.. हयग्रीवोपनिषत् ..
स्वज्ञोऽपि यत्प्रसादेन ज्ञानं तत्फलमाप्नुयात् .
सोऽयं हयास्यो भगवान्हृदि मे भातु सर्वदा ..
ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः .
भद्रं पश्येमाक्षभिर्यजत्राः .
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः .
व्यशेम देवहितं यदायुः ..
स्वस्ति न इन्द्रो वृद्धश्रवाः . स्वस्ति नः पूषा विश्ववेदाः .
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः . स्वस्ति नो बृहस्पतिर्दधातु ..
ॐ शान्तिः शान्तिः शान्तिः ..
हरिः ॐ .. नारदो ब्रह्माणमुपसमेत्योवाचाधीहि भगवन्
ब्रह्मविद्यां वरिष्ठां यया चिरात्सर्वपापं व्यपोह्य
ब्रह्मविद्यां लब्ध्वैश्वर्यवान्भवति . ब्रह्मोवाच
हयग्रीवदैवत्यान्मन्त्रान्यो वेद स श्रुतिस्मृतीतिहासपुराणानि वेद .
स सर्वैश्वर्यवान्भवति . त एते मन्त्राः .
विश्वोत्तीर्णस्वरूपाय चिन्मयानन्दरूपिणे .
तुभ्यं नमो हयग्रीव विद्याराजाय स्वाहा स्वाहा नमः .. १..
ऋग्यजुःसामरूपाय वेदाहरणकर्मणे .
प्रणवोद्गीथवपुषे महाश्वशिरसे नमः स्वाहा स्वाहा नमः .. २..
उद्गीथ प्रणवोद्गीथ सर्ववागीश्वरेश्वर .
सर्ववेदमयाचिन्त्य सर्वं बोधय बोधय स्वाहा स्वाहा नमः .. ३..
ब्रह्मात्रिरविसवितृभार्गवा ऋषयः . गायत्रीत्रिष्टुबनुष्टुप् छन्दांसि .
श्रीमान् हयग्रीवः परमात्मा देवतेति . ल्हौमिति बीजम् .
सोऽहमिति शक्तिः . ल्हूमिति कीलकम् . भोगमोक्षयोर्विनियोगः .
अकारोकारमकारैरङ्गन्यासः . ध्यानम् .
शङ्खचक्रमहामुद्रापुस्तकाढ्यं चतुर्भुजम् .
संपूर्णचन्द्रसंकाशं हयग्रीवमुपास्महे ..
ॐ श्रीमिति द्वे अक्षरे . ल्हौमित्येकाक्षरम् . ॐ नमो
भगवत इति सप्ताक्षराणि . हयग्रीवायेति पञ्चाक्षराणि .
विष्णव इति त्र्यक्षराणि . मह्यं मेधां प्रज्ञामिति
षडक्षराणि , प्रयच्छ स्वाहेति पञ्चाक्षराणि .
हयग्रीवस्य तुरीयो भवति .. ४..
ॐ श्रीमिति द्वे अक्षरे . ल्हौमित्येकाक्षरम् . ऐमैमैमिति
त्रीण्यक्षराणि . क्लीं क्लीमिति द्वे अक्षरे . सौः सौरिति द्वे अक्षरे .
ह्रीमित्येकाक्षरम् . ॐ नमो भगवत इति सप्ताक्षराणि .
मह्यं मेधां प्रज्ञामिति षडक्षराणि . प्रयच्छ
स्वाहेति पञ्चाक्षराणि . पञ्चमो मनुर्भवति .. ५..
हयग्रीवैकाक्षरेण ब्रह्मविद्यां प्रवक्ष्यामि . ब्रह्मा
महेश्वराय महेश्वरः संकर्षणाय संकर्षणो नारदाय
नारदो व्यासाय व्यासो लोकेभ्यः प्रायच्छदिति
हकारोंसकारोमकारों त्रयमेकस्वरूपं भवति . ल्हौ
बीजाक्षरं भवति . बीजाक्षरेण ल्हौं रूपेण तज्जापकानां
संपत्सारस्वतौ भवतः . तत्स्वरूपज्ञानां वैदेही
मुक्तिश्च भवति . दिक्पालानां राज्ञां नागानां
किन्नराणामधिपतिर्भवति . हयग्रीवैकाक्षरजपशीलाज्ञया
सूर्यादयः स्वतः स्वस्वकर्मणि प्रवर्तन्ते . सर्वेषां
बीजानां हयग्रीवैकाक्षरबीजमनुत्तमं मन्त्रराजात्मकं
भवति . ल्हौं हयग्रीवस्वरूपो भवति . अमृतं कुरुकुरु स्वाहा .
तज्जापकानां वाक्सिद्धिः श्रीसिद्धिरष्टाङ्गयोगसिद्धिश्च
भवति . अगम्यागमनात्पूतो भवति . पतितसंभाषणात्पूतो
भवति . ब्रह्महत्यादिपातकैर्मुक्तो भवति . गृहं गृहपतिरिव
देही देहान्ते परमात्मानं प्रविशति . प्रज्ञानमानन्दं ब्रह्म
तत्त्वमसि अयमात्मा ब्रह्म अहं ब्रह्मास्मीति महावाक्यैः
प्रतिपादितमर्थं त एते मन्त्राः प्रतिपादयन्ति . स्वरव्यञ्जनभेदेन
द्विधा एते . अथानुमन्त्राञ्जपति .
यद्वाग्वदन्त्यविचेतनानि राष्ट्री देवानां निषसाद मन्द्रा .
चतस्र ऊर्जं दुदुहे पयांसि क्व स्विदस्याः परमं जगाम .. १..
गौरीर्मिमाय सलिलानि तक्षत्येकपदी द्विपदी सा चतुष्पदी .
अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे व्योमन् .. २..
ओष्ठापिधाना नकुली दन्तैः परिवृता पविः .
सर्वस्यै वाच ईशाना चारु मामिह वादयेति च वाग्रसः .. ३..
ससर्परीरमतिं बाधमान बृहन्मिमाय जमदग्निदत्त .
आसूर्यस्य दुरिता तनान श्रवो देवेष्वमृतमजुर्यम् .. ४..
य इमां ब्रह्मविद्यामेकादश्यां पठेद्धयग्रीवप्रभावेन
महापुरुषो भवति . स जीवन्मुक्तो भवति . ॐ नमो ब्रह्मणे
धारणं मे अस्त्वनिराकरणं धारयिता भूयासं कर्णयोः
श्रुतं माच्योढ्वं ममामुष्य ओमित्युपनिषत् ..
ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः . भद्रं पश्येमाक्षभिर्यजत्राः .
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः ..
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः . स्वस्ति नः पूषा विश्ववेदाः .
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः . स्वस्ति नो बृहस्पतिर्दधातु ..
ॐ शान्तिः शान्तिः शान्तिः .. हरिः ॐ तत्सत् ..
अथ हयग्रीवोपनिषत्समाप्ता ..
Encoded by Sunder Hattangadi (sunderh@hotmail.com)
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com