.. श्री कृष्णजयन्ती निर्णयः ..
श्री गुरुभ्यो नमः हरिः ॐ
श्रीमदानन्दतीर्थ भगवत्पादाचार्य विरचितः
श्री कृष्णजयन्ती निर्णयः
रोहिण्या मध्यरात्रे तु यदा कृष्णाष्टमी भवेत् .
जयन्ती नाम सा प्रोक्ता सर्वपापप्रणाशनी(नं).. १..
यस्यां जातो हरिः साक्षान्नि शेते भगवानजः .
तस्मात्तद्दिनमत्यर्थं पुण्यं पापहरं शुभपरं .. २..
तस्मात्सर्वैर्रुपोश्या सा जयन्ती नाम सा(वै)सदा .
द्विजातिभिर्विशेषेण तद्भक्तैश्च विशेषतः .. ३..
यो भुङ्क्ते तद्दिने मोहा(लोभा)त् पूयशोणितमत्ति सः .
तस्मादुपवासेन्नित्य(पुण्य)ं तद्दिने(नं)श्रद्धयान्वितः .. ४..
कृत्वा शौचं यथा न्यायं स्नानं कुर्यादतंद्रितः .
प्रभात काले कुर्वीत योओगायेत्यादिमन्त्रतः .. ५..
नित्याह्निकं प्रकुर्वीत भगवन्तमनुस्मरन् .
मध्याह्न काले च पुमान् सायङ्काले त्वतन्द्रितः .. ६..
स्नायेत पूर्वमन्त्रेण वासुदेवमनुस्मरन् .
ततः पूजां प्रकुर्वेत विधिवत्सुसमाहितः .. ७..
यनायेति च मन्त्रेण श्रद्धाभक्तियुतः पुमान् .
कृष्णं च बलभद्रं च वसुदेवं च देवकीं .. ८..
नन्दगोपं यशोदाञ्च सुभद्रां तत्र पूजयेत् .
(अर्घ्यं दत्वा समभ्यच्यार्भ्युधिते शशिमण्डले).
जातः कंसवधार्ताय भूभारोत्थारणाय च .. ९..
कौरवानां विनाशाय दैत्यानां निधनाय च .
पाण्डवानां हितार्थाय धर्मसंस्थापनाय च .. १०.
गृहाणर्घ्यं मया दत्तं देवक्या सहितो हरिः .
अर्घ्यं दत्वासमभ्यर्च्याभ्युदिते शशिमण्डले .. ११..
क्षीरोदार्णवसम्भूत अत्रिनेत्र समुद्भवः .
गृहाणर्घ्यं मया दत्तं रोहिण्या सहितः शशिम् .. १२..
दत्वार्घ्यं मनुनानेन उपस्थाय विधुं बुधः .
शशिने चन्द्रदेवाय सोमदेवाय छेन्दवे .. १३..
मृगिणे शी(सि)त बिंबाय लोकदीपाय दीपिणे .
(रोहिणीसक्तचित्ताय कन्यादानप्रदायिने)
शीतदीदितिबिंबाय तारकापतये नमः .. १४..
उपसम्हृत्य तत्सर्वं ब्रह्मचारी जितेन्द्रियः .
विश्वायेति च मन्त्रेण ततः स्वापं समाचरेत् .. १५..
ततो नित्यान्हि कं कृत्वा शक्तितो दीयतां धनं .
सर्वायेति च मन्त्रेण ततः पारणमाचरेत् .
धर्मायेति ततः स्वस्थो मुच्यते सर्वकिल्बिषैः .. १६..
.. इति श्रीमदानन्दतीर्थ भगवत्पादाचार्य विरचितं ..
.. जयन्ती निर्णयः संपूर्णम् ..
भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु
Please send corrections to info@dvaita.org
Last updated October 20 1998 for HTML version
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com