.. कठरुद्रोपनिषत् ..
परिव्रज्याधर्मपूगालंकारा यत्पदं ययुः .
तदहं कठविद्यार्थं रामचन्द्रपदं भजे ..
ॐ सहनाववतु सह नौ भुनक्तु सह वीर्यं करवावहै ..
तेजस्विनावधीतमस्तु मा विद्विषावहै ..
ॐ शान्तिः शान्तिः शान्तिः ..
हरिः ॐ .. देवा ह वै भगवन्तमब्रुवन्नधीहि भगवन्ब्रह्मविद्याम् .
स प्रजापतिरब्रवीत्सशिखान्केशान्निष्कृत्य विसृज्य यज्ञोपवीतं
निष्कृत्य पुत्रं दृष्ट्वा त्वं ब्रह्मा त्वं यज्ञस्त्वं वषट्कार-
स्त्वमोङ्कारस्त्वं स्वाहा त्वं स्वधा त्वं धाता त्वं विधाता त्वं
प्रतिष्ठाऽसीति वदेत् . अथ पुत्रो वदत्यहं ब्रह्माहं यज्ञोऽहं
वषट्कारोऽहमोंकारोऽहं स्वाहाहं स्वधाहं धाताहं
विधाताहं त्वष्टाहं प्रतिष्ठास्मीति .
तान्येतान्यनुव्रजन्नाश्रुमापातयेत् .
यदश्रुमापातयेत्प्रजां विच्छिन्द्यात् .
प्रदक्षिणमावृत्त्यैतच्चैतच्चानवेक्षमाणाः प्रत्यायन्ति .
स स्वर्ग्यो भवति ब्रह्मचारी वेदमधीत्य वेदोक्ताचरितब्रह्मचर्यो
दारानाहृत्य पुत्रानुत्पाद्य ताननुपादिभिर्वितत्येष्ट्वा च
शक्तितो यज्ञैः . तस्य संन्यासो गुरुभिरनुज्ञातस्य बान्धवैश्च .
सोऽरण्यं परेत्य द्वादशरात्रं पयसाग्निहोत्रं जुहुयात् .
द्वादशरात्रं पयोभक्षा स्यात् . द्वादशरात्रस्यान्ते
अग्नये वैश्वानराय प्रजापतये च प्राजापत्यं चरुं
वैष्णवं त्रिकपालमग्निं संस्थितानि पूर्वाणि दारुपात्राण्याग्नौ
जुहुयात् . मृण्मयान्यप्सु जुहुयात् . तैजसानि गुरवे दद्यात् .
मा त्वं मामपहाय परागाः . नाहं त्वामपहाय परागामिति .
गार्हपत्यदक्षिणाग्न्याहवनीयेष्वरणिदेशाद्भस्ममुष्टिं
पिबेदित्येके . सशिखान्केशान्निष्कृत्य विसृज्य यज्ञोपवीतं
भूःस्वाहेत्यप्सु जुहुयात् . अत ऊर्ध्वमनशनमपां प्रवेश-
मग्निप्रवेशं वीराध्वानं महाप्रस्थानं वृद्धाश्रमं वा
गच्छेत् . पयसा यं प्राश्नीयात्सोऽस्य सायंहोमः . यत्प्रातः
सोऽयं प्रातः . यद्दर्शे तद्दर्शनम् . यत्पौर्णमास्ये तत्पौर्णमास्यम् .
यद्वसन्ते केशश्मश्रुलोमनखानि वापयेत्सोऽस्याग्निष्टोमः .
संन्यस्याग्निं न पुनरावर्तयेन्मृत्युर्जयमावहमित्यध्यात्म-
मन्त्रान्पठेत् . स्वस्ति सर्वजीवेभ्य इत्युक्त्वात्मानमनन्यं ध्यायन् तदूर्ध्वबाहुर्विमुक्तमार्गो भवेत् .
अनिकेतश्चरेत् . भिक्षाशी यत्किंचिन्नाद्यात् . लवैकं न धावयेज्जन्तुसंरक्षणार्थं वर्षवर्जमिति . तदपि श्लोका भवन्ति .
कुण्डिकां चमसं शिक्यं त्रिविष्टमुपानहौ .
शीतोपघातिनीं कन्थां कौपीनाच्छादनं तथा .. १..
पवित्रं ज्ञानशाटीं च उत्तरासङ्गमेव च .
यज्ञोपवीतं वेदांश्च सर्वं तद्वर्जयेद्यतिः .. २..
स्नानं पानं तथा शौचमद्भिः पूताभिराचरेत् .
नदीपुलिनशायी स्याद्देवागारेषु वा स्वपेत् .. ३..
नात्यर्थं सुखदुःखाभ्यां शरीरमुपतायेत् .
स्तूयमानो न तुषेत निन्दितो न शपेत्परान् .. ४..
ब्रह्मचर्येण संतिष्ठेदप्रमादेन मस्करी .
दर्शनं स्पर्शनं केलिः कीर्तनं गुह्यभाषणम् .. ५..
संकल्पोऽध्यवसायश्च क्रियान्निर्वृत्तिरेव च .
एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः .. ६..
विपरीतं ब्रह्मचर्यमनुष्ठेयं मुमुक्षुभिः .
यज्जगद्भासकं भानं नित्यं भाति स्वतः स्फुरत् .. ७..
स एव जगतः साक्षी सर्वात्मा विमलाकृतिः .
प्रतिष्ठा सर्वभूतानां प्रज्ञानघनलक्षणः .. ८..
न कर्मणा न प्रजया न चान्येनापि केचित् .
ब्रह्मवेदनमात्रेण ब्रह्माप्नोत्येव मानवः .. ९..
तद्विद्या विषयं ब्रह्म सत्यज्ञानसुखाद्वयम् .
संसारे च गुहावाच्ये मायाज्ञानादिसंज्ञके .. १०..
निहितं ब्रह्म यो वेद परमे व्योम्नि संज्ञिते .
सोऽश्नुते सकलान्कामान्क्रमेणैव द्विजोत्तमः .. ११..
प्रत्यगात्मानमज्ञानमायाशक्तेश्च साक्षिणम् .
एकं ब्रह्माहमस्मीति ब्रह्मैव भवति स्वयम् .. १२..
ब्रह्मभूतात्मनस्तस्मादेतस्माच्छ्क्तिमिश्रितात् .
अपञ्चीकृत आकाशसंभूतो रज्जुसर्पवत् .. १३..
आकाशाद्वायुसंज्ञस्तु स्पर्शोऽपञ्चीकृतः पुनः .
वायोरग्निस्तथा चाग्नेराप अद्भ्यो वसुन्धरा .. १४..
तानि भूतानि सूक्ष्माणि पञ्चीकृत्येश्वरस्तदा .
तेभ्य एव विसृष्टं तद्ब्रह्माण्डादि शिवेन ह .. १५..
ब्रह्माण्डस्योदरे देवा दानवा यक्षकिन्नराः .
मनुष्याः पशुपक्ष्याद्यास्तत्तत्कर्मानुसारतः .. १६..
अस्थिस्नाय्वादिरूपोऽयं शरीरं भाति देहिनाम् .
योऽयमन्नमयो ह्यात्मा भाति सर्वशरीरिणः .. १७..
ततः प्राणमयो ह्यात्मा विभिन्नश्चान्तरः स्थितः .
ततो विज्ञान आत्मा तु ततोऽन्यश्चान्तरः स्वतः .. १८..
आनन्दमय आत्मा तु ततोऽन्यश्चान्तरस्थितः .
योऽयमन्नमयः सोऽयं पूर्णः प्राणमयेन तु .. १९..
मनोमयेन प्राणोऽपि तथा पूर्णः स्वभावतः .
तथा मनोमयो ह्यात्मा पूर्णो ज्ञानमयेन तु .. २०..
आनन्देन सदा पूर्णः सदा ज्ञानमयः सुखम् .
तथानन्दमयश्चापि ब्रह्मणोऽन्येन साक्षिणा .. २१..
सर्वान्तरेण पूर्णश्च ब्रह्म नान्येन केनचित् .
यदिदं ब्रह्मपुच्छाख्यं सत्यज्ञानद्वयात्मकम् .. २२..
सारमेव रसं लब्ध्वा साक्षाद्देही सनातनम् .
सुखी भवति सर्वत्र अन्यथा सुखता कुतः .. २३..
असत्यस्मिन्परानन्दे स्वात्मभूतेऽखिलात्मनाम् .
को जीवति नरो जन्तुः को वा नित्यं विचेष्टते .. २४..
तस्मात्सर्वात्मना चित्ते भासमानो ह्यसौ नरः .
आनन्दयति दुःखाढ्यं जीवात्मानं सदा जनः .. २५..
यदा ह्येवैष एतस्मिन्नदृश्यत्वादिलक्षणे .
निर्भेदं परमाद्वैतं विन्दते च महायतिः .. २६..
तदेवाभयमत्यन्तकल्याणं परमामृतम् .
सद्रूपं परमं ब्रह्म त्रिपरिच्छेदवर्जितम् .. २७..
यदा ह्येवैष एतस्मिन्नल्पमप्यन्तरं नरः .
विजानाति तदा तस्य भयं स्यान्नात्र संशयः .. २८..
अस्यैवानन्दकोशेन स्तम्बान्ता विष्णुपूर्वकाः .
भवन्ति सुखिनो नित्यं तारतम्यक्रमेण तु .. २९..
तत्तत्पदविरक्तस्य श्रोत्रियस्य प्रसादिनः .
स्वरूपभूत आनन्दः स्वयं भाति परे यथा .. ३०..
निमित्तं किंचिदाश्रित्य खलु शब्दः प्रवर्तते .
यतो वाचो निवर्तन्ते निमित्तानामभवतः .. ३१..
निर्विशेषे परानन्दे कथं शब्दः प्रवर्तते .
तस्मादेतन्मनः सूक्ष्मं व्यावृतं सर्वगोचरम् .. ३२..
यस्माच्छ्रोत्रत्वगक्ष्यादिखादिकर्मेन्द्रियाणि च .
व्यावृत्तानि परं प्राप्तुं न समर्थानि तानि तु .. ३३..
तद्ब्रह्मानन्दमद्वन्द्वं निर्गुणं सत्यचिद्घनम् .
विदित्वा स्वात्मरूपेण न बिभेति कुतश्चन .. ३४..
एवं यस्तु विजानाति स्वगुरोरुपदेशतः .
स साध्वासाधुकर्मभ्यां सदा न तपति प्रभुः .. ३५..
ताप्यतापकरूपेण विभातमखिलं जगत् .
प्रत्यगात्मतया भाति ज्ञानाद्वेदान्तवाक्यजात् .. ३६..
शुद्धमीश्वरचैतन्यं जीवचैतन्यमेव च .
प्रमाता च प्रमाणं च प्रमेयं च फलं तथा .. ३७..
इति सप्तविधं प्रोक्तं भिद्यते व्यवहारतः .
मायोपाधिविनिर्मुक्तं शुद्धमित्यभिधीयते .. ३८..
मायासंबन्धतश्चेशो जीवोऽविद्यावशस्तथा .
अन्तःकरणसंबन्धात्प्रमातेत्यभिधीयते .. ३९..
तथा तद्वृत्तिसंबन्धात्प्रमाणमिति कथ्यते .
अज्ञातमपि चैतन्यं प्रमेयमिति कथ्यते .. ४०..
तथा ज्ञातं च चैतन्यं फलमित्यभिधीयते .
सर्वोपाधिविनिर्मुक्तं स्वात्मानं भावयेत्सुधीः .. ४१..
एवं यो वेद तत्त्वेन ब्रह्मभूयाय कल्पते .
सर्ववेदान्तसिद्धान्तसारं वच्मि यथार्थतः .. ४२..
स्वयं मृत्वा स्वयं भूत्वा स्वयमेवावशिष्यते .. इत्युपनिषत् ..
ॐ सहनाववतु सह नौ भुनक्तु सह वीर्यं करवावहै ..
तेजस्विनावधीतमस्तु मा विद्विषावहै ..
ॐ शान्तिः शान्तिः शान्तिः .. हरिः ॐ तत्सत् ..
इति कठरुद्रोपनिषत्समाप्ता ..
Encoded by Sunder Hattangadi (sunderh@hotmail.com)
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com