.. कौल उपनिशद् ..
.. कौलोपनिषत् ..
.. श्रीः ..
कौलोपनिषत् .
शन्नः कौलिकः शन्नो वारुणी शन्नः शुद्धिः शन्नोऽअग्निश्शन्नः
सर्वं समभवत् .
नमो ब्रह्मणे नमः पृथिव्यै नमोऽद्भ्यो नमोऽग्नये नमो वायवे नमो गुरुभ्यः .
त्वमेव प्रत्यक्षं सैवासि .
त्वामेव प्रत्यक्षं तां वदिष्यामि .
ऋतं वदिष्यामि .
सत्यं वदिष्यामि .
तन्मामवतु .
तद्वक्तारमवतु .
अवतु माम् .
अवतु वक्तारम् .
ॐ शान्तिः शान्तिः शान्तिः .
अथातो धर्म्मजिज्ञासा .
ज्ञानं बुद्धिश्च .
ज्ञानं मोक्षैककारणम् .
मोक्षस्सर्वात्मतासिद्धिः .
पञ्च विषयाः प्रपञ्चः .
तेषां ज्ञानस्वरूपाः .
योगो मोक्षः .
अधर्म्मकारणाज्ञानमेव ज्ञानम् .
प्रपञ्च ईश्वरः .
अनित्यं नित्यम् .
अज्ञानं ज्ञानम् .
अधर्म्म एव धर्म्मः .
एष मोक्षः .
पञ्च बन्धा ज्ञानस्वरूपाः .
पिण्डाज्जननम् .
तत्रैव मोक्षः .
एतज्ज्ञानम् .
सर्वेन्द्रियाणां नयनं प्रधानम् .
धर्म्मविरुद्धाः कार्य्याः .
धर्म्मविहिता न कार्य्याः .
सर्वं शाम्भवीरूपम् .
आम्नाया न विद्यन्ते .
गुरुरेकः .
सर्वैक्यताबुद्धिमन्ते .
आमन्त्रसिद्धेः .
मदादिस्त्याज्यः .
प्राकट्यं न कुर्य्यात् .
न कुर्य्यात्पशुसम्भाषणम् .
अन्यायो न्यायः .
न गणयेत्कमपि .
आत्मरहस्यं न वदेत् .
शिष्याय वदेत् .
अन्तः शाक्तः .
बहिः शैवः .
लोके वैष्णवः .
अयमेवाचारः .
आत्मज्ञानान्मोक्षः .
लोकान्न निन्द्यात् .
इत्यध्यात्मम् .
व्रतं न चरेत् .
न तिष्ठेन्नियमेन .
नियमान्न मोक्षः .
कौलप्रतिष्ठां न कुर्य्यात् .
सर्वसमो भवेत् .
स मुक्तो भवति .
पठेदेतानि सूत्राणि प्रातरुत्थाय देशिकः .
आज्ञासिद्धिर्भवेत्तस्य इत्याज्ञा पारमेश्वरी .
यश्चाचारविहीनोऽपि यो वा पूजां न कुर्वते .
यदि ज्येष्ठं न मन्येत नन्दते नन्दने वने .
शन्नः कौलिकः .
ॐ शान्तिः शान्तिः शान्तिः .
.. कौलोपनिषत्समाप्ता ..
.. इति कौलोपनिषत् ..
Please send corrections to Mike Magee (ac70@cityscape.co.uk)
Last updated October 20 1998 for HTML version
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com