.. गोपालतापिन्युपनिषत् ..
श्रीमत्पञ्चपदागारं सविशेषतयोज्ज्वलम् .
प्रतियोगिविनिर्मुक्तं निर्विशेषं हरिं भजे ..
ॐ भद्रं कर्णेभिः शृणुयाम देवाः .. भद्रं पश्येमाक्षभिर्यजत्राः ..
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः .. व्यशेम देवहितं यदायुः ..
स्वस्ति न इन्द्रो वृद्धश्रवाः .. स्वस्ति नः पूषा विश्ववेदाः ..
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः .. स्वस्ति नो बृहस्पतिर्दधातु ..
ॐ शान्तिः शान्तिः शान्तिः ..
गोपालतापनं कृष्णं याज्ञवल्क्यं वराहकम् .
शाट्यायनी हयग्रीवं दत्तात्रेयं च गारुडम् ..
हरिः ॐ सच्चिदानन्दरूपय कृष्णायाक्लिष्टकर्मणे .
नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे ..
मुनयो ह वै ब्राह्मणमूचुः . कः परमो देवः कुतो मृत्युर्बिभेति .
कस्य विज्ञानेनाखिलं विज्ञातं भवति . केनेदं विश्वं संसरतीति .
तदुहोवाच ब्राह्मणः . कृष्णो वै परमं दैवतम् .
गोविन्दान्मृत्युर्बिभेति . गोपीजनवल्लभज्ञानेनैतद्विज्ञातं भवति .
स्वाहेदं विश्वं संसरतीति . तदुहोचुः . कः कृष्णः . गोविन्दश्च
कोऽसाविति . गोपीजनवल्लभश्च कः . का स्वाहेति . तानुवाच ब्राह्मणः .
पापकर्षणो गोभूमिवेदवेदितो गोपीजनविद्याकलापप्रेरकः .
तन्माया चेति सकलं परं ब्रह्मैव तत् . यो ध्यायति रसति भजति
सोऽमृतो भवतीति . ते होचुः . किं तद्रूपं किं रसनं किमाहो
तद्भजनं तत्सर्वं विविदिषतामाख्याहीति . तदुहोवाच हैरण्यो
गोपवेषमभ्रामं कल्पद्रुमाश्रितम् . तदिह श्लोका भवन्ति ..
सत्पुण्डरीकनयनं मेघाभं वैद्युताम्बरम् .
द्विभुजं ज्ञानमुद्राढ्यं वनमालिनमीश्वरम् .. १..
गोपगोपीगवावीतं सुरद्रुमतलाश्रितम् .
दिव्यालंकरणोपेतं रत्नपङ्कजमध्यगम् .. २..
कालिन्दीजलकल्लोलसङ्गिमारुतसेवितम् .
चिन्तयञ्चेतसा कृष्णं मुक्तो भवति संसृतेः .. ३.. इति..
तस्य पुना रसनमितिजलभूमिं तु संपाताः . कामादि कृष्णायेत्येकं
पदम् . गोविन्दायेति द्वितीयम् . गोपीजनेति तृतीयम् . वल्लभेति तुरीयम् .
स्वाहेति पञ्चममिति पञ्चपदं जपन्पञ्चाङ्गं द्यावाभूमी
सूर्याचन्द्रमसौ तद्रूपतया ब्रह्म संपद्यत इति . तदेष श्लोकः
क्लीमित्येतदादावादाय कृष्णाय गोविन्दाय गोपीजनवल्लभायेति
बृहन्मानव्यासकृदुच्चरेद्योऽसौ गतिस्तस्यास्ति मङ्क्षु नान्या
गतिः स्यादिति . भक्तिरस्य भजनम् . एतदिहामुत्रोपाधिनैराश्ये-
नामुष्मिन्मनःकल्पनम् . एतदेव च नैष्कर्म्यम् .
कृष्णं तं विप्रा बहुधा यजन्ति
गोविन्दं सन्तं बहुधा आराधयन्ति .
गोपीजनवल्लभो भुवनानि दध्रे
स्वाहाश्रितो जगदेतत्सुरेताः .. १..
वायुर्यथैको भुवनं प्रविष्टो
जन्येजन्ये पञ्चरूपो बभूव .
कृष्णस्तदेकोऽपि जगद्धितार्थं
शब्देनासौ पञ्चपदो विभाति .. २.. इति..
ते होचुरुपासनमेतस्य परमात्मनो गोविन्दस्याखिलाधारिणो
ब्रूहीति . तानुवाच यत्तस्य पीठं हैरण्याष्टपलाशमम्बुजं
तदन्तराधिकानलास्त्रयुगं तदन्तरालाद्यर्णाखिलबीजं कृष्णाय
नम इति बीजाढ्यं सब्रह्मा ब्राह्मणमादायानङ्गगायत्रीं
यथावदालिख्य भूमण्डलं शूलवेष्टितं कृत्वाङ्गवासुदेवादि-
रुक्मिण्यादिस्वशक्तिं नन्दादिवसुदेवादिपार्थादिनिध्यादिवीतं
यजेत्सन्ध्यासु प्रतिपत्तिभिरुपचारैः . तेनास्याखिलं भवत्यखिलं
भवतीति .. २.. तदिह श्लोका भवन्ति .
एको वशी सर्वगः कृष्ण ईड्य
एकोऽपि सन्बहुधा यो विभाति .
तं पीठं येऽनुभजन्ति धीरा-
स्तेषां सिद्धिः शाश्वती नेतरेषाम् .. ३..
नित्यो नित्यानां चेतनश्चेतनाना-
मेको बहूनां यो विदधाति कामान् .
तं पीठगं येऽनुभजन्ति धीरा-
स्तेषां सुखं शाश्वतं नेतरेषाम् .. ४..
एतद्विष्णोः परमं पदं ये
नित्योद्युक्तास्तं यजन्ति न कामात् .
तेषामसौ गोपरूपःप्रयत्ना-
त्प्रकाशयेदात्मपदं तदेव .. ५..
यो ब्रह्माणं विदधाति पूर्वं
यो विद्यां तस्मै गोपयति स्म कृष्णः .
तं ह देवमात्मबुद्धिप्रकाशं
मुमुक्षुः शरणं व्रजेत् .. ६..
ओङ्कारेणान्तरितं ये जपन्ति
गोविन्दस्य पञ्चपदं मनुम् .
तेषामसौ दर्शयेदात्मरूपं
तस्मान्मुमुक्षुरभ्यसेन्नित्यशान्तिः .. ७..
एतस्मा एव पञ्चपदादभूव-
न्गोविन्दस्य मनवो मानवानाम् .
दशार्णाद्यास्तेऽपि संक्रन्दनाद्यै-
रभ्यस्यन्ते भूतिकामैर्यथावत् .. ८..
पप्रच्छुस्तदुहोवाच ब्रह्मसदनं चरतो मे ध्यातः
स्तुतः परमेश्वरः परार्धान्ते सोऽबुध्यत . कोपदेष्टा
मे पुरुषः पुरस्तादाविर्बभूव . ततः प्रणतो मायानुकूलेन
हृदा मह्यमष्टादशार्णस्वरूपं सृष्टये दत्त्वान्तर्हितः .
पुनस्ते सिसृक्षतो मे प्रादुरभूवन् .
तेष्वक्षरेषु विभज्य भविष्यज्जगद्रूपं प्राकाशयम् .
तदिह कादाकालात्पृथिवीतोऽग्निर्बिन्दोरिन्दुस्तत्संपातात्तदर्क इति .
क्लींकारादजस्रं कृष्णादाकाशं खाद्वायुरुत्तरात्सुरभिविद्याः
प्रादुरकार्षमकार्षमिति . तदुत्तरात्स्त्रीपुंसादिभेदं
सकलमिदं सकलमिदमिति .. ३..
एतस्यैव यजनेन चन्द्रध्वजो गतमोहमात्मानं वेदयति .
ओङ्कारालिकं मनुमावर्तयेत् . सङ्गरहितोभ्यानयत् . तद्विष्णोः
परमं पदं सदा पश्यन्ति सूरयः . दिवीव चक्षुराततम् .
तस्मादेनं नित्यमावर्तवेन्नित्यमावर्तयेदिति . ..४..
तदाहुरेके यस्य प्रथमपदाद्भूमिर्द्वितीयपदाज्जलं
तृतीयपदात्तेजश्चतुर्थपदाद्वायुश्चरमपदाद्व्योमेति .
वैष्णवं पञ्चव्याहृतिमथं मन्त्रं कृष्णावभासकं
कैवल्यस्य सृत्यै सततमावर्तयेत्सततमावर्तयेदिति .. ५..
तदत्र गाथाः
यस्य चाद्यपदाद्भूमिर्द्वितीयात्सलिलोद्भवः .
तृतीयात्तेज उद्भूतं चतुर्थाद्गन्धवाहनः .. १..
पञ्चमादम्बरोत्पत्तिस्तमेवैकं समभ्यसेत् .
चन्द्रध्वजोऽगमद्विष्णोः परमं पदमव्ययम् .. २..
ततो विशुद्धं विमलं विशोक-
मशेषलोभादिनिरस्तसङ्गम् .
यत्तत्पदं पञ्चपदं तदेव
स वासुदेवो न यतोऽन्यदस्ति .. ३..
तमेकं गोविन्दं सच्चिदानन्दविग्रहं पञ्चपदं
वृन्दावनसुरभूरुहतलासीनं सततं मरुद्गणोऽहं
परमया स्तुत्या स्तोष्यामि ..
ॐ नमो विश्वस्वरूपाय विश्वस्थित्यन्तहेतवे .
विश्वेश्वराय विश्वाय गोविन्दाय नमोनमः .. १..
नमो विज्ञानरूपाय परमानन्दरूपिणे .
कृष्णाय गोपीनाथाय गोविन्दाय नमोनमः .. २..
नमः कमलनेत्राय नमः कमलमालिने .
नमः कमलनाभाय कमलापतये नमः .. ३..
बर्हापीडाभिरामाय रामायाकुण्ठमेधसे .
रमामानसहंसाय गोविन्दाय नमोनमः .. ४..
कंसवंशविनाशाय केशिचाणूरघातिने .
वृषभध्वजवन्द्याय पार्थसारथये नमः .. ५..
वेणुनादविनोदाय गोपालायाहिमर्दिने .
कालिन्दीकूललोलाय लोलकुण्डलधारिणे .. ६..
पल्लवीवदनाम्भोजमालिने नृत्तशालिने .
नमः प्रणतपालाय श्रीकृष्णाय नमोनमः .. ७..
नमः पापप्रणाशाय गोवर्धनधराय च .
पूतनाजीवितान्ताय तृणावर्तासुहारिणे .. ८..
निष्कलाय विमोहाय शुद्धायाशुद्धवैरिणे .
अद्वितीयाय महते श्रीकृष्णाय नमोननमः .. ९..
प्रसीद परमानन्द प्रसीद परमेश्वर .
आधिव्याधिभुजङ्गेन दष्टं मामुद्धर प्रभो .. १०..
श्रीकृष्ण रुक्मिणीकान्त गोपीजनमनोहर .
संसारसागरे मग्नं मामुद्धर जगद्गुरो .. ११..
केशव क्लेशहरण नारायण जनार्दन .
गोविन्द परमानन्द मां समुद्धर माधव .. १२..
अथैवं स्तुतिभिराराधयामि . तथा यूयं पञ्चपदं जपन्तः
श्रीकृष्णं ध्यायन्तः संसृतिं तरिष्यथेति होवाच
हैरण्यगर्भः . अमुं पञ्चपदं मनुमार्तयेयेद्यः स
यात्यनायासतः केवलं तत्पदं तत् . अनेजदेकं मनसो जवीयो
नैनद्देवा आप्नुवन्पूर्वमर्षदिति . तस्मात्कृष्ण एव परमं
देवस्तं ध्यायेत् . तं रसयेत् . तं यजेत् . तं भजेत् .
ॐ तत्सदित्युपनिषत् ..
ॐ भद्रं कर्णेभिः शृणुयाम देवाः .. भद्रं पश्येमाक्षभिर्यजत्राः ..
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः .. व्यशेम देवहितं यदायुः ..
स्वस्ति न इन्द्रो वृद्धश्रवाः .. स्वस्ति नः पूषा विश्ववेदाः ..
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः .. स्वस्ति नो बृहस्पतिर्दधातु ..
ॐ शान्तिः शान्तिः शान्तिः ..
इति गोपालपूर्वतापिन्युपनिषत्समाप्ता ..
ॐ एकदा हि व्रजस्त्रियः सकामाः शर्वरीमुषित्वा
सर्वेश्वरं गोपालं कृष्णमूचिरे . उवाच ताः
कृष्ण अमुकस्मै ब्राह्मणाय भैक्ष्यं दातव्यमिति
दुर्वासस इति . कथं यास्यामो जलं तीर्त्वा यमुनायाः .
यतः श्रेयो भवति कृष्णेति ब्रह्मचारीत्युक्त्वा मार्गं
वो दास्यति . यं मां स्मृत्वाऽगाधा गाधा भवति .
यं मां स्मृत्वाऽपूतः पूतो भवति . यं मां स्मृत्वाऽव्रती
व्रती भवति . यं मां स्मृत्वा सकामो निष्कामो भवति .
यं मां स्मृत्वाऽश्रोत्रियः श्रोत्रियो भवति . यं मां
स्मृत्वाऽगाधतः स्पर्शरहितापि सर्वा सरिद्गाधा भवति .
श्रुत्वा तद्वाक्यं हि वै रौद्रं स्मृत्वा तद्वाक्येन तीर्त्वा
तत्सौर्यां हि वै गत्वाश्रमं पुण्यतमं हि वै नत्वा मुनिं
श्रेष्ठतमं हि वै रौद्रं चेति . दत्त्वास्मै ब्राह्मणाय
क्षीरमयं घृतमयमिष्टतमं हि वै मृष्टतमं
हि तुष्टः स्नात्वा भुक्त्वा हित्वशिषं प्रयुज्यान्नं ज्ञात्वादात् .
कथं यास्यामो तीर्त्वा सौर्याम् . स होवाच मुनिर्दुर्वासनं
मां स्मृत्वा वो दास्यतीति मार्गम् . तासां मध्ये हि श्रेष्ठा
गान्धर्वी ह्युवाच तं तं हि वै तामिः . एवं कथं कृष्णो
ब्रह्मचारी . कथं दुर्वासनो मुनिः . तां हि मुख्यां विधाय
पूर्वमनुकृत्वा तूष्णीमासुः . शब्दवानाकाशः शब्दाकाशाभ्यां
भिन्नः . तस्मिन्नाकाशस्तिष्ठति . आकाशे तिष्ठति
स ह्याकाशस्तं न वेद . स ह्यात्मा .
अहं कथं भोक्ता भवामि . रूपवदिदं तेजो रूपाग्निभ्यां
भिन्नम् . तस्मिन्नग्निस्तिष्ठति . अग्नौ तिष्ठति अग्निस्तं
न वेद . स ह्यात्मा . अहं कथं भोक्ता भवामि . रसवत्य
आपो रसाद्भ्यां भिन्नाः . तास्वापस्तिष्ठन्ति . अप्सु
भूमिर्गन्धभूमिभ्यां भिन्ना . तस्यां भूमिस्तिष्ठति .
भूमौ तिष्ठति . भूमिस्तं न वेद . स ह्यात्मा . अहं कथं
भोक्ता भवामि . इदं हि मनसैवेदं मनुते . तानिदं हि गृह्णाति .
यत्र सर्वमात्मैवाभूत्तत्र कुत्र वा मनुते . कथं वा गच्छतीति .
स ह्यात्मा . अहं कथं भोक्ता भवामि . अयं हि कृष्णो यो हि
प्रेष्ठः शरीरद्वयकारणं भवति . द्वा सुपर्णा भवतो
ब्रह्मणोऽहं संभूतस्तथेतरो भोक्ता भवति . अन्यो हि साक्षी
भवतीति . वृक्षधर्मे तौ तिष्ठतः . अतोओ भोक्तभोक्तारौ . पूर्वो
हि भोक्ता भवति . तथेतरोऽभोक्ता कृष्णो भवतीति . यत्र विद्याविद्ये
न विदाम . विद्याविद्याभ्यां भिन्नो विद्यामयो हि यः कथं विषयी
भवतीति . यो ह वै कामेन कामान्कामयते स कामी भवति . यो ह वै
त्वकामेन कामान्कामयते सोऽकामी भवति . जन्मजराभ्यां
भिन्नः स्थाणुरयमच्छेद्योऽयं योऽसौ सूर्ये तिष्ठति योऽसौ
गोषु तिष्ठति . योऽसौ गोपान्पालयति . योऽसौ सर्वेषु देवेषु
तिष्ठति . योऽसौ सर्वैर्देवैर्गीयते . योऽसौ सर्वेषु भूतेष्वाविश्य
भूतानि विदधाति स वो हि स्वामी भवति . सा होवाच गान्धर्वी .
कथं वास्मासु जातो गोपालः कथं वा ज्ञातोऽसौ त्वया मुने कृष्णः .
को वास्य मन्त्रः किं स्थानम् . कथं वा देवक्या जातः . को वास्य
जायाग्रामो भवति . कीदृशी पूजास्य गोपालस्य भवति . साक्षात्प्रकृति-
परोऽयमात्मा गोपालः कथं त्ववतीर्णो भूम्यां हि वै
सा गान्धर्वी मुनिमुवाच . स होवाच तां हि वै पूर्वं नारायणो
यस्मिंल्लोका ओताश्च प्रोताश्च तस्य हृत्पद्माजातोऽब्जयोनिस्तपस्तपस्तप्त्वा
तस्मै ह वरं ददौ . स कामप्रश्नमेव वव्रे . तं हास्मै ददौ .
स होवाचाब्जयोनिः यो वावताराणां मध्ये श्रेष्ठोऽवतारः
को भवति . येन लोकास्तुष्टा भवन्ति . यं स्मृत्वा मुक्ता
अस्मात्संसाराद्भवन्ति . कथं वास्यावतारस्य ब्रह्मता भवति .
स होवाच तं हि वै नारायणो देवः . सकाम्या मेरोः शृङ्गे
यथा सप्तपुर्यो भवन्ति तथा निष्काम्याः सकाम्या
भूगोपालचक्रे सप्तपुर्यो भवन्ति . तासां मध्ये साक्षाद्ब्रह्म
गोपालपुरी भवति . सकाम्या निष्काम्या देवानां सर्वेषां
भूतानां भवति . अथास्य भजनं भवति . यथा हि वै सरसि
पद्मं तिष्ठति तथा भूम्यां तिष्ठति . चक्रेण रक्षिता
मथुरा . तस्माद्गोपालपुरी भवति बृहद्बृहद्वनं मधोर्मधुवनं
तालस्तालवनं काम्यं काम्यवनं बहुला बहुलवनं कुमुदः
कुमुदवनं खदिरः खदिरवनं भद्रो भद्रवनं भाण्डीर इति
भाण्डीरवनं श्रीवनं लोहवनं वृन्दावनमेतैरावृता पुरी
भवति . तत्र तेष्वेव गगनेश्वेवं देवा मनुष्या गन्धर्वा नागाः
किंनरा गायन्ति नृत्यन्तीति . तत्र द्वादशादित्या एकादश रुद्रा
अष्टौ वसवः सप्त मुनयो ब्रह्मा नारदश्च पञ्च विनायका
वीरेश्वरो रुद्रेश्वरोऽम्बिकेश्वरो गणेश्वरो नीलकण्ठेश्वरो विश्वेश्वरो
गोपालेश्वरो भद्रेश्वर इत्यष्टावन्यानि लिङ्गानि चतुर्विंशतिर्भवन्ति .
द्वे वने स्तः कृष्णवनं भद्रवनम् . तयोरन्तर्द्वादश वनानि
पुण्यानि पुण्यतमानि . तेश्वेव देवास्तिष्ठन्ति . सिद्धाः सिद्धिं प्राप्ताः .
तत्र हि रामस्य राममूर्तिः प्रद्युम्नस्य प्रद्युम्नमूर्तिरनिरुद्धस्य-
अनिरुद्धमूर्तिः कृष्णस्य कृष्णमूर्तिः . वनेश्वेवं मथुरास्वेवं
द्वादश मूर्तयो भवन्ति . एकां हि रुद्रा यजन्ति . द्वितीयां हि ब्रह्मा यजति .
तृतीयां ब्रह्मजा यजन्ति . चतुर्थीं मरुतो यजन्ति . पञ्चमीं विनायका
यजन्ति . षष्ठीं च वसवो यजन्ति . सप्तमीमृषयो यजन्ति .
नवमीमप्सरसो यजन्ति . दशमी वै ह्यन्तर्धाने तिष्ठति . एकादशीति-
स्वपदानुगा . द्वादशीति भूम्यां तिष्ठति . तां हि ये यजन्ति ते
मृत्युं तरन्ति . मुक्तिं लभन्ते . गर्भजन्मजरामरणतापत्रयात्मकदुःखं
तरन्ति . तदप्येते श्लोका भवन्ति .
संप्राप्य मथुरा रम्यां सदा ब्रह्मादिवन्दिताम् .
शङ्खचक्रगदाशार्ङ्गरक्षितां मुसलादिभिः .. १..
यत्रासौ संस्थितः कृष्णः स्त्रीभिः शक्त्या समाहितः .
रमानिरुद्धप्रद्युम्नै रुक्मिण्या सहितो विभुः .. २..
चतुःशब्दो भवेदेको ह्योंकारश्च उदाहृतः . तस्मादेव
परो रजसेति सोऽहमित्यवधार्यात्मानं गोपालोऽहमिति भावयेत् .
स मोक्षमश्नुते . स ब्रह्मत्वमधिगच्छति . स ब्रह्मविद्भवति .
स गोपाञ्जीवानात्मत्वेन सृष्टिपर्यन्तमालाति . स गोपालो
ह्यों भवति . तत्सत्सोऽहम् . परं ब्रह्म कृष्णात्मको
नित्यानन्दैक्यस्वरूपः सोऽहम् . तत्सद्गोपालोऽहमेव . परं
सत्यमबाधितं सोऽहमित्यत्मानमादाय मनसैक्यं कुर्यात् .
आत्मानं गोपालोऽहमिति भावयेत् . स एवाव्यक्तोऽनन्तो नित्यो गोपालः .
मथुरायां स्थितिर्ब्रह्मन्सर्वदा मे भविष्यति .
शङ्खचक्रगदापद्मवनमालाधरस्य वै .. १..
विश्वरूपं परंज्योतिः स्वरूपं रूपवर्जितम् .
मथुरामण्डले यस्तु जम्बूद्वीपे स्थितोऽपि वा .. २..
योऽर्चयेत्प्रतिमां मां च स मे प्रियतरो भुवि .
तस्यामधिष्ठितः कृष्णरूपी पूज्यस्त्वया सदा .. ३..
चतुर्धा चास्यावतारभेदत्वेन यजन्ति माम् .
युगानुवर्तिनो लोका यजन्तीह सुमेधसः .. ४..
गोपालं सानुजं कृष्णं रुक्मिण्या सह तत्परम् .
गोपालोऽहमजो नित्यः प्रद्युम्नोऽहं सनातनः .. ५..
रामोऽहमनिरुद्धोऽहमात्मानं चार्चयेद्बुधः .
मयोक्तेन स धर्मेण निष्कामेन विभागशः .. ६..
तैरहं पूजनीयो हि भद्रकृष्णनिवासिभिः .
तद्धर्मगतिहीना ये तस्यां मयि परायणाः .. ७..
कलिना ग्रसिता ये वै तेषां तस्यामवस्थितिः .
यथा त्वं सह पुत्रैस्तु यथा रुद्रो गणैः सह .. ८..
यथा श्रियाभियुक्तोऽहं तथा भक्तो मम प्रियः .
स होवाचाब्जयोनिश्चतुर्भिर्देवैः कथमेको देवः स्यात् .
एकमक्षरं यद्विश्रुतमनेकाक्षरं कथं संभूतम् .
स होवाच हि तं पूर्वमेकमेवाद्वितीयं ब्रह्मासीत् .
तस्मादव्यक्तमेकाक्षरम् . तस्मदक्षरान्महत् .
महतोऽहङ्कारः . तस्मादहङ्कारात्पञ्च तन्मात्राणि .
तेभ्यो भूतानि . तैरावृतमक्षरम् .
अक्षरोऽहमोंकारोऽयमजरोऽमरोऽभयोऽमृतो ब्रह्माभयं हि वै .
स मुक्तोऽहमस्मि . अक्षरोऽहमस्मि .
सत्तामात्रं चित्स्वरूपं प्रकाशं व्यापकं तथा .. ९..
एकमेवाद्वयं ब्रह्म मायया च चतुष्टयम् .
रोहिणीतनयो विश्व अकाराक्षरसंभवः .. १०..
तैजसात्मकः प्रद्युम्न उकाराक्षरसंभवः .
प्राज्ञात्मकोऽनिरुद्धोऽसौ मकाराक्षरसंभवः .. ११..
अर्धमात्रात्मकः कृष्णो यस्मिन्विश्वं प्रतिष्ठितम् .
कृष्णात्मिका जगत्कर्त्री मूलप्रकृती रुक्मिणी .. १२..
व्रजस्त्रीजनसंभूतः श्रुतिभ्यो ज्ञानसंगतः .
प्रणवत्वेन प्रकृतित्वं वदन्ति ब्रह्मवादिनः .. १३..
तस्मादोंकारसंभूतो गोपालो विश्वसंस्थितः .
क्लीमोंकारस्यैकतत्वं वदन्ति ब्रह्मवादिनः .. १४..
मथुरायां विशेषेण मां ध्यायन्मोक्षमश्नुते .
अष्टपत्रं विकसितं हृत्पद्मं तत्र संस्थितम् .. १५..
दिव्यध्वजातपत्रैस्तु चिह्नितं चरणद्वयम् .
श्रीवत्सलाञ्छनं हृत्स्थं कौस्तुभं प्रभया युतम् .. १६..
चतुर्भुजं शङ्खचक्रशार्ङ्गपद्मगदान्वितम् .
सुकेयूरान्वितं बाहुं कण्ठमालसुशोभितम् .. १७..
द्युमत्किरीटमभयं स्फुरन्मकरकुण्डलम् .
हिरण्मयं सौम्यतनुं स्वभक्तायाभयप्रदम् .. १८..
ध्यायेन्मनसि मां नित्यं वेणुशृङ्गधरं तु वा .
मथ्यते तु जगत्सर्वं ब्रह्मज्ञानेन येन वा .. १९..
मत्सारभूतं यद्यत्स्यान्मथुरा सा निगद्यते .
अष्टदिक्पालकैर्भूमिपद्मं विकसितं जगत् .. २०..
संसारार्णवसंजातं सेवितं मम मानसे .
चन्द्रसूर्यत्विषो दिव्या ध्वजा मेरुर्हिरण्मयः .. २१..
आतपत्रं ब्रह्मलोकमथोर्ध्वं चरणं स्मृतम् .
श्रीवत्सस्य स्वरूपं तु वर्तते लाञ्छनैः सह .. २२..
श्रीवत्सलक्षणं तस्मात्कथ्यते ब्रह्मवादिभिः .
येन सूर्याग्निवाक्चन्द्रतेजसा स्वस्वरूपिणा .. २३..
वर्तते कौस्तुभाख्यमणिं वदन्तीशमानिनः .
सत्त्वं रजस्तम इति अहंकारश्चतुर्भुजः .. २४..
पञ्चभूतात्मकं शङ्खं करे रजसि संस्थितम् .
बालस्वरूपमित्यन्तं मनश्चक्रं निगद्यते .. २५..
आद्या माया भवेच्छार्ङ्गं पद्मं विश्वं करे स्थितम् .
आद्या विद्या गदा वेद्या सर्वदा मे करे स्थिता .. २६..
धर्मार्थकामकेयूरैर्दिव्यैर्दिव्यमयेरितैः .
कण्ठं तु निर्गुणं प्रोक्तं माल्यते आद्ययाऽजया .. २७..
माला निगद्यते ब्रह्मंस्तव पुत्रैस्तु मानसैः .
कूटस्थं सत्त्वरूपं च किरीटं प्रवदन्ति माम् .. २८..
क्षीरोत्तरं प्रस्फुरन्तं कुण्डलं युगलं स्मृतम् .
ध्यायेन्मम प्रियं नित्यं स मोक्षमधिगच्छति .. २९..
स मुक्तो भवति तस्मै स्वात्मानं तु ददामि वै .
एतत्सर्वं मया प्रोक्तं भविष्यद्वै विधे तव .. ३०..
स्वरूपं द्विविधं चैव सगुणं निर्गुणात्मकम् .. ३१..
स होवाचाब्जयोनिः . व्यक्तीनां मूर्तीनां प्रोक्तानां कथं
चाभरणानि भवन्ति . कथं वा देवा यजन्ति . रुद्रा यजन्ति .
ब्रह्मा यजति . ब्रह्मजा यजन्ति . विनायका यजन्ति . द्वादशादित्या
यजन्ति . वसवो यजन्ति . गन्धर्वा यजन्ति . सपदानुगा अन्तर्धाने
तिष्ठन्ति . कां मनुष्या यजन्ति . सहोवाच तं हि वै नारायणो
देव आद्या व्यक्ता द्वादश मूर्तयः सर्वेषु लोकेषु सर्वेषु
देवेषु सर्वेषु मनुष्येषु तिष्ठन्तीति . रुद्रेषु रौद्री
ब्रह्माणीषु ब्राह्मी देवेषु दैवी मनुष्येषु मानवी विनायकेषु
विघ्नविनाशिनी आदित्येषु ज्योतिर्गन्धर्वेषु गान्धर्वी अप्सरःस्वेवं
गौर्वसुष्वेवं काम्या अन्तर्धानेष्वप्रकाशिनी आविर्भावतिरोभावा
स्वपदे तिष्ठन्ति . तामसी राजसी सात्त्विकी मानुषी विज्ञानघन
आनन्दसच्चिदानन्दैकरसे भक्तियोगे तिष्ठति .
ॐ प्राणात्मने ॐ तत्सद्भूर्भुवः सुवस्तस्मै प्राणात्मने नमोनमः .. १..
ॐ श्रीकृष्णाय गोविन्दाय गोपीजनवल्लभाय ॐ तत्सद्भूर्भुवः सुवस्तस्मै नमोनमः .. २..
ॐअपानात्मने ॐ तत्सद्भूर्भुवः सुवस्तस्मै अपानात्मने नमोनमः .. ३..
ॐ श्रीकृष्णायानिरुद्धाय ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः .. ४..
ॐ व्यानात्मने ॐ तत्सद्भूर्भुवः सुवस्तस्मै व्यानात्मने नमोनमः .. ५..
ॐ श्रीकृष्णाय रामाय ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः .. ६..
ॐउदानात्मने ॐ तत्सद्भूर्भुवः सुवस्तस्मै उदानात्मने नमोनमः .. ७..
ॐ श्रीकृष्णाय देवकीनन्दनाय ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः .. ८..
ॐ समानात्मने ॐ तत्सद्भूर्भुवः सुवस्तस्मै समानात्मने नमोनमः .. ९..
ॐ श्रीगोपालाय निजस्वरूपाय ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः .. १०..
ॐ योऽसौ प्रधानात्मा गोपाल ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः .. ११..
ॐ योऽसाविन्द्रियात्मा गोपाल ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः .. १२..
ॐ योऽसौ भूतात्मा गोपाल ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः .. १३..
ॐ योऽसावुत्तमपुरुषो गोपाल ॐ तत्सद्भूर्भुवः सुवस्तमै वै नमोनमः .. १४..
ॐ योऽसौ ब्रह्म परं वै ब्रह्म ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः .. १५..
ॐ योऽसौ सर्वभूतात्मा गोपाल ॐ तत्सद्भूर्भुवः सुवस्तस्मै नमोनमः .. १६..
ॐ जाग्रत्स्वप्नसुषुप्तितुरीयतुरीयातीतोऽन्तर्यामी गोपाल ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः .. १७..
एको देवः सर्वभूतेषु गूढः
सर्वव्यापी सर्वभूतान्तरात्मा .
कर्माध्यक्षः सर्वभूताधिवासः
साक्षी चेता केवलो निर्गुणश्च .. १८..
रुद्राय नमः . आदित्याय नमः . विनायकाय नमः . सूर्याय नमः .
विद्यायै नमः . इन्द्राय नमः . अग्नये नमः . यमाय नमः .
निरृतये नमः . वरुणाय नमः . वायवे नमः . कुबेराय नमः .
ईशानाय नमः . सर्वेभ्यो देवेभ्यो नमः .
दत्त्वा स्तुतिं पुण्यतमां ब्रह्मणे स्वस्वरूपिणे .
कर्तृत्वं सर्वभूतानामन्तर्धानो बभूव सः .. १९..
ब्रह्मणे ब्रह्मपुत्रेभ्यो नारदात्तु श्रुतं मुने .
तथा प्रोक्तं तु गान्धर्वि गच्छ त्वं स्वालयान्तिकम् .. २०.. इति..
ॐ भद्रं कर्णेभिः शृणुयाम देवाः .. भद्रं पश्येमाक्षभिर्यजत्राः ..
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः .. व्यशेम देवहितं यदायुः ..
स्वस्ति न इन्द्रो वृद्धश्रवाः .. स्वस्ति नः पूषा विश्ववेदाः ..
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः .. स्वस्ति नो बृहस्पतिर्दधातु ..
ॐ शान्तिः शान्तिः शान्तिः .. हरिः ॐ तत्सत् ..
इति गोपालोत्तरतापिन्युपनिषत्समाप्ता ..
Encoded by Sunder Hattangadi (sunderh@hotmail.com)
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com