.. जाबालोपनिषत् ..
जाबालोपनिषत्ख्यातं संन्यासज्ञानगोचरम् .
वस्तुतस्त्रैपदं ब्रह्म स्वमात्रमवशिष्यते ..
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते .
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ..
ॐ शान्तिः शान्तिः शान्तिः ..
ॐ बृहस्पतिरुवाच याज्ञवल्क्यं यदनु कुरुक्षेत्रं
देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् .
अविमुक्तं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां
भूतानां ब्रह्मसदनम् .
तस्माद्यत्र क्वचन गच्छति तदेव मन्येत तदविमुक्तमेव .
इदं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां
भूतानां ब्रह्मसदनम् ..
अत्र हि जन्तोः प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म
व्याचष्टे येनासावमृती भूत्वा मोक्षी भवति
तस्मादविमुक्तमेव निषेवेत अविमुक्तं न
विमुञ्चेदेवमेवैतद्याज्ञवल्क्यः .. १..
अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं य एषोऽनन्तोऽव्यक्त
आत्मा तं कथमहं विजानीयामिति ..
स होवाच याज्ञवल्क्यः सोऽविमुक्त उपास्यो य
एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति ..
सोऽविमुक्तः कस्मिन्प्रतिष्ठित इति . वरणायां नाश्यां च
मध्ये प्रतिष्ठित इति ..
का वै वरणा का च नाशीति .
सर्वानिन्द्रियकृतान्दोषान्वारयतीति तेन वरणा भवति ..
सर्वानिन्द्रियकृतान्पापान्नाशयतीति तेन नाशी भवतीति ..
कतमं चास्य स्थानं भवतीति . भ्रुवोर्घ्राणस्य च यः
सन्धिः स एष द्यौर्लोकस्य परस्य च सन्धिर्भवतीति . एतद्वै
सन्धिं सन्ध्यां ब्रह्मविद उपासत इति . सोऽविमुक्त उपास्य इति
. सोऽविमुक्तं ज्ञानमाचष्टे . यो वैतदेवं वेदेति .. २..
अथ हैनं ब्रह्मचारिण ऊचुः किं जप्येनामृतत्वं ब्रूहीति ..
स होवाच याज्ञवल्क्यः . शतरुद्रियेणेत्येतान्येव ह वा
अमृतस्य नामानि ..
एतैर्ह वा अमृतो भवतीति एवमेवैतद्याज्ञवल्क्यः .. ३..
अथ हैनं जनको वैदेहो याज्ञवल्क्यमुपसमेत्योवाच
भगवन्संन्यासं ब्रूहीति . स होवाच याज्ञवल्क्यः .
ब्रह्मचर्यं परिसमाप्य गृही भवेत् . गृही भूत्वा वनी
भवेत् . वनी भूत्वा प्रव्रजेत् . यदि वेतरथा
ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा ..
अथ पुनरव्रती वा व्रती वा स्नातको वाऽस्नातको
वोत्सन्नग्निको वा यदहरेव विरजेत्तदहरेव प्रव्रजेत् .
तद्धैके प्राजापत्यामेवेष्टि, न् कुर्वन्ति . तदु तथा न
कुर्यादाग्नेयीमेव कुर्यात् ..
अग्निर्ह वै प्राणः प्राणमेव तथा करोति ..
त्रैधातवीयामेव कुर्यात् . एतयैव त्रयो धातवो यदुत
सत्त्वं रजस्तम इति ..
अयं ते योनिरृत्विजो यतो जातः प्राणादरोचथाः . तं
प्राणं जानन्नग्न आरोहाथा नो वर्धय रयिम् . इत्यनेन
मन्त्रेणाग्निमाजिघ्रेत् ..
एष ह वा अग्नेर्योनिर्यः प्राणः प्राणं गच्छ
स्वाहेत्येवमेवैतदाह ..
ग्रामादग्निमाहृत्य पूर्वदग्निमाघ्रापयेत् ..
यद्यग्निं न विन्देदप्सु जुहुयात् . आपो वै सर्वा देवताः
सर्वाभ्यो देवताभ्यो जुहोमि स्वाहेति हुत्वोधृत्य
प्राश्नीयात्साज्यं हविरनामयं मोक्षमन्त्रः त्रय्यैवं
वदेत् . एतद्ब्रह्मैतदुपासितव्यम् . एवमेवैतद्भगवन्निति वै
याज्ञवल्क्यः .. ४..
अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं पृच्छामि त्वा
याज्ञवल्क्य अयज्ञोपवीति कथं ब्राह्मण इति . स होवाच
याज्ञवल्क्यः . इदमेवास्य तद्यज्ञोपवीतं य आत्मापः
प्राश्याचम्यायं विधिः परिव्राजकानाम् . वीराध्वाने वा
अनाशके वा अपां प्रवेशे वा अग्निप्रवेशे वा महाप्रस्थाने वा
. अथ परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः शुचिरद्रोही
भैक्षणो ब्रह्मभूयाय भवतीति . यद्यातुरः स्यान्मनसा
वाचा संन्यसेत् . एष पन्था ब्रह्मणा हानुवित्तस्तेनैति
संन्यासी ब्रह्मविदित्येवमेवैष भगवन्याज्ञवल्क्य .. ५..
तत्र
परमहंसानामसंवर्तकारुणिश्वेतकेतुदुर्वासऋभुनिदाघजड
भरतदत्तात्रेयरैवतक-
प्रभृतयोऽव्यक्तलिङ्गा अव्यक्ताचारा अनुन्मत्ता
उन्मत्तवदाचरन्तस्त्रिदण्डं कमण्डलुं शिक्यं पात्रं
जलपवित्रं शिखां यज्ञोपवीतं च इत्येतत्सर्वं
भूःस्वाहेत्यप्सु परित्यज्यात्मानमन्विच्छेत् ..
यथा जातरूपधरो निर्ग्रन्थो निष्परिग्रहस्तत्तद्ब्रह्ममार्गे
सम्यक्संपन्नः शुद्धमानसः प्राणसन्धारणार्थं
यथोक्तकाले विमुक्तो भैक्षमाचरन्नुदरपात्रेण
लाभालाभयोः समो भूत्वा
शून्यागारदेवगृहतृणकूटवल्मीकवृक्षमूलकुलालशालाग्
निहोत्रगृहनदीपुलिनगिरिकुहरकन्दरकोटरनिर्झरस्थण्डिलेषु
तेष्वनिकेतवास्य प्रयत्नो निर्ममः
शुक्लध्यानपरायणोऽध्यात्मनिष्ठोऽशुभकर्म-
निर्मूलनपरः संन्यासेन देहत्यागं करोति स परमहंसो
नाम परमहंसो नामेति .. ६..
ॐ पूर्णमद इति शातिः ..
इत्यथर्ववेदीया जाबालोपनिषत्समाप्ता ..
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com