.. गोविन्दराजप्रपत्तिः ..
यश्चैकशैलनिकटे कमलापुरीश-
गोविन्दराजपदयोरकरोत् प्रपत्तिम् .
तं वादिभीकरगुरोश्चरणं प्रपद्ये
पात्रं गुरुं वरवरं परमं गुरूणाम् .. १..
श्रीमन् निदान जगतां निखिलाण्डजात-
निर्वाहशक्तिमुखदिव्यगुणैकतान .
अत्यन्तभोग्यनतदोष निरस्तदोष
गोविन्दराज चरणौ शरणं प्रपद्ये .. २..
रेखारथाङ्गसरसीरुहवज्रशङ्क-
च्छत्राङ्कुशप्रभृतिमङ्गलचिह्नगर्भौ .
संसारतापहरणे निपुणौ नतानां
गोविन्दराज चरणौ शरणं प्रपद्ये .. ३..
पश्यत्सु सान्द्रभयकौतुकमर्भकेषु
प्रौढेषु सत्सु कृतकृत्यपरायणेषु .
विध्वंसितोर्ध्वशकटावपि बालभावे
गोविन्दराज चरणौ शरणं प्रपद्ये .. ४..
आलम्ब्य बाहुयुगलेन कुमारभावे
गाढं कराङ्गुलियुगं किल नन्दपत्न्याः .
अभ्यस्यमानदशचङ्क्रमणाभिरामौ
गोविन्दराज चरणौ शरणं प्रपद्ये .. ५..
घोषाङ्गनाकरसरोरुहतालनाद-
संगीतसंपदनुरूपमनोज्ञनृत्तौ .
माणिक्यनूपुरमरीचिकृताङ्गलेपौ
गोविन्दराज चरणौ शरणं प्रपद्ये .. ६..
कुट्टाकतामुपगतौ सरसः प्रसह्य
मध्येसरित्सलिलमुद्धतकालियस्य .
तत्सुन्दरीनयननन्दनसंनिवेशौ
गोविन्दराज चरणौ शरणं प्रपद्ये .. ७..
वासांसि देहि तव कृष्ण वशंवदाना-
मस्माकमाकुलधियामिति गोपकन्याः .
उद्दिश्य यौ विदधुरञ्जलिमा प्रसादाद्
गोविन्दराज चरणौ शरणं प्रपद्ये .. ८..
गोरक्षणे किल बभूव यदीयरेणु-
रक्रूरमस्तकमणेः सरणिं समेतः .
तावद्भुतावनुपमावतिपावनौ ते
गोविन्दराज चरणौ शरणं प्रपद्ये .. ९..
मल्लावहे मधुरया मधुराङ्गनानां
फुल्लारविन्ददलतल्लजलोचनानाम् .
वाण्या प्रशंसितपरार्ध्यगतिप्रकारौ
गोविन्दराज चरणौ शरणं प्रपद्ये .. १०..
कंसं निपात्य कनकासनतः पृथिव्या-
मुद्धृत्य सागसमनागसमुग्रसेनम् .
राज्येऽभिषिच्य विनिवारितभूमिभारौ
गोविन्दराज चरणौ शरणं प्रपद्ये .. ११..
दुर्योधने दुरभिमानिनि दुर्भगाणा-
मग्रेसरे भजति ते शिरसः प्रदेशम् .
धन्येन यन्निकटतः स्थितमर्जुनेन
गोविन्दराज चरणौ शरणं प्रपद्ये .. १२..
सारथ्यवेषसमलंकृतपाण्डुसूनो-
र्युद्धाङ्गणोज्ज्वलरथाञ्चलसंनिवेशौ .
सान्द्रेन्द्रनीलपरिभावुकभव्यरूपौ
गोविन्दराज चरणौ शरणं प्रपद्ये .. १३..
भक्त्या प्रसन्नहृदयेन धनंजयेन
यत्रार्चितानि कुसुमानि शिवोत्तमाङ्गे .
साक्षात्कृतानि सहसाद्भुतवैभवौ तौ
गोविन्दराज चरणौ शरणं प्रपद्ये .. १४..
अस्मद्गुरुप्रभृतिभिः कमलावसानै-
रादर्शितौ करुणया मम देशिकेन्द्रैः .
सत्त्वोत्तरैः सकलजीवदयापरैस्तै-
र्गोविन्दराज चरणौ शरणं प्रपद्ये .. १५..
अस्मात्पितामहमशेषगुणाभिराम-
माचार्यरत्नमयि वादिभयंकरार्यम् .
गोवर्धनाद्रिधृतिधारितगोप वीक्ष्य
गोविन्दराज मम दुर्लपितं क्षमस्व .. १६..
. इति श्रीगोविन्दराजप्रपत्तिः संपूर्णा .
Encoded and proofread by Sridhar Seshagiri seshagir@egr.msu.edu
The author was the grandson of Vaadibhayamkaraachaaryaa,
as is stated in the last verse; nothing more is known of
him, even his name. The stotra is on the God at Tirupati, and is on the
model of the well-known ve.nkaTeshvaraprapatti.
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com