.. लक्ष्मीनृसिंहपञ्चरत्नम् ..
त्वत्प्रभुजीवप्रियमिच्छसि चेन्नरहरिपूजां कुरु सततं
प्रतिबिम्बालंकृतिधृतिकुशलो बिम्बालंकृतिमातनुते |
चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां
भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् || १||
शुक्त्तौ रजतप्रतिभा जाता कतकाद्यर्थसमर्था चे-
द्दुःखमयी ते संसृतिरेषा निर्वृतिदाने निपुणा स्यात् |
चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां
भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् || २||
आकृतिसाम्याच्छाल्मलिकुसुमे स्थलनलिनत्वभ्रममकरोः
गन्धरसाविह किमु विद्येते विफलं भ्राम्यसि भृशविरसेस्मिन् |
चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां
भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् || ३||
स्रक्चन्दनवनितादीन्विषयान्सुखदान्मत्वा तत्र विहरसे
गन्धफलीसदृशा ननु तेमी भोगानन्तरदुःखकृतः स्युः |
चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां
भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् || ४||
तव हितमेकं वचनं वक्ष्ये शृणु सुखकामो यदि सततं
स्वप्ने दृष्टं सकलं हि मृषा जाग्रति च स्मर तद्वदिति|
चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां
भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् || ५||
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्री गोविन्द भगवत्पूज्यपाद शिष्यस्य
श्रीमच्छंकर भगवतः कृतौ
लक्ष्मीनृसिंह पञ्चरत्नम् सम्पूर्णम् ..
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com