\Large Laghu-Vakya-Vritti
.. लघुवाक्यवृत्तिः ..
स्थूलो मांसमयो देहो सूक्ष्मः स्याद्वासनामयः .
ज्ञानकर्मेन्द्रियैः सार्धं धीप्राणौ तच्छरीरगौ .. १..
अज्ञानं कारणं साक्षी बोधस्तेषां विभासकः .
बोधाभासो बुद्धिगतः कर्ता स्यात्पुण्यपापयोः .. २..
स एव संसरेत्कर्मवशाल्लोकद्वये सदा .
बोधाभासाच्छुद्धबोधं विविच्यादतियत्नतः .. ३..
जागरस्वप्नयोरेव बोधाभासविडम्बना .
सुप्तौ तु तल्लये बोधः शुद्धो जाड्यं प्रकाशयेत् .. ४..
जागरेऽपि धियस्तूष्णींभावः शुद्धेन भास्यते .
धीव्यापाराश्च चिद्भास्याश्चिदाभासेन संयुताः .. ५..
वह्नितप्तजलं तापयुक्तं देहस्य तापकम् .
चिद्भास्या धीस्तदाभासयुक्तान्यं भासयेत्तथा .. ६..
रूपादौ गुणदोषादिविकल्पा बुद्धिगाः क्रियाः .
ताः क्रिया विषयैः सार्धं भासयन्ती चितिर्मता .. ७..
रूपाच्च गुणदोषाभ्यां विविक्ता केवला चितिः .
सैवानुवर्तते रूपरसादीनां विकल्पने .. ८..
क्षणे क्षणेऽन्यथाभूता धीविकल्पाश्चितिर्न तु .
मुक्तासु सूत्रवद्बुद्धिविकल्पेषु चितिस्तथा .. ९..
मुक्ताभिरावृतं सूत्रं मुक्तयोर्मध्य ईक्ष्यते .
तथा वृत्तिविकल्पैश्चित्स्पष्टा मध्ये विकल्पयोः .. १०..
नष्टे पूर्वविकल्पे तु यावदन्यस्य नोदयः .
निर्विकल्पकचैतन्यं स्पष्टं तावद्विभासते .. ११..
एकद्वित्रिक्षणेष्वेवं विकल्पस्य निरोधनम् .
क्रमेणाभ्यस्यतां यत्नाद्ब्रह्मानुभवकाङ्क्षिभिः .. १२..
सविकल्पजीवोऽयं ब्रह्म तन्निर्विकल्पकम् .
अहं ब्रह्मेति वाक्येन सोऽयमर्थोऽभिधीयते .. १३..
सविकल्पकचिद्योऽहं ब्रह्मैकं निर्विकल्पकम् .
स्वतःसिद्धा विकल्पास्ते निरोद्धव्याः प्रयत्नतः .. १४..
शक्यः सर्वनिरोधेन समाधिर्योगिनं प्रियः .
तदशक्तौ क्षणं रुद्ध्वा श्रद्धालुर्ब्रह्मतात्मनः .. १५..
श्रद्धालुर्ब्रह्मतां स्वस्य चिन्तयेद्बुद्धिवृत्तिभिः .
वाक्यवृत्त्या यथाशक्ति ज्ञात्वाद्धाभ्यस्यतां सदा .. १६..
तच्चिन्तनं तत्कथनमन्योन्यं तत्प्रबोधनम् .
एतदेकपरत्वं च ब्रह्माभ्यासं विदुर्बुधाः .. १७..
देहात्मधीवद्ब्रह्मात्मधीदार्ढ्ये कृतकृत्यता .
यदा तदायं म्रियतां मुक्तोऽसौ नात्र संशयः .. १८..
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ
लघुवाक्यवृत्तिः संपूर्णा ..
Encoded by Sunder Hattangadi sunderh@hotmail.com
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com