||कृष्णोपनिषत् ||
||श्री गुरुभ्यो नमः हरिः ॐ ||
यो रामः कृष्णतामेत्य सार्वात्म्यं प्राप्य लीलया |
अतोषयद्देवमौनिपटलं तं नतोऽस्म्यहम् ||१||
ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः |
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः |
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः |
स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु |
ॐ शान्तिः शान्तिः शान्तिः |
||अथ प्रथम खंडः ||
हरिः ॐ | श्रीमहाविष्णुं सच्चिदानन्दलक्षणं रामचन्द्रं
दृष्ट्वा सर्वाङ्गसुन्दरं मुनयो वनवासिनो विस्मिता बभूवुः |
तं होचुर्नोऽवद्यमवतारान्वै गण्यन्ते आलिङ्गामो भवन्तमिति |
भवान्तरे कृष्णावतारे यूयं गोपिका भूत्व मामालिङ्गथ
अन्ये येऽवतारास्ते हि गोपा न स्त्रीश्च नो कुरु | अन्योन्यविग्रहं
धार्यं तवाङ्गस्पर्शनादिह | शाश्वतस्पर्शयितास्माकं
गृण्हीमोऽवतारान्वयम् ||१||
रुद्रादीनां वचः शृत्वा प्रोवाच भगवान्स्वयम् |
अङ्गयङ्गं करिष्यामि भवद्वाक्यं करोम्यहम् ||२||
मोदितास्ते सुरा सर्वे कृतकृत्याधुना वयम् |
यो नन्दः परमानन्दो यशोदो मुक्तिगेहिनी ||३||
माया सा त्रिविधा प्रोक्ता सत्त्वराजसतामसी |
प्रोक्ता च सात्त्विकी रुद्रे भक्ते ब्रह्मणि राजसी ||४||
तामसी दैत्यपक्षेषु माया त्रेधा ह्युदाहृता |
अजेया वैष्णवी माया जप्येन च सुता पुरा ||५||
देवकी ब्रह्मपुत्र सा या वेदैरुपगीयते |
निगमो वसुदेवो यो वेदार्थः कृष्णरामयोः ||६||
स्तुवते सततं यस्तु सोऽवतीर्णो महीतले |
वने वृन्दावने क्रीडङ्गोपगोपीसुरैः सह ||७||
गोप्यो गाव ऋचस्तस्य यष्टिका कमलासनः |
वंशस्तु भगवान् रुद्रः शृङ्गमिन्द्रः सगोसुरः ||८||
गोकुलं वनवैकुण्ठं तापसास्तत्र ते द्रुमाः |
लोभक्रोधादयो दैत्याः कलिकालस्तिरस्कृतः ||९||
गोपरूपो हरिः साक्षान्मायाविग्रहधारणः |
दुर्बोधं कुहकं तस्य मायया मोहितं जगत् ||१०||
दुर्जया सा सुरैः सर्वैर्धृष्टिरूपो भवेद्विजः |
रुद्रो येन कृतो वंशस्तस्य माया जगत्कथम् ||११||
बलं ज्ञानं सुराणां वै तेषां ज्ञानं हृतं क्षणात् |
शेशनागो भवेद्रामः कृष्णो ब्रह्मैव शाश्वतम् ||१२||
अष्टावष्टसहस्रे द्वे शताधिक्यः स्त्रियस्तथा |
ऋचोपनिषदस्ता वै ब्रह्मरूपा ऋचः स्त्रियाः ||१३||
द्वेषाश्चाणूरमल्लोऽयं मत्सरो मुष्टिको जयः |
दर्पः कुवलयापीडो गर्वो रक्षः खगो बकः ||१४||
दया सा रोहिणी माता सत्यभामा धरेति वै |
अघासुरो माहाव्याधिः कलिः कंसः स भूपतिः ||१५||
शमो मित्रः सुदामा च सत्याक्रोद्धवो दमः |
यः शङ्खः स स्वयं विष्णुर्लक्ष्मीरुपो व्यवस्थितः ||१६||
दुग्धसिन्धौ समुत्पन्नो मेघघोषस्तु संस्मृतः |
दुग्दोदधिः कृतस्तेन भग्नभाण्डो दधिगृहे ||१७||
क्रीडते बालको भूत्वा पूर्ववत्सुमहोदधौ |
संहारार्थं च शत्रूणां रक्षणाय च संस्थितः ||१८||
कृपार्थे सर्वभूतानां गोप्तारं धर्ममात्मजम् |
यत्स्रष्टुमीश्वरेणासीतच्चक्रं ब्रह्मरूपदृक् ||१९||
जयन्तीसंभवो वायुश्चमरो धर्मसंज्ञितः |
यस्यासौ ज्वलनाभासः खड्गरूपो महेश्वरः ||२०||
कश्यपोलूखलः ख्यातो रज्जुर्माताऽदितिस्तथा |
चक्रं शङ्खं च संसिद्धिं बिन्दुं च सर्वमूर्धनि ||२१||
यावन्ति देवरूपाणि वदन्ति विभुधा जनाः |
नमन्ति देवरूपेभ्य एवमादि न संशयः ||२२||
गदा च काळिका साक्षात्सर्वशत्रुनिबर्हिणी |
धनुः शार्ङ्गं स्वमायाच शरत्कालः सुभोजनः ||२३||
अब्जकाण्डं जगत्बीजं धृतं पाणौ स्वलीलया |
गरुडो वटभाण्डीरः सुदामा नारदो मुनिः ||२४||
वृन्दा भक्तिः क्रिया बुद्धीः सर्वजन्तुप्रकाशिनी |
तस्मान्न भिन्नं नाभिन्नमाभिर्भिन्नो न वै विभुः |
भूमावुत्तारितं सर्वं वैकुण्ठं स्वर्गवासिनाम् ||२५||
||इति प्रथम खण्डः ||
||अथ द्वितीयः खण्डः ||
शेषो ह वै वासुदेवात् संकर्षणो नाम जीव आसीत् |
सोऽकामयत प्रजाः सृजेयेति |
ततः प्रद्युम्नसंज्ञक आसीत् |
तस्मात् अहंकारनामानिरुद्धो हिरण्यगर्भोऽजायत |
तस्मात् दश प्रजापतयो मरीच्याद्याः
स्थाणुदक्षकर्दमप्रियव्रतोत्तनपादवायवो व्यजायन्त |
तेभ्योः सर्वाणि भूतानि च |
तस्माच्छेषादेव सर्वाणि च भूतानि समुत्पद्यन्ते |
तस्मिन्नेव प्रलीयन्ते |
स एव बहुधा जायमानः सर्वान् परिपाति |
स एव काद्रवेयो व्याकरणज्योतिषादिशास्त्रणि निर्मिमाणो
बहुभिर्मुमुक्षुभिरुपास्यमानोऽखिलां भुवमेकस्मिन्
शीर्ष्ण सिद्धार्थवदवध्रियमाणः सर्वैर्मुनिभिः
संप्रार्थ्यमानः सहस्रशिखराणि मेरोः
शिरोभिरावार्यमाणो महावाय्वहंकारं निराचकार |
स एव भगवान् भगवन्तं बहुधा विप्रीयमाणः अखिलेन स्वेन
रुपेण युगे युगे तेनैव जयमानः स एव सौमित्रिरैक्ष्वाकः
सर्वाणि धानुषशास्त्राणि सर्वाण्यस्त्रशास्त्राणि बहुधा
विप्रीयमानो रक्षांसि सर्वाणि विनिघ्नंश्चातुर्वर्ण्यधर्मान्
प्रवर्तयामास |
स एव भगवान् युगसंधिकाले शारदाभ्रसंनिकाशो
रौहिनेयो वासुदेवः सर्वाणि गदाद्यायुधशास्त्राणि
व्याचक्षाणो नैकान् राजन्यमण्डलान्निराचिकीर्षुः
भुभारमखिलं निचखान |
स एव भगवान् युगे तुरियेऽपि ब्रह्मकुले जायमानः सर्व
उपनिषदः उद्दिधीर्षुः सर्वाणि धर्मशास्त्राणि
विस्तारयिष्णुः सर्वानपि जनान् संतारयिष्णुः
सर्वानपि वैष्णवान् धर्मान् विजृम्भयन्
सर्वानपि पाषण्डान् निचखान |
स एष जगदन्तर्यामी |
स एष सर्वात्मकः |
स एव मुमुक्षुभिर्ध्येयः |
स एव मोक्षप्रदः |
एतं स्मृत्वा सर्वेभ्यः पापेभ्यो मुच्यते |
तन्नाम संकीर्तयन् विष्णुसायुज्यं गच्छति |
तदेतद् दिवा अधीयानः रात्रिकृतं पापं नाशयति |
नक्तमधीयानो दिवसकृतं पापं नाशयति |
तदेतद्वेदानां रहस्यं तदेतदुपनिषदां रहस्यम्
एतदधीयानः सर्वत्रतुफलं लभते
शान्तिमेति मनःशुद्धिमेति सर्वतीर्थफलं लभते
य एवं वेद देहबन्धाद्विमुच्यते इत्युपनिषत् ||
||इति द्वितीयः खण्डः ||
हरिः ॐ तत्सत्
ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः |
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः |
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः |
स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु |
ॐ शान्तिः शान्तिः शान्तिः |
||इति कृष्णोपनिषत्समाप्ता ||
||भारतीरमणमुख्यप्राणंतर्गत श्रीकृष्णार्पणमस्तु ||
Encoded by H.P. Raghunandan hpraghu@genius.tisl.soft.net
Profread by H.P. Raghunandan, Shrisha Rao, Vijay S. Pai
%@@1
% File name : krishnopan.itx
%--------------------------------------------
% Text title : kR^iShNopaniShat
% Author :
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Description/comments :
% Transliterated by : H.P. Raghunandan hpraghu@genius.tisl.soft.net
% Proofread by : H.P. Raghunandan hpraghu@genius.tisl.soft.net
% OR Shrisha Rao shrao@nyx.net OR Vijay S. Pai vijaypai@rice.edu}}
% Translation by :
% Latest update : April 23, 1996
% Send corrections to : sanskrit@cheerful.com
%
% Special Instructions:
% i1h.hdr,ijag.inc,itrans.sty,multicol.sty,iarticle.sty
% Transliteration scheme: ITRANS 5.2
% Site access :
% http://sanskritdocuments.org
% http://sanskrit.gde.to/
%-----------------------------------------------------
% The text is to be used for personal studies and research only.
% Any use for commercial purpose is prohibited as a 'gentleman's'
% agreement.
% @@2
%
% Commands upto engtitle are
% needed for devanaagarii output and formatting.
%--------------------------------------------------------
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Some help is available at Notes
on Viewing and Creating Devanagari Documents with Unicode Support.
Some of the Unicode fonts for Devanagari are linked at http://devanaagarii.net and for
Sanskrit Transliteration/Diacritics are available at IndUni
Fonts.
Questions, comments? Write to sanskrit@cheerful.com .