.. जाबालदर्शनोपनिषत् ..
यमाद्यष्टाङ्गयोगेद्धं ब्रह्ममात्रप्रबोधतः .
योगिनो यत्पदं यान्ति तत्कैवल्यपदं भजे ..
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च ..
सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म
निराकरोदनिराकरणमस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु
धर्मास्ते मयि सन्तु ते मयि सन्तु ..
ॐ शान्तिः शान्तिः शान्तिः ..
हरिः ॐ .. दत्तात्रेयो महायोगी भगवान्भूतभावनः .
चतुर्भुजो महाविष्णुर्योगसाम्राज्यदीक्षितः .. १..
तस्य शिष्यो मुनिवरः सांकृतिर्नाम भक्तिमान् .
पप्रच्छ गुरुमेकान्ते प्राञ्जलिर्विनयान्वितः .. २..
भगवन्ब्रूहि मे योगं साष्टाङ्गं सप्रपञ्चकम् .
येन विज्ञातमात्रेण जीवन्मुक्तो भवाम्यहम् .. ३..
सांकृते श्रुणु वक्ष्यामि योगं साष्टाङ्गदर्शनम् .
यमश्च नियमश्चैव तथैवासनमेव च .. ४..
प्राणायामस्तथा ब्रह्मन्प्रत्याहारस्ततः परम् .
धारणा च तथा ध्यानं समाधिश्चाष्टमं मुने .. ५..
अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम् .
क्षमा धृतिर्मिताहारः शौचं चैव यमा दश .. ६..
वेदोक्तेन प्रकारेण विना सत्यं तपोधन .
कायेन मनसा वाचा हिंसाऽहिंसा न चान्यथा .. ७..
आत्मा सर्वगतोऽच्छेद्यो न ग्राह्य इति मे मतिः .
स चाहिंसा वरा प्रोक्ता मुने वेदान्तवेदिभिः .. ८..
चक्षुरादीन्द्रियैर्दृष्टं श्रुतं घ्रातं मुनीश्वर .
तस्यैवोक्तिर्भवेत्सत्यं विप्र तन्नान्यथा भवेत् .. ९..
सर्वं सत्यं परं ब्रह्म न चान्यदिति या मतिः .
तच्च सत्यं वरं प्रोक्तं वेदान्तज्ञानपारगैः .. १०..
अन्यदीये तृणे रत्ने काञ्चने मौक्तिकेऽपि च .
मनसा विनिवृत्तिर्या तदस्तेयं विदुर्बुधाः .. ११..
आत्मन्यनात्मभावेन व्यवहारविवर्जितम् .
यत्तदस्तेयमित्युक्तमात्मविद्भिर्महामते .. १२..
कायेन वाचा मनसा स्त्रीणां परिविवर्जनम् .
ऋतौ भार्यां तदा स्वस्य ब्रह्मचर्यं तदुच्यते .. १३..
ब्रह्मभावे मनश्चारं ब्रह्मचर्यं परन्तप .. १४..
स्वात्मवत्सर्वभूतेषु कायेन मनसा गिरा .
अनुज्ञा या दया सैव प्रोक्ता वेदान्तवेदिभिः .. १५..
पुत्रे मित्रे कलत्रे च रिपौ स्वात्मनि सन्ततम् .
एकरूपं मुने यत्तदार्जवं प्रोच्यते मया .. १६..
कायेन मनसा वाचा शत्रुभिः परिपीडिते .
बुद्धिक्षोभनिवृत्तिर्या क्षमा सा मुनिपुङ्गव .. १७..
वेदादेव विनिर्मोक्षः संसारस्य न चान्यथा .
इति विज्ञाननिष्पत्तिर्धृतिः प्रोक्ता हि वैदिकैः .
अहमात्मा न चान्योऽस्मीत्येवमप्रच्युता मतिः .. १८..
अल्पमृष्टाशनाभ्यां च चतुर्थांशावशेषकम् .
तस्माद्योगानुगुण्येन भोजनं मितभोजनम् .. १९..
स्वदेहमलनिर्मोक्षो मृज्जलाभ्यां महामुने .
यत्तच्छौचं भवेद्बाह्यं मानसं मननं विदुः .
अहं शुद्ध इति ज्ञानं शौचमाहुर्मनीषिणः .. २०..
अत्यन्तमलिनो देहो देही चात्यन्तनिर्मलः .
उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते .. २१..
ज्ञानशौचं परित्यज्य बाह्ये यो रमते नरः .
स मूढः का~चनं त्यक्त्वा लोष्ठं गृह्णाति सुव्रत .. २२..
ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः .
न चास्ति किंचित्कर्तव्यमस्ति चेन्न स तत्त्ववित् .. २३..
लोकत्रयेऽपि कर्तव्यं किंचिन्नास्त्यात्मवेदिनाम् .. २४..
तस्मात्सर्वप्रयत्नेन मुनेऽहिंसादिसाधनैः .
आत्मानमक्षरं ब्रह्म विद्धि ज्ञानात्तु वेदनात् .. २५..
इति प्रथमः खण्डः .. १..
तपः सन्तोषमास्तिक्यं दानमीश्वरपूजनम् .
सिद्धान्तश्रवणं चैव ह्रीर्मतिश्च जपो व्रतम् .. १..
एते च नियमाः प्रोक्तास्तान्वक्ष्यामि क्रमाच्छृणु .. २..
वेदोक्तेन प्रकारेण कृच्छ्रचान्द्रयणादिभिः .
शरीरशोषणं यत्तत्तप इत्युच्यते बुधैः .. ३..
को वा मोक्षः कथं तेन संसारं प्रतिपन्नवान् .
इत्यालोकनमर्थज्ञास्तपः शंसन्ति पण्डिताः .. ४..
यदृच्छालाभतो नित्यं प्रीतिर्या जायते नृणाम् .
तत्सन्तोषं विदुः प्राज्ञाः परिज्ञानैकतत्पराः .. ५..
ब्रह्मादिलोकपर्यन्ताद्विरक्त्या यल्लभेत्प्रियम् .
सर्वत्र विगतस्नेहः संतोषं परमं विदुः .
श्रौते स्मार्ते च विश्वासो यत्तदास्तिक्यमुच्यते .. ६..
न्यायार्जितधनं श्रान्ते श्रद्धया वैदिके जने .
अन्यद्वा यत्प्रदीयन्ते तद्दानं प्रोच्यते मया .. ७..
रागाद्यपेतं हृदयं वागदुष्टानृतादिना .
हिंसादिरहितं कर्म यत्तदीश्वरपूजनम् .. ८..
सत्यं ज्ञानमनन्तं च परानन्दं परं ध्रुवम् .
प्रत्यगित्यवगन्तव्यं वेदान्तश्रवणं बुधाः .. ९..
वेदलौकिकमार्गेषु कुत्सितं कर्म यद्भवेत् .
तस्मिन्भवति या लज्जा ह्रीः सैवेति प्रकीर्तिता .
वैदिकेषु च सर्वेषु श्रद्धा या सा मतिर्भवेत् .. १०..
गुरुणा चोपदिष्टोऽपि तत्र संबन्धवर्जितः .
वेदोक्तेनैव मार्गेण मन्त्राभ्यासो जपः स्मृतः .. ११..
कल्पसूत्रे तथा वेदे धर्मशास्त्रे पुराणके .
इतिहासे च वृत्तिर्या स जपः प्रोच्यते मया .. १२..
जपस्तु द्विविधः प्रोक्तो वाचिको मानसस्तथा .. १३..
वाचिकोपांशुरुच्चैश्च द्विविधः परिकीर्तितः .
मानसोमननध्यानभेदाद्द्वैविध्यमाश्रितः .. १४..
उच्चैर्जपादुपांशुश्च सहस्रगुणमुच्यते .
मानसश्च तथोपांशोः सहस्रगुणमुच्यते .. १५..
उच्चैर्जपश्च सर्वेषां यथोक्तफलदो भवेत् .
नीचैःश्रोत्रेण चेन्मन्त्रः श्रुतश्चेन्निष्फलं भवेत् .. १६.. इति..
इति द्वितीयः खण्डः .. २..
स्वस्तिकं गोमुखं पद्मं वीरसिंहासने तथा .
भद्रं मुक्तासनं चैव मयूरासनमेव च .. १..
सुखासनसमाख्यं च नवमं मुनिपुङ्गव .
जानूर्वोरन्तरे कृत्वा सम्यक् पादतले उभे .. २..
समग्रीवशिरःकायः स्वस्तिकं नित्यमभ्यसेत् .
सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वे नियोजयेत् .. ३..
दक्षिणेऽपि तथा सव्यं गोमुखं तत्प्रचक्षते .
अङ्गुष्ठावधि गृह्णीयाद्धस्ताभ्यां व्युत्क्रमेण तु .. ४..
ऊर्वोरुपरि विप्रेन्द्र कृत्वा पादतलद्वयम् .
पद्मासनं भवेत्प्राज्ञ सर्वरोगभयापहम् .. ५..
दक्षिणेतरपादं तु दक्षिणोरुणि विन्यसेत् .
ऋजुकायः समासीनो वीरासनमुदाहृतम् .. ६..
गुल्फौ तु वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् .
पार्श्वपादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम् .
भद्रासनं भवेदेतद्विषरोगविनाशनम् .. ७..
निपीड्य सीवनीं सूक्ष्मं दक्षिणेतरगुल्फतः .
वामं याम्येन गुल्फेन मुक्तासनमिदं भवेत् .. ८..
मेढ्रादुपरि निक्षिप्य सव्यं गुल्फं ततोपरि .
गुल्फान्तरं च संक्षिप्य मुक्तासनमिदं मुने .. ९..
कूर्पराग्रे मुनिश्रेष्ठ निक्षिपेन्नाभिपार्श्वयोः .
भूम्यां पाणितलद्वन्द्वं निक्षिप्यैकाग्रमानसः .. १०..
समुन्नतशिरःपादो दण्डवद्व्योम्निसंस्थितः .
मयूरासनमेतत्स्यात्सर्वपापप्रणाशनम् .. ११..
येन केन प्रकारेण सुखं धैर्यं च जायते .
तत्सुखासनमित्युक्तमशक्तस्तत्समाश्रयेत् .. १२..
आसनं विजितं येन जितं तेन जगत्त्रयम् .
अनेन विधिना युक्तः प्राणायामं सदा कुरु .. १३.. इति..
इति तृतीयः खण्डः .. ३..
शरीरं तावदेव स्यात्षण्णवत्यङ्गुलात्मकम् .
देहमध्ये शिखिस्थानं तप्तजाम्बूनदप्रभम् .. १..
त्रिकोणं मनुजानां तु सत्यमुक्तं हि सांकृते .
गुदात्तु द्व्यङ्गुलादूर्ध्वं मेढ्रात्तु द्व्यन्ङ्गुलादधः .. २..
देहमध्यं मुनिप्रोक्तमनुजानीहि सांकृते .
कन्दस्थानं मुनिश्रेष्ठ मूलाधारान्नवाङ्गुलम् .. ३..
चतुरङ्गुलमायामविस्तारं मुनिपुङ्गव .
कुक्कुटाण्डसमाकारं भूषितं तु त्वगादिभिः .. ४..
तन्मध्ये नाभिरित्युक्तं योगज्ञैर्मुनिपुङ्गव .
कन्दमध्यस्थिता नाडी सुषुम्नेति प्रकीर्तिता .. ५..
तिष्ठन्ति परितस्तस्या नाडयो मुनिपुङ्गव .
द्विसप्ततिसहस्राणि तासां मुख्याश्चतुर्दश .. ६..
सुषुम्ना पिङ्गला तद्वदिडा चैव सरस्वती .
पूषा च वरुणा चैव हस्तिजिह्वा यशस्विनी .. ७..
अलम्बुसा कुहुश्चैव विश्वोदरी तपस्विनी .
शङ्खिनी चैव गान्धारा इति मुख्याश्चतुर्दश .. ८..
तासां मुख्यतमास्तिस्रस्तिसृष्वेकोत्तमोत्तमा .
ब्रह्मनाडीति सा प्रोक्ता मुने वेदान्तवेदिभिः .. ९..
पृष्ठमध्यस्थितेनान्स्था वीणादण्डेन सुव्रत .
सह मस्तकपर्यन्तं सुषुम्ना सुप्रतिष्ठिता .. १०..
नाभिकन्दादधः स्थानं कुण्डल्या द्व्यङ्गुलं मुने .
अष्टप्रकृतिरूपा सा कुण्डली मुनिसत्तम .. ११..
यथावद्वायुचेष्टां च जलान्नादीनि नित्यशः .
परितः कन्दपार्श्वेषु निरुध्यैव सदा स्थिता .. १२..
स्वमुखेन समावेष्ट्य ब्रह्मरन्ध्रमुखं मुने .
सुषुम्नाया इडा सव्ये दक्षिणे पिङ्गला स्थिता .. १३..
सरस्वती कुहुश्चैव सुषुम्नापार्श्वयोः स्थिते .
गान्धारा हस्तिजिह्वा च इडायाः पृष्ठपार्श्वयोः .. १४..
पूषा यशस्विनी चैव पिङ्गला पृष्ठपूर्वयोः .
कुहोश्च हस्तिजिह्वाया मध्ये विश्वोदरी स्थिता .. १५..
यशस्विन्याः कुहोर्मध्ये वरुणा सुप्रतिष्ठिता .
पूषाश्च सरस्वत्या मध्ये प्रोक्ता यशस्विनी .. १६..
गान्धारायाः सरस्वत्या मध्ये प्रोक्ता च शङ्खिनी .
अलम्बुसा स्थिता पायुपर्यन्तं कन्दमध्यगा .. १७..
पूर्वभागे सुषुम्नाया राकायाः संस्थिता कुहूः .
अधश्चोर्ध्वं स्थिता नाडी याम्यनासान्तमिष्यते .. १८..
इअडा तु सव्यनासान्तं संस्थिता मुनिपुङ्गव .
यशस्विनी च वामस्य पादाङ्गुष्ठान्तमिष्यते .. १९..
पूषा वामाक्षिपर्यन्ता पिङ्गलायास्तु पृष्ठतः .
पयस्विनी च याम्यस्य कर्णान्तं प्रोच्यते बुधैः .. २०..
सरस्वती तथा चोर्ध्वगता जिह्वा तथा मुने .
हस्तिजिह्वा तथा सव्यपादाङ्गुष्ठान्तमिष्यते .. २१..
शङ्खिनी नाम या नाडी सव्यकर्णान्तमिष्यते .
गान्धारा सव्यनेत्रान्ता प्रोक्ता वेदान्तवेदिभिः .. २२..
विश्वोदराभिधा नाडी कन्दमध्ये व्यवस्थिता .
प्राणोऽपानस्तथा व्यानः समानोदान एव च .. २३..
नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः .
एते नाडीषु सर्वासु चरन्ति दश वायवः .. २४..
तेषु प्राणादयः पञ्च मुख्याः पञ्चसु सुव्रत .
प्राणसंज्ञस्तथापानः पूज्यः प्राणस्तयोर्मुने .. २५..
आस्यनासिकयोर्मध्ये नाभिमध्ये तथा हृदि .
प्राणसंज्ञोऽनिलो नित्यं वर्तते मुनिसत्तम .. २६..
अपानो वर्तते नित्यं गुदमध्योरुजानुषु .
उदरे सकले कट्यां नाभौ जङ्घे च सुव्रत .. २७..
व्यानः श्रोत्राक्षिमध्ये च कुकुभ्द्यां गुल्फयोरपि .
प्राणस्थाने गले चैव वर्तते मुनिपुङ्गव .. २८..
उदानसंज्ञो विज्ञेयः पादयोर्हस्तयोरपि .
समानः सर्वदेहेषु व्याप्य तिष्ठत्यसंशयः .. २९..
नागादिवायवः पञ्चत्वगस्थ्यादिषु संस्थिताः .
निःश्वासोच्छ्वासकासाश्च प्राणकर्म हि सांकृते .. ३०..
अपानाख्यस्य वायोस्तु विण्मूत्रादिविसर्जनम् .
समानः सर्वसामीप्यं करोति मुनिपुङ्गव .. ३१..
उदान ऊर्ध्वगमनं करोत्येव न संशयः .
व्यानो विवादकृत्प्रोक्तो मुने वेदान्तवेदिभिः .. ३२..
उद्गारादिगुणः प्रोक्तो व्यानाख्यस्य महामुने .
धनञ्जयस्य शोभादि कर्म प्रोक्तं हि सांकृते .. ३३..
निमीलनादि कूर्मस्य क्षुधा तु कृकरस्य च .
देवदत्तस्य विप्रेन्द्र तन्द्रीकर्म प्रकीर्तितम् .. ३४..
सुषुम्नायाः शिवो देव इडाया देवता हरिः .
पिङ्गलाया विरञ्चिः स्यात्सरस्वत्या विराण्मुने .. ३५..
पूषाधिदेवता प्रोक्ता वरुणा वायुदेवता .
हस्तिजिह्वाभिधायास्तु वरुणो देवता भवेत् .. ३६..
यशस्विन्या मुनिश्रेष्ठ भगवान्भास्करस्तथा .
अलम्बुसाया अबात्मा वरुणः परिकीर्तितः .. ३७..
कुहोः क्षुद्देवता प्रोक्ता गान्धारी चन्द्रदेवता .
शङ्खिन्याश्चन्द्रमास्तद्वत्पयस्विन्याः प्रजापतिः .. ३८..
विश्वोदराभिधायास्तु भगवान्पावकः पतिः .
इडायां चन्द्रमा नित्यं चरत्येव महामुने .. ३९..
पिङ्गलायां रविस्तद्वन्मुने वेदविदां वर .
पिङ्गलायामिडायां तु वायोः संक्रमणं तु यत् .. ४०..
तदुत्तरायणं प्रोक्तं मुने वेदान्तवेदिभिः .
इडायां पिङ्गलायां तु प्राणसंक्रमणं मुने .. ४१..
दक्षिणायनमित्युक्तं पिङ्गलायामिति श्रुतिः .
इडापिङ्गलयोः संधिं यदा प्राणः समागतः .. ४२..
अमावास्या तदा प्रोक्ता देहे देहभृतां वर .
मूलाधारं यदा प्राणः प्रविष्टः पण्डितोत्तम .. ४३..
तदाद्यं विषुवं प्रोक्तं तपसैस्तापतोत्तम .
प्राणसंज्ञो मुनिश्रेष्ठ मूर्धानं प्राविशद्यदा .. ४४..
तदन्त्यं विषुवं प्रोक्तं तापसैस्तत्त्वचिन्तकैः .
निःश्वासोच्छ्वासनं सर्वं मासानां संक्रमो भवेत् .. ४५..
इडायाः कुण्डलीस्थानं यदा प्राणः समागतः .
सोमग्रहणमित्युक्तं तदा तत्त्वविदां वर .. ४६..
यदा पिङ्गलया प्राणः कुण्डलीस्थानमागतः .
तदातदा भवेत्सूर्यग्रहण मुनिपुङ्गव .. ४७..
श्रीपर्वतं शिरःस्थाने केदारं तु ललाटके .
वाराणसी महाप्राज्ञ भ्रुवोर्घ्राणस्य मध्यमे .. ४८..
कुरुक्षेत्रं कुचस्थाने प्रयागं हृत्सरोरुहे .
चिदम्बरं तु हृन्मध्ये आधारे कमलालयम् .. ४९..
आत्मतीर्थं समुत्सृज्य बहिस्तीर्थानि यो व्रजेत् .
करस्थं स महारत्नं त्यक्त्वा काचं विमार्गते .. ५०..
भावतीर्थं परं तीर्थं प्रमाणं सर्वकर्मसु .
अन्यथालिङ्ग्यते कान्ता अन्यथालिङ्ग्यते सुता .. ५१..
तीर्थानि तोयपूर्णानि देवान्काष्ठादिनिर्मितान् .
योगिनो न प्रपूज्यन्ते स्वात्मप्रत्ययकारणात् .. ५२..
बहिस्तीर्थात्परं तीर्थमन्तस्तीर्थं महामुने .
आत्मतीर्थं महातीर्थमन्यत्तीर्थं निरर्थकम् .. ५३..
चित्तमन्तर्गतं दुष्टं तीर्थस्नानैर्न शुद्ध्यति .
शतशोऽपि जलैर्धौतं सुराभाण्डमिवशुचि .. ५४..
विषुवायनकालेषु ग्रहणे चान्तरे सदा .
वाराणस्यादिके स्थाने स्नात्वा शुद्धो भवेन्नरः .. ५५..
ज्ञानयोगपराणां तु पादप्रक्षालितं जलम् .
भावशुद्ध्यर्थमज्ञानां तत्तीर्थं मुनिपुङ्गव .. ५६..
तीर्थे ज्ञाने जपे यज्ञे काष्ठे पाषाणके सदा .
शिवं पश्यति मूढात्मा शिवे देहे प्रतिष्ठिते .. ५७..
अन्तस्थं मां परित्यज्य बहिष्ठं यस्तु सेवते .
हस्तस्थं पिण्डमुत्सृज्य लिहेत्कूर्परमात्मनः .. ५८..
शिवमात्मनि पश्यन्ति प्रतिमासु न योगिनः .
अज्ञानं भावनार्थाय प्रतिमाः परिकल्पिताः .. ५९..
अपूर्वमपरं ब्रह्म स्वात्मानं सत्यमद्वयम् .
प्रज्ञानघनमानन्दं यः पश्यति स पश्यति .. ६०..
नाडीपुञ्जं सदा सारं नरभावं महामुने .
समुत्सृज्यात्मनात्मानमहमित्येव धारय .. ६१..
अशरीरं शरीरेषु महान्तं विभुमीश्वरम् .
आनन्दमक्षरं साक्षान्मत्वा धीरो न शोचति .. ६२..
विभेदजनके ज्ञाने नष्टे ज्ञानबलान्मुने .
आत्मनो ब्रह्मणो भेदमसन्तं किं करिष्यति .. ६३.. इति..
इति चतुर्थः खण्डः .. ४..
सम्यक्कथय मे ब्रह्मनाडीशुद्धिं समासतः .
यथा शुद्ध्या सदा ध्यायञ्जीवन्मुक्तो भवाम्यहम् .. १..
सांकृते श्रुणु वक्ष्यामि नाडीशुद्धिं समासतः .
विध्युक्तकर्मसंयुक्तः कामसंकल्पवर्जितः .. २..
यमाद्यष्टाङ्गसंयुक्तः शान्तः सत्यपरायणः .
स्वात्मन्यवस्थितः सम्यग्ज्ञानिभिश्च सुशिक्षितः .. ३..
पर्वताग्रे नदीतीरे बिल्वमूले वनेऽथवा .
मनोरमे शुचौ देशे मठं कृत्वा समाहितः .. ४..
आरभ्य चासनं पश्चात्प्राङ्मुखोदङ्मुखोऽपि वा .
समग्रीवशिरःकायः संवृतास्यः सुनिश्चलः .. ५..
नासाग्रे शशभृद्बिम्बे बिन्दुमध्ये तुरीयकम् .
स्रवन्तममृतं पश्येन्नेत्राभ्यां सुसमाहितः .. ६..
इडया प्राणमाकृष्य पूरयित्वोदरे स्थितम् .
ततोऽग्निं देहमध्यस्थं ध्यायञ्ज्वालावलीयुतम् .. ७..
बिन्दुनादसमायुक्तमग्निबीजं विचिन्तयेत् .
पश्चाद्विरेचयेत्सम्यक्प्राणं पिङ्गलया बुधः .. ८..
पुनः पिङ्गलयापूर्य वह्निबीजमनुस्मरेत् .
पुनर्विरचयेद्धीमानिडयैव शनैः शनैः .. ९..
त्रिचतुर्वासरं वाथ त्रिचतुर्वारमेव च .
षट्कृत्वा विचरेन्नित्यं रहस्येवं त्रिसन्धिषु .. १०..
नाडीशुद्धिमवाप्नोति पृथक् चिह्नोपलक्षितः .
शरीरलघुता दीप्तिर्वह्नेर्जाठरवर्तिनः .. ११..
नादाभिव्यक्तिरित्येतच्चिह्नं तत्सिद्धिसूचकम् .
यावदेतानि संपश्येत्तावदेवं समाचरेत् .. १२..
अथवैतत्परित्यज्य स्वात्मशुद्धिं समाचरेत् .
आत्मा शुद्धः सदा नित्यः सुखरूपः स्वयंप्रभः .. १३..
अज्ञानान्मलिनो भाति ज्ञानच्छुद्धो भवत्ययम् .
अज्ञानमलपङ्कं यः क्षालयेज्ज्ञानतो यतः .
स एव सर्वदा शुद्धो नान्यः कर्मरतो हि सः .. १४.. इति..
इति पञ्चमः खण्डः .. ५..
प्राणायामक्रमं वक्ष्ये सांकृते श्रुणु सादरम् .
प्राणायाम इति प्रोक्तो रेचपूरककुम्भकैः .. १..
वर्णत्रयात्मकाः प्रोक्ता रेचपूरककुम्भकाः .
स एष प्रणवः प्रोक्तः प्राणायामस्तु तन्मयः .. २..
इडया वायुमाकृष्य पूरयित्वोदरे स्थितम् .
शनैः षोडशभिर्मात्रैरकारं तत्र संस्मरेत् .. ३..
पूरितं धारयेत्पश्चाच्चतुःषष्ट्या तु मात्रया .
उकारमूर्तिमन्त्रापि संस्मरन्प्रणवं जपेत् .. ४..
यावद्वा शक्यते तावद्धारयेज्जपतत्परः .
पूरितं रेचयेत्पश्चान्मकारेणानिलं बुधः .. ५..
शनैः पिङ्गलया तत्र द्वात्रिंशन्मात्रया पुनः .
प्राणायामो भवेदेवं ततश्चैवं समभ्यसेत् .. ६..
पुनः पिङ्गलयापूर्य मात्रैः षोडशभिस्तथा .
अकारमूर्तिमत्रापि स्मरेदेकाग्रमानसः .. ७..
धारयेत्पूरितं विद्वान्प्रणवं संजपन्वशी .
उकारमूर्तिं स ध्यायंश्चतुःषष्ट्या तु मात्रया .. ८..
मकारं तु स्मरन्पश्चाद्रेचयेदिडयानिलम् .
एवमेव पुनः कुर्यादिडयापूर्य बुद्धिमान् .. ९..
एवं समभ्यसेन्नित्यं प्राणायामं मुनीश्वर .
एवमभ्यासतो नित्यं षण्मासाद्यत्नवान्भवेत् .. १०..
वत्सराद्ब्रह्मविद्वान्स्यात्तस्मान्नित्यं समभ्यसेत् .
योगाभ्यासरतो नित्यं स्वधर्मनिरतश्च यः .. ११..
प्राणसंयमनेनैव ज्ञानान्मुक्तो भविष्यति .
बाह्यादापूरणं वायोःरुदरे पूरको हि सः .. १२..
संपूर्णकुम्भवद्वायोर्धारणं कुम्भको भवेत् .
बहिर्विरचनं वायोरुदराद्रचेकः स्मृतः .. १३..
प्रस्वेदजनको यस्तु प्राणायामेषु सोऽधमः .
कंपनं मध्यमं विद्यादुत्थानं चोत्तमं विदुः .. १४..
पूर्वंपूर्वं प्रकुर्वीत यावदुत्थानसंभवः .
संभवत्युत्तमे प्राज्ञः प्राणायामे सुखी भवेत् .. १५..
प्राणायमेन चित्तं तु शुद्धं भवति सुव्रत .
चित्ते शुद्धे शुचिः साक्षात्प्रत्यग्ज्योतिर्व्यवस्थितः .. १६..
प्राणश्चित्तेन संयुक्तः परमात्मनि तिष्ठति .
प्राणायामपरस्यास्य पुरुषस्य महात्मनः .. १७..
देहश्चोत्तिष्ठते तेन किंचिज्ज्ञानाद्विमुक्तता .
रेचकं पूरकं मुक्त्वा कुम्भकं नित्यमभ्यसेत् .. १८..
सर्वपापविनिर्मुक्तः सम्यग्ज्ञानमवाप्नुयात् .
मनोजवत्वमाप्नोति पलितादि च नश्यति .. १९..
प्राणायामैकनिष्ठस्य न किंचिदपि दुर्लभम् .
तस्मात्सर्वप्रयत्नेन प्राणायामान्समभ्यसेत् .. २०..
विनियोगान्प्रवक्ष्यामि प्राणायामस्य सुव्रत .
सन्ध्ययोर्ब्राह्मकालेऽपि मध्याह्ने वाथवा सदा .. २१..
बाह्यं प्राणं समाकृष्य पूरयित्वोदरेण च .
नासाग्रे नाभिमध्ये च पादाङ्गुष्ठे च धारयेत् .. २२..
सर्वरोगविनिर्मुक्तो जीवेद्वर्षशतं नरः .
नासाग्रधारणाद्वापि जितो भवति सुव्रत .. २३..
सर्वरोगनिवृत्तिः स्यान्नाभिमध्ये तु धारणात् .
शरीरलघुता विप्र पादाङ्गुष्ठनिरोधनात् .. २४..
जिह्वया वायुमाकृष्य यः पिबेत्सततं नरः .
श्रमदाहविनिर्मुक्तो योगी नीरोगतामियात् .. २५..
जिह्वया वायुमाकृष्य जिह्वामूले निरोधयेत् .
पिबेदमृतमव्यग्रं सकलं सुखमाप्नुयात् .. २६..
इडया वायुमाकृष्य भ्रुवोर्मध्ये निरोधयेत् .
यः पिबेदमृतं शुद्धं व्याधिभिर्मुच्यते हि सः .. २७..
इडया वेदतत्त्वज्ञस्तथा पिङ्गलयैव च .
नाभौ निरोधयेत्तेन व्याधिभिर्मुच्यते नरः .. २८..
मासमात्रं त्रिसन्ध्यायां जिह्वयारोप्य मारुतम् .
अमृतं च पिबेन्नाभौ मन्दंमन्दं निरोधयेत् .. २९..
वातजाः पित्तजा दोषा नश्यन्त्येव न संशयः .
नासाभ्यां वायुमाकृष्य नेत्रद्वन्द्वे निरोधयेत् .. ३०..
नेत्ररोगा विनश्यन्ति तथा श्रोत्रनिरोधनात् .
तथा वायुं समारोप्य धारयेच्छिरसि स्थितम् .. ३१..
शिरोरोगा विनश्यन्ति सत्यमुक्तं हि सांकृते .
स्वस्तिकासनमास्थाय समाहितमनास्तथा .. ३२..
अपानमूर्ध्वमुत्थाप्य प्रणवेन शनैः शनैः .
हस्ताभ्यां धारयेत्सम्यक्कर्णादिकरणानि च .. ३३..
अङ्गुष्ठाभ्यां मुने श्रोत्रे तर्जनीभ्यां तु चक्षुषी .
नासापुटवधानाभ्यां प्रच्छाद्य करणानि वै .. ३४..
आनन्दाविर्भवो यावत्तावन्मूर्धनि धारणात् .
प्राणः प्रयात्यनेनैव ब्रह्मरन्ध्रं महामुने .. ३५..
ब्रह्मरन्ध्रं गते वायौ नादश्चोत्पद्यतेऽनघ .
शङ्खध्वनिनिभश्चादौ मध्ये मेघध्वनिर्यथा .. ३६..
शिरोमध्यगते वायौ गिरिप्रस्रवणं यथा .
पश्चात्प्रीतो महाप्राज्ञः साक्षादात्मोन्मुखो भवेत् .. ३७..
पुनस्तज्ज्ञाननिष्पत्तिर्योगात्संसारनिह्नुतिः .
दक्षिणोत्तरगुल्फेन सीविनीं पीडयेत्स्थिरम् .. ३८..
सव्येतरेण गुल्फेन पीडयेद्बुद्धिमान्नरः .
जान्वोरधः स्थितां सन्धिं स्मृत्वा देवं त्रियम्बकम् .. ३९..
विनायकं च संस्मृत्य तथा वागीश्वरीं पुनः .
लिङ्गनालात्समाकृष्य वायुमप्यग्रतो मुने .. ४०..
प्रणवेन नियुक्तेन बिन्दुयुक्तेन बुद्धिमान् .
मूलाधारस्य विप्रेन्द्र मध्ये तं तु निरोधयेत् .. ४१..
निरुध्य वायुना दीप्तो वह्निरूहति कुण्डलीम् .
पुनः सुषुम्नया वायुर्वह्निना सह गच्छति .. ४२..
एवमभ्यासतस्तस्य जितो वायुर्भवेद्भृशम् .
प्रस्वेदः प्रथमः पश्चात्कम्पनं मुनिपुङ्गव .. ४३..
उत्थानं च शरीरस्य चिह्नमेतज्जितेऽनले .
एवमभ्यासतस्तस्य मूलरोगो विनश्यति .. ४४..
भगन्दरं च नष्टं स्यात्सर्वरोगाश्च सांकृते .
पातकानि विनश्यन्ति क्षुद्राणि च महान्ति च .. ४५..
नष्टे पापे विशुद्धं स्याच्चित्तदर्पणमद्भुतम् .
पुनर्ब्रह्मादिभोगेभ्यो वैराग्यं जयते हृदि .. ४६..
विरक्तस्य तु संसाराज्ज्ञानं कैवल्यसाधनम् .
तेन पापापहानिः स्याज्ज्ञात्वा देवं सदाशिवम् .. ४७..
ज्ञानामृतरसो येन सकृदास्वादितो भवेत् .
स सर्वकार्यमुत्सृज्य तत्रैव परिधावति .. ४८..
ज्ञानस्वरूपमेवाहुर्जगदेतद्विलक्षणम् .
अर्थस्वरूपमज्ञानात्पश्यन्त्यन्ये कुदृष्टयः .. ४९..
आत्मस्वरूपविज्ञानादज्ञानस्य परिक्षयः .
क्षीणेऽज्ञाने महाप्राज्ञ रागादीनां परिक्षयः .. ५०..
रागाद्यसंभवे प्राज्ञ पुण्यपापविमर्दनम् .
तयोर्नाशे शरीरेण न पुनः संप्रयुज्यते .. ५१.. इति..
इति षष्ठः खण्डः .. ६..
अथातः संप्रवक्ष्यामि प्रत्याहारं महामुने .
इन्द्रियाणां विचरतां विषयेषु स्वभावतः .. १..
बलादाहरणां तेषां प्रत्याहारः स उच्यते .
यत्पश्यति तु तत्सर्वं ब्रह्म पश्यन्समाहितः .. २..
प्रत्याहारो भवेदेष ब्रह्मविद्भिः पुरोदितः .
यद्यच्छुद्धमशुद्धं वा करोत्यामरणान्तिकम् .. ३..
तत्सर्वं ब्रह्मणे कुर्यात्प्रत्याहारः स उच्यते .
अथवा नित्यकर्माणि ब्रह्माराधनबुद्धितः .. ४..
काम्यानि च तथा कुर्यात्प्रत्याहारः स उच्यते .
अथवा वायुमाकृष्य स्थानात्स्थानं निरोधयेत् .. ५..
दन्तमूलात्तथा कण्ठे कण्ठादुरसि मारुतम् .
उरोदेशात्समाकृष्य नाभिदेशे निरोधयेत् .. ६..
नाभिदेशात्समाकृष्य कुण्डल्यां तु निरोधयेत् .
कुण्डलीदेशतो विद्वान्मूलाधारे निरोधयेत् .. ७..
अथापानात्कटिद्वन्द्वे तथोरौ च सुमध्यमे .
तस्माज्जानुद्वये जङ्घे पादाङ्गुष्ठे निरोधयेत् .. ८..
प्रत्याहारोऽयमुक्तस्तु प्रत्याहारस्मरैः पुरा .
एवमभ्यासयुक्तस्य पुरुषस्य महात्मनः .. ९..
सर्वपापानि नश्यन्ति भवरोगश्च सुव्रत .
नासाभ्यां वायुमाकृष्य निश्चलः स्वस्तिकासनः .. १०..
पूरयेदनिलं विद्वानापादतलमस्तकम् .
पश्चात्पादद्वये तद्वन्मूलाधरे तथैव च .. ११..
नाभिकन्दे च हृन्मध्ये कण्ठमूले च तालुके .
भ्रुवोर्मध्ये ललाटे च तथा मूर्धनि धारयेत् .. १२..
देहे स्वात्ममतिं विद्वान्समाकृष्य समाहितः .
आत्मनात्मनि निर्द्वन्द्वे निर्विकल्पे निरोधयेत् .. १३..
प्रत्याहारः समाख्यातः साक्षाद्वेदान्तवेदिभिः .
एवमभ्यसतस्तस्य न किंचिदपि दुर्लभम् .. १४.. इति..
इति सप्तमः खण्डः .. ७..
अथातः संप्रवक्ष्यामि धारणाः पञ्च सुव्रत .
देहमध्यगते व्योम्नि बाह्याकाशं तु धारयेत् .. १..
प्राणे बाह्यानिलं तद्वज्ज्वलने चाग्निमौदरे .
तोयं तोयांशके भूमिं भूमिभागे महामुने .. २..
हयवरलकाराख्यं मन्त्रमुच्चारयेत्क्रमात् .
धारणैषा परा प्रोक्ता सर्वपापविशोधिनी .. ३..
जान्वन्तं पृथिवी ह्यंशो ह्यपां पय्वन्तमुच्यते .
हृदयांशस्तथाग्नंशो भ्रूमध्यान्तोऽनिलांशकः .. ४..
आकाशांशस्तथा प्राज्ञ मूर्धांशः परिकीर्तितः .
ब्रह्माणं पृथिवीभागे विष्णुं तोयांशके तथा .. ५..
अग्न्यंशे चे महेशानमीश्वरं चानिलांशके .
आकाशांशे महाप्राज्ञ धारयेत्तु सदाशिवम् .. ६..
अथवा तव वक्ष्यामि धारणां मुनिपुङ्गव .
पुरुषे सर्वशास्तारं बोधानन्दमयं शिवम् .. ७..
धारयेद्बुद्धिमान्नित्यं सर्वपापविशुद्धये .
ब्रह्मादिकार्यरूपाणि स्वे स्वे संहृत्य कारणे .. ८..
सर्वकारणमव्यक्तमनिरूप्यमचेतनम् .
साक्षादात्मनि संपूर्णे धारयेत्प्रणवेन तु .
इन्द्रियाणि समाहृत्य मनसात्मनि योजयेत् .. ९.. इति..
इत्यष्टमः खण्डः .. ८..
अथातः संप्रवक्ष्यामि ध्यानं संसारनाशनम् .
ऋतं सत्यं परं ब्रह्म सर्वसंसारभेषजम् .. १..
ऊर्ध्वरेतं विश्वरूपं विरूपाक्षं महेश्वरम् .
सोऽहमित्यादरेणैव ध्यायेदोगीश्वरेश्वरम् .. २..
अथवा सत्यमीशानं ज्ञानमानन्दमद्वयम् .
अत्यर्थमचलं नित्यमादिमध्यान्तवर्जितम् .. ३..
तथा स्थूलमनाकाशमसंस्पृश्यमचाक्षुषम् .
न रसं न च गन्धाख्यमप्रमेयमनूपमम् .. ४..
आत्मानं सच्चिदानन्दमनन्तं ब्रह्म सुव्रत .
अहमस्मीत्यभिध्यायेद्ध्येयातीतं विमुक्तये .. ५..
एवमभ्यासयुक्तस्य पुरुषस्य महात्मनः .
क्रमाद्वेदान्तविज्ञानं विजायेत न संशयः .. ६.. इति..
इति नवमः खण्डः .. ९..
अथातः संप्रवक्ष्यामि समाधिं भवनाशनम् .
समाधिः संविदुत्पत्तिः परजीवैकतां प्रति .. १..
नित्यः सर्वगतो ह्यात्मा कूटस्थो दोषवर्जितः .
एकः सन्भिद्यते भ्रान्त्या मायया न स्वरूपतः .. २..
तस्मादद्वैतमेवास्ति न प्रपञ्चो न संसृतिः .
यथाकाशो घटाकाशो मठाकाश इतीरितः .. ३..
तथा भ्रान्तैर्द्विधा प्रोक्तो ह्यात्मा जीवेश्वरात्मना .
नाहं देहो न च प्राणो नेन्द्रियाणि मनो नहि .. ४..
सदा साक्षिस्वरूपत्वाच्छिव एवास्मि केवलः .
इति धीर्या मुनिश्रेष्ठ सा समाधिरिहोच्यते .. ५..
साहं ब्रह्म न संसारी न मत्तोऽन्यः कदाचन .
यथा फेनतरङ्गादि समुद्रादुत्थितं पुनः .. ६..
समुद्रे लीयते तद्वज्जगन्मय्यनुलीयते .
तस्मान्मनः पृथङ् नास्ति जगन्माया च नास्ति हि .. ७..
यस्यैवं परमात्मायं प्रत्यग्भूतः प्रकाशितः .
स तु याति च पुंभावं स्वयं साक्षात्परामृतम् .. ८..
यदा मनसि चैतन्यं भाति सर्वत्रगं सदा .
योगिनोऽव्यवधानेन तदा संपद्यते स्वयम् .. ९..
यदा सर्वाणि भूतानि स्वात्मन्येव हि पश्यति .
सर्वभूतेषु चात्मानं ब्रह्म संपद्यते तदा .. १०..
यदा सर्वाणि भूतानि समाधिस्थो न पश्यति .
एकीभूतः परेणाऽसौ तदा भवति केवलः .. ११..
यदा पश्यति चात्मानं केवलं परमार्थतः .
मायामात्रं जगत्कृत्स्नं तदा भवति निर्वृतिः .. १२..
एवमुक्त्वा स भगवान्दत्तात्रेयो महामुनिः .
सांकृतिः स्वस्वरूपेण सुखमास्तेऽतिनिर्भयः .. १३.. इति..
इति दशमः खण्डः .. १०..
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च ..
सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म
निराकरोदनिराकरणमस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु
धर्मास्ते मयि सन्तु ते मयि सन्तु ..
ॐ शान्तिः शान्तिः शान्तिः .. हरिः ॐ तत्सत् ..
इति श्रीजाबालदर्शनोपनिषत्समाप्ता ..
Encoded by Sunder Hattangadi (sunderh@hotmail.com)
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com