.. कलिसन्तरन ..
कलिसन्तरनोपनिषत्
ॐ सह नाववतु . सह नौ भुनक्तु .
सह वीर्यंकरवावहै .
तेजस्विनावधीतमस्तु मा विद्विषावहै .
ॐ शान्तिः शान्तिः शान्तिः .
हरिः ॐ . द्वापरान्ते नारदो ब्रह्माणं जगाम कथं भगवन् गां
पर्यटन् कलिं सन्तरेयमिति .
स होवाच ब्रह्मा साधु पृष्टोऽस्मि सर्वश्रुतिरहस्यं गोप्यं
तच्छृणु येन कलिसंसारं तरिष्यसि .
भगवत आदिपुरुषस्य नारायनस्य नामोच्चारणमात्रेण
निर्धृतकलिर्भवतीति .. १..
नारदः पुनः पप्रच्छ तन्नाम किमिति . स होवाच हिरण्यगर्भः .
हरे राम हरे राम राम राम हरे हरे .
हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे ..
इति षोडशकं नाम्नां कलिकल्मषनाशनम् .
नातः परतरोपायः सर्ववेदेषु दृश्यते ..
षोडशकलावृतस्य जीवस्यावरणविनाशनम् .
ततः प्रकाशते परं ब्रह्म मेघापाये रविरश्मिमण्डलीवेति .. २..
पुनर्नारदः पप्रच्छ भगवन् कोऽस्य विधिरिति .
तं होवाच नास्य विधिरिति .
सर्वदा शुचिरशुचिर्वा पठन् ब्राह्मणः सलोकतां समीपतां
सरूपतां सायुज्यमेति .
यदास्य षोडशकस्य सार्धत्रिकोटीर्जपति तदा ब्रह्महत्यां तरति .
तरति वीरहत्याम् .
स्वर्णस्तेयात् पूतो भवति .
वृषलीगमनात् पूतो भवति .
पितृदेवमनुष्याणामपकारात् पूतो भवति .
सर्वधर्मपरित्यागपापात् सद्यः शुचितामाप्नुयात् .
सद्यो मुच्यते सद्यो मुच्यते इत्युपनिषत् .. ३..
ॐ सह नाववतु . सह नौ भुनक्तु .
सह वीर्यंकरवावहै .
तेजस्विनावधीतमस्तु मा विद्विषावहै .
ॐ शान्तिः शान्तिः शान्तिः .
Kaaliisantaranopan\dsadtransliterated by: Anshuman Pandey [\emphapandey@u.washington.edu]22 August 1996
Proofread by: Vijay Pai [phvijaypai@rice.edu]
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com