.. हंसगीता ..
२८८
य्
सत्यं क्षमां दमं प्रज्ञां प्रशंसन्ति पितामह .
विद्वांसो मनुजा लोके कथमेतन्मतं तव .. १..
भी
अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम् .
साध्यानामिह संवादं हंसस्य च युधिष्ठिर .. २..
हंसो भूत्वाथ सौवर्णस्त्वजो नित्यः प्रजापतिः .
स वै पर्येति लोकांस्त्रीनथ साध्यानुपागमत् .. ३..
साध्या
शकुने वयं स्म देवा वै साध्यास्त्वाम् अनुयुज्महे .
पृच्छामस्त्वां मोक्षधर्मं भवंश्च किल मोक्षवित् .. ४..
श्रुतोऽसि नः पण्डितो धीरवादी
साधु शब्दः पतते ते पतत्रिन् .
किं मन्यसे श्रेष्ठतमं द्विज त्वं
कस्मिन्मनस्ते रमते महात्मन् .. ५..
तन्नः कार्यं पक्षिवरप्रशाधि
यत्कार्याणां मन्यसे श्रेष्ठमेकम् .
यत्कृत्वा वै पुरुषः सर्वबन्धैर्
विमुच्यते विहगेन्द्रेह शीघ्रम् .. ६..
हम्स
इदं कार्यममृताशाः शृणोमि
तपो दमः सत्यमात्माभिगुप्तिः .
ग्रन्थीन्विमुच्य हृदयस्य सर्वान्
प्रियाप्रिये स्वं वशमानयीत .. ७..
नारुन्तुदः स्यान्न नृशंसवादी
न हीनतः परमभ्याददीत .
ययास्य वाचा पर उद्विजेत
न तां वदेद्रुशतीं पापलोक्याम् .. ८..
वाक्सायका वदनान्निष्पतन्ति
यैराहतः शोचति रात्र्यहानि .
परस्य नामर्मसु ते पतन्ति
तान्पण्डितो नावसृजेत्परेषु .. ९..
परश्चेदेनमतिवाद बानैर्
भृशं विध्येच्छम एवेह कार्यः .
संरोष्यमाणः प्रतिमृष्यते यः
स आदत्ते सुकृतं वै परस्य .. १०..
क्षेपाभिमानादभिषङ्ग व्यलीकं
निगृह्णाति ज्वलितं यश् च मन्युम् .
अदुष्टचेतो मुदितोऽनसूयुः
स आदत्ते सुकृतं वै परेषाम् .. ११..
आक्रुश्यमानो न वदामि किं चित्
क्षमाम्यहं ताद्यमानश् च नित्यम् .
श्रेष्ठं ह्येतत्क्षममप्याहुरार्याः
सत्यं तथैवार्जवमानृशंस्यम् .. १२..
वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः .
दमस्योपनिषन्मोक्ष एतत्सर्वानुशासनम् .. १३..
वाचो वेगं मनसः क्रोधवेगं
विवित्सा वेगमुदरोपस्थ वेगम् .
एतान्वेगान्यो विषहत्युदीर्णांस्
तं मन्येऽहं ब्राह्मणं वै मुनिं च .. १४..
अक्रोधनः क्रुध्यतां वै विशिष्टस्
तथा तितिक्षुरतितिक्षोर्विशिष्टः .
अमानुषान्मानुषो वै विशिष्टस्
तथाज्ञानाज्ज्ञानवान्वै प्रधानः .. १५..
आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः .
आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दते .. १६..
यो नात्युक्तः प्राह रूक्षं प्रियं वा
यो वा हतो न प्रतिहन्ति धैर्यात् .
पापं च यो नेच्छति तस्य हन्तुस्
तस्मै देवाः स्पृहयन्ते सदैव .. १७..
पापीयसः क्षमेतैव श्रेयसः सदृशस्य च .
विमानितो हतोऽऽक्रुष्ट एवं सिद्धिं गमिष्यति .. १८..
सदाहमार्यान्निभृतोऽप्युपासे
न मे विवित्सा न चमेऽस्ति रोषः .
न चाप्यहं लिप्समानः परैमि
न चैव किं चिद्विषमेण यामि .. १९..
नाहं शप्तः प्रतिशपामि किं चिद्
दमं द्वारं ह्यमृतस्येह वेद्मि .
गुह्यं ब्रह्म तदिदं वो ब्रवीमि
न मानुषाच्छ्रेष्ठतरं हि किं चित् .. २०..
विमुच्यमानः पापेभ्यो धनेभ्य इव चन्द्रमः .
विरजः कालमाकाङ्क्षन्धीरो धैर्येण सिध्यति .. २१..
यः सर्वेषां भवति ह्यर्चनीय
उत्सेचने स्तम्भ इवाभिजातः .
यस्मै वाचं सुप्रशस्तां वदन्ति
स वै देवान्गच्छति संयतात्मा .. २२..
न तथा वक्तुमिच्छन्ति कल्यानान्पुरुषे गुणान् .
यथैषां वक्तुमिच्छन्ति नैर्गुण्यमनुयुज्ञकाः .. २३..
यस्य वाङ्मनसी गुप्ते सम्यक्प्रनिहिते सदा .
वेदास्तपश्च त्यागश्च स इदं सर्वमाप्नुयात् .. २४..
आक्रोशनावमानाभ्यामबुधाद्वर्धते बुधः .
तस्मान्न वर्धयेदन्यं न चात्मानं विमिंसयेत् .. २५..
अमृतस्येव सन्तृप्येदवमानस्य वै द्विजः .
सुखं ह्यवमतः शेते योऽवमन्ता स नश्यति .. २६..
यत्क्रोधनो यजते यद्ददाति
यद्वा तपस्तप्यति यज्जुहोति .
वैवस्वतस्तद्धरतेऽस्य सर्वं
मोघः श्रमो भवति क्रोधनस्य .. २७..
चत्वारि यस्य द्वाराणि सुगुप्तान्यमरोत्तमाः .
उपस्थमुदरं हस्तौ वाक्चतुर्थी स धर्मवित् .. २८..
सत्यं दमं ह्यार्जवमानृशंस्यं
धृतिं तितिक्षामभिसेवमानः .
स्वाध्यायनित्योऽस्पृहयन्परेषाम्
एकान्तशील्यूर्ध्वगतिर्भवेत्सः .. २९..
सर्वानेताननुचरन्वत्सवच्चतुरः स्तनान् .
न पावनतमं किं चित्सत्यादध्यगमं क्व चित् .. ३०..
आचक्षाहं मनुष्येभ्यो देवेभ्यः प्रतिसञ्चरन् .
सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव .. ३१..
यादृशैः संनिवसति यादृशांश् चोपसेवते .
यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः .. ३२..
यदि सन्तं सेवते यद्यसन्तं
तपस्विनं यदि वा स्तेनमेव .
वासो यथा रङ्ग वशं प्रयाति
तथा स तेषां वशमभ्युपैति .. ३३..
सदा देवाः साधुभिः संवदन्ते
न मानुषं विषयं यान्ति द्रष्टुम् .
नेन्दुः समः स्यादसमो हि वायुर्
उच्चावचं विषयं यः स वेद .. ३४..
अदुष्टं वर्तमाने तु हृदयान्तर पूरुषे .
तेनैव देवाः प्रीयन्ते सतां मार्गस्थितेन वै .. ३५..
शिश्नोदरे येऽभिरताः सदैव
स्तेना नरा वाक्परुषाश् च नित्यम् .
अपेद दोषानिति तान्विदित्वा
दूराद्देवाः सम्परिवर्जयन्ति .. ३६..
न वै देवा हीनसत्त्वेन तोष्याः
सर्वाशिना दुष्कृत कर्मणा वा .
सत्यव्रता ये तु नराः कृतज्ञा
धर्मे रतास्तैः सह सम्भजन्ते .. ३७..
अव्याहृतं व्याकृताच्छ्रेय आहुः
सत्यं वदेद्व्याहृतं तद्द्वितीयम् .
धर्मं वदेद्व्याहृतं तत्तृतीयं
प्रियंवदेद्व्याहृतं तच्चतुर्थम् .. ३८..
साध्या
केनायमावृतो लोकः केन वा न प्रकाशते .
केन त्यजति मित्राणि केन स्वर्गं न गच्छति .. ३९..
हम्स
अनानेनावृतो लोको मात्सर्यान्न प्रकाशते .
लोभात्त्यजति मित्राणि सङ्गात्स्वर्गं न गच्छति .. ४०..
साध्याह्
कः स्विदेको रमते ब्राह्मणानां
कः स्विदेको बहुभिर्जोषमास्ते .
कः स्विदेको बलवान्दुर्बलोऽपि
कः स्विदेषां कलहं नान्ववैति .. ४१..
हम्स
प्राज्ञ एको रमते ब्राह्मणानां
प्राज्ञ एको बहुभिर्जोषमास्ते .
प्राज्ञ एको बलवान्दुर्बलोऽपि
प्राज्ञ एषां कलहं नान्ववैति .. ४२..
साध्याह्
किं ब्राह्मणानां देवत्वं किं च साधुत्वमुच्यते .
असाधुत्वं च किं तेषां किमेषां मानुषं मतम् .. ४३..
हम्स
स्वाध्याय एषां देवत्वं व्रतं साधुत्वमुच्यते .
असाधुत्वं परीवादो मृत्युर्मानुषमुच्यते .. ४४..
भी
संवाद इत्ययं श्रेष्ठः साध्यानां परिकीर्तितः .
क्षेत्रं वै कर्मणां योनिः सद्भावः सत्यमुच्यते .. ४५..
.. इति हंसगीता समाप्ता ..
Please send corrections to Sunder Hattangadi (sunderh@hotmail.com OR sanskrit@cheerful.com);
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com