.. क्षुरिकोपनिषत् ..
कैवल्यनाडीकान्तस्थपराभूमिनिवासिनम् .
क्षुरिकोपनिषद्योगभासुरं राममाश्रये ..
ॐ सहनाववतु .. सह नौ भुनक्तु .. सह वीर्यं करवावहै ..
तेजस्विनावधीतमस्तु मा विद्विषावहै ..
ॐ शान्तिः शान्तिः शान्तिः ..
ॐ क्षुरिकां सम्प्रवक्ष्यामि धारणां योगसिद्धये .
यं प्राप्य न पुनर्जन्म योगयुक्तस्य जायते .. १..
वेदतत्त्वार्थविहितं यथोक्तं हि स्वयंभुवा .
निःशब्दं देशमास्थाय तत्रासनमवस्थितः .. २..
कूर्मोऽङ्गानीव संहृत्य मनो हृदि निरुध्य च .
मात्राद्वादशयोगेन प्रणवेन शनैः शनैः .. ३..
पूरयेत्सर्वमात्मानं सर्वद्वारं निरुध्य च .
उरोमुखकटिग्रीवं किञ्चिद्भूदयमुन्नतम् .. ४..
प्राणान्सन्धारयेत्तस्मिनासाभ्यन्तरचारिणः .
भूत्वा तत्र गतः प्राणः शनैरथ समुत्सृजेत् .. ५..
स्थिरमात्रादृढं कृत्वा अङ्गुष्ठेन समाहितः .
द्वे गुल्फे तु प्रकुर्वीत जङ्घे चैव त्रयस्त्रयः .. ६..
द्वे जानुनी तथोरुभ्यां गुदे शिश्ने त्रयस्त्रयः .
वायोरायतनं चात्र नाभिदेशे समाश्रयेत् .. ७..
तत्र नाडी सुषुम्ना तु नाडीभिर्बहुभिर्वृता ..
अणु रक्तश्च पीताश्च कृष्णास्ताम्रा विलोहिताः .. ८..
अतिसूक्ष्मां च तन्वीं च शुक्लां नाडीं समाश्रयेत् .
तत्र संचारयेत्प्राणानूर्णनाभीव तन्तुना .. ९..
ततो रक्तोत्पलाभासं पुरुषायतनं महत्
दहरं पुण्डरीकं तद्वेदान्तेषु निगद्यते .. १०..
तद्भित्त्वा कण्ठमायाति तां नाडीं पूरयन्यतः .
मनसस्तु क्षुरं गृह्य सुतीक्ष्णं बुद्धिनिर्मलम् .. ११..
पादस्योपरि यन्मध्ये तद्रूपं नाम कृन्तयेत् .
मनोद्वारेण तीक्ष्णेन योगमाश्रित्य नित्यशः .. १२..
इन्द्रवज्र इति प्रोक्तं मर्मजङ्घानुकीर्तनम् .
तद्ध्यानबलयोगेन धारणाभिर्निकृन्तयेत् .. १३..
ऊर्वोर्मध्ये तु संस्थाप्य मर्मप्राणविमोचनम् .
चतुरभ्यासयोगेन छिन्देदनभिशङ्कितः ..१४..
ततः कण्ठान्तरे योगी समूहन्नाडिसञ्चयम् .
एकोत्तरं नाडिशतं तासां मध्ये वराः स्मृताः .. १५..
सुषुम्ना तु परे लीना विरजा ब्रह्मरूपिणी .
इडा तिष्ठति वामेन पिङ्गला दक्षिणेन च .. १६..
तयोर्मध्ये वरं स्थानं यस्तं वेद स वेदवित् .
द्वासप्ततिसहस्राणि प्रतिनाडीषु तैतिलम् .. १७..
छिद्यते ध्यानयोगेन सुषुम्नैका न छिद्यते .
योगनिर्मलधारेण क्षुरेणानलवर्चसा .. १८..
छिन्देन्नाडीशतं धीरः प्रभावादिह जन्मनि .
जातीपुष्पसमायोगैर्यथा वास्यति तैतिलम् .. १९..
एवं शुभाशुभैर्भावैः सा नाडीति विभावयेत् .
तद्भाविताः प्रपद्यन्ते पुनर्जन्मविवर्जिताः .. २०..
तपोविजितचित्तस्तु निःशब्दं देशमास्थितः .
निःसङ्गतत्त्वयोगज्ञो निरपेक्षः शनैः शनैः .. २१..
पाशं छित्त्वा यथा हंसो निर्विशङ्कं खमुत्क्रमेत् .
छिन्नपाशस्तथा जीवः संसारं तरते सदा .. २२..
यथा निर्वाणकाले तु दीपो दग्ध्वा लयं व्रजेत् .
तथा सर्वाणि कर्माणि योगी दग्ध्वा लयं व्रजेत् .. २३..
प्राणायामसुतीक्ष्णेन मात्राधारेण योगवित् .
वैराग्योपलघृष्टेन छित्त्वा तं तु न बध्यते .. २४..
अमृतत्वं समाप्नोति यदा कामात्स मुच्यते .
सर्वेषणाविनिर्मुक्तश्छित्त्वा तं तु न बध्यत इत्युपनिषत् ..
ॐ सह नाववतु .. सह नौ भुनक्तु .. सह वीर्यं करवावहै ..
तेजस्विनावधीतमस्तु मा विद्विषावहै ..
ॐ शान्तिः शान्तिः शान्तिः ..
.. इति क्षुरिकोपनिषत्समाप्ता ..
Encoded by Sunder Hattangadi (sunderh@hotmail.com)
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com