.. कठोपनिषत् ..
ॐ
.. अथ कठोपनिषद् ..
ॐ सह नाववतु . सह नौ भुनक्तु . सहवीर्यं करवावहै .
तेजस्वि नावधीतमस्तु . मा विद्विषावहै ..
ॐ शान्तिः शान्तिः शान्तिः ..
Part I
Canto I
ॐ उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ .
तस्य ह नचिकेता नाम पुत्र आस .. १..
तँ ह कुमारँ सन्तं दक्षिणासु
नीयमानासु श्रद्धाविवेश सोऽमन्यत .. २..
पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः .
अनन्दा नाम ते लोकास्तान् स गच्छति ता ददत् .. ३..
स होवाच पितरं तत कस्मै मां दास्यसीति .
द्वितीयं तृतीयं तँ होवाच मृत्यवे त्वा ददामीति .. ४..
बहूनामेमि प्रथमो बहूनामेमि मध्यमः .
किँ स्विद्यमस्य कर्तव्यं यन्मयाऽद्य करिष्यति .. ५..
अनुपश्य यथा पूर्वे प्रतिपश्य तथाऽपरे .
सस्यमिव मर्त्यः पच्यते सस्यमिवाजायते पुनः .. ६..
वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहान् .
तस्यैताँ शान्तिं कुर्वन्ति हर वैवस्वतोदकम् .. ७..
आशाप्रतीक्षे संगतँ सूनृतां
चेष्टापूर्ते पुत्रपशूँश्च सर्वान् .
एतद्वृङ्क्ते पुरुषस्याल्पमेधसो
यस्यानश्नन्वसति ब्राह्मणो गृहे .. ८..
तिस्रो रात्रीर्यदवात्सीर्गृहे मे-
ऽनश्नन् ब्रह्मन्नतिथिर्नमस्यः .
नमस्तेऽस्तु ब्रह्मन् स्वस्ति मेऽस्तु
तस्मात्प्रति त्रीन्वरान्वृणीष्व .. ९..
शान्तसंकल्पः सुमना यथा स्याद्
वीतमन्युर्गौतमो माऽभि मृत्यो .
त्वत्प्रसृष्टम् माऽभिवदेत्प्रतीत
एतत् त्रयाणां प्रथमं वरं वृणे .. १०..
यथा पुरस्ताद् भविता प्रतीत
औद्दालकिरारुणिर्मत्प्रसृष्टः .
सुखँ रात्रीः शयिता वीतमन्युः
त्वां ददृशिवान्मृत्युमुखात् प्रमुक्तम् .. ११..
स्वर्गे लोके न भयं किंचनास्ति
न तत्र त्वं न जरया बिभेति .
उभे तीर्त्वाऽशनायापिपासे
शोकातिगो मोदते स्वर्गलोके .. १२..
स त्वमग्निँ स्वर्ग्यमध्येषि मृत्यो
प्रब्रूहि त्वँ श्रद्दधानाय मह्यम् .
स्वर्गलोका अमृतत्वं भजन्त
एतद् द्वितीयेन वृणे वरेण .. १३..
प्र ते ब्रवीमि तदु मे निबोध
स्वर्ग्यमग्निं नचिकेतः प्रजानन् .
अनन्तलोकाप्तिमथो प्रतिष्ठां
विद्धि त्वमेतं निहितं गुहायाम् .. १४..
लोकादिमग्निं तमुवाच तस्मै
या इष्टका यावतीर्वा यथा वा .
स चापि तत्प्रत्यवदद्यथोक्तं
अथास्य मृत्युः पुनरेवाह तुष्टः .. १५..
तमब्रवीत् प्रीयमाणो महात्मा
वरं तवेहाद्य ददामि भूयः .
तवैव नाम्ना भविताऽयमग्निः
सृङ्कां चेमामनेकरूपां गृहाण .. १६..
त्रिणाचिकेतस्त्रिभिरेत्य सन्धिं
त्रिकर्मकृत्तरति जन्ममृत्यू .
ब्रह्मजज्ञं देवमीड्यं विदित्वा
निचाय्येमाँ शान्तिमत्यन्तमेति .. १७..
त्रिणाचिकेतस्त्रयमेतद्विदित्वा
य एवं विद्वाँश्चिनुते नाचिकेतम् .
स मृत्युपाशान् पुरतः प्रणोद्य
शोकातिगो मोदते स्वर्गलोके .. १८..
एष तेऽग्निर्नचिकेतः स्वर्ग्यो
यमवृणीथा द्वितीयेन वरेण .
एतमग्निं तवैव प्रवक्ष्यन्ति जनासः
तृतीयं वरं नचिकेतो वृणीष्व .. १९..
येयं प्रेते विचिकित्सा मनुष्ये-
ऽस्तीत्येके नायमस्तीति चैके .
एतद्विद्यामनुशिष्टस्त्वयाऽहं
वराणामेष वरस्तृतीयः .. २०..
देवैरत्रापि विचिकित्सितं पुरा
न हि सुविज्ञेयमणुरेष धर्मः .
अन्यं वरं नचिकेतो वृणीष्व
मा मोपरोत्सीरति मा सृजैनम् .. २१..
देवैरत्रापि विचिकित्सितं किल
त्वं च मृत्यो यन्न सुज्ञेयमात्थ .
वक्ता चास्य त्वादृगन्यो न लभ्यो
नान्यो वरस्तुल्य एतस्य कश्चित् .. २२..
शतायुषः पुत्रपौत्रान्वृणीष्वा
बहून्पशून् हस्तिहिरण्यमश्वान् .
भूमेर्महदायतनं वृणीष्व
स्वयं च जीव शरदो यावदिच्छसि .. २३..
एतत्तुल्यं यदि मन्यसे वरं
वृणीष्व वित्तं चिरजीविकां च .
महाभूमौ नचिकेतस्त्वमेधि
कामानां त्वा कामभाजं करोमि .. २४..
ये ये कामा दुर्लभा मर्त्यलोके
सर्वान् कामाँश्छन्दतः प्रार्थयस्व .
इमा रामाः सरथाः सतूर्या
न हीदृशा लम्भनीया मनुष्यैः .
आभिर्मत्प्रत्ताभिः परिचारयस्व
नचिकेतो मरणं माऽनुप्राक्षीः .. २५..
श्वोभावा मर्त्यस्य यदन्तकैतत्
सर्वेंद्रियाणां जरयंति तेजः .
अपि सर्वं जीवितमल्पमेव
तवैव वाहास्तव नृत्यगीते .. २६..
न वित्तेन तर्पणीयो मनुष्यो
लप्स्यामहे वित्तमद्राक्ष्म चेत्त्वा .
जीविष्यामो यावदीशिष्यसि त्वं
वरस्तु मे वरणीयः स एव .. २७..
अजीर्यताममृतानामुपेत्य
जीर्यन्मर्त्यः क्वधःस्थः प्रजानन् .
अभिध्यायन् वर्णरतिप्रमोदान्
अतिदीर्घे जीविते को रमेत .. २८..
यस्मिन्निदं विचिकित्सन्ति मृत्यो
यत्साम्पराये महति ब्रूहि नस्तत् .
योऽयं वरो गूढमनुप्रविष्टो
नान्यं तस्मान्नचिकेता वृणीते .. २९..
.. इति काठकोपनिषदि प्रथमाध्याये प्रथमा वल्ली ..
Part I
Canto II
अन्यच्छ्रेयोऽन्यदुतैव प्रेय-
स्ते उभे नानार्थे पुरुषँ सिनीतः .
तयोः श्रेय आददानस्य साधु
भवति हीयतेऽर्थाद्य उ प्रेयो वृणीते .. १..
श्रेयश्च प्रेयश्च मनुष्यमेतः
तौ सम्परीत्य विविनक्ति धीरः .
श्रेयो हि धीरोऽभि प्रेयसो वृणीते
प्रेयो मन्दो योगक्षेमाद्वृणीते .. २..
स त्वं प्रियान्प्रियरूपांश्च कामान्
अभिध्यायन्नचिकेतोऽत्यस्राक्षीः .
नैतां सृङ्कां वित्तमयीमवाप्तो
यस्यां मज्जन्ति बहवो मनुष्याः .. ३..
दूरमेते विपरीते विषूची
अविद्या या च विद्येति ज्ञाता .
विद्याभीप्सिनं नचिकेतसं मन्ये
न त्वा कामा बहवोऽलोलुपन्त .. ४..
अविद्यायामन्तरे वर्तमानाः
स्वयं धीराः पण्डितंमन्यमानाः .
दन्द्रम्यमाणाः परियन्ति मूढा
अन्धेनैव नीयमाना यथान्धाः .. ५..
न साम्परायः प्रतिभाति बालं
प्रमाद्यन्तं वित्तमोहेन मूढम् .
अयं लोको नास्ति पर इति मानी
पुनः पुनर्वशमापद्यते मे .. ६..
श्रवणायापि बहुभिर्यो न लभ्यः
शृण्वन्तोऽपि बहवो यं न विद्युः .
आश्चर्यो वक्ता कुशलोऽस्य लब्धा
आश्चर्यो ज्ञाता कुशलानुशिष्टः .. ७..
न नरेणावरेण प्रोक्त एष
सुविज्ञेयो बहुधा चिन्त्यमानः .
अनन्यप्रोक्ते गतिरत्र नास्ति
अणीयान् ह्यतर्क्यमणुप्रमाणात् .. ८..
नैषा तर्केण मतिरापनेया
प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ .
यां त्वमापः सत्यधृतिर्बतासि
त्वादृङ्नो भूयान्नचिकेतः प्रष्टा .. ९..
जानाम्यहं शेवधिरित्यनित्यं
न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत् .
ततो मया नाचिकेतश्चितोऽग्निः
अनित्यैर्द्रव्यैः प्राप्तवानस्मि नित्यम् .. १०..
कामस्याप्तिं जगतः प्रतिष्ठां
क्रतोरानन्त्यमभयस्य पारम् .
स्तोममहदुरुगायं प्रतिष्ठां दृष्ट्वा
धृत्या धीरो नचिकेतोऽत्यस्राक्षीः .. ११..
तं दुर्दर्शं गूढमनुप्रविष्टं
गुहाहितं गह्वरेष्ठं पुराणम् .
अध्यात्मयोगाधिगमेन देवं
मत्वा धीरो हर्षशोकौ जहाति .. १२..
एतच्छ्रुत्वा सम्परिगृह्य मर्त्यः
प्रवृह्य धर्म्यमणुमेतमाप्य .
स मोदते मोदनीयँ हि लब्ध्वा
विवृतँ सद्म नचिकेतसं मन्ये .. १३..
अन्यत्र धर्मादन्यत्राधर्मा-
दन्यत्रास्मात्कृताकृतात् .
अन्यत्र भूताच्च भव्याच्च
यत्तत्पश्यसि तद्वद .. १४..
सर्वे वेदा यत्पदमामनन्ति
तपाँसि सर्वाणि च यद्वदन्ति .
यदिच्छन्तो ब्रह्मचर्यं चरन्ति
तत्ते पदँ संग्रहेण ब्रवीम्योमित्येतत् .. १५..
एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम् .
एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् .. १६..
एतदालम्बनँ श्रेष्ठमेतदालम्बनं परम् .
एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते .. १७..
न जायते म्रियते वा विपश्चिन्
नायं कुतश्चिन्न बभूव कश्चित् .
अजो नित्यः शाश्वतोऽयं पुराणो
न हन्यते हन्यमाने शरीरे .. १८..
हन्ता चेन्मन्यते हन्तुँ हतश्चेन्मन्यते हतम् .
उभौ तौ न विजानीतो नायँ हन्ति न हन्यते .. १९..
अणोरणीयान्महतो महीया-
नात्माऽस्य जन्तोर्निहितो गुहायाम् .
तमक्रतुः पश्यति वीतशोको
धातुप्रसादान्महिमानमात्मनः .. २०..
आसीनो दूरं व्रजति शयानो याति सर्वतः .
कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति .. २१..
अशरीरँ शरीरेष्वनवस्थेष्ववस्थितम् .
महान्तं विभुमात्मानं मत्वा धीरो न शोचति .. २२..
नायमात्मा प्रवचनेन लभ्यो
न मेधया न बहुना श्रुतेन .
यमेवैष वृणुते तेन लभ्यः
तस्यैष आत्मा विवृणुते तनूँ स्वाम् .. २३..
नाविरतो दुश्चरितान्नाशान्तो नासमाहितः .
नाशान्तमानसो वाऽपि प्रज्ञानेनैनमाप्नुयात् .. २४..
यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः .
मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः .. २५..
इति काठकोपनिषदि प्रथमाध्याये द्वितीया वल्ली ..
Part I
Canto III
ऋतं पिबन्तौ सुकृतस्य लोके
गुहां प्रविष्टौ परमे परार्धे .
छायातपौ ब्रह्मविदो वदन्ति
पञ्चाग्नयो ये च त्रिणाचिकेताः .. १..
यः सेतुरीजानानामक्षरं ब्रह्म यत् परम् .
अभयं तितीर्षतां पारं नाचिकेतँ शकेमहि .. २..
आत्मानँ रथितं विद्धि शरीरँ रथमेव तु .
बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च .. ३..
इन्द्रियाणि हयानाहुर्विषयाँ स्तेषु गोचरान् .
आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः .. ४..
यस्त्वविज्ञानवान्भवत्ययुक्तेन मनसा सदा .
तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः .. ५..
यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा .
तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः .. ६..
यस्त्वविज्ञानवान्भवत्यमनस्कः सदाऽशुचिः .
न स तत्पदमाप्नोति संसारं चाधिगच्छति .. ७..
यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः .
स तु तत्पदमाप्नोति यस्माद्भूयो न जायते .. ८..
विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः .
सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् .. ९..
इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः .
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः .. १०..
महतः परमव्यक्तमव्यक्तात्पुरुषः परः .
पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः .. ११..
एष सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते .
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः .. १२..
यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि .
ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि .. १३..
उत्तिष्ठत जाग्रत
प्राप्य वरान्निबोधत .
क्षुरस्य धारा निशिता दुरत्यया
दुर्गं पथस्तत्कवयो वदन्ति .. १४..
अशब्दमस्पर्शमरूपमव्ययं
तथाऽरसं नित्यमगन्धवच्च यत् .
अनाद्यनन्तं महतः परं ध्रुवं
निचाय्य तन्मृत्युमुखात् प्रमुच्यते .. १५..
नाचिकेतमुपाख्यानं मृत्युप्रोक्तँ सनातनम् .
उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते .. १६..
य इमं परमं गुह्यं श्रावयेद् ब्रह्मसंसदि .
प्रयतः श्राद्धकाले वा तदानन्त्याय कल्पते .
तदानन्त्याय कल्पत इति .. १७..
इति काठकोपनिषदि प्रथमाध्याये तृतीया वल्ली ..
Part II
Canto I
पराञ्चि खानि व्यतृणत् स्वयम्भू-
स्तस्मात्पराङ्पश्यति नान्तरात्मन् .
कश्चिद्धीरः प्रत्यगात्मानमैक्ष-
दावृत्तचक्षुरमृतत्वमिच्छन् .. १..
पराचः कामाननुयन्ति बाला-
स्ते मृत्योर्यन्ति विततस्य पाशम् .
अथ धीरा अमृतत्वं विदित्वा
ध्रुवमध्रुवेष्विह न प्रार्थयन्ते .. २..
येन रूपं रसं गन्धं शब्दान् स्पर्शाँश्च मैथुनान् .
एतेनैव विजानाति किमत्र परिशिष्यते . एतद्वै तत् .. ३..
स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति .
महान्तं विभुमात्मानं मत्वा धीरो न शोचति .. ४..
य इमं मध्वदं वेद आत्मानं जीवमन्तिकात् .
ईशानं भूतभव्यस्य न ततो विजुगुप्सते . एतद्वै तत् .. ५..
यः पूर्वं तपसो जातमद्भ्यः पूर्वमजायत .
गुहां प्रविश्य तिष्ठन्तं यो भूतेभिर्व्यपश्यत . एतद्वै तत् .. ६..
या प्राणेन संभवत्यदितिर्देवतामयी .
गुहां प्रविश्य तिष्ठन्तीं या भूतेभिर्व्यजायत . एतद्वै तत् .. ७..
अरण्योर्निहितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः .
दिवे दिवे ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः . एतद्वै तत् .. ८..
यतश्चोदेति सूर्योऽस्तं यत्र च गच्छति .
तं देवाः सर्वेऽर्पितास्तदु नात्येति कश्चन . एतद्वै तत् .. ९..
यदेवेह तदमुत्र यदमुत्र तदन्विह .
मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति .. १०..
मनसैवेदमाप्तव्यं नेह नानाऽस्ति किंचन .
मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति .. ११..
अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति .
ईशानं भूतभव्यस्य न ततो विजुगुप्सते . एतद्वै तत् .. १२..
अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः .
ईशानो भूतभव्यस्य स एवाद्य स उ श्वः . एतद्वै तत् .. १३..
यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति .
एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति .. १४..
यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति .
एवं मुनेर्विजानत आत्मा भवति गौतम .. १५..
इति काठकोपनिषदि द्वितीयाध्याये प्रथमा वल्ली ..
Part II
Canto II
पुरमेकादशद्वारमजस्यावक्रचेतसः .
अनुष्ठाय न शोचति विमुक्तश्च विमुच्यते . एतद्वै तत् .. १..
हँसः शुचिषद्वसुरान्तरिक्षसद्-
होता वेदिषदतिथिर्दुरोणसत् .
नृषद्वरसदृतसद्व्योमसद्
अब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् .. २..
ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति .
मध्ये वामनमासीनं विश्वे देवा उपासते .. ३..
अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः .
देहाद्विमुच्यमानस्य किमत्र परिशिष्यते . एतद्वै तत् .. ४..
न प्राणेन नापानेन मर्त्यो जीवति कश्चन .
इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ .. ५..
हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् .
यथा च मरणं प्राप्य आत्मा भवति गौतम .. ६..
योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः .
स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् .. ७..
य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः .
तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते .
तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन . एतद्वै तत् .. ८..
अग्निर्यथैको भुवनं प्रविष्टो
रूपं रूपं प्रतिरूपो बभूव .
एकस्तथा सर्वभूतान्तरात्मा
रूपं रूपं प्रतिरूपो बहिश्च .. ९..
वायुर्यथैको भुवनं प्रविष्टो
रूपं रूपं प्रतिरूपो बभूव .
एकस्तथा सर्वभूतान्तरात्मा
रूपं रूपं प्रतिरूपो बहिश्च .. १०..
सूर्यो यथा सर्वलोकस्य चक्षुः
न लिप्यते चाक्षुषैर्बाह्यदोषैः .
एकस्तथा सर्वभूतान्तरात्मा
न लिप्यते लोकदुःखेन बाह्यः .. ११..
एको वशी सर्वभूतान्तरात्मा
एकं रूपं बहुधा यः करोति .
तमात्मस्थं येऽनुपश्यन्ति धीराः
तेषां सुखं शाश्वतं नेतरेषाम् .. १२..
नित्योऽनित्यानां चेतनश्चेतनानाम्
एको बहूनां यो विदधाति कामान् .
तमात्मस्थं येऽनुपश्यन्ति धीराः
तेषां शान्तिः शाश्वती नेतरेषाम् .. १३..
तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम् .
कथं नु तद्विजानीयां किमु भाति विभाति वा .. १४..
न तत्र सूर्यो भाति न चन्द्रतारकं
नेमा विद्युतो भान्ति कुतोऽयमग्निः .
तमेव भान्तमनुभाति सर्वं
तस्य भासा सर्वमिदं विभाति .. १५..
इति काठकोपनिषदि द्वितीयाध्याये द्वितीया वल्ली ..
Part II
Canto III
ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः .
तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते .
तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन . एतद्वै तत् .. १..
यदिदं किं च जगत् सर्वं प्राण एजति निःसृतम् .
महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति .. २..
भयादस्याग्निस्तपति भयात्तपति सूर्यः .
भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः .. ३..
इह चेदशकद्बोद्धुं प्राक्षरीरस्य विस्रसः .
ततः सर्गेषु लोकेषु शरीरत्वाय कल्पते .. ४..
यथाऽऽदर्शे तथाऽऽत्मनि यथा स्वप्ने तथा पितृलोके .
यथाऽप्सु परीव ददृशे तथा गन्धर्वलोके
छायातपयोरिव ब्रह्मलोके .. ५..
इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत् .
पृथगुत्पद्यमानानां मत्वा धीरो न शोचति .. ६..
इन्द्रियेभ्यः परं मनो मनसः सत्त्वमुत्तमम् .
सत्त्वादधि महानात्मा महतोऽव्यक्तमुत्तमम् .. ७..
अव्यक्तात्तु परः पुरुषो व्यापकोऽलिङ्ग एव च .
यं ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति .. ८..
न संदृशे तिष्ठति रूपमस्य
न चक्षुषा पश्यति कश्चनैनम् .
हृदा मनीषा मनसाऽभिक्लृप्तो
य एतद्विदुरमृतास्ते भवन्ति .. ९..
यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह .
बुद्धिश्च न विचेष्टते तामाहुः परमां गतिम् .. १०..
तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् .
अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ .. ११..
नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा .
अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते .. १२..
अस्तीत्येवोपलब्धव्यस्तत्त्वभावेन चोभयोः .
अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति .. १३..
यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः .
अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते .. १४..
यथा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः .
अथ मर्त्योऽमृतो भवत्येतावद्ध्यनुशासनम् .. १५..
शतं चैका च हृदयस्य नाड्य-
स्तासां मूर्धानमभिनिःसृतैका .
तयोर्ध्वमायन्नमृतत्वमेति
विष्वङ्ङन्या उत्क्रमणे भवन्ति .. १६..
अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा
सदा जनानां हृदये संनिविष्टः .
तं स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवेषीकां धैर्येण .
तं विद्याच्छुक्रममृतं तं विद्याच्छुक्रममृतमिति .. १७..
मृत्युप्रोक्तां नचिकेतोऽथ लब्ध्वा
विद्यामेतां योगविधिं च कृत्स्नम् .
ब्रह्मप्राप्तो विरजोऽभूद्विमृत्यु-
रन्योऽप्येवं यो विदध्यात्ममेव .. १८..
सह नाववतु . सह नौ भुनक्तु . सह वीर्यं करवावहै .
तेजस्विनावधीतमस्तु मा विद्विषावहै .. १९..
ॐ शान्तिः शान्तिः शान्तिः ..
इति काठकोपनिषदि द्वितीयाध्याये तृतीया वल्ली ..
ॐ सह नाववतु . सह नौ भुनक्तु . सहवीर्यं करवावहै .
तेजस्वि नावधीतमस्तु . मा विद्विषावहै ..
ॐ शान्तिः शान्तिः शान्तिः ..
ॐ तत् सत् ..
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com