. ]न कारोति न
लिप्यते [१३ . ३१. ]इति तत्र तत्र . यच्च पूर्वैः पूर्वतरं
कृतम् [४ . १५. ]कर्मणैव हि संसिद्धिमास्थिता जनकादयः [३.
२०. ]इति ततु प्रविभज्य विज्ञेयम् . तत्कथम् . यदि तावत्पूर्वे
जनकादयः तत्वविदः अपि प्रवृत्तकर्माणः स्युः ते लोकसंग्रहार्थं
गुणा गुणेषु वर्तन्ते [३. २८. ]इति ज्ञानेनैव संसिद्धिम् आस्थिताः न
कर्मसंयासं कृतवन्तः इत्यर्थः . अथ न ते तत्वविदः -
ईश्वरसमर्पितेन कर्मणा साधनभूतेन संसिद्धिं सत्वशुद्धिं
ज्ञानोत्पतिलक्षणां वा संसिद्धिमास्थिताः जनकादयः इति व्याख्येयम् .
एतमेव अर्थं वक्ष्यति भगवान् सत्वशुद्धये कर्म कुर्वन्ति [५. ११.
]इति . स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः [१८. ४६. ]
इत्युक्त्वा सिद्धिं प्राप्तस्य च पुनः ज्ञाननिष्ठां वक्ष्यति सिद्धिं प्राप्तो
यथा ब्रह्म [१५. ५०. ]इत्यादिना . तस्मात् गीताशास्त्रे केवलात् एव
तत्वज्ञानात् मोक्षप्राप्तिः न कर्मसमुच्चितात् इति निश्चितः अर्थः .
यथा च अयं अर्थः तथा प्रकरणशः विभज्य तत्र तत्र
दर्शयिष्यामः ..
११. ० ॡ. तत्र एवं धर्मसम्ब्बूधचेतसः मिथ्याज्ञानवतः महति
शोकसागरे निमग्नय्स्य अर्जुनस्य अन्यत्र आत्मज्ञानात् उद्धरणं
अपश्यन् भगवान् वासुदेवः ततः कृपया अर्जुनं उद्दिधारयिषुः
आत्मज्ञानाय अवतारयन् आह -
११. १ अशोच्यान् इत्यादि .. न शोच्याह् अशोच्याः भीष्मदोर्णादयः
सद्वृतत्वात् परमार्थस्वरूपेण च नित्यत्वात् . तान् अशोच्यान्
अन्वशोचः अनुशोचितवान् असि ते म्रियन्ते मन्निमितं अहं तैः
विनाभूतः किं करिष्यामि राज्यसुखादिना इति . त्वं प्रज्ञावादान्
प्रज्ञावतां बुद्धिमतं वादान् च वचनानि च भाषसे . तदेतत्
मौढ्यं पाण्डित्यं च विरुद्धं आत्मनि दर्शयसि उन्मतः इव इति
अभिप्रायः यस्मात् गतासून् गतप्राणात् मृतान् अगतासून्
अगतप्राणान् जीवतः च न अनुशोचन्ति पण्डिताः आत्मज्ञाः . पण्डा
आत्मविषया बुद्धिः येषां ते हि पण्डिताः पाण्डीत्यं निर्वेद्य [बृ. उ.
३. ५. १. ]इति श्रुतेः . परमार्थतस्तु तान् नित्यान् अशोच्यान्
अनुशोचसि अतः मूढः असि इति अभिप्रायः ..
१२. ० कुतः ते अशोच्या . यतज़ः नित्याः . कथम् .
१२. १ न तु इति .. न तु एव जातु कदाचित् अहं न आस.म् किन्तु आसम्
एव .. अतीतेषु देहोत्पतिविनाशेषु घटादिषु वियद् इव नित्यः एव
अहं आसं इति अभिप्रायः . तथा - न त्वं न आसीः किं तु आसीः एव .
तथा - न इमे जनाधिपाः न आसन् किं तु आसन् एव . तथा न च
एव न भविष्यामः किं तु भविष्यामः एव सर्वे वयं अतः अस्मात्
देहविनाशात् परं उतरकालेऽपि . त्रिष्वपि कालेषु नित्याः
आत्मस्वरूपेण इत्यर्थः . देहभेदानुवृत्या बहुवचनम् न
आत्मभेदाभिप्रायेण .
१३. ० तत्र कथमिव नित्यः आत्मा इति . दृष्टान्तं आह -
१३. १ देहिनः इति .. देहः अस्य अस्ति इति देही तस्य देहिनः देहवतः
आत्मनः अस्मिन् वर्तमाने देहे यथा येन प्रकारेण कौमारं कुमारभावः
बाल्यावस्था यौवनं यूनः भावः मध्यमावस्था जरा वयोहानिः जीर्णावस्था
इति एतः तिस्रः अवस्थाः अन्योन्यविलक्षणाः . तासां प्रथमावस्थानाशे न
नाशः द्वितीयावस्थोपजनने न उपजननं आत्मनः . किं तर्हि .
अविक्रियस्य एव एकस्य द्वितीयतृतीयावस्थाप्राप्तिः आत्मनः दृष्टा .
तथा तद्वत् एव देहात् अन्यः देहः देहान्तरं तस्य प्राप्तिः
देहान्तरप्राप्तिः अविकृयस्य एव आत्मनः इत्यर्थः . धीराः धीमान्
तत्र एवं सति न मुह्यति न मोहं आपद्यते ..
१४. ० यद्यपि आत्मविनाशनिमितः मोहः न संभवति नित्यः आत्मा इति
विजानतः तथापि शीतोष्णसुखदुःखप्राप्तिनिमितः मोहः लौकिकः
दृश्यते सुखवियोगनिमितो मोहः दुःखसंयोगनिमितश्च शोकः .
इत्येतत् अर्जुनस्य वचनं आशङ्क्य भगवान् आह -
१४. १ मात्रास्पर्शाः इति .. मात्राः आभिः मीयन्ते शब्दादयः इति
श्रोत्रादीनि इन्द्रियाणि . मात्राणां स्पर्शाः शब्दादिभिः संयोगाः . ते
शीतोष्णसुखदुःखदाः शीतं उष्णं सुखं दुःखं च प्रयच्छन्तीति .
अथवा - स्पृश्यन्ते इति स्पर्षाः विषयाः शब्दादयः मात्राश्च
स्पर्शाश्च शीतोष्णसुखदुःखदाः - शीतं कदाचित् सुखं कदाचित्
दुःखम् . तथा उष्णम् अपि अनियतस्वरूपम् . सुखदुःखे पुनः
नियतरूपतां न व्यभिचरतः . अतः ताभ्यां पृथक् शीतोष्णयोः
ग्रहणम् . यस्मात् ते मात्रास्पर्शादयः आगमापायिनः आगमापायशीलाः
तस्मात् अनित्याः . अतः तान् शीतोष्णादीन् तितिक्षस्व प्रसहस्व .
तेषु हर्षं विषादं वा मा कार्षीः इत्यर्थः ..
१५. ० शीतोष्णादीन् सहतः किं स्यात् इति . शृणु -
१५. १ यं हि इति .. यं हि पुरुषं समदुःखसुखं समे दुःखसुखे
यस्य तं समदुःखसुखं सुखदुःखप्राप्तौ हर्शविषादरहितं धीरं
धीमन्तं न व्यथयन्ति न चालयन्ति नित्यात्मदर्शनात् एते यथोक्ताः
शीतोष्णादयः सः नित्यात्मस्वरूपदर्शननिष्ठः द्वन्द्वसहिष्णुः
अमृतत्वाय अमृतभावाय मोक्षाय कल्पते समर्थः भवति ..
१६. ० इतश्च शोकमोहौ अकृत्वाशीतोष्णादिसहनं युक्तं यस्मात् -
१६. १ नासतः इति .. न असतः अविद्यमानस्य शीतोष्णादेः सकारणस्य न
विद्यते नास्ति भावो भवनं अस्तिता ..
न हि शीतोष्णादि सकारणं प्रमाणैः निरूप्यमाणं वस्तु सत् भवति .
विकारो हि सः विकारश्च व्यभिचरति . यथा घटादिसंस्थानं
चक्षुषानिरूप्यमाणं मृद्व्यतिरेकेण अनुपलब्धेः असत् तथा सर्वो
विकारः कारणव्यतिरेकेण अनुपलब्धेः असन् . जन्मप्रध्वंसाभ्यां
प्राक् ऊर्ध्वं च अनुपलब्धेः कार्यस्य घटादेः मृदादिकारणस्य च
तत्कारणव्यतिरेकेण अनुपलब्धेः असत्वम् .. तदस्त्वे
सर्वाभावप्रसङ्गः इति चेत् - न सर्वत्र बुद्धिद्वयोपलब्धेः
सद्बुद्धिः असद्बुद्धिः इति . यद्विषया बुद्धिः न व्यभिचरति तत्
सत् यद्विषया व्यभिचरति तत् असत् इति सदसद्विभागे बुद्धितन्त्रे
स्थिते सर्वत्र द्वे बुद्धी सर्वैः उपलभ्येते समानाधिकरणे न
नीलोत्पलवत् सन् घटः सन् पटः सन् हस्ती इति . एवं सर्वत्र .
तयोः बुद्ध्योः घटादिबुद्धिः व्यभिचरति . तथा च दर्शितम् .
न तु सद्बुद्धिः . तस्माद् घटादिबुद्धिविषयः असन् व्यभिचारात्
न तु सद्बुद्धिविषयः अव्यभिचारात् ..
१६. २ घटे विनष्टे घटबुद्धौ व्यभिचरन्त्यां सद्बुद्धिः अपि
व्यभिचरति इति चेत् - न पटादौ अपि सद्बुद्धिदर्शनात् .
विशेषणविषया एव सा सद्बुद्धिः .. सद्बुद्धिवत् घटबुद्धिः अपि
घटान्तरे दृश्यते इति चेत् - न पटादौ अदर्शनात् ..
विशेषणविषया एव सा सद्बुद्धिः .. सद्बुद्धिवत् घ्टबुद्धिः अपि
घटान्तरे दृश्यते इति चेत् न पटादौ अदर्शनात् .. सद्बुद्धिः
अपि नष्टे घटे न दृश्यते इति चेत् न विशेष्याभावात् .
सद्बुद्धिः विशेषणविषया सती विशेष्याभावे विशेषणानुपपतौ
किंविषया स्यात् . न तु पुनः सद्बुद्धेः विषयाभावात् .
१६. ३ एकाधिकरणत्वं घटादिविशेष्याभावे न युक्तमिति चेत् - न
इदं उदकम् इति मरीच्यादौ अन्यतराभावेऽपि सामानाधिकरण्यदर्शनात् .
तस्मात् देहादेः द्वन्द्वस्य च स्कारणस्य असतः न विद्यते भावः इति .
तथा सतः च आत्मनः अभावः अविद्यमानता न विद्यते सर्वत्र
अव्यभिचारात् इति अवोचाम . एवं आत्मानात्मनोः सदसतोः उभयोः अपि
दृष्टः उपलब्धः अन्तः निर्णयः सत् सदेव असत् असदेव इति तु
अनयोः यथोक्तयोः तत्वदर्शिभिः .
१६. ४ तत् इति सर्वनामः सर्वं च ब्रह्म . तस्य नाम तत् इति
तद्भावः तत्वं ब्रह्मणः याथात्म्यम् . तत् द्रष्टिं शीलं येषां ते
तत्वदर्शिनः तौः तत्वदर्शिभिः . त्वमपि तत्वदर्शिनां दृष्टिं
आश्रित्य शोकं मोहं च हित्वा शीतोष्णादीनि नियतानि यतरूपाणि
द्वन्द्वानि विकारोऽयमसन् एव मरीचिजलवत् मिथ्या अव्भासते - इति
मनसि निश्चित्य तितिक्षस्व इति अभिप्रायः ..
१७. ० किं पुनः तत् यत् सत् एव सर्वदा इति . उच्यते -
१७. १ अविनाशि इति .. अविनाशि न विनष्टुं शीलं अस्य इति . तु
शब्दः असतः विशेषणार्थः . तत् विद्धि विजानीहि . किम् . येन
सर्वं इदं जगत् तत् व्याप्तं सदाख्येन ब्रह्मणा साकाशं आकाशेन एव
घटादयः . विनाशं अदर्शनं अभावम् . अव्ययस्य न व्येति
उपचयापचयौ न याति इति अव्ययं तस्य अव्ययस्य .
१७. २ न एतत् सदाख्यं ब्रह्म स्वेन रूपेण व्येति व्यभिचरति
निरवयवत्वात् देहादिवत् . नापि आत्मीयेन आत्मीयाभावात् . यथा
देवदत्तः धनहान्या व्येति त तु एवं ब्रह्म व्येति . अतः अव्ययस्य अस्य
ब्रह्मणः विनाशं न कश्चित् अर्तुं अर्हति न कश्चित् आत्मानं
विनाशयितुं शक्नोति ईश्वरोऽपि . आत्मा हि ब्रह्मः स्वात्मनि च
क्रियाविरोधात् ..
१८. ० किं पुनः तत् असत् यत् स्वात्मसतां व्यभिचरति इति .
उच्यते -
१८. १ अन्तवन्तः इति .. अन्तः विनाशः विद्यते येषां ते अन्तवन्तः .
यथा मृगतृष्णिकादौ सद्बुद्धिः अनुवृत्ता प्रमाणविरूपणान्ते
विच्छिद्यते स तस्य अन्तः तथा इमे देहाः स्वप्नमायादेहादिवच्च
अन्तवन्तः नित्यस्य शरीरिणः शरीरवतः अनाशिनः अप्रमेयस्य आत्मनः
अन्तवन्त इति उक्ताः विवेकिभिः इत्यर्थः . नित्यस्य अनाशिनः इति न
पुनरुक्तम् . नित्यत्वस्य द्विविधत्वात् लोके नाशस्य च . यथा
देहः भस्मीभूतः अदर्शनं गतः नष्टः उच्यते . तत्र नित्यस्य
अनाशिनः इति द्विविधेनापि नाशेन असंबद्धस्य इत्यर्थः . अन्यथा
पृथिव्यादिवत् अपि नित्यत्वं स्यात् आत्मनः तत् मा भूत् इति नित्यस्य
अनाशिनः इत्याह .
१८. २ अप्रमेयस्य न प्रमेयस्य प्रत्यक्षादिप्रमाणैः अपरिच्छेद्यस्य
इत्यर्थः . ननु आगमेन आत्मा परिच्छिद्यते प्रत्यक्षादिना च पूर्वम् .
न आत्मनः स्वतःसिद्धत्वात् . सिद्धे हि आत्मनि प्रमातरि प्रमित्सोः
प्रमाणान्वेषणा भवति . न हि पूर्वं इत्थं अहं इति आत्मानं अप्रमाय
पश्चात् प्रमेयपरिच्छेदाय प्रवर्तते . न हि आत्मा नाम कस्यचित्
अप्रसिद्धः भवति . शास्त्रं तु अन्त्यं प्रमाणं
अतद्धर्माध्यारोपणमात्र निवर्तकत्वेन प्रामाण्यं आत्मनः प्रतिपद्यते न
तु अज्ञातार्थज्ञापकत्वेन . तथा च श्रुतिः - यत् साक्षादपरोक्षाद्
ब्रह्म य आत्मा सर्वान्तरः [बृ. उ. ३. ४. १. ]इति ..
१८. ३ यस्मात् एवं नित्यः अविक्रियश्च आत्मा तस्मात् युध्यस्व युद्धात्
उपरमं मा कार्षीः इत्यर्थः ..
न हि अत्र युद्धकर्तव्यता विधीयते युद्धे प्रवृतः एव हि असौ
शोकमोहप्रतिबद्धः तूष्णीं आस्ते . अतः तस्य
कर्तव्यप्रतिबन्धापनयनमात्रं भगवता क्रियते . तस्मात्
युध्यस्व इति अनुवादमात्रं न विधिः ..
१९. ० शोकमोहादिसंसारकारणनिवृत्यर्थं गीताशास्त्रं न प्रवर्तकं
इति एतस्य अर्थस्य साक्षिभूते ॠचौ [कठ. उ. २. १८. १९. ]आनिनाय
भगवान् .. यतु मन्यसे युद्धे भीष्मादयः मया हन्यन्ते अहम् एव
तेषां हन्ता इति एषा बुद्धिः मृषैव ते . कथम् -
१९. १ य एनं इति .. यः एनं प्रकृतं देहिनं वेतिः विजानाति हन्तारं
हननक्रियायाः कर्तारं यः च एनं अन्यः मन्यते हतं देहहननेन हतः
अहम् इति हननक्रियायाः कर्मभूतं तौ उभौ न विजानीतः न ज्ञातवन्तौ
अविवेकेन आत्मानम् . हन्ता अहं हतः अस्मि अहम् इति देहहननेन
आत्मानं अहंप्रत्ययविषयं यौ विजानीतः तौ आत्मस्वरूपानभिज्ञौ
इत्यर्थः. यस्मात् न अयं आत्मा हन्ति न हननक्रियायाः कर्ता भवति न
हन्यते न च कर्म भवतीत्यर्थः अविक्रियत्वात् ..
२०. ० कथं अविक्रियः आत्मा इति द्वितीयः मन्त्रः -
२०. १ न जायते इति . न जायते न उत्पद्यते जनिलक्षणा वस्तुविक्रिया न
आत्मनः विद्यते इत्यर्थः . तथा न म्रियते वा . वाशब्दः चार्थे .
न म्रियते च इति अन्त्या विनाशलक्षणा विक्रिया प्रतिषिद्ध्यते .
कदाचित् शब्दः सर्वविक्रियाप्रतिषेधौः संबद्ध्यते - न कदाचित्
जायते न कदाचित् म्रियते इत्येवम् . यस्मात् अयं आत्माभूत्वा
भवनक्रियां अनुभूय पश्चात् अभिविता अभावं गन्ता न भूयः पुनः
तस्मात् न म्रियते . यो हि भूत्वा न भविता स म्रियते इति उच्यते लोके .
वाशब्दात् नशब्दाच्च अयं आत्मा अभूत्वा वा भविता देहवत् न
भूयः पुनः . तस्मात् न जायते . यो हि अभूत्वा भविता स जायते इति
उच्यते . नैवं आत्मा . अतः न जायते . यस्मात् एवं तस्मात् अजः .
यस्मात् न म्रियते तस्मात् नित्यः च .
२०. २ यद्यपि आद्यन्तयोः विक्रिययोः प्रतिषेधे सर्वाः विक्रियाः
प्रतिषिद्धाः भवन्ति तथापि मध्यभाविनीनां विक्रियाणां स्वशब्दैः एव
तदार्थैः प्रतिषेधः कर्तव्यः इति अनुक्तानां अपि
यौवनादिसमस्तविक्रियाणां प्रतिषेधः यथा स्यात् इत्याह - शाश्वतः
इत्यादिना . शाश्वतः इति अपक्षयलक्षणा विक्रिया प्रतिषिद्ध्यते .
शश्वद्भवः शाश्वतः . न अपक्षीयते स्वरूपेण निरवयवत्वात् .
निर्गुणत्वात् च नापि गुणक्षयेण अपक्षयः . अपक्षयविपरीता अपि
वृद्धिलक्षणा विक्रिया प्रतिषिद्ध्यते पुराणः इति . यो हि अवयवागमेन
उपचीयते स वर्धते अभिनवः इति च उच्यते . अयं तु आत्मा
निरवयवत्वात् पुरा अपि नवः एव इति पुराणः न वर्धते इत्यर्थः .
तथा न हन्यते . हन्तिः अत्र विपरिणामार्थो द्रष्टव्यः अपुनरुक्ततयै .
न विपरिणम्यते इत्यर्थः . हन्यमाने विपरिणम्यमानेऽपि शरीरे .
अस्मिन् मन्त्रे षड् भावविकाराः लौकिकवस्तुविक्रियाः आत्मनि
प्रतिषिद्ध्यन्ते . सर्वप्रकारविक्रियारहितः आत्मा इति वाक्यार्थः .
यस्मात् एवं तस्मात् उभौ तौ न विजानीतः [२ . १९. ]इति पूर्वेण
मन्त्रेण अस्य संबन्धः ..
२१. ० य एनं वेति हन्तारम् [२. १९. ]इत्यनेन मन्त्रेण
हननक्रियायाः कर्ता कर्म च न भवति इति प्रतिज्ञाय न जायते इत्यनेन
अविक्रियत्वे हेतुं उक्त्वा प्रतिज्ञातार्थं उपसंहरति -
२१. १ वेदाविनाशिनं इति . वेद विजानाति अविनाशिनं
अन्त्यभावविकाररहितं नित्यं विपरिणामरहितं यः वेद इति सम्बन्धः .
एनं पूर्वेण मन्त्रेण उक्तलक्षणं अजं जन्मरहितं अव्ययं अपक्षयरहितं
कथं केन प्रकारेण सः विद्वान् पुरुषः अधिकृतः हन्ति हननक्रियां
करोति . कथं वा घातयति हन्तारं प्रयोजयति . न कथंचित्
कंचित् हन्ति न कथंचित् किंचित् घातयति इति उभयत्र आक्षेपः
एव अर्थः प्रश्नार्था संभवात् . हेत्वर्थस्य च अविक्रियत्वस्य
तुल्यत्वात् विदुषः सर्वकर्मप्रतिषेधः एव प्रकरणार्थः अभिप्रेतः
भगवतः . हन्तेः तु आक्षेपः उदाहरणार्थत्वेन कथितः ..
२१. २ विदुषः कं कर्मासंभवे हेतुविशेषं पस्यन् कर्माणि आक्षिपति
भगवान् कथं स पुरुषः इति . ननु उक्तः एव आत्मनः अविक्रियत्वं
सर्वकर्मासंभवकारणविशेषः . सत्यं उक्तः . न तु सः
कारणविशेषः अन्यत्वात् विदुषः अविक्रियात् आत्मनः इति . न हि
अविक्रियं स्थाणुं विदितवतः कर्म न सम्भवति इति चेत् - न विदुषः
आत्मत्वात् . न देहादिसंघातस्य दिद्वत्ता . अतः पारिशेष्यात्
असंहतः आत्माविद्वान् अविक्रियः इति तस्य विदुषः कर्मास.म्भवात्
आक्षेपः युक्तः कथं स पुरुषः इति .
२१. ३ यथा बुद्ध्याद्याहृतस्य शब्दाद्यर्थस्य अविक्रियः एव सन्
बुद्धिवृत्यविवेकविज्ञानेन अविद्यया उपलब्धा आत्मा कल्प्यते एवं एव
आत्मानात्मविवेकज्ञानेन बुद्धिवॄत्या विद्यया - असत्यरूपया एव
परमार्थतः अविक्रियः एव आत्मा विद्वान् उच्यते . विदुषः
कर्मासंभववचनात् यानि कर्माणि शास्त्रेण विधीयन्ते तानि अविदुषः
विहितानि इति भगवतः निश्चयोऽवगम्यते ..
२१. ४ ननु विद्यापि अविदुषः एव विधीयते विदित्विद्यस्य
पिष्टपेषणवत् विद्याविधानानर्थक्यात् . तत्र अविदुषः कर्माणि
विधीयन्ते न विदुषः इति विशेषः न उपपद्यते इति चेत् - न .
अनुष्ठेयस्य भावाभावविशेषोपपतेः . अग्निहोत्रादि
विध्यर्थज्ञानोतरकालं अग्निहोत्रादिकर्म अनेकसाधनोपसंहारपूर्वकं
अनुष्ठेयं कर्ता अहं मम कर्तव्यम् इत्येवंप्रकारकविज्ञानवतः
अविदुषः यथा अनुष्ठेयं भवति न तु तथा न जायते
इत्याद्यात्मस्वरूपविध्यर्थज्ञानोतरकालभावि किञ्चित् अनुष्ठेयं
भवति किन्तु नाहं कर्ता नाहं भोक्ता
इत्याद्यत्मैकत्वाकर्तृत्वादिविषयज्ञानात् अन्यत् न उत्पद्यते इति एषः
विशेषः उपपद्यते . यः पुनः कर्ता अहं इति वेति आत्मानं तस्य् मम
इदं कर्तव्यम् इति अवश्यंभाविनी बुद्धिः स्यात् तदपेक्षया सः
अधिक्रियते इति तं प्रति कर्माणि संभवन्ति . स च अविद्वान् उभौ
तौ न विजानीतः [२. १९. ]इति वचनात् विशेषितस्य च विदुषः
कर्माक्षेपवचनात् च कथं स पुरुषः इति . तस्मात् विशेषितस्य
अविक्रियात्मदर्शिनः विदुषः मुमुक्षोश्च सर्वकर्मसंयासे एव अधिकारः .
अतः एव भगवान् नारायणः सांध्यान् विदुषः अविदुषश्च
कर्मिणः प्रविभज्य द्वे निष्ठे ग्राहयति - ज्ञानयोगेन सांख्यानां
कर्मयोगेन योगिनाम् [३. ३. ]इति . तथा च पुत्राय आह भगवान्
व्यासः - द्वाविमावथ पन्थानौ [म. भा. शांति २४०. ६. ]इत्यादि .
तथाच क्रियापथश्चैव पुरस्तात् पश्चात् संयाससश्च [तौ.
आ. १०. ६२. तात्पर्यानुवादः . तुलय - ई. उ. २. भाष्यं तथा
के. उ. १. भाश्यम्]इति . एतमेव विभागं पुनः पुनः
दर्शयिष्यति भगवान् \=३ड् अतत्ववित् अहंकारविमूधात्मा कर्ताहमिति
मन्यते तत्ववित् तु न अहं करोमि [३. २७ - २८]इति . तथा च
सर्वकर्माणि मनसा संयस्यास्ते [५. १३. ]इत्यादि ..
२१. ५ तत्र केचित् पण्डितमन्याः वदन्ति -
जन्मादिषड्भावविक्रियारहितः अविक्रियः अकर्ता एकः अहं आत्मा इति न
कस्यचित् ज्ञानं उत्पद्यते यस्मिन् सति सर्वकर्मसंयासः उपदिश्यते
इति . तत् न; न जायते इत्यादिशास्त्रोपदेशानर्थक्यप्रसङ्गात् .
यथा च शास्त्रोपदेशसामर्थ्यात् धर्माधर्मास्तित्वविज्ञानं कर्तुश्च
देहान्तरसंबन्धविज्ञानं उत्पद्यते तथा शास्त्रात् तस्य एव आत्मनः
अविक्रियत्वाकर्तृत्वैकत्वादिविज्ञानं कस्मात् न उत्पद्यते इति प्रष्टव्याः
ते . करणागोचरत्वात् इति चेत् - न मनसैवानुक्रष्टव्यम् [
बृ. उ. ४. ४. १९. ]इति श्रुतेः . शास्त्राचार्योपदेश्शमदमादि
संस्कृतं मनः आत्मदर्शने करणम् . तथा च तदधिगमाय
अनुमाने आगमे च सति ज्ञानं न उत्पद्यते इति साहसमात्रं एतत् ..
२१. ६ ज्ञानं च उत्पद्यमानं तद्विपरीतं अज्ञानं अवश्यं बाधते इति
अभ्युपगन्तय्वम् . तत् च अज्ञानं दर्शितं हन्ता अहं हतः अस्मि
इति उभौ तौ न विजानीतः [२. १९. ]इति . अत्र च आत्मनः
हननक्रियायाः कर्तृत्वं कर्मत्वं हेतुकर्तृत्वं च अज्ञानकृतं
दर्शितम् . तत् च सर्वक्रियासु अपि समानं कर्तृत्वादेः
अविद्याकृतत्वं अविक्रियत्वात् आत्मनः . विक्रियावान् हि कर्ता आत्मनः
कर्मभूतं अन्यं प्रयोजयति कुरु इति - तत् एतत् अविशेषेण विदुषः
सर्वक्रियासु कर्तृत्वं हेतुकर्तृत्वं च प्रतिषेधति भगवान्
वासुदेवः विदुषः कर्माधिकाराभावप्र्दर्शनार्थ वेदाविनाशिनं कथं स
पुरुषः इत्यादिना .
२१. ७ क्व पुनः विदुषः अधिकारः इति . एतत् उक्तं पूर्वमेव
ज्ञानयोगेन सांख्यानाम् [३. ३. ]इति . तथा च सर्वकर्मसंयासं
वक्ष्यति सर्वकर्माणि मनसा [५. १३. ]इत्यादिना .
ननु मनसा इति वचनात् न वाचिकानां कायिकानां च संयासः इति चेत्
- न सर्वकर्माणि इति विशेषितत्वात् . मानसानां एव सर्वकर्मणां इति
चेत् - न मनोव्यापारपूर्वकत्वात् वाक्कायव्यापाराणां मनोव्यापाराभावे
तदनुपपतेः . शास्त्रीयाणां वाक्कायकर्मणं कारणनि मानसानि कर्माणि
वर्जयित्वाअन्यानि सर्वकर्माणि मनसासंयास्य इति चेत् - न नैव
कुर्वन्न कारयन् [५. १३. ]इति विशेषणात् . सर्वकर्मसंयासः
अयं भगवता उक्तः मरिष्यतः न जीवतः इति चेत् - न नवद्वारे
पुरे देही . . . आस्ते [५. १३. ]इति विशेषणानुपपतेः . न हि
सर्वकर्मसंयासेन मृतस्य तद्देहे आसनं संभवति . अकुर्वतः
अकारयतश्च देहे संयस्य इति संबन्धः न देहे आस्ते इति चेत् - न
सर्वत्र आत्मनः अविक्रियत्वावधारणात् आसनक्रियायाः च
अधिकरणापेक्षत्वात् तदनपेक्षत्वात् च संयासस्य . संपूर्वस्तु
न्यासशब्दः अत्र त्यागार्थः न निक्षेपार्थः . तस्मात् गीताशास्त्रे
आत्मज्ञानव्तः संयास एव अधिकारः न कर्मणि इति तत्र तत्र
उपरिष्टात् आत्मज्ञानप्रकरणे दर्शयिष्यामः ..
२२. ० प्रकृतं तु वक्ष्यामः . तत्र आत्मनः अविनाशित्वं प्रतिज्ञातम् .
तत् किमिव इति . उच्यते -
२२. १ वासांसि इति . वासांसि वस्त्राणि जीर्णानि दुर्बलतां गतानि यथा
लोके विहाय परित्यज्य नवानि अभिनवानि गृह्णाति उपादते नरः पुरुषः
अपराणि अन्यानि तथा तद्वत् एव शरीराणि विहाय जीर्णानि अन्यानि संयाति
संगच्छति नवानि देही आत्मा पुरुषवत् अविक्रियः एव इत्यर्थः .. २२ ..
२३. ० कस्मात् अविक्रिय एवेति . आह -
२३. १ नैनं छिन्दन्ति इति .. एनं क्रकृतं देहिनं न छिन्दन्ति
शस्त्राणि निरवयवत्वात् न अवयवविभागं कुर्वन्ति . शस्त्राणि
अस्यादीनि . तथा न एनं दहति पावकः अग्निः अपि न भस्मीकरोति .
तथा - न च एनं क्लेदयन्ति आपः . अपां हि सावयवस्य वस्तुनः
आर्द्रीभावकरणेन अवयवविश्लेषापादने सामर्थ्यम् . तत् न
निरवयवे आत्मनि संभवति . तथा स्नेहवत् द्रव्यं स्नेहशोषणेन
नाशयति यतः एवं तस्मात् -
२४. १ अच्छेद्योऽयं इति .. यस्मात् अन्य्न्यनाशहेतूनि भूतानि एनं
आत्मानं नाशयितुं न उत्सहन्ते तस्मात् नित्यः . नित्यत्वात् सर्वगतः .
सर्वगतत्वात् स्थाणुः इव स्थिरः इत्येतत् . स्थिरत्वात् अचलः
अयं आत्मा अतः सनातनः चिरन्तनः न कारणात् कुतश्चित् निष्पन्नः
अभिनवः इत्यर्थः .
२४. २ न एतेषं श्लोकानां पौनरुक्त्यं चोदनीयम् यतः एकेन एव
श्लोकेन आत्मनः नित्यत्वं अविक्रियत्वं चोक्तम् न जायते म्रियते वा
इत्यादिना . तत्र यदेव आत्मविषयं किञ्चित् उच्यते तत् एतस्मात्
श्लोकार्थात् न अतिरिच्यते किञ्चित् शब्दतः पुनरुक्तं किञ्चित्
अर्थतः इति . दुर्बोधत्वात् आत्मवस्तुनः पुनः पुनः प्रसङ्गं आपाद्य
शब्दान्तरेण तदेव वस्तु निरूपयति भगवान् वासुदेवः कथं नु नाम
अव्यक्तं संसारिणां [असंसारित्व - ]बुद्धिगोचरतां आपन्नं
संसार्निवृत्तेय स्यात् इति .. किञ्च -
२५. १ अव्यक्तोऽयं त्वात् न व्यज्यते इति अव्यक्तः अयं आत्मा . अतः एव
अचिन्त्यः अयम् . यत् हि इन्द्रियगोचरः तत् चिन्ताविषयत्वं
आपद्यते . अयं तु आत्मा अनिन्द्रियगोचरत्वात् अचिन्त्यः अविकार्यः अयम्
यथा क्षीरं दध्यातञ्चनादिना विकारि न तथा अयं आत्मा .
निरवयवत्वात् च अविक्रियः . न हि निरवयं किञ्चित् विक्रियात्मकं
दृष्टम् . अविक्रियत्वात् अविकार्यः अयं आत्मा उच्यते . तस्मात्
एवं यथोक्तप्रकारेण एनं आत्मानं विदित्वा त्वं न अनुशोचितुं अर्हसि
हन्ता अहं एषां मया एते हन्यन्ते इति ..
२६. ० आत्मनः अनित्यत्वं अभ्युपगम्य इदं उच्यते -
२६. १ अथ चैनं इति . अथ च इति अभुपगमार्थः . एनं
प्रकृतं आत्मानं नित्यजातं लोकप्रसिद्ध्या प्रत्यनेकशरीरोत्पत्तिं जातो
जातः इति वा मन्यसे तथा प्रतितत्ताद्विनाशं नित्यं वा मन्यसे मृतं
मृतो मृतः इति . तथापि तथाभावेऽपि आत्मनि त्वं महाबाहो न एवं
शोचितुं अर्हसि जन्मवतः नाशः नाशवतः जन्म च इति एतौ
अवश्यंभाविनौ इति यस्मात् ..
तथा च सति -
२७. १ जातस्य इति . जातस्य हि लब्धजन्मनः ध्रुवः अव्यभिचारी
मृत्युः मरणं ध्रुवं मृतस्य च . तस्मात् अपरिहार्योऽयं
जन्ममरणलक्षणः अर्थः [यस्मात् - तस्मात् अपरिहार्ये अर्थे न त्वं
शोचितुं अर्हसि . जन्मवतो नाशः नाशवतो जन्म इति च
स्वाभाविकश्चेत् अपरिहार्यः सः अर्थः .]तस्मिन् अपरिहार्ये अर्थे
न त्वं शोच्तिउं अर्हसि ..
२८. ० कार्यकरणसङ्घातात्मकानि अपि भूतानि उद्दिश्य शोकः न युक्तः
कर्तुं यतः -
२८. १ अव्यक्तादीनि इति . अव्यक्तादीनि अव्यक्तं अदर्शनं अनुपलब्धिः
आदिः येषां भूतानां पुत्रमित्रादिकार्यकरणसंघातात्मकानां तानि
अव्यक्तादीनि भूतानि प्राक् उत्पत्तेः . उत्पन्नानि च प्राक् मरणात्
व्यक्तमध्यानि . अव्यक्तनिधनानि एव पुनः अव्यक्तं अदर्शनं निधनं
मरणं येषां तानि अव्यक्तनिधनानि . मरणात् ऊर्ध्वं अव्यक्तताम् एव
प्रतिपद्यन्ते इत्यर्थः . तथा चोक्तम् - अदर्शनादापतितः
पुनश्चादर्शनं गतः . नासौ तव न तस्य त्वं वृथा का परिदेवना .
[स्त्रीपर्व. २. १३. ]इति .. तत्र का परिदेवना को वा प्रलापः
अदृष्टदृष्तप्रनष्टभ्रान्तिभूतेषु भूतेषु इत्यर्थः ..
२९. ० दुर्वेज्ञेयः अयं प्रकृतः आत्मा . किं त्वाम् एव एकं उपालभे
साधारणे भ्रान्तिनिमित्ते . कथं दुर्विज्ञेयः अयं आत्मा इति . अतः आह
-
२९. १ आश्चर्यवत् इति .. आश्चर्यवत् आश्चर्यं अदृष्टपूर्वं
अद्भुतं अकस्मात् दृश्यमानं तेन तुल्यं आश्चर्यवत् आश्चर्यमिव
एनं आत्मानं पश्यति कश्चित् . आश्चर्यवत् एनं वदति तथैव
च अन्यः आश्चर्यवत् च एनं अन्यः शृणोति . श्रुत्वा दृष्ट्वा
उक्त्वा अपि एनं आत्मानं वेद न चैव कश्चित् .
२९. २ अथवा - यः अयं आत्मानं पश्यति स आश्चर्यतुल्यः . यः
वदति यः च शृणोति सः अनेकसहस्रेषु कश्चिदेव भवति . अतः
दुर्बोधः आत्मा इत्यभिप्रायः ..
३०. ० अथ इदानी प्रकरणार्थं उपसंहरति -
३०. १ देही इति .. देही शरीरी नित्यं सर्वदा सर्वावस्थासु अवध्यः
निरवयवत्वात् नित्यत्वात् च तत्र अवध्योऽयं देहे शरीरे सर्वस्य
सर्वगतत्वात् स्थावरादिषु स्थितोऽपि . सर्वस्य प्राणिजातस्य देहे
वध्यमानेऽपि अयं देही न वध्यः यस्मात् तस्मात् भीष्मादीनि सर्वाणि
सर्वाणि भूतानि उद्दिश्य न त्वं शोचितुं अर्हसि ..
३१. १ इह [२. ३०. ]परमार्थतत्वापेक्षायां शोको वा मोहो वा न
संभवति इत्युक्तम् . न केवलं परमार्थतत्वापेक्षायाम् इव किंतु -
३१. १ स्वधर्मं इति .. स्वधर्मं अपि स्वः धर्मः क्षत्रियस्य धर्मः
युद्धं तमपि अविक्ष्यत्वं न विकम्पितुं प्रचलितुं अर्हसि धर्म्यात्
क्षत्रियस्य स्वाभाविकात् धर्मात् आत्मस्वाभाव्यात् इत्यभिप्रायः .
तच्च युद्धं पृथिवीजयद्वारेण धर्मार्थं प्रजारक्षणार्थं च इति
परमं धर्म्यम् . धर्मात् अनपेतं धर्म्यम् . तस्मात्
धर्म्यात् युद्धात् श्रेयः अन्यत् क्षत्रियस्य न विद्यते हि यस्मात् ..
३२. ० कुतश्च तत् युद्धं कर्तव्यं इति . उच्यते -
३२. १ यदृच्छया इति . युदृच्छया च अप्रार्थितया उपपन्नं आगतं
स्वर्गद्वारं अपावृतं उद्घाटितं ये एतत् ईदृशं युद्धं लभन्ते
क्षत्रियाः हे पार्थ . किं न सुखिनः ते ..
३३. ० एवं कर्तव्यताप्राप्तम् अपि -
३३. १ अथ इति .. अथ चेत् त्वं इमं धर्म्यं धर्मादनपेतं विहितं
संग्रामं युद्धं न करिष्यसि चेत् ततः तदकरणात् स्वधर्मं
कीर्तिं च महादेवादिसमागमनिमित्तां हित्वा केवलं पापं अवाप्स्यसि ..
३४. ० न केवलं स्वधर्मकीर्तिपरित्यागः -
३४. १ अकीर्तिं इति .. अकीर्तिं च अपि भूतानि कथयिष्यन्ति ते तव
अव्ययां दीर्घकालाम् . धर्मात्मा शूरः इत्येवमादिभिः गुणैः
संभावितस्य च अकीर्तिः मरणात् अतिरिच्यते संभावितस्य च अकीर्तेः
वरं मरणं इत्यर्थः .. किञ्च
३५. १ भयात् इति .. भयात् कर्णादिभ्यः रणात् युद्धात् उपरतं
निवृत्तं मंस्यन्ते चिन्तयिष्यन्ति न कृपया इति त्वां महारथाः
दुर्योधनप्रभृतयः . [के मंस्यन्ते ?इति आह - ]येषां च
त्वं दुर्योधनादीनां बहुमतः बहुभिः गुणैः युक्तः इत्येवं मतः
बहुमतः भूत्वापुनः त्वं यास्यसि लाघवं लघुभावम् किञ्च -
३६. १ अवाच्यवादान् इति .. अवाच्यवादान् अवक्तव्यान् वादान् च
बहून् अनेकप्रकारान् वदिष्यन्ति तव अहिताः शत्रवः निन्दन्तः
कुत्सयन्तः तव त्वदीयं सामर्थ्यम् निवातकवचादियुद्धनिमित्तम् .
ततः तस्मात् निन्दाप्राप्तेः दुःखात् दुःखतरं नु किं ?ततः
कष्टतरं दुःखं नास्ति इत्यर्थः ..
३७. ० युद्धे पुनः क्रियमाणे कर्णादिभिः -
३७. १. हतो वा इति .. हतः वा प्राप्स्यसि स्वर्गं हतः सन् स्वर्गं
प्राप्स्यसि . जित्वा वा कर्णादीन् शूरान् भोक्ष्यसे महीम् . उभयथापि
तव लाभः एव इत्यभिप्रियः . यतः एवं तस्मात् उत्तिष्ठ कौन्तेय .
युद्धाय कृतनिश्चयः जेष्यामि शत्रून्मरिष्यामि वा इति निश्चयं
कृत्वा इत्यर्थः ..
३८. ० तत्र युद्धं स्वधर्मः इत्येवं युध्यमानस्य उपदेशम् इमं
शृणु -
३८. १ सुखदुःखे इति .. सुखदुःखे समे तुल्ये कृत्वा रागद्वेषौ [
अपि]अकृत्वा इत्येतत् . तथा लाभालाभौ जयाजयौ च समौ कृत्वा
ततः युद्धाय युज्यस्व घटस्व . न एवं युद्धं कुर्वन् पापं
अवाप्स्यसि [इति]एषः उपदेशः प्रासङ्गकः ..
३९. ० शोकमोहापनये [नयनाय]लौकिकः न्यायः स्वधर्ममपि चावेक्ष्य
इत्याद्यैः श्लोकैः उक्तः न तु तात्पर्येण . परमाऱ्थदर्शनं तु इह
प्रकृतम् . तच्च उक्तं उप्संह्रियते - एषा ते अभिहित्वा इति
शास्त्रविषयविभागप्रदर्शनाय . इह हि प्रदर्शिते पुनः
शस्त्रविषयविभागे उपरिष्ठात् ज्ञानयोगेन सांख्यानां कर्मयोगेन
योगिनाम् [३. ३. ]इति निष्ठाद्वयविषयं शास्त्रं सुखं
प्रवर्तिष्यते श्रोतारश्च विषयविभागेन सुखं ग्रहीष्यन्ति इति -
अतः आह -
३९. १ एषा ते इति .. एषा ते तुभ्यं अभिहिता उक्ता सांख्ये
परमार्थवस्तुविवेक विषये बुद्धिः ज्ञानं साक्षात्
शोकमोहादिसंसारहेतुदोषनिवृत्तिकारणम् योगे तु तत्प्राप्त्युपाये
निःसङ्गतया द्वन्द्वप्रहाणपूर्वकं ईश्वराराधनार्थे कर्मयोगे
कर्मानुष्ठाने समाधियोगे च इमां अनन्तरम् एव उच्यमानां बुद्धिं
शृणु . तां च बुद्धिं स्तौति प्ररोचनार्थम् - बुद्ध्या यया
योगविषयया युक्तः हे पार्थ . कर्म्बन्धं दर्म एव धर्माधर्माख्यः
बन्धः कर्मबन्धः तं प्रहास्यसि ईश्वरप्रसादनिमित्तज्ञानप्राप्त्या एव
इत्यभिप्रायः ..
किञ्च अन्यत् -
४०. १ नेह इति .. न इह मोक्षमार्गे कर्मयोगे अभिक्रमनाशः अभिक्रमणं
अभिक्रमः प्रारम्भः तस्य नाशः न अस्ति यथा कृष्यादेः .
योगविषये प्रारम्भस्य न अनैकान्तिकफलत्वं इत्यर्थः . किं च -
न अपि चिकित्सावत् प्रत्यवायः विद्यते . किं तु स्वल्पम् अपि अस्य
धर्मस्य योगधर्मस्य अनुष्ठितं त्रायते रक्षति महतः भयात्
संसारभयात् जन्ममरणादिलक्षणात् ..
४१. १ या इयं सांख्ये बुद्धिः उक्ता योगे च वक्ष्यमणलक्षणा सा -
४१. १ व्यवसाय इति .. व्यवसायात्मिका निश्चयस्वभावा एका एव बुद्धिः
तरविपरीतबुद्धिशाखाभेदस्य बाधिका सम्यक् प्रमाणजनितत्वात् इह
श्रेयोमार्गे हे कुरुनन्दन . याः पुनः इतराः विपरीतबुद्धयः यासां
शाखाभेदप्रचारवशात् अनन्तः अपारः अनुपरतः संसारः
नित्यप्रततः नित्यप्रततः विस्तीऱ्णः भवति
प्रमाणजनितविवेकबुद्धिनिमित्तवशाच्च उपरतासु अनन्तभेदबुद्धिषु
संसारोऽपि उपरमते ताः बुद्धयः बहुशाखाः बह्व्यः शाखाः यासां ताः
बहुशाखाः बहुभेदाः इत्येतत् . प्रतिशाखाभेदेन हि अनन्ताश्च
बुद्धयः . केषाम् . अव्यवसायिनां प्रमाणजनितविवेकबुद्धिरहितानां
इत्यर्थः ..
४२. ० येषां व्यवसायात्मिका बुद्धिः नास्ति ते -
४२. १ यामिमां इति .. यां इमां वक्ष्य्माणां पुष्पितां पुष्पितवृक्षः इव
शोभमानां श्रूयमाणीयां वाचं वाक्यलक्षणां प्रवदन्ति . के .
अविपश्चितः अल्पमेधसः अविवेकिनः इत्यर्थः . वेदवादरताः
बह्वर्थवादफलसधनप्रकाशकेषु वेदवाक्येषु रताः हे पार्थः . न
अन्यत् स्वर्गपश्वादिफलसाधनेभ्यः कर्मभ्यः अस्ति इति एवं वादिनः
वदनशीलाः .. ते च -
४३. १ कामात्मानः इति .. कामात्मानः कामस्वभावाः कामपराः इत्यर्थः .
स्वर्गपराः स्वर्गः परः पुरुषर्थः येषां ते स्वर्गपराः
स्वर्गप्रधानाः . जन्मकर्मफलप्रदां कर्मणः फलं कर्मफलं जन्म
एव कर्मणः फलं जन्मकर्मफलं तत् प्रददाति इति
जन्मकर्मफलप्रदा तां वाचम् - प्रवदन्ति इति अनुषज्यते .
क्रियाविशेहबहुलां क्रियाणां विशेषाः क्रियाविशेषाः ते बहुला यस्यां
वाचि तां स्वर्गपशुपुत्राद्यर्थाः यया वाचा बाहुल्येन प्रकाश्यन्ते .
भोगैश्वर्यगतिं प्रति भोगश्च ऐस्व्हर्यं च भोगैश्वर्ये तयोः
गतिः प्राप्तिः भोगैश्वर्यगतिः तां प्रति साधनभूताः ये क्रियाविशेषाः
तद्बहुलां तां वाचं प्रवदन्तः मूढाः संसारे परिवर्तन्ते
इत्यभिप्रायः .. तेषां च -
४४. १ भोग इति .. भोगैश्वर्यप्रसक्तानां भोगः कर्तव्यं ऐश्वर्यं
च इति भोगैश्वर्ययोः एव प्रणवचतां तदात्मभूतानां . तया
क्रियाविशेषबहुलया वाचा अपहृतचेतसां आच्छादितविवेकप्रज्ञानां
व्यवसायात्मिका सांख्ये योगे वा या बुद्धिः सा समाधौ समाधीयते अस्मिन्
पुरुषोपभोगाय सर्वं समाधिः अन्तःकरणं - बुद्धिः तस्मिन् समाधौ
न विधीयते न भवति इत्यर्थः ..
४५. ० ये एवं विवेकबुद्धिरहिताः तेषां कमात्मनां यत् फलं तत् आह -
४५. १ त्रैगुण्य इति .. त्रैगुण्यविषयाः - त्रैगुण्यं संसारः
विषयः प्रकाशयितव्यः येषां ते वेदाः त्रगुण्यविषयाः . त्वं तु
निस्त्रैगुण्यः भव अर्जुन निष्कामः भव इत्यर्थः निर्द्वन्द्वः
सुखदुःखहेतू सत्प्रतिपक्षौ पदार्थौ द्वन्द्वशब्दवाच्यौ ततः निर्गतः
निर्द्वन्द्वः भव . नित्यसत्वस्थः सदा सत्वगुणाश्रितः भव . तथा
निर्योगक्षेमः अनुपातस्य उपादानं योगः उपातस्य रक्षणं क्षेमः .
योगक्षेमप्रधानस्य श्रेयसि प्रवृत्तिह् दुष्करा इति अतः निर्योगक्षेमः
भव . आत्मवान् अप्रमत्तः च भव . एष तव उपदेशः
स्वधर्मं अनुतिष्ठतः ..
४६. ० सर्वेषु वेदोक्तेषु कर्मसु यानि उक्तानि अनन्तानि फलानि तानि न
अपेक्ष्यन्ते चेत् किमर्थं तानि ईस्व्हराय इति अनुष्ठीयन्ते इति . उच्यते
शृणु -
४६. १ यावान् इति .. यथा लोके कूपतडागाद्यनेकस्मिन् उदपाने
परिच्छिन्नोदके यावान् यावत्परिमाणः स्नानपानादिः अर्थः फलं
प्रयोजनं सः सर्वः अर्थः सर्वथः संप्लुतोदके तावान् एव
संपद्यते तत्र अन्तर्भवति इत्यर्थः . एवं तावान् तावत्परिमाणः
एव संपद्यते सर्वेषु वेदेषु वेकोक्तेषु कर्मसु यः अर्थः यत्
कर्मफलं सः अर्थः ब्राह्मणस्य संयासिनः अरमार्थतत्वं विजानतः
यः अर्थः यत् विज्ञानफलं सर्वतः संप्लुतोदकस्थानीयं तस्मिन्
तावान् एव संपद्यते - तत्रैव अन्तर्भवतीत्यर्थः . सर्वं तत्
अभिसमेति यत् किञ्च प्रजाः साधु कुर्वन्ति यस्तद्वेद यत् स वेद [
छा. उ. ४. १. ४. ]इति श्रुतेः . सर्वं कर्माखिलम् [४. ३३. ]
इति च वक्ष्यति . तस्मात् प्राक् ज्ञाननिष्ठाधिकारप्राप्तेः कर्मणि
अधिकृतेन कूपतडागाद्यर्थस्थानीयं अपि कर्म कर्तव्यम् .. तव च
-
४७. १ कर्मणि इति .. कर्मणि एव अधिकारः न ज्ञाननिष्ठायां ते तव .
तत्र च कर्म कुर्वतः मा फलेषु अधिकारः अस्तु कर्मफलतृष्णा मा
भूत् कदाचन कस्यांचित् अपि अवस्थायां इत्यर्थः . यदा कर्मफले
तृष्णा ते स्यात् तदा कर्मफलप्राप्तेः हेतुः स्याः एवं मा
कर्मफलहेतुः भूः . यदा हि कर्मफलतृह्णाप्रयुक्तः कर्मफलं न
इष्यते किं कर्मणा दुःखरूपेण . इति मा ते तव सङ्गः अस्तु अकर्मणि
अकरणे प्रीतिः मा भूत् ..
४८. ० यदि कर्मफलप्रयुक्तेन न कर्तव्यं कर्म कथं तर्हि कर्तव्यं
इति . उच्यते -
४८. १ योगस्थः इति .. योगस्थः सन् कुरु कर्माणि केवलं ईश्वरार्थं
तत्रापि ईश्वरो मे तुष्यतु इति सङ्गं त्यक्त्वा धनञ्जय .
फलतृष्णाशून्येन क्रियमाणे कर्मणि सत्वशुद्धिजा ज्ञानप्राप्तिलक्षणा
सिद्धिः तद्विपर्ययजा असिद्धिः तयोः सिद्ध्यसिद्ध्योः अपि समः तुल्यः
भूत्वा कुरु कर्माणि . तोऽसौ योगः यत्रस्थः कुरु इति उक्तम् . इदं
एव तत् - सिद्ध्यसिद्ध्योः समत्वं योगः उच्यते ..
४९. ० यत् पुनः अमत्वबुद्धियुक्तं ईश्वराराधनार्थं कर्म [उक्तं]
एतस्मात् कर्मणः -
४९. १ दूरेण इति .. दूरेण अतिविप्रकर्षेण हि अवरं अधमं
निकृष्टं कर्म फलार्थिना क्रियमाणं बुद्धियोगात्
समत्वबुद्धियुक्तात् कर्मणः जन्ममरणादिहेतुत्वात् . हे धनञ्जय
यतः एवं ततः योगविषयायां बुद्धौ तत्परिपाकजायां वा सांख्यबुद्धौ
शरणं आश्रयं अभयप्राप्तिकारणं अन्विच्छ प्रार्थयस्व
परमार्थज्ञानशरणः भव इत्यर्थः . यतः अवरं कर्म कुर्वाणाः
कृपणाः दीनाः फलहेतवः फलतृष्णाप्रयुक्ताः सन्तः यो वा एतदक्षरं
गार्ग्यविदित्वाऽस्माल्लोकात्प्रैति स कृपणः [बृ. उ. ३. ८. १०. ]इति
श्रुतेः ..
५०. ० समत्वबुद्धियुक्तः सन् स्वधर्मं अनुतिष्ठन् यत् फलं
प्राप्नोति तत् शृणु -
५०. १ बुद्धि इति .. बुद्धियुक्तः समत्वविषयया बुद्ध्या युक्तः
बुद्धियुक्तः सः जहाति परित्यजति इह अस्मिन् लोके उभे
सुकृतदुष्कृते पुण्यपापे सत्वशुद्धिज्ञान प्राप्तिवारेण यतः तस्मात्
समत्वबुद्धियोगाय युज्यस्व घटस्व . योगः हि कर्मसु कौशलं
स्वधर्माख्येषु कर्मसु वर्तमानस्य या सिद्ध्यसिद्ध्योः समत्वबुद्धिः
ईश्वरार्पि तचेतस्तया तत् कौशलं कुशलभावः . तद्धि कौशलं
यत् बन्धस्वभावानि अपि कर्माणि समत्वबुद्ध्या स्वभावात् निवर्तन्ते .
तस्मात् समत्वबुद्धियुक्तः भव त्वम् .. यस्मात् -
५१. १ कर्मजं इति .. कर्मजं फलं त्यक्त्वा इति व्यवहितेन संबन्धः
इष्टनिष्टदेहप्राप्तिः कर्मजं फलं कर्मभ्यः जातं बुद्धियुक्ताः
समत्वबुद्धियुक्ताः सन्तः हि यस्मात् फलं त्यक्त्वा परित्यज्य मनीषिणः
ज्ञानिनः भूत्वा जन्मबन्धविनिर्मुक्ताः जन्म एव बन्धः जन्मबन्धः तेन
विनिर्मुक्ताः जीवन्तः एव जन्मबन्धात् विनिर्मुक्ताः सन्तः पदं परमं
विष्णोः मोक्षाख्यं गच्छन्ति अनामयम् सर्वोपद्रवरहितं इत्यर्थः .
अथ द्वादशोऽध्यायः
द्वितीयाध्यायप्रभृतिषु विभूत्यन्तेषु अध्यायेषु (१०)
परमात्मनः ब्रह्मणः अक्षरस्य विध्वस्तसर्वोपाधिविशेषस्य उपासनं
उक्तं; सर्वयोगैश्वर्यसर्वज्ञानशक्तिमत्सत्वोपाधेः ईश्वरस्य तव
च उपासनं तत्र तत्र उक्तम् . विश्वरूपाध्याये (११)तु
ऐश्वरं आद्यं समस्तजगदात्मरूपं विश्वरूपं त्वदीयं दर्शितं
उपासनार्थमेव त्वया . तच्च दर्शयित्वा उक्तवानसि
''मत्कर्मकृत्''(११. ५५)इत्यादि . अतः अहं अनयोः उभयोः पक्षयोः
विशिष्टतरबुभुत्सया त्वां पृच्छामि इति अर्जुन उवाच -
अर्जुन उवाचः
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते .
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः .. १२. १..
एवं इति .. ''एवं''इति अतीतानन्तरश्लोकेन उक्तं अर्थं परामृशति
''मत्कर्मकृत्''(११. ५५)इत्यादिना . एवं सततयुक्ताः नैरन्तर्येण
भगवत्कर्मादौ यथोक्ते अर्थे समाहिताः सन्तः प्रवृत्ताः
इत्यर्थः . ये भक्ताः अनन्यशरणाः सन्तः त्वां यथादर्शितं
विश्वरूपं पर्युपासते ध्यायन्ति . ये च अन्ये अपि त्य्क्तसर्वैषणाः
संयास्तसर्वकर्माणः यथाविशेषितं ब्रह्म अक्षरं .
निरस्तसर्वोपाधित्वात् अव्यक्तं अकरणगोचरं - यत् हि लोके
करणगोचरं तत् व्यक्तं उच्यते . अञ्जेः धातोः तत्कर्मकत्वात्;
इदं तु अक्षं तद्विपरीतं - शिष्टैश्च उच्यमानैः विशेषणैः
निशिष्टं . तत् ये चापि पर्युपासते - तेषां उभयेषां मध्ये के
योगवित्तमाः . के अतिशयेन योगविदः ?इत्यर्थः ..
२. ० ये तु अक्षरोपासकाः सम्यग्दर्शिनः निवृत्तैषणाः . ते तावत्
तिष्ठन्तु; तान् प्रति यत् वक्तव्यं तत् उपरिष्टात् वक्ष्यामः
(श्लोके १३ - २०)ये तु इतरे -
श्रीभगवानुवाचः
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते .
श्रद्धया परयोपेतास्ते मे युक्ततमा मताः .. १२. २..
२. १ मयि इति .. मयि विश्वरूपे परिमेश्वरे आवेश्य समाधाय मनः ये
भक्ताः सन्तः मां सर्वयोगेश्वराणां अधीश्वरं सर्वज्ञं
विमुक्तरागादिक्लेशतिमिरदृष्टिं, नित्ययुक्ताः
अतीतानन्तराध्यायान्ते उक्तश्लोकार्थन्यायेन सततयुक्ताः सन्तः
उपासते श्रद्धया परया प्रकृष्टया उपेताः ये, ते मे मम
युक्ततमाः मताः अभिप्रेताः युक्ततमाः इति . नैरन्तर्येण हि ते
मच्चित्ततया अहोरात्रं अतिवाहयन्ति (अहोरात्रं अतिमात्र्ं मां
ध्यायन्ति), अतः युक्तं तान् प्रति युक्ततमाः इति वक्तुम् ..
३. ० किं इतरे युक्ततमाः न भवन्ति ?न; किंतु तान् प्रति यत्
वक्तव्यं तत् शृणु -
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते .
सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् .. १२. ३..
३. १ ये तु इति .. ये तु अक्षरं अनिर्देश्यं अव्यक्तत्वात् अशब्दगोचरं इति
न निर्देष्टु शक्यते, अतः अनिर्देश्यं, अव्यक्तं न केनापि प्रमाणेन
व्यज्यते इति अव्यक्तं पर्युपासते परि समन्तात् उपासते . उपासनं
नाम यथाशास्त्रं उपास्यस्य अर्थस्य विषयीकरणेन सामीप्यं
उपगम्य तैलधारवत् समानप्रत्ययप्रवाहेण दीर्घकालं यत्
आसनं, तत् उपासनं आचक्षते . अक्षरस्य विशेषणं आह उपास्यस्य
- सर्वत्रगं व्योमवत् व्यापि अचिन्त्यं च - यत् हि करणगोचरं
तत् मनसाऽपि चिन्त्यं, तद्विपरीतत्वात् अचिन्त्यं अक्षरं कूटस्थं
दृश्यमानगुणकं अन्तदोषं वस्तु कूटम् . ''कूटरूपकं, ''
''कूटसाक्ष्यं''इत्यादौ कूटशब्दः प्रसिद्धः लोके . तथा च
अविद्याद्यनेकसंसारबीजं अन्तदोषवत्
मायाऽव्याकृताद्यनेकशब्दवाच्यतया ''मायां तु प्रकृतिं
विद्यात् मायिनं तु महेश्वरम्''(श्वे. उ. ४. १०. ), ''मम माया
दुरत्यया''(७. १४)इत्यादौ प्रसिद्धं यत् तत् कूटं, तस्मिन्
कूटे स्थितं कूटस्थं तदध्यक्षतया . अथवा - राशिरिव स्थितं
कूटस्थम् . अत एव अचलम् . यस्मात् अचलं, तस्मात्
ध्रुवं, नित्यं इत्यर्थः ..
संनियमेन्द्रियग्रामं सर्वत्र समबुद्धयः .
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः .. १२. ४..
४. १ संनियम्य इति . संनियम्य सम्यक् नियम्य उपसंहृत्य
इन्द्रियग्रामं इन्द्रियसमुदायं, सर्वत्र सर्वस्मिन् काले समबुद्धयः
समा तुल्या बुद्धिः येषां इष्टानिष्टप्राप्तौ ते समबुद्धयः . ते
ये एवंविधाः ते प्राप्नुवन्ति मां एव सर्वभूतहिते रताः . न तु
तेषां वक्तव्यं किञ्चित् ''मां ते प्राप्नुवन्ति''इति, ''ज्ञानि त्वात्मैव
मे मतं''(७. १८)इति हि उक्तम् . न हि भगवत्स्वरूपाणां सतां
युक्ततमत्वं, अयुक्ततमत्वं वा वाच्यम् .. किन्तु -
क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् .
अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते .. १२. ५..
५. १ क्लेशः इति .. क्लेशः अधिकतरः - यद्यपि मत्कर्मादिपराणां
अधिकः एव क्लेशः, अधिकतरस्तु अक्षरात्मनां परमात्मदर्शिनां
देहाभिमानपरित्यागनिमित्तः - अव्यक्तासक्तचेतसां अव्यक्ते
आसक्तं चेतः येषां ते अव्यक्तासक्तचेतसः तेषां
अव्यक्तासक्तचेतसाम् .. अव्यक्ता हि यस्मात् (या)गतिः
अक्षरात्मिका दुःखं (सा)देहवद्भिः देहाभिमानवद्भिः अवाप्यते,
अतः क्लेशः अधिकतरः .
६. ० अक्षरोपासकानां यत् वर्तनं तत् उपरिष्टात् (श्लोकेषु १२. १३ - २०)
वक्ष्यामः ..
ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः .
अनन्येनैव योगेन मां ध्यायन्त उपासते .. १२. ६..
६. १ ये तु इति .. ये तु सर्वाणि कर्माणि मयि ईश्वरे संन्यस्य मत्पराः
अहं परः येषां ते मत्पराः सन्तः अनन्येन एव अविद्यमानं अन्यत्
आलम्बनं विश्वरूपं देवं ध्यायन्तः चिन्तयन्तः उपासते ..
तेषां किम् ?-
तेषामहं समुद्धर्ता मृत्युसंसारसागरात् .
भवामि न चिरात्पार्थ मय्यावेशितचेतसाम् .. १२. ७..
७. १ तेषां इति . तेषां मदुपासनैकपराणां अहं ईश्वरः समुद्धर्ता
- कुतः इति ?आह - मृत्युसंसारसागरात् मृत्युयुक्तः
संसारः मृत्युसंसारः, स एव सागर इव सागरः, दुस्तरत्वात्,
तस्मात् मृत्युसंसारसागरात् अहं तेषां समुद्धर्ता भवामि न
चिरात् . किं तर्हि?- क्षिप्रमेव हे पार्थ ! मयि आवेशितचेतसां
मयि विश्वरूपे आवेशितं समाहितं चेतः येषां ते
मय्यवेशितचेतसः तेषाम् ..
यतः एवं, तस्मात् -
मय्येन मन आधस्त्व मयि बुद्धिं निवेशय .
निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः .. १२. ८..
८. १ मय्येव इति .. मयि एव विश्वरूपे ईश्वरे मनः सङ्कल्पविकल्पात्मकं
समाधत्स्व सथापय . मयि एव अध्यवसायं कुर्वतीं बुद्धिं च
आधत्स्व निवेशय . ततः ते किं भ्यात् इति ?शृणु -
निवसिष्यसि निवत्स्यसि निश्चयेन मदात्मना मयि वासं करिष्यसि एव
अतः शरीरपातात् ऊर्ध्वम् . न संशयः, संशयः अत्र न
कर्तव्यः ..
अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् .
अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय .. १२. ९..
९. १ अथ इति .. अथ एवं यथा अवोचं तथा मयि चित्तं समाधातुं
स्थापयितुं स्थिरं अचलं न शक्नोषि चेत्, ततः पश्चात्
अभ्यासयोगेन, चित्तस्य एकस्मिन् आलम्बेन सर्वतः समाहृत्य
पुनःपुनः स्थापनं अभ्यासः, तत्पूर्वक योगः समाधानलक्षणः तेन
अभ्यासयोगेन मां विश्वरूपं इच्छ प्रार्थयस्व आप्तुं हे धनञ्जय
! ..
अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव .
मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि .. १२. १०..
१०. १ अभ्यासे इति .. अभ्यासे अपि असमर्थः असि अशक्तः असि, तर्हि
मत्कर्मपरमः भव, मदर्थं कर्म मत्कर्म, तत्परमः
मत्कर्मपरमः, मत्कर्मप्रधानः इत्यर्थः . अभ्यासेन विना
मदर्थं अपि कर्माणि केवलं कुर्वन् सिद्धि
सत्वशुद्धियोगज्ञानप्राप्तिद्वारेण अवाप्स्यसि ..
अथैतदप्यशक्तोऽसि कर्तुं मदोगमाश्रितः .
सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् .. १२. ११..
११. १ अथैतद् इति .. अथ पुनः एतत् अपि यत् उक्तं मत्कर्मपरमत्वं
तत् कर्तुं अशक्तः असि, मद्योगं आश्रितः, मयि क्रियमाणानि कर्माणि
संयस्य यत् करणं तेषां अनुष्ठानं सः मद्योगः, तं आश्रितः
सन् - सर्वकर्मफलत्यागं सर्वेषां कर्मणां फलसंयासं
सर्वकर्मफलत्यागं ततः अनन्तरं कुरु यतात्मवान् संयतचित्तः
सन् इत्यर्थः ..
१२. ० इदानीं सर्वकर्मफलत्यागं स्तौति -
श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते .
ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् .. १२. १२..
१२. १ श्रेयः इति .. श्रेयः हि प्रशस्यतरं ज्ञानं -
कस्मात् ?- (अ)विवेकपूर्वकाथ् अभ्यासात्
तस्मात् अपि ज्ञानात् ज्ञानपूर्वकं ध्यानं
विशिष्यते . ज्ञानवतः ध्यानात् अपि कर्मफलत्यागः,
''विशिष्यते''इति अनुषज्यते . एवं कर्मफलत्यागात्
पूर्वोक्तविशेषणवतः (११)शान्तिः उपशमः सहेतुकस्य संसारस्य
अनन्तरं एव स्यात्, न तु कालान्तरं अपेक्षते ..
१२. २ अज्ञस्य कर्मणि प्रवृत्तस्य पूर्वोपदिष्टोपायानुष्ठानशक्तौ
सर्वकर्मणां फलत्यागः श्रेयस्साधनं इति उपदिष्टं, न
प्रथममेव . अतश्च ''श्रेयो हि ज्ञानं''
इत्याद्युत्तरोत्तरविशिष्टत्वोपदेशेन सर्वकर्मफलत्यागः स्तूयते,
सम्पन्नसाधनानुष्ठानशक्तौ अनुष्ठेयत्वेन श्रुतत्वात् . केन
धर्मेण स्तुतित्वं ?''यदा सर्वे प्रमुच्यन्ते''(कठ. उ. ६. १४).
कामाश्च सर्वे श्रौतस्मार्तकर्मणां फलानि . तत्यागे च
विदुषः ध्याननिष्ठस्य अनन्तरा एव शान्तिः . इति
सर्वकामत्यागसामान्यं अज्ञकर्मफलत्यागस्य अपि अस्ति इति
तत्सामान्यात् सर्वकर्मफलत्यागस्तुतिः इयं प्ररोचनार्थी .
यथा अगस्त्येन ब्राह्मणेन समुद्रः पीतः इति इदानीन्तनाः अपि
ब्राह्मणाः ब्राह्मणत्वसामान्यात् स्तूयन्ते . एवं
कर्मफलत्यागात् कर्मयोगस्य शेयस्साधनत्वं अभिहितम् ..
१३. ० अत्र च आत्मेश्वरभेदं आश्रित्य विश्वरूपे ईश्वरे चेतः
समाधानलक्षणः योगः उक्तः, ईश्वरार्थं कर्मानुष्ठानादि च .
''अथैतदप्यशक्तोऽसि''(१२. ११)इति अज्ञानकार्यसूचनात् न
अभेददर्शिनः अक्षरोपासकस्य कर्मयोगः उपपद्यते इति दर्शयति .
तथा कर्मयोगिनः अक्षरोपासनानुपपत्तिं दर्शयति भगवान् ''ते
प्राप्नुवन्ति मामेव''(१२. ४)इति अक्षरोपासकानां कैवल्यप्राप्तौ
स्वातन्त्र्यं उक्त्वा, इतरेषां पारतन्त्र्यात् ईश्वराधीनतां
दर्शितवान् ''तेषामहं समुद्धर्था''(१२. ७)इति . यदि हि
ईश्वरस्य आत्मभूताः ते मताः अभेददर्शित्वात् अक्षरस्वरूपाः एव
ते इति समुद्धरण कर्मविषयवचनं तान् प्रति अपेशलं स्यात् .
यस्माच्च अर्जुनस्य अत्यन्तम् एव हितौषी भगवान् तस्य
सम्यग्दर्शनानन्वितं कर्मयोगं भेददृष्टिमन्तम् एव उपदिशति .
न च आत्मानं ईश्वरं प्रमाणतः बुद्ध्वा कस्यचित् गुणबावं
जिगमिषति कश्चित्, विरोधात् . तस्मात् अक्षरोपासकानां
सम्यग्दर्शननिष्ठानां संयासिनां त्यक्तसर्वैषणानां ''अद्वेष्टा
सर्वभूतानां''इत्यादिधर्मपूगं साक्षात् अमृतत्वकारणं वक्ष्यामि
इति प्रवर्तते -
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च .
निर्ममो निरहङ्कारः समदुःखसुखः क्षमी .. १२. १३..
१३. १ अद्वेष्टा इति .. अद्वेष्टा सर्व भूतानां सर्वेषां भूतानां न
द्वेष्टा, आत्मनः दुःखहेतुमपि न किञ्चित् द्वेष्टि, सर्वाणि भूतानि
आत्मत्वेन पश्यति . मैत्रः - मित्रभावः मैत्री, मित्रतया वर्तते
इति - मैत्रः . करुणः एव च, करुणा कृपा दुःखितेषु दया,
तद्वान् करुणः, सर्वभूताभयप्रदः, संयासी इत्यर्थः .
निर्ममः ममप्रत्ययवर्जितः . निरहङ्कारः निर्गताहप्रत्ययः .
समदुःखसुखः, समे दुःखसुखे द्वेषरागयोः अप्रवर्तके यस्य सः
समदुःखसुखः . क्षमी क्षमावान् आक्रुष्टः अभिहतो वा अविक्रियः एव
आस्ते ..
सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः .
मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः .. १२. १४..
१४. १ सन्तुष्टः इति .. सन्तुष्टः सततं नित्यं, देहस्थितिकारणस्य लाभे
अलाभे च उत्पन्नलंप्रत्ययः . तथा गुणवल्लाभे विपर्यये च
सन्तुष्टः . सततं योगी समाहितचित्तः . यतात्मा
संयतस्वभावः . दृढनिश्चयः, दृढः स्थिरः निश्चयः
अध्यवसायः यस्य आत्मतत्वविषये सः दृढनिश्चयः .
मय्यर्पितमनोबुद्धिः सङ्कल्पविकल्पात्मकं मनः, अध्यवसायलक्षणा
बुद्धिः, ते मयि एव अर्पिते स्थापिते यस्य संयासिनः स
मय्यर्पितमनोबुद्धिः . यः ईदृशः मद्भक्तः सः मे प्रियः .
''प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः''(७. १७)इति सप्तमे
अध्याये सूचितं तत् इह प्रपञ्च्यते ..
यस्मान्नोद्विजते लोको लोकन्नोद्विजते च यः .
हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः .. १२. १५..
१५. १ यस्मात् इति .. यस्मात् संयासिनः न उद्विजते न उद्वेगं गच्छति
न संतप्यते, न संक्षुभ्यति लोकः, तथा लोकात् न उद्विजते च यः,
हर्षामर्षभयोद्वेगैः, हर्षश्च अमर्षश्च भयं च उद्वेगश्च
तैः हर्षामर्षभयोद्वेगैः मुक्तः - हर्षः प्रियलाभे अन्तःकरणस्य
उत्कर्षः रोमाञ्चनाश्रुपातादिलिङ्गः, अमर्षः असहिष्णुता, भयं
त्रासः, उद्वेगः स्द्विग्नता, तैः मुक्तः यः सः च मे प्रियः ..
अनपेक्षः शुधिर्दक्ष उदासीनो गतव्यथः .
सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः .. १२. १६..
१६. १ अनपेक्षः इति .. अनपेक्षः देहेन्द्रियविषयसम्बन्धादिषु अपेक्षा यस्य
नास्ति सः अनपेक्षः निःस्पृहः . शुचिः, बाह्येन आभ्यतरेण च
शौचेन सम्पन्नः . दक्षः, प्रत्युत्पन्नेषु कार्येषु सद्यः यथावत्
प्रतिपत्तुं समर्थः . उदासीनः न कस्यचित् मित्रादेः पक्षं भजते
यः सः उदासीनः - यतिः . गतव्यथः गतभयः .
सर्वारम्भपरिर्त्याङ्गी, आरभ्यन्ते इति आरम्भाः
इहामुत्रफलभोगार्थानि कामहेतूनि कर्माणि सर्वारम्भाः, तान्
परित्यक्तुं शीलं अस्य इति सर्वारम्भपरित्यागी यः मद्भक्तः सः मे
प्रियः ..
किञ्च् -
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति .
शुभाशुभपरित्यागी भक्तिमान् यः स मे प्रियः .. १२. १७..
१७. १ यो न इति .. यः न हृष्यति इष्टप्राप्तौ, न द्वेष्टि अनिष्टप्राप्तौ,
न शोचति प्रियवियोगे, न च अप्राप्तं काङ्क्षति, शुभाशुभे कर्मणी
परित्यक्तं शीलं अस्य इति शुभाशुभपरित्यागी भक्तिमान् यः सः
मे प्रियः ..
समः शत्रौ च मित्रे च तथा मानापमानयोः .
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः .. १२. ८..
१८. १ समः इति .. समः शत्रौ च मित्रे च, तथा मानापमानयोः
पुजापरिभवयोः, शीतोष्णुसुखदुःखेषु समः सर्वत्र सङ्गविवर्जितः ..
किञ्च -
तुल्यनिन्दास्तुनिर्मौनी सन्तुष्टो येन केनचित् .
अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः .. १२. १९..
१९. १ तुल्य इति .. तुल्यनिन्दास्तुतिः निन्दा च स्तुतिश्च निन्दास्तुती ते तुल्ये
यस्य सः तुल्यनिन्दास्तुइतिः . मौनी मौनवान् संयतवाक् .
सन्तुष्टः येन केनचित् शरीरस्थितिहेतुमात्रेण; तथा च उक्तम् -
येन केनचिदाच्छन्नो येन केनचिदाशितः .
यत्र क्वचन शायी स्यात्तं देवा ब्राह्मणं विदुः ..
- (शान्तिपर्व. २४५. १२. )इति . किञ्च - अनिकेतः निकेतः
आश्रयः निवासः नियतः न विद्यते यस्य सः अनिकेतः, ''नागारे''
इत्यादिस्मृत्यन्तरात् . स्थिरमतिः स्थिरा पारमार्थवस्तुविषया
यस्य मतिः सः स्थिरमतिः . भक्तिमान् मे प्रियः नरः ..
२०. ० ''अद्वेष्टा सर्वभूतानां''(१२. १३. )इत्यादिना अक्षरोपासकानां
निवृत्तसर्वैषणानां संयासिनां परमार्थज्ञाननिष्ठानां
धर्मजातं प्रक्रान्तं उपसंहरति -
ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते .
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः .. १२. २० ..
इति श्रीमहाभारते शतसाहस्र्यां संहितायां वैयासिक्यां
भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां
योगशास्त्रे श्रीकृष्णार्जुनसंवादे भक्तियोगे नाम
द्वादशोऽध्यायः ..
२०. १ ये तु इति .. ये तु संयासिनः धर्म्यामृतं धर्मादनपेतं धर्म्यं
च तत् अमृतं च तत्, अमृतत्वेहेतुत्वात्, इदं यथोक्तं
''अद्वेष्टा सर्वभूतानां''इत्यादिना पर्युपासते अनुतिष्ठन्ति
श्रद्दधानाः संतः मत्परमाः यथोक्ताः अहं अक्षरात्मा परमः
निरतिशयागतिः येषां ते मत्परमाः, मद्भक्ताः च उत्तमां
परमार्थज्ञानलक्षणां भक्तिं आस्थि (श्रि)ताः ते अतीव मे प्रियाः .
''प्रियो हि ज्ञानिनोऽत्यर्थम्''(७. १७. )इति यत् सूचितं तत्
व्याख्याय इह उपसंहृतं ''भक्तास्तेऽतीव मे प्रियाः''इति .
यस्मात् धर्म्यामृतं इदं यथोक्तं अनुतिष्ठन् भगवतः विष्णोः
परमेश्वरस्य अतीव प्रियः भवति, तस्मात् इदं धर्म्यामृतं
मुमुक्षुणा यत्नतः अनुष्ठेयं, विष्णोः, प्रियं परं धाम जिगमिषुणा
- इति वाक्यार्थः ..
ॐ शांताकारं भुजगशयनं पद्मनाभं सुरेशम् .
विश्वाधारं गगनसदृशं मेघवर्णं शुभांगम् .
लक्ष्मीकांतं कमलनयनं योगीभिर्ध्यानगम्यम् .
वंदे विष्णुं भवभयहरं सर्वलोकैकनाथम् ..
Encoded by Kapila Shankaran utsaaha@accglobal.net
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com