.. द्वादश ज्योतिर्लिङ्गानि ..
द्वादश ज्योतिर्लिङ्गानि
सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् |
उज्जयिन्यां महाकालमोङ्कारममलेश्वरम् ||
परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करम् |
सेतुबन्धे तु रामेशं नागेशं दारुकावने ||
वाराणस्यां तु विश्वेशं त्र्यम्बकं गौतमीतटे |
हिमालये तु केदारं घुश्मेशं च शिवालये ||
एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः |
सप्तजन्मकृतं पापं स्मरणेन विनश्यति ||
एतेशां दर्शनादेव पातकं नैव तिष्ठति |
कर्मक्षयो भवेत्तस्य यस्य तुष्टो महेश्वराः ||
Encoded by Subramanian Ganesh sgesh@hotmail.com and Ashish Chandra
ashish\_chandr70@hotmail.com
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com