.. महावाक्योपनिषत् ..
यन्महावाक्यसिद्धान्तमहाविद्याकलेवरम् .
विकलेवरकैवल्यं रामचन्द्रपदं भजे ..
ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः
भद्रं पश्येमाक्षभिर्यजत्राः .
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः
व्यशेम देवहितं यदायुः ..
ॐ शान्तिः शान्तिः शान्तिः ..
हरिः ॐ ..
अथ होवाच भगवान्ब्रह्मापरोक्षानुभवपरोपनिषदं
व्याख्यास्यामः . गुह्याद्गुह्यपरमेषा न प्राकृतायोपदेष्टव्या .
सात्विकायान्तर्मुखाय परिशुश्रूषवे . अथ
संसृतिबन्धमोक्षयोर्विद्याविद्ये चक्षुषी उपसंहृत्य
विज्ञायाविद्यालोकाण्डस्तमोदृक् . तमो हि
शारीरप्रपञ्चमाब्रह्मस्थावरान्तमनन्ताखिलाजाण्डभूतम् .
निखिलनिगमोदितसकामकर्मव्यवहारो लोकः .
नैषोऽन्धकारोऽयमात्मा .विद्या हि काण्डान्तरादित्यो
ज्योतिर्मण्डलं ग्राह्यं नापरम् . असावादित्यो ब्रह्मेत्यजपयोपहितं
हंसः सोऽहम् . प्राणापानाभ्यां प्रतिलोमानुलोमाभ्यां
समुपलभ्यैवं सा चिरं लब्ध्वा त्रिवृदात्मनि
ब्रह्मण्यभिध्यायमाने सच्चिदानन्दः परमात्माविर्भवति .
सहस्रभानुमच्छुरितापूरितत्वादलिप्या पारावारपूर इव .
नैषा समाधिः . नैषा योगसिद्धिः . नैषा मनोलयः .
ब्रह्मैक्यं तत् . आदित्यवर्णं तमसस्तु पारे .
सर्वाणि रूपाणि विचित्य धीरः . नामानि कृत्वाऽभिवदन्यदास्ते .
धाता पुरस्ताद्यमुदाजहार . शक्रः प्रविद्वान्प्रदिशश्चतस्रः .
तमेव विद्वानमृत इह भवति . नान्यः पन्था अयनाय विद्यते .
यज्ञेन यज्ञमयजन्त देवाः . तानि धर्माणि प्रथमान्यासन् .
ते ह नाकं महिमानः सचन्ते . यत्र पूर्वे साध्याः सन्ति देवाः .
सोऽहमर्कः परं ज्योतिरर्कज्योतिरहं शिवः .
आत्मज्योतिरहं शुक्रः सर्वज्योतिरसावदोम् .
य एतदथर्वशिरोऽधीते . प्रातरधीयानो रात्रिकृतं
पापं नाशयति . सायमधीयानो दिवसकृतं पापं नाशयति .
तत्सायं प्रातः प्रयुञ्जानः पापोऽपापो भवति .
मध्यन्दिनमादित्याभिमुखोऽधीयानः
पञ्चमहापातकोपपातकात्प्रमुच्यते .
सर्ववेदपारायणपुण्यं लभते .
श्रीमहाविष्णुसायुज्यमवाप्नोतीत्युपनिषत् ..
ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः
भद्रं पश्येमाक्षभिर्यजत्राः .
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः
व्यशेम देवहितं यदायुः ..
ॐ शान्तिः शान्तिः शान्तिः . हरिः ॐ तत्सत्
इति महावाक्योपनिषत्समाप्ता ..
Encoded by Sunder Hattangadi (sunderh@hotmail.com)
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com