.. मानसोल्लास ..
.. श्रीदक्षिणामूर्तिस्तोत्रम् ..
विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं
पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया .
यः साक्षात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयं
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये .. १..
बीजस्यान्तरिवाङ्कुरो जगदिदं प्राङ्निर्विकल्पं पुनः
मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम् .
मायावीव विजृम्भयत्यपि महायोगीव यःस्वेच्छया
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये .. २..
यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थगं भासते
साक्षात्तत्त्वमसीति वेदवचसा यो बोधयत्याश्रितान् .
यत्साक्षात्करणाद्भवेन्नपुनरावृत्तिर्भवाम्भोनिधौ
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये .. ३..
नानाच्छिद्रघटोदरस्थितमहादीपप्रभाभास्वरं
ज्ञानं यस्य तु चक्षुरादिकरणद्वारा बहिःस्पन्दते .
जानामीति तमेव भान्तमनुभात्येतत्समस्तं जगत्
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये .. ४..
देहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं च शून्यं विदुः
स्त्रीबालान्धजडोपमास्त्वहमिति भ्रान्ता भृशं वादिनः .
मायाशक्तिविलासकल्पितमहाव्यामोहसंहारिणे
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये .. ५..
राहुग्रस्तदिवाकरेन्दुसदृशो मायासमाच्छादनात्
सन्मात्रः करणोपसंहरणतो योऽभूत्सुषुप्तः पुमान् .
प्रागस्वाप्समिति प्रबोधसमये यः प्रत्यभिज्ञायते
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये .. ६..
बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि
व्यावृत्तास्वनुवर्तमानमहमित्यन्तः स्फुरन्तं सदा .
स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये .. ७..
विश्वं पश्यति कार्यकारणतया स्वस्वामिसंबन्धतः
शिष्याचार्यतया तथैव पितृपुत्राद्यात्मना भेदतः .
स्वप्ने जाग्रति वा एष पुरुषो मायापरिभ्रामितः
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये .. ८..
भूरम्भांस्यनलोऽनिलोऽम्बरमहर्नाथो हिमांशुः पुमान्
इत्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम् .
नान्यत्किञ्चन विद्यते विमृशतां यस्मात्परस्माद्विभोः
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये .. ९..
सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिंस्तवे
तेनास्य श्रवणात्तदर्थमननाद्ध्यानाच्च संकीर्तनात् .
सर्वात्मत्वमहाविभूतिसहितं स्यादीश्वरत्वं स्वतः
सिद्ध्येत्तत्पुनरष्टधा परिणतं चैश्वर्यमव्याहतम् .. १०..
.. मानसोल्लास ..
विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं
पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया .
यः साक्षात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयं
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये .. १..
मङ्गळं दिशतु मे विनायको
मङ्गळं दिशतु मे सरस्वती .
मङ्गळं दिशतु मे महेश्वरो
मङ्गळं दिशतु मे सदाशिवः .. १..
आत्मलाभात्परो लाभो नास्तीति मुनयो विदुः .
तल्लाभार्थं कविः स्तौति स्वात्मानं परमेश्वरम् .. २..
स्वेच्छया सृष्टमाविश्य विश्वं यो मनसि स्थितः .
स्तोत्रेण स्तूयतेऽनेन स एव परमेश्वरः .. ३..
अस्ति प्रकाशत इति व्यवहारः प्रवर्तते .
तच्चास्तित्वं प्रकाशत्वं कस्मिन्नर्थे प्रतिष्ठितम् .. ४..
किं तेषु तेषु वाऽर्थेषु किं वा सर्वात्मनीश्वरे .
ईश्वरत्वं च जीवत्वं सर्वात्मत्वं च कीदृशम् .. ५..
जानीयात्कथं जीवः किं तज्ज्ञानस्य साधनम् .
ज्ञानात्तस्य फलं किं स्यादेकत्वं च कथं भवेत् .. ६..
सर्वज्ञः सर्वकर्ता च कथमात्मा भविष्यति .
शिष्यं प्रतीत्थं पृच्छन्तं वक्तुमारभते गुरुः .. ७..
अन्तरस्मिन्निमे लोका अन्तर्विश्वमिदं जगत् .
बहिर्वन्माययाऽऽभाति दर्पणे स्वशरीरवत् .. ८..
स्वप्ने स्वान्तर्गतं विश्वं यथा पृथगिवेक्ष्यते .
तथैव जाग्रत्कालेऽपि प्रपञ्चोऽयं विविच्यताम् .. ९..
स्वप्ने स्वसत्तैवार्थानां सत्ता नान्येति निश्चिता .
को जाग्रति विशेषोऽस्ति जडानामाशु नाशिनाम् .. १०..
स्वप्ने प्रकाशो भावानां स्वप्रकाशान्न हीतरः .
जाग्रत्यपि तथैवेति निश्चिन्वन्ति विपश्चितः .. ११..
निद्रया दर्शितानर्थान्न पश्यति यथोत्थितः .
सम्यग्ज्ञानोदयादूर्ध्वं तथा विश्वं न पश्यति .. १२..
अनादिमायया सुप्तो यदा जीवः प्रबुध्यते .
अजन्मनिद्रमस्वप्नमद्वैतं बुध्यते तदा .. १३..
श्रुत्याऽऽचार्यप्रसादेन योगाभ्यासवशेन च .
ईश्वरानुग्रहेणापि स्वात्मबोधो यदा भवेत् .. १४..
भुक्तं यथाऽन्नं कुक्षिस्थं स्वात्मत्वेनैव पश्यति .
पूर्णाहन्ताकबळितं विश्वं योगीश्वरस्तथा .. १५..
यथा स्वप्ने नृपो भूत्वा भुक्त्वा भोगान्यथेप्सितान् .
चतुरङ्गबलोपेतः शत्रुं जित्वा रणाङ्गणे .. १६..
परात्पराजितो भूत्वा वनं प्राप्य तपश्चरन् .
मुहूर्तमात्रमात्मानं मन्यते कल्पजीविनम् .. १७..
तथैव जाग्रत्कालेऽपि मनोराज्यं करोत्यसौ .
कालनद्योघयोगेन क्षीणमायुर्न पश्यति .. १८..
मेघच्छन्नोंऽशुमालीव मायया मोहितोऽधिकम् .
किञ्चित्कर्ता च किञ्चिज्ज्ञो लक्ष्यते परमेश्वरः .. १९..
यद्यत्करोति जानाति तस्मिन्तस्मिन्परेश्वरः .
राजा विद्वान् स्वसामर्थ्यादीश्वरोऽयमितीर्यते .. २०..
ज्ञानक्रिये शिवेनैक्यात्सङ्क्रान्ते सर्वजनुषु .
ईश्वरत्वं च जीवानां सिद्धं तच्छक्तिसङ्गमात् .. २१..
अयं घटोऽयं पट इत्येवं नानाप्रतीतिषु .
अर्कप्रभेव स्वज्ञानं स्वयमेव प्रकाशते .. २२..
ज्ञानं न चेत्स्वयं सिद्धं जगदन्धं तमो भवेत् .
न चेदस्य क्रिया काचित् व्यवहारः कथं भवेत् .. २३..
क्रिया नाम परिस्पन्दपरिणामस्वरूपिणी .
स्पन्दमाने बहिर्ज्ञाने तदङ्कुरवदुद्भवेत् .. २४..
उत्पाद्यप्राप्यसंस्कार्यविकार्योपाश्रया क्रिया .
करोति गच्छत्युन्मार्ष्टि छिनत्तीति प्रतीयते .. २५..
शिवो ब्रह्मादिदेहेषु सर्वज्ञ इति भासते .
देवतिर्यङ्मनुष्येषु किञ्चिज्ज्ञस्तारतम्यतः .. २६..
जरायुजोऽण्डजश्चैव स्वेदजः पुनरुद्भिदः .
एते चतुर्विधाः देहाः क्रमशो न्यूनवृत्तयः .. २७..
ब्रह्मादिस्तम्बपर्यन्ता स्वप्नकल्पैव कल्पना .
साक्षात्कृतेऽनवच्छिन्नप्रकाशे परमात्मनि .. २८..
अणोरणीयान्महतो महीयानिति वेदवाक् .
रुद्रोपनिषदप्येतं स्तौति सर्वात्मकं शिवम् .. २९..
ईश्वरो गुरुरात्मेति मूर्तिभेदविभागिने .
व्योमवद्व्याप्तदेहाय दक्षिणामूर्तये नमः .. ३०..
इति श्रीदक्षिणामूर्तिस्तोत्रार्थप्रतिपादके .
प्रबन्धे मानसोल्लासे प्रथमोल्लाससंग्रहः .. ३१..
बीजस्यान्तरिवाङ्कुरो जगदिदं प्राङ्निर्विकल्पं पुनः
मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम् .
मायावीव विजृम्भयत्यपि महायोगीव यःस्वेच्छया
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये .. २..
उपादानं प्रपञ्चस्य संयुक्ताः परमाणवः .
मृदन्वितो घटस्तस्माद्भासते नेश्वरान्वितः .. १..
परमाणुगता एव गुणा रूपरसादयः .
कार्ये समानजातीयमारभन्ते गुणान्तरम् .. २..
कार्यं यत्र समन्वेति कारणं समवायि तत् .
चक्राद्यं साधनं यत्तु घटस्यासमवायि तत् .. ३..
समवायिनि तिष्ठेद्यत् समवाय्याश्रये तथा .
कार्येऽवधृतसामर्थ्यं कल्प्यतेऽसमवायि तत् .. ४..
निमित्तं कारणं तेषामीश्वरश्च कुलालवत् .
यत्कार्यं जायते यस्मात्तस्मिन् तत्प्रतितिष्ठति .. ५..
मृत्तिकायां घटस्तन्तौ पटः स्वर्णेऽङ्गुलीयकम् .
इति वैशेषिकाः प्राहुस्तथा नैयायिका अपि .. ६..
रजः सत्त्वं तमश्चेति प्रधानस्य गुणास्त्रयः .
रजो रक्तं चलं तेषु सत्त्वं शुक्लं प्रकाशकम् .. ७..
तमः कृष्णं चावरकं सृष्टिस्थित्यन्तहेतवः .
इति सांख्याश्च भाषन्ते तेषां दूषण उच्यते .. ८..
अङ्कुरादिफलान्तेषु कार्येष्वस्तित्वमिष्यते .
कुत आगत्य सम्बद्धा वटबीजेषु ते कणाः .. ९..
कारणानुगतं कार्यमिति सर्वैश्च सम्मतम् .
तस्मात्सत्ता स्फुरत्ता च सर्वत्राप्यनुवर्तते .. १०..
पुष्पे फलत्वमापन्ने क्षीरे च दधितां गते .
विजातीयाः प्रतीयन्ते गुणा रूपरसादयः .. ११..
कारणं कार्यमंशोंऽशी जातिव्यक्ती गुणी गुणः .
क्रिया क्रियावानित्याद्याः प्रकाशस्यैव कल्पनाः .. १२..
चैतन्यं परमाणूनां प्रधानस्यापि नेष्यते .
ज्ञानक्रिये जगत्क्लृप्तौ दृश्येते चेतनाश्रये .. १३..
कालरूपक्रियाशक्त्या क्षीरात्परिणमेद्दधि .
ज्ञातृज्ञानज्ञेयरूपं ज्ञानशक्त्या भवेज्जगत् .. १४..
ज्ञानं द्विधा वस्तुमात्रद्योतकं निर्विकल्पकम् .
सविकल्पन्तु संज्ञादिद्योतकत्वादनेकधा .. १५..
सङ्कल्पसंशयभ्रान्तिस्मृतिसादृश्यनिश्चयाः .
ऊहोऽनध्यवसायश्च तथाऽन्येनुभवा अपि.. १६..
प्रत्यक्षमेकं चार्वाकाः कणादसुगतौ पुनः .
अनुमानञ् च तच्चापि सांख्याः शब्दं च ते अपि .. १७..
न्यायैकदर्शिनोप्यवेमुपमानं च के चन .
अर्थापत्त्या सहैतानि चत्वार्याह प्रभाकरः .. १८..
अभावषष्ठान्येतानि भाट्टा वेदान्तिनस्तथा .
सम्भवैतिह्ययुक्तानि तानि पौराणिका जगुः .. १९..
द्रव्यं गुणस्तथा कर्म सामन्यं च विशेषकम् .
समवायं च काणादाः पदार्थान्षट्प्रचक्षते .. २०..
नव द्रव्याणि भूतानि दिक्कालात्ममनांसि च .
चतुर्विंशतिरेव स्युर्गुणाः शब्दादिपञ्चकम् .. २१..
परिमाणं च सङ्ख्या च द्वौ संयोगविभागकौ .
स्वभावतः पृथक्त्वं च गुरुत्वं द्रवता पुनः .. २२..
परत्वं चापरत्वं च स्नेहः संस्कार इत्यपि .
धीर्द्वेषसुखदुःखेच्छाधर्माधर्मप्रयत्नकाः .. २३..
संस्कारस्त्रिविधो वेग इष्वादेर्गतिकारणम् .
दृष्टश्रुतानुभूतार्थस्मृतिहेतुश्च भावना .. २४..
स्थितस्थापकता नाम पूर्ववत्स्थितिकारणम् .
आकृष्टशाखाभूर्जादौ स्पष्टमेवोपलक्ष्यते .. २५..
उत्क्षेपणमवक्षेपो गमनं च प्रसारणम् .
आकुञ्चनमिति प्राहुः कर्म पञ्चविधं बुधाः .. २६..
सामान्यं द्विविधं प्रोक्तं परं चापरमेव च .
परं सत्तैव सर्वत्र तदनुस्यूतवर्तनम् .. २७..
द्रव्यत्वं च गुणत्वाद्यं सामान्यमपरं तथा .
विशेषाः स्युरनन्तास्ते व्यावृत्तिज्ञानहेतवः .. २८..
रूपस्येव घटे नित्यः सम्बन्धः समवायकः .
कालाकाशदिगात्मानो नित्याश्च विभवश्च ते .. २९..
चतुर्विधाः परिच्छिन्ना नित्याश्च परमाणवः .
इति वैशेषिकमते पदार्थाः षट् प्रकीर्तिताः .. ३०..
माया प्रधानमव्यक्तमविद्याऽज्ञानमक्षरम् .
अव्याकृतं च प्रकृतिः तम इत्यभिधीयते .. ३१..
मायायां ब्रह्मचैतन्यप्रतिबिम्बानुषङ्गतः .
महत्कालपुमांसः स्युः महत्तत्त्वादहंकृतिः .. ३२..
तामसात्स्युरहङ्कारात्खानिलाग्न्यम्बुभूमयः .
शब्दः स्पर्शश्च रूपं च रसो गन्धोप्यनुक्रमात् .. ३३..
इन्द्रियाणां च विषया भूतानामपि ते गुणाः .
देवाः सदाशिवश्चेशो रुद्रो विष्णुश्चतुर्मुखः .. ३४..
सात्त्विकात्स्यादहङ्कारादन्तःकरणधीन्द्रियम् .
मनो बुद्धिरहङ्कारश्चित्तं करणमान्तरम् .. ३५..
संशयो निश्चयो गर्वः स्मरणं विषया अमी .
चन्द्रः प्रजापती रुद्रः क्षेत्रज्ञ इति देवताः .. ३६..
श्रोत्रं त्वक्चक्षु जिह्वा घ्राणं ज्ञानेन्द्रियं विदुः .
दिग्वातसूर्यवरुणा नासत्यौ देवताः स्मृताः .. ३७..
राजसात्स्युरहङ्कारात्कर्मेन्द्रियसमीरणाः .
कर्मेन्द्रियाणि वाक्पाणिः पादः पायुरुपस्थकम् .. ३८..
वचनादानगमनविसर्गानन्दसंज्ञकाः .
विषया देवतास्तेषां वह्नीन्द्रोपेन्द्रमृत्युकाः .. ३९..
प्राणोपानः समानश्चोदानव्यानौ च वायवः .
भूतैस्तु पञ्चभिः प्राणैः चतुर्दशभिरिन्द्रियैः .. ४०..
चतुर्विंशतितत्त्वानि साङ्ख्यशास्त्रविदो विदुः .
महान्कालः प्रधानं च मायाविद्ये च पूरुषः .. ४१..
इति पौराणिकाः प्राहुस्त्रिंशत्तत्त्वानि तैः सह .
बिन्दुनादौ शक्तिशिवौ शान्तातीतौ ततः परम् .. ४२..
षट्त्रिंशत्तत्वमित्युक्तं शैवागमविशारदैः .
सर्वे विकल्पाः प्रागासन् बीजेऽङ्कुर इवात्मनि .. ४३..
इच्छाज्ञानक्रियारूपमायया ते विजृम्भिताः .
इच्छाज्ञानक्रियापूर्वा यस्मात्सर्वाः प्रवृत्तयः .. ४४..
सर्वेऽपि जन्तवस्तस्मादीश्वरा इति निश्चिताः .
बीजाद्वृक्षस्तरोबीजं पारम्पर्येण जायते .. ४५..
इतिशङ्कानिवृत्त्यर्थं योगिदृष्टान्तकीर्तनम् .
विश्वामित्रादयः पूर्वे परिपक्वसमाधयः .. ४६..
उपादानोपकरणप्रयोजनविवार्जिताः .
स्वेच्छया ससृजुः सर्गं सर्वभोगोपबृंहितम् .. ४७..
ईश्वरोऽनन्तशक्तित्वात्स्वतन्त्रोऽन्यानपेक्षकः .
स्वेच्छामात्रेण सकलं सृजत्यवति हन्ति च .. ४८..
न कारकाणां व्यापारात्कर्ता स्यान्नित्य ईश्वरः .
नापि प्रमाणव्यापरात् ज्ञाताऽसौ स्वप्रकाशकः .. ४९..
ज्ञातृत्वमपि कर्तृत्वं स्वातन्त्र्यात्तस्य केवलम् .
या चेच्छाशक्तिवैचित्री साऽस्य स्वच्छन्दकारिता .. ५०..
यया कर्तुं न वा कर्तुमन्यथा कर्तुमर्हति .
स्वतन्त्रामीश्वरेच्छां के परिच्छेतुमिहेशते .. ५१..
श्रुतिश्च सोऽकामयतेतीच्छया सृष्टिमीशितुः .
तस्मादात्मन आकाशः सम्भूत इति चाब्रवीत् .. ५२..
निमित्तमात्रं चेदस्य जगतः परमेश्वरः .
विकारित्वं विनाशित्वं भवेदस्य कुलालवत् .. ५३..
बुद्ध्यादयो नव गुणाः नित्या एवेश्वरस्य चेत् .
नित्येच्छावान्ं जगत्सृष्टौ प्रवतेतैव सर्वदा .. ५४..
प्रवृत्त्युपरमाभावात्संसारो नैव नश्यति .
मोक्षोपदेशो व्यर्थः स्यादागमोऽपि निरर्थकः .. ५५..
तस्मान्मायाविलासोऽयं जगत्कर्तृत्वमीशितुः .
बन्धमोक्षोपदेशादिव्यवहारोऽपि मायया .. ५६..
इति श्रीदक्षिणामूर्तिस्तोत्रार्थप्रतिपादके .
प्रबन्धे मानसोल्लासे द्वितीयोल्लाससंग्रहः .. ५७..
यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थगं भासते
साक्षात्तत्त्वमसीति वेदवचसा यो बोधयत्याश्रितान् .
यत्साक्षात्करणाद्भवेन्नपुनरावृत्तिर्भवाम्भोनिधौ
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये .. ३..
सत्तास्फुरत्ते भावेषु कुत आगत्य सङ्गते .
बिम्बादिदर्पणन्यायादित्थं पृच्छन् प्रबोध्यते .. १..
असत्कल्पेषु भावेषु जडेषु क्षणनाशिषु .
अस्तित्वं च प्रकाशत्वं नित्यात्संक्रामतीश्वरात् .. २..
आत्मसत्तैव सत्तैषां भावानां न ततोऽधिका .
तथैव स्फुरणं चैषां नात्मस्फुरणतोऽधिकम् .. ३..
ज्ञानानि बहुरूपाणि तेषं च विषया अपि .
अहङ्कारेऽनुषज्यन्ते सूत्रे मणिगणा इव .. ४..
प्रकाशाभिन्नमेवैतद्विश्वं सर्वस्य भासते .
लहरीबुद्बुदादीनां सलिलान्न पृथक्स्थितिः .. ५..
जानामित्येव यज्ज्ञानं भावानाविश्य वर्तते .
ज्ञातं मयेति तत्पश्चाद्विश्राम्यत्यन्तरात्मनि .. ६..
घटादिकानि कार्याणि विश्राम्यन्ति मृदादिषु .
विश्वं प्रकाशाभिन्नत्वाद्विश्राम्येत्परमेश्वरे .. ७..
स्वगतेनैव काळिम्ना दर्पणं मलिनं यथा ..
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः .. ८..
घटाकाशो महाकाशो घटोपाधिकृतो यथा .
देहोपाधिकृतो भेदो जीवात्परमात्मनोः .. ९..
तत्त्वमस्यादिवाक्यैस्तु तयोरैक्यं प्रदर्श्यते .
सोयं पुरुष इत्युक्ते पुमानेको हि दृश्यते .. १०..
यज्जगत्कारणं तत्त्वं तत्पदार्थः स उच्यते .
देहादिभिः परिच्छिन्नो जीवस्तु त्वंपदाभिधः .. ११..
तद्देशकालावस्थादौ दृष्टः स इति कथ्यते .
तथैतद्देशकालादौ दृष्टोऽयमिति कीर्त्यते .. १२..
मुख्यं तदेतद्वैशिष्ट्यं विसृज्य पदयोर्द्वयोः .
पुम्मात्रं लक्षयत्येकं यथा सोयं पुमान्वचः .. १३..
प्रत्यक्त्वं च पराक्त्वं च त्यक्त्वा तत्त्वमसीति वाक् .
तथैव लक्षयत्यैकं जीवात्मपरमात्मनोः .. १४..
सामानाधिकरणाख्यः सम्बन्धः पदयोरिह .
विशेषणविशेष्यत्वं सम्बन्धः स्यात्पदार्थयोः .. १५..
लक्ष्यलक्षणसंयोगाद्वाक्यमैक्यं च बोधयेत् .
गङ्गायां घोष इतिवन्न जहल्लक्षणा भवेत् .. १६..
नाजहल्लक्षणाऽपि स्याच्छ्वेतोधावतिवाक्यवत् .
तत्त्वमस्यादिवाक्यानां लक्षणा भागलक्षणा .. १७..
सोऽयं पुरुष इत्यादिवाक्यानामिव कीर्तिता .
भिन्नवृत्तिनिमित्तानां शब्दानामेकवस्तुनि .. १८..
प्रवृत्तिस्तु समानाधिकरणत्वमिहोच्यते .
परस्यांशो विकारो वा जीवो वाक्येन नोच्यते .. १९..
जीवात्मना प्रविष्ठत्वात्स्वमायासृष्टमूर्तिषु .
निरंशो निर्विकारोऽसौ श्रुत्या युक्त्या च गम्यते .. २०..
घटाकाशो विकरो वा नांशो वा वियतो यथा .
त्वमिन्द्रोसीतिवद्वाक्यं न खलु स्तुतितत्परम् .. २१..
न सादृश्यपरं वाक्यमग्निर्माणवकादिवत् .
न कार्यकारणत्वस्य साधनं मृद्घटादिवत् .. २२..
न जाति व्यक्तिगमकं गौः खण्ड इतिवद्वचः .
गुणगुण्यात्मकं वाक्यं नैतन्नीलोत्पलादिवत् .. २३..
नोपासनापरं वाक्यं प्रतिमास्वीशबुद्धिवत् .
न वौपचारिकं वाक्यं राजवद्राजपूरुषे .. २४..
जीवात्मना प्रविष्टोऽसावीश्वरः श्रूयते यतः .
देहेन्द्रियमनोबुद्धिप्राणाहङ्कारसंहतौ .. २५..
आत्मसङ्कलनादज्ञैरात्मत्वं प्रतिपाद्यते .
वह्निधीः काष्ठलोहादौ वह्निसङ्कलनादिव .. २६..
देहमन्नमयं कोशमाविश्यात्मा प्रकाशते .
स्थूलो बालः कृशः कृष्णो वर्णाश्रमविकल्पवान् .. २७..
प्राणकोशेऽपि जीवामि क्षुधितोऽस्मि पिपासितः .
संशितो निश्चितो मन्ये इति कोशे मनोमये .. २८..
विज्ञानमयकोशस्थो विजानामीति तिष्ठति .
आनन्दमयकोशाख्ये त्वहङ्कारे पुराकृतैः .. २९..
पुण्यैरुपासनाभिश्च सुखितोऽस्मीति मोदते .
एवं कंचुकितः कोशैः कंचुकैरिव पञ्चभिः .. ३०..
परिच्छिन्न इवाभाति व्याप्तोऽपि परमेश्वरः .
यथा सलिलमाविश्य बहुधा भाति भस्करः .. ३१..
तथा शरीराण्याविश्य बहुधा स्फुरतीश्वरः .
कारणत्वं च कार्यत्वं तटस्थं लक्षणं तयोः .. ३२..
शाखायां चन्द्र इतिवन्नैव मुख्यमिदं मतम् .
महाप्रकाश इत्युक्तं स्वरूपं चन्द्रलक्षणम् .. ३३..
सच्चिदानन्दरूपत्वं स्वरूपं लक्षणं तयोः .
एकलक्षणयोरैक्यं वाक्येन प्रतिपाद्यते .. ३४..
तस्मादेकप्रकाशत्वं सर्वात्मत्वमिति स्थितम् .
देवतिर्यङ्मनुष्याणां प्रकाशान्न पृथक्स्थितिः .. ३५..
जीवः प्रकाशाभिन्नत्वात्सर्वात्मेत्यभिधीयते .
एवं प्रकाशरूपत्वपरिज्ञाने दृढीकृते .. ३६..
पुनरावृत्तिरहितं कैवल्यं पदमश्नुते .
सकृत्प्रसक्तमात्रोऽपि सर्वात्मत्व यदृच्छया .. ३७..
सर्वपापविनिर्मुक्तः शिवलोके महीयते .
सर्वात्मभावना यस्य परिपक्वा महात्मनः .
संसारतारकः साक्षात्स एव परमेश्वरः .. ३८..
इति श्रीदक्षिणामूर्तिस्तोत्रार्थप्रतिपादके .
प्रबन्धे मानसोल्लासे तृतीयोल्लाससंग्रहः .. ३९..
नानाच्छिद्रघटोदरस्थितमहादीपप्रभाभास्वरं
ज्ञानं यस्य तु चक्षुरादिकरणद्वारा बहिःस्पन्दते .
जानामीति तमेव भान्तमनुभात्येतत्समस्तं जगत्
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये .. ४..
स्वतः सन्तः प्रकाशन्ते भावा घटपटादयः .
नेश्वरस्य समावेशादित्यस्योत्तरमुच्यते .. १..
अहमित्यनुसन्धाता जानामीति न चेत्स्फुरेत् .
कस्य को वा प्रकाशेत जगच्च स्यात्सुषुप्तवत् .. २..
प्रागूर्ध्वं चासतां सत्त्वं वर्तमानेऽपि न स्वतः .
तस्मादीशे स्थितं सत्त्वं प्रागूर्ध्वत्वविवर्जिते .. ३..
स्वयमेव प्रकाशेरन् जडा यदि विनेश्वरम् .
सर्वं सर्वस्य भासेत न वा भासेत किञ्चन .. ४..
तस्मात्सर्वज्ञमज्ञं वा जगत्स्यादेकरूपकम् .
तुल्ये स्वयंप्रकाशत्वे जडचेतनयोर्मिथः .. ५..
तुल्यमेव प्रसज्येरन् ग्राह्यग्राहकतादयः .
इन्द्रियाणामनियमाच्चाक्षुषा स्यू रसादयः .. ६..
मलिनामलिनादर्शपश्चात्प्राग्भागतुल्ययोः .
क्रियाशक्तिज्ञानशक्त्येरन्तःकरणभागयोः .. ७..
प्रतिबिम्बे स्फुरन्नीशः कर्ता ज्ञातेति कथ्यते .
बुद्धिः सत्त्वगुणोत्कर्षान्निर्मलो दर्पणो यथा .. ८..
गृह्णाति विषयच्छायामात्मच्छायानुभावतः .
अन्तःकरणसम्बन्धान्निखिलानीन्द्रियाण्यपि .. ९..
रथाङ्गनेमिवलये कीलिता इव कीलकाः .
नाड्योऽन्तःकरणे स्यूता जलसंस्यूतसूत्रवत् .. १०..
ताभिस्तु गोळकान्ताभिः प्रसर्पन्ति स्फुलिङ्गवत् .
करणानि समस्तानि यथास्वं विषयं प्रति .. ११..
देहस्य मध्यमं स्थानं मूलाधार इतीर्यते .
गुदात्तु द्व्यङ्गुलादूर्ध्वं मेढ्रात्तु द्व्यङ्गुलादधः .. १२..
त्रिकोणोऽधोमुखाग्रश्च कन्यकायोनिसन्निभः .
यत्र कुण्डलिनी नाम पराशक्तिः प्रतिष्ठिता .. १३..
प्राणाग्निबिन्दुनादानां सवित्री सा सरस्वती .
मूलाधाराग्रकोणस्था सुषुम्ना ब्रह्मरन्ध्रगा .. १४..
मूलेऽर्धच्छिन्नवंशाभा षडाधारसमन्विता .
तत्पार्श्वकोणयोर्जाते द्वे इडापिङ्गले स्थिते .. १५..
नाडीचक्रमिति प्राहुः तस्मान्नाड्यः समुद्गताः .
गान्धारी हस्तिजिह्वा च नयनान्तं प्रधावतः .. १६..
नाडीचक्रेण संस्यूते नासिकान्तमुभे गते .
नाभिमण्डलमाश्रित्य कुक्कुटाण्डमिव स्थितम् .. १७..
नाडीचक्रमिति प्राहुस्तस्मान्नाड्यः समुद्गताः .
पूषा चालाम्बुषा नाडी कर्णद्वयमुपाश्रिते .
नाडी शुक्लाह्वया तस्माद् भ्रूमध्यमुपसर्पति .. १८..
सरस्वत्याह्वया नाडी जिह्वान्ता वाक्प्रसारिणी .
नाडी विश्वोदरी नाम भुङ्क्तेऽन्नं सा चतुर्विधम् .. १९..
पीत्वा पयस्विनी तोयं कण्ठस्था कुरुते क्षुतम् .
नाडीचक्रात्समुद्भूता नाड्यस्तिस्रस्त्वधोमुखाः .. २०..
राका शुक्लं सिनीवाली मूत्रं मुञ्चेत्कुहुर्मलम् .
भुक्तान्नरसमादाय शङ्खिनी धमनी पुनः .. २१..
कपालकुहरं गत्वा मूर्ध्नि सञ्चिनुते सुधाम् .
शतं चैका च नाड्यः स्युस्तासामेका शिरोगता .. २२..
तयोर्ध्वमायन्मुक्तः स्यादिति वेदान्तशासनम् .
यदा बुद्धिगतैः पुण्यैः प्रेरितेन्द्रियमार्गतः .. २३..
शब्दादीन् विषयान् भुङ्क्ते तदा जागरितं भवेत् .
संहृतेष्विन्द्रियेष्वेषु जाग्रत्संस्कारजान्पुमान् .. २४..
मानसान्विषयान्भुङ्क्ते स्वप्नावस्था तदा भवेत् .
मनसोप्युपसंहारः सुषुप्तिरिति कथ्यते .. २५..
तत्र मायासमाच्छन्नः सन्मात्रो वर्तते पुमान् .
मूढो जडोऽज्ञ इत्येवं मायावेशात्प्रकाशते .. २६..
सुखमस्वाप्समित्येवं प्रबोधसमये पुमान् .
सच्चिदानन्दरूपः सन् सम्यगेव प्रकाशते .. २७..
इत्थं जगत्समाविश्य भासमाने महेश्वरे .
सूर्यादयोऽपि भासन्ते किमुतान्ये घटादयः .. २८..
तस्मात्सत्ता स्फुरत्ता च भावानामीश्वराश्रयात् .
सत्यं ज्ञानमनन्तं च श्रुत्या ब्रह्मोपदिश्यते .. २९..
जाग्रत्स्वप्नोद्भवं सर्वमसत्यं जडमन्धवत् .
ईश्वरश्चाहमित्येवं भासते सर्वजन्तुषु .. ३०..
निर्विकल्पश्च शुद्धश्च मलिनश्चेत्यहं त्रिधा .
निर्विकल्पं परं ब्रह्म निर्धूताखिलकल्पनम् .. ३१..
धूल्यन्धकारधूमाभ्रनिर्मुक्तगगनोपमम् .
विवेकसमये शुद्धं देहादीनां व्यपोहनात् .. ३२..
यथाऽन्तरिक्षं संक्षिप्तं नक्षत्रैः किञ्चिदीक्ष्यते .
देहेन्द्रियादिसंसर्गान्मलिनं कलुषीकृतम् .. ३३..
यथाऽऽकाशं तमोरूढं स्फुरत्यनवकाशवत् .
अहमित्यैश्वरं भावं यदा जीवः प्रबुध्यते .. ३४..
सर्वज्ञः सर्वकर्ता च तदा जीवो भविष्यति .
माययाधिकसम्मूढो विद्ययेशः प्रकाशते .. ३५..
निर्विकल्पानुसन्धाने सम्यगात्मा प्रकाशते .
अविद्याख्यतिरोधानव्यपाये परमेश्वरः .
दक्षिणामूर्तिरूपोसौ स्वयमेव प्रकाशते .. ३६..
इति श्रीदक्षिणामूर्तिस्तोत्रार्थप्रतिपादके .
प्रबन्धे मानसोल्लासे चतुर्थोल्लाससंग्रहः .. ३७..
देहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं च शून्यं विदुः
स्त्रीबालान्धजडोपमास्त्वहमिति भ्रान्ता भृशं वादिनः .
मायाशक्तिविलासकल्पितमहाव्यामोहसंहारिणे
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये .. ५..
प्रमाणमेकं प्रत्यक्षं तत्त्वं भूतचतुष्टयम् .
मोक्षश्च मरणान्नान्यः कामार्थौ पुरुषार्थकौ .. १..
न हि खल्वीश्वरः कर्ता परलोककथा वृथा .
देहं विनाऽस्ति चेदात्मा कुम्भवद्दृश्यतां पुरः .. २..
ह्रस्वो दीर्घो युवा बाल इति देहो हि दृश्यते .
अस्ति जातः परिणतो वृद्धः क्षीणो जरन्मृतः .. ३..
इत्येवमुक्ताः षड्भावविकारा देहसंश्रयाः .
वर्णाश्रमविभागश्च देहेष्वेव प्रतिष्ठितः .. ४..
जातकर्मादिसंस्कारो देहस्यैव विधीयते .
शतं जीवेति देहस्य प्रयुञ्जन्त्याशिषं शुभाम् .. ५..
इति प्रपञ्चं चार्वाको वंचयत्यल्पचेतनः .
केचिच्छ्वसिमि जीवामि क्षुधितोस्मि पिपासितः .. ६..
इत्यादिप्रत्ययबलात्प्ताणमात्मेति मन्वते .
केचिच्छृणोमि पश्यामि जिघ्राम्या स्वादयाम्यहम् .. ७..
इतीन्द्रियाणामात्मत्वं प्रतियन्ति ततोधिकम् .
जानामिप्रत्ययबलाद्बुद्धिरित्यपरे जगुः .. ८..
मायाव्यामूढचित्तानां तेषां दूषणमुच्यते .
देहादीनां जडार्थानां पाषाणवदनात्मनाम् .. ९..
कथं भवेदहम्भावः समावेशं विनेशितुः .
देहस्तावदयं नात्मा दृश्यत्वाच्च जडत्वतः .. १०..
रूपादिमत्त्वात्सांशत्वाद्भौतिकत्वाच्च कुम्भवत् ..
मूर्च्छासुषुप्तिमरणेश्वपि देहः प्रतीयते .. ११..
देहादिव्यतिरिक्तत्वात्तदाऽऽत्मा न प्रकाशते .
यथा जगत्प्रवृत्तीनामादिकारणमंशुमान् .. १२..
पुमांस्तथैव देहादिप्रवृत्तौ कारणं परम् .
मम देहोयमित्येवं स्त्रीबालान्धाश्च मन्वते .. १३..
देहोहमिति नावैति कदाचिदपि कश्चन .
इन्द्रियाण्यपि नात्मानः करणत्वात्प्रदीपवत् .. १४..
वीणादिवाद्यवच्छ्रोत्रं शब्दग्रहणसाधनम् .
चक्षुस्तेजस्त्रितयवद्रूपग्रहणसाधनम् .. १५..
गन्धस्य ग्राहकं घ्राणं पुष्पसम्पुटकादिवत् .
रसस्य ग्राहिका जिह्वा दधिक्षौद्रघृतादिवत् .. १६..
इन्द्रियाणि न मे सन्ति मूकोन्धो बधिरोस्म्यहम् .
इत्याहुरिन्द्रियैर्हीना जनाः किं ते निरात्मकाः .. १७..
प्राणोप्यात्मा न भवति ज्ञानाभावात्सुषुप्तिषु .
जाग्रत्स्वप्नोपभोगोत्थश्रमविच्छित्तिहेतवे .. १८..
सुषुप्तिं पुरुषे प्राप्ते शरीरमभिरक्षितुम् .
शेषकर्मोभोगार्थं प्राणश्चरति केवलम् .. १९..
प्राणस्य तत्राचैतन्यं करणोपरमे यदि .
प्राणे व्याप्रियमाणे तु करणोपरमः कथम् .. २०..
सम्राजि हि रणोद्युक्ते विरमन्ति न सैनिकाः .
तस्मान्न करणस्वामी प्राणो भवितुमर्हति .. २१..
मनसः प्रेरके पुंसि विरते विरमन्त्यतः .
करणानि समस्तानि तेषां स्वामी ततः पुमान् .. २२..
बुद्धिस्तु क्षणिका वेद्या गमागमसमन्विता .
आत्मनः प्रतिबिम्बेन भासिता भासयेज्जगत् .. २३..
आत्मन्युत्पद्यते बुद्धिरात्मन्येव प्रलीयते .
प्रागूर्ध्वं चासती बुद्धिः स्वयमेव न सिध्यति .. २४..
ज्ञानाच्चेत्पूर्वपूर्वस्मादुत्तरोत्तरसम्भवः .
युगपद्बहुबुद्धित्वं प्रसज्येत क्षणे क्षणे .. २५..
बुद्ध्यन्तरं न जनयेन्नाशोत्त्रमसत्त्वतः .
एषां सङ्घात आत्मा चेदेकदेशे पृथक्कृते .. २६..
न चैतन्यं प्रसज्येत सङ्घाताभावतस्तदा .
भिन्नदृग्गत्यभिप्राये बहुचेतनपुञ्जितम् .. २७..
सद्यो भिन्नं भवेदेतन्निष्क्रियं वा भविष्यति .
देहस्यान्तर्गतोप्यात्मा व्याप्त एवेति बुध्यते .. २८..
अणुप्रमाणश्चेदेष व्याप्नुयान्नाखिलं वपुः .
देहप्रमाणश्चेन्न स्याद्बालस्य स्थविरादिता .. २९..
देहवत्परिणामी चेत्तद्वदेव विनङ्क्ष्यति .
कर्मणाअं परिणामेन क्रिमिहस्त्यादिमूर्तिषु .. ३०..
व्याप्तत्वात्प्रविशत्यात्मा घटादिष्वन्तरिक्षवत् .
परमाणुप्रमाणेऽपि मनसि प्रतिभासते .. ३१..
स्वप्ने चराचरं विश्वमात्मन्येव प्रतिष्ठितम् .
देहादिष्वहमित्येवं भ्रमः संसारहेतुकः .. ३२..
अन्तः प्रविष्टः शास्तेति मोक्षायोपादिशच्छ्रुतिः .
एवमेषा महामाया वादिनामपि मोहिनी .. ३३..
यस्मात्साक्षात्कृते सद्यो लीयते च सदाशिवे .
देहेन्द्रियासुहीनाय मानदूरस्वरूपिणे .
ज्ञानानन्दस्वरूपाय दक्षिणामूर्तये नमः .. ३४..
इति श्रीदक्षिणामूर्तिस्तोत्रार्थ प्रतिपादके .
प्रबन्धे मानसोल्लासे पञ्चमोल्लाससङ्ग्रहः .. ३५..
राहुग्रस्तदिवाकरेन्दुसदृशो मायासमाच्छादनात्
सन्मात्रः करणोपसंहरणतो योऽभूत्सुषुप्तः पुमान् .
प्रागस्वाप्समिति प्रबोधसमये यः प्रत्यभिज्ञायते
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये .. ६..
स्वप्ने विश्वं यथाऽन्तस्थं जाग्रत्यपि तथेति चेत् .
सुषुप्तौ कस्य किं भाति कः स्थायी तत्र चेतनः .. १..
सर्वं च क्षणिकं शून्यं सर्वमेव स्वलक्षणम् .
सङ्घातः परमाणूनां मह्यम्ब्वग्निसमीरणाः .. २..
मनुष्यादिशरीराणि स्कन्धपंचकसंहतिः .
स्कन्धाश्च रूपविज्ञानसंज्ञासंकारवेदनाः .. ३..
रूप्यन्त इति रूपाणि विषयाश्चेन्द्रियाण्यपि .
विषयेन्द्रिययोर्ज्ञानं विज्ञानस्कन्ध उच्यते .. ४..
संज्ञागुणक्रियाजातिविशिष्टप्रत्ययात्मिका .
पञ्चधा कल्पना प्रोक्ता संज्ञास्कन्धस्य सौगतैः .. ५..
गवां गौरिति संज्ञोक्ता जातिर्गोत्वं तु गोगतम् .
गुणाः शुक्लादयस्तस्य गच्छत्याद्यास्तथा .. ६..
शृङ्गी चतुष्पाल्लाङ्गूली विशिष्टप्रत्ययो ह्यसौ .
एवं पञ्चविधा क्लृप्तः संज्ञास्कन्ध इतीर्यते .. ७..
रागाद्याः पुण्यपापे च संस्कारस्कन्ध उच्यते .
सुखं दुःखं च मोक्षश्च स्कन्धः स्याद्वेदनाह्वयः .. ८..
पञ्चभ्य एव स्कन्धेभ्यो नान्य आत्मास्ति कश्चन .
न कश्चदीश्वरः कर्ता स्वगतातिशयं जगत् .. ९..
स्कन्धेभ्यः परमाणुभ्यः क्षणिकेभ्योऽभिजायते .
पूर्वपूर्वक्षणादेव क्षणः स्यादुत्तरोत्तरः .. १०..
पूर्वस्मादेव हि ज्ञानाज्जायते ज्ञानमुत्तरम् .
स एवायमिति ज्ञानं सेयं ज्वालेव विभ्रमः .. ११..
अस्ति भातीतिधीभ्रान्तैरात्मानात्मसु कल्प्यते .
हानोपादानराहित्यादाकाशः किं प्रकाशते .. १२..
इत्येवं बौद्धसिद्धान्ती भाषमाणो निषिद्ध्यते .
शून्यं चेज्जगतो हेतुः जगदेव न सिद्ध्यति .. १३..
घटः शून्यः पटः शून्यः इति कैः प्रतिपाद्यते .
नैव भासेत शून्यं चेज्जगन्नरविषाणवत् .. १४..
वस्त्वर्थी किमुपादद्याद्भारार्थः किं परित्यजेत् .
को विदध्यान्निषिद्ध्येद्वा शून्यत्वात्स्वस्य चात्मनः .. १५..
अवसीदेन्नीराकूतं तस्मात्सर्वमिदं जगत् .
स्कन्धानां परमाणूनां न सङ्घातयितास्ति चेत् .. १६..
सङ्घातो न विना हेतुं जडा घटपटादयः .
महानुभावो भूयासमिति भ्रान्तश्च मन्यते .. १७..
आत्मापलापको बौद्धः किमर्थं चरति व्रतम् .
प्रत्यभिज्ञा यदि भ्रान्तिः भोजनादि कथं भवेत् .. १८..
इष्टसाधनमेवैतदन्नं गतदिनान्नवत् .
इति निश्चित्य बालोऽपि भोजनादौ प्रवर्तते .. १९..
अवकाशप्रदातृत्वमाकाशार्थक्रिया यथा .
तथैवार्थक्रिया पुंसः कर्तृत्वज्ञातृतादिका .. २०..
सुषुप्तिसमयेप्यात्मा सत्यज्ञानसुखात्मकः .
सुखमस्वाप्समित्येवं प्रत्यभिज्ञायते यतः .. २१..
प्रत्यभिज्ञायत इति प्रयोगः कर्मकर्तरि .
आत्मा स्वयंप्रकाशात्वाज्जानात्यात्मानमात्मना .. २२..
सुषुप्तौ मायया मूढः जडोन्ध इति लक्ष्यते .
अप्रकाशतया भाति स्वप्रकाशतयापि च .. २३..
जडात्मनि च देहादौ साक्षादीशो विविच्यते .
एषैव मोहिनी नाम मायाशक्तिर्महेशितुः .. २४..
मोहापोहः प्रमातॄणां मोक्ष इत्यभिधीयते .
अवस्थात्रयनिर्मुक्तो दोषदिभिरनाविलः .. २५..
इषीक इव सन्मात्रो न्यग्रोधकणिकोपमः .
बाह्याबाह्यदळोन्मुक्तकदळीकन्दसन्निभः .. २६..
निरंशो निर्विकारश्च निराभासो निरञ्जनः .
पुरुषः केवलः पूर्णः प्रोच्यते परमेश्वरः .. २७..
वाचो यत्र निवर्तन्ते मनो यत्र विलीयते .
एकीभवन्ति यत्रैव भूतानि भुवनानि च .. २८..
समस्तानि च तत्त्वानि समुद्रे सिन्धवो यथा .
कः शोकस्तत्र को मोह एकत्वमनुपश्यतः .. २९..
वाच्यवाचकरूपत्वात्सविकल्पोपि सन्नयम् .
देहादीनां व्यपोहेन सम्भवेन्निर्विकल्पकम् .. ३०..
असन्नेव भवेद्विद्वानसद्ब्रह्मेति वेद चेत् .
अस्ति ब्रह्मेति चेद्वेद सन्तेमेनं ततो विदुः .. ३१..
इति श्रीदक्षिणामूर्तिस्तोत्रार्थप्रतिपादके .
प्रबन्धे मानसोल्लासे षष्ठोल्लासस्य सङ्ग्रहः .. ३२..
बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि
व्यावृत्तास्वनुवर्तमानमहमित्यन्तः स्फुरन्तं सदा .
स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये .. ७..
प्रत्यभिज्ञाबलादात्मा स्थायी निर्धार्यते यदि .
का नाम प्रत्यभिज्ञैषा किं वा तस्याः प्रयोजनम् .. १..
प्रत्यक्षादिप्रमाणेषु प्रत्यभिज्ञा न पठ्यते .
कथं तस्याः प्रमाणत्वमिति पृच्छन् प्रबोध्यते .. २..
भातस्य कस्य चित्पूर्वं भासमानस्य साम्प्रतम् .
सोऽयमित्यनुसन्धानं प्रत्यभिज्ञानमुच्यते .. ३..
तद्देशकालाकारादीनवधूयानुष्ङ्गिकान् .
यथैकं वस्त्वनुस्यूतं सोऽयमित्यभिधीयते .. ४..
मायानुष्ङ्गसञ्जातकिञ्चिज्ज्ञत्वाद्यपोहनात् .
सर्वज्ञत्वादिविज्ञानं प्रत्यभिज्ञानमात्मनः .. ५..
पूर्वजन्मानुभूतार्थस्मरणान्मृगशाबकः .
जननीस्तन्यपानाय स्वयमेव प्रवर्तते .. ६..
तस्मान्निश्चीयते स्थायीत्यात्मा देहान्तरेष्वपि .
स्मृतिं विना न घटते स्तन्यपानं शिशोर्यतः .. ७..
पूर्वत्रानुभवे काले स्मृतिकाले परत्र सन् .
आत्मा संस्काररूपेण स्मरत्यर्थं स्वनिष्ठितम् .. ८..
प्रत्यभिज्ञेति भावानां स्मृतिश्चेदभिधीयते .
आत्मस्थैर्ये प्रमाणत्वं स्मृतिश्च प्राप्नुयात्कथम् .. ९..
स्मृतौ प्रकाशो नार्थस्य न चाप्यर्थस्य निश्चयः .
न चाप्यर्थानुभवयोरङ्गुल्योरिव सम्भवेत् .. १०..
नानुभूतिविशिष्टस्य पदार्थस्य च दण्डिवत् .
सर्वत्राप्येवमित्येवं प्रसङ्गादिति चेच्छृणु .. ११..
प्राक्तनानुभवे नष्टे तदवष्टम्भसम्भवात् .
संस्कारसंज्ञात्सामग्र्यात् पौरुषाज्जायते स्मृतिः .. १२..
आवेद्यानुभवे नष्टे तदीयं विषयं प्रति .
अनुभावकमात्मानं बोधयत्यनपायिनम् .. १३..
विषये च प्रमुषिते नष्टे वाऽनुभवे सति .
स्वविश्रान्तं स्मरत्यर्थं देवोऽप्रमुषितः सदा .. १४..
प्रमोषणं प्रमातॄणां मायया तमसा कृतम् .
मायाविद्ये प्रभोः शक्ती भानोश्छायाप्रभोपमे .. १५..
अर्थानाच्छदयेन्माया विद्या व्याक्षिप्य दर्शयेत् .
प्रत्यभिज्ञैव सर्वेषां प्रमाणानां च साधनम् .. १६..
ईश्वरोन्योहमप्यन्य इति विच्छेदकारिणीम् .
व्याक्षिप्य विद्यया मायामीश्वरोहमिति स्मृतिः .. १७..
ईषत्प्रकाशोभूदीशो मायायवनिकावृतः .
सम्यगावरणापाये सहस्रांशुरिव स्फुरेत् .. १८..
न कारणानां व्यापारः प्रमाणानां न वा पुनः .
प्रत्यभिज्ञापनं नाम मोहापसरणं परम् .. १९..
यावन्ति सन्ति मानानि व्यवहारप्रवृत्तये .
तेषां मोहापसरणाद्व्यपारोन्यो न विद्यते .. २०..
जडानृतपरिच्छिन्नदेहधर्माश्चिदात्मनि .
सत्यज्ञानसुखात्मत्वं मोहाद्देहेऽपि कल्प्यते .. २१..
शुक्तौ रजतमित्येवं यथा व्यामुह्यतेऽन्यथा .
सएव र्रूप्यं चेद्भाति विलयस्ते न सिध्यति .. २२
नात्यन्तासत्प्रकाशेत नरशृङ्गादिवत्क्वचित् .
कान्ताकरादौ रजतमिति स्यात्स्मरणं भ्रमे .. २३..
तेनेदं तुल्यमित्येवं स्यात्सादृश्याद्यदि भ्रमः .
पीतः शङ्खो गुडस्तिक्त इत्यादौ नास्ति तुल्यता .. २४..
तादात्म्येन स्फुरति चेद्रजतत्वेन शुक्तिका .
विभ्रमो निरधिष्ठानो बाधो निरवधिर्भवेत् .. २५..
बुद्धिस्थितं चेद्रजतं बाह्यत्वेन प्रतीयते .
गुञ्जादौ ज्वलनारोपे देहदाहः प्रसज्यते .. २६..
युक्तिहीनप्रकाशत्वाद् भ्रान्तेर्न ह्यस्ति लक्षणम् .
यदि स्याल्लक्षणं किंचिद् भ्रान्तिरेव न सिध्यति .. २७..
जलचन्द्रवदेकस्मिन्निर्भये रज्जुसर्पवत् .
प्रतीयते यथा स्वर्णे कारणे कटकादिवत् .. २८..
उपात्ते रूप्यवच्छुक्तौ व्याप्ते यक्षपुरीव खे .
रश्म्यम्बुवत्स्फुरद्रूपे स्थाणौ चोरवदक्रिये .. २९..
असत्कल्पमिदं विश्वमात्मन्यारोप्यते भ्रमात् .
स्वयंप्रकाशं सद्रूपं भ्रान्तिबाधविवर्जितम् .. ३०..
प्रत्यभिज्ञायते वस्तु प्राग्वन्मोहे व्यपोहिते .
देहाद्युपाधौ निर्धूते स्यादात्मैव महेश्वरः .. ३१..
स्मृतिः प्रत्यक्षमैतिह्यमित्यादीन्यपराण्यपि .
प्रमाणान्याप्तवागाह प्रत्यभिज्ञाप्रसिद्धये .. ३२..
इति श्रीदक्षिणामूर्तिस्तोत्रार्थप्रतिपादके .
प्रबन्धे मानसोल्लासे सप्तमोल्लाससङ्ग्रहः .. ३३..
विश्वं पश्यति कार्यकारणतया स्वस्वामिसंबन्धतः
शिष्याचार्यतया तथैव पितृपुत्राद्यात्मना भेदतः .
स्वप्ने जाग्रति वा एष पुरुषो मायापरिभ्रामितः
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये .. ८..
प्रकाशव्यतिरेकेण पदार्थः कोऽपि नास्ति चेत् .
परमार्थोपदेशान्तो व्यवहारः कथं भवेत् .. १..
कस्य बन्धश्च मोक्षश्च बध्यते केन हेतुना .
मायया लक्षणं किं स्यादित्येवं परिपृच्छतः .. २..
प्रशनः स्यादुत्तरं वक्तुं प्रतिपत्तुं सुखेन च .
उक्तोर्थः सप्तभिः श्लोकैः पुनः संक्षिप्य कथ्यते .. ३..
पौनरुक्त्यं न दोषोऽत्र शब्देनार्थेन वा भवेत् .
अभ्यासेन गरीयस्त्वमर्थस्य प्रतिपाद्यते .. ४..
स्वयंप्रकाशे सद्रूपेऽप्येकस्मिन्परमेश्वरे .
कार्यकारणसम्बन्धाद्यनेकविधकल्पना .. ५..
राहोः शिरः सुषिः खस्य ममात्मा प्रतिमावपुः .
इत्यादिकल्पना तुल्या न पृथग्वस्तुगोचरा .. ६..
उपास्योपासकत्वेन गुरुशिष्यक्रमेण च .
स्वामिभृतादिरूपेण क्रीडति स्वेच्छयेश्वरः .. ७..
पितरं प्रति पुत्रो यः पुत्रं प्रति पितैव सः .
एक एव हि नानेव कल्प्यते शब्दमात्रतः .. ८..
तस्मात्प्रकाश एवास्ति परमार्थनिरूपणे .
भेदप्रतीतिर्मिथ्यैव माययाऽऽत्मनि कल्पिता .. ९..
मिथ्यात्वं नाम बाध्यत्वं सम्यग्ज्ञानोदये सति .
शिष्याचार्योपदेशादि स्वप्नवत्प्रतिभासते .. १०..
मिथ्याभूतोऽपि वेदान्तः सत्यमर्थं प्रबोधयेत् .
देवताप्रतिमावच्च चित्रवत्प्रतिबिम्बवत् .. ११..
सर्वोऽपि व्यवहारोऽयं मायया परिजृम्भणम् .
सुषुप्तिसदृशी माया स्वप्रबोधेन बाध्यते .. १२..
युक्तिहीनप्रकाशस्य संज्ञा मायेति कथ्यते .
नासती दृश्यमाना सा बाध्यमाना न वा सती .. १३..
न प्रकाशादियं भिन्ना छायेवार्कस्य तामसी .
न चाभिन्ना जडत्वेन विरोधान्नोभयात्मिका .. १४..
स्वहेत्ववयवाभावान्नेयं सावयवोच्यते .
न चावयवहीना सा कार्येष्ववयवान्विता .. १५..
अविचारितसिद्धेयं मायावेश्याविलासिनी .
पुरुषं वञ्चयत्येव मिथ्याभूतैः स्वविभ्रमैः .. १६..
न तस्या मूलविच्छेदमभिवाञ्छति केचन .
तेषां पक्षे कथं मोक्षो मनसः सम्भविष्यति .. १७..
तिस्रोप्यवस्था मनसो जाग्रत्स्वप्नसुषुप्तयः .
चक्रवत्परिवर्तन्ते भेदभ्रान्त्येकहेतवः .. १८..
ताभिः करोति कर्माणि पुनस्तैर्बध्यते मनः .
मनसः केवलः साक्षी भानुवत्पुरुषः परः .. १९..
यथा प्राणिकृतैरर्कः कर्मभिर्नैव बध्यते .
तथा मनःकृतैरात्मा साक्षित्वान्नैव बध्यते .. २०..
आत्मा करोति कर्माणि बध्यते मुच्यते च तैः .
इत्यौपचारिकी क्लृप्तिर्भ्रममात्रैव केवलम् .. २१..
धूमाभ्रधूलीनीहारैरस्पृष्टोऽपि दिवाकरः .
यथा छन्न इवाभाति तथैवात्माऽपि मायया .. २२..
यथा लीलावशात्कश्चिद्भ्राम्यमाणः कुमारकः .
भ्रमत्तत्पश्यति जगत् शतचन्द्रं नभःस्थलम् .. २३..
तथैव मायया जीवो भ्रामितो वासनावशात् .
नानाकारमिदं विश्वं भ्रममाणं च पश्यति .. २४..
संसृज्य मनसा देवः संसरन्निव लक्ष्यते .
यथाऽर्को जलसंसर्गाच्चलन्नानेव लक्ष्यते .. २५..
योगाभ्यासवशाद्येन मनो निर्विषयं कृतम् .
निवृत्तः स पुमांसद्यो जीवन्मुक्तो भविष्यति .. २६..
द्वा सुपर्णौ च सयुजाभवन्मायया शिवः .
अजामेकां जुषन्नेको नानेवासीदिति श्रुतिः .. २७..
इति श्रीदक्षिणामूर्तिस्तोत्रार्थप्रतिपादके .
प्रबन्धे मानसोल्लासे अष्टमोल्लाससङ्ग्रहः .. २८..
भूरम्भांस्यनलोऽनिलोऽम्बरमहर्नाथो हिमांशुः पुमान्
इत्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम् .
नान्यत्किञ्चन विद्यते विमृशतां यस्मात्परस्माद्विभोः
तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये .. ९..
कथमेवंविधा माया निवर्तेतेति पृच्छतः .
ईश्वरोपासनारूपस्तदुपायः प्रकीर्त्यते .. १..
षट्त्रिंशत्तत्त्वरूपासु परमेश्वरमूर्तिषु .
प्रत्यक्षेणोपलभ्यन्ते सर्वैरप्यष्टमूर्तयः .. २..
अमेयासु मनः क्षिप्रमारोढुं नार्हतीत्यतः .
मूर्त्यष्टकमयीं ब्रूत गुरुः सर्वात्मभावनाम् .. ३..
विराट्छरीरे ब्रह्माण्डे प्राणिनामपि विग्रहे .
षट्त्रिंशत्तत्त्वसङ्घातः सर्वत्राप्यनुवर्तते .. ४..
व्याप्तिर्व्यष्टिशरीरेऽस्मिन्मनसो व्यष्टिरूपिणः .
तस्मात्सर्वात्मकमिदं स्वशरीरं विचिन्तयेत् .. ५..
व्यष्ट्युपासनया पुंसः समष्टिव्याप्तिमाप्नुयात् .
उपसंक्रामतीत्येवं दशकृत्व उपादिशत् .. ६..
ब्रह्माण्डस्योदरे लोकाः सप्तभूरादयः स्मृताः .
मूलादिब्रह्मरन्ध्रान्तेष्वाधारेषु वसन्ति ते .. ७..
वीणादण्डो महामेरुस्थीनि कुलपर्वताः .
गङ्गा तु पिङ्गळा नाडी यमुनेडा प्रकीर्तिता .. ८..
सरस्वती सुषुम्नोक्ता नाड्योन्याः पुण्यनिम्नगाः .
द्वीपाः स्युर्धातवः सप्त स्वेदबाष्पादयोब्धयः .. ९..
मूले तिष्ठति कालाग्निरस्थिमध्ये च बाडबः .
वैद्युतोग्निः सुषुम्नायां पार्थिवो नाभिमण्डले .. १०..
हृदि तिष्ठति सूर्याग्निः कपाले चन्द्रमण्डलम् .
नक्षत्राण्यपराण्याहुर्नेत्रादीनीन्द्रियाण्यपि .. ११..
धार्यन्ते वायुभिर्लोकाः यथा प्रवहणादिभिः .
प्राणादिभिर्दशविधैर्धार्यते वायुभिर्वपुः .. १२..
प्राप्येडापिङ्गळे प्राणो मूलात्सूर्यस्वरूपतः .
नासिकाभ्यां बहिर्गत्वा लीयते द्विषडङ्गुले .. १३..
अष्टाङ्गुळेन सोमात्मा नाडीभ्यामन्तराविशत् .
मलमूत्रमरुच्छुक्राण्यपानो विसृजेद्बहिः .. १४..
अग्नीषोममयो भूत्वा सुषुम्नारन्ध्रमाश्रितः .
आब्रह्मरन्ध्रमुद्गच्छन्नुदानो वर्धते स्वयम् .. १५..
व्यापयेद्वपुषि व्यानो भुक्तान्नरसमन्वहम् .
सन्धुक्षणं समानस्तु कायाग्नेः कुरुते सदा .. १६..
नागो हिक्काकरः कूर्मो निमेषोन्मेषकारकः .
क्षुतं करोति कृकरो देवदत्तो विजृम्भणम् .. १७..
स्थौल्यं धनञ्जयः कुर्यान्मृतं चापि न मुञ्चति .
आकाशो बहिरप्यन्तरवकाशं प्रयच्छति .. १८..
चन्द्रार्कौ कालनेतारौ प्राणापानौ शरीरिणाम् .
साक्षी पुरुष इत्येवं मूर्त्यष्टकमिदं वपुः .. १९..
समनस्कमिदं योगी सेवमान उपासनम् .
अष्टाङ्गयोगयुक्तः सन्नमनस्कं स गच्छति . २०..
मनः प्रसादः सन्तोषो मौनमिन्द्रियनिग्रहः .
दया दाक्षिण्यमास्तिक्यमार्जवं मार्दवं क्षमा .. २१..
भावशुद्धिरहिंसा च ब्रह्मचर्यं स्मृतिर्धृतिः .
इत्येवमादयोन्ये च मनः साध्या यमाः स्मृताः .. २२..
स्नानं शौचं क्रतुः सत्यं जपो होमश्च तर्पणम् .
तपो दानं तितिक्षा च नमस्कारः प्रदक्षिणम् .. २३..
व्रतोपवासाद्याश्चान्ये कायिका नियमाः स्मृताः .
स्वस्तिकं गोमुखं पद्यं हंसाख्यं ब्राह्ममासनम् .. २४..
नृसिंहं गरुडं कूर्मं नागाख्यं वैष्णवासनम् .
वीरं मयूरं वज्राख्यं सिद्धाख्यं रौद्रमासनम् .. २५..
योन्यासनं विदुः शाक्तं शैवं पश्चिमतानकम् .
निरालम्बनयोगस्य निरालम्बनमासनम् .. २६..
निरालम्बतया ध्यानं निरालम्बः सदाशिवः .
रेचकः पूरकश्चैव कुम्भकः प्राणसंयमः .. २७..
इन्द्रियाणां समस्तानां विषयेभ्यो निवारणम् .
प्रत्याहार इति प्रोक्तं प्रत्याहारार्थवेदिभिः .. २८..
आधारे क्वापि मनसः स्थापनं धारणोच्यते .
ब्रह्मविष्णुशिवादीनां चिन्ता ध्यानं प्रचक्षते .. २९..
ध्यानादस्पन्दनं बुद्धेः समाधिरभिधीयते .
अमनस्कसमाधिस्तु सर्वचिन्ताविवर्जितम् .. ३०..
चित्ते निश्चलतां याते प्राणो भवति निश्चलः .
चित्तस्य निश्चलत्वाय योगं सध्यानमभ्यसेत् .. ३१..
आकुञ्चनमपानस्य प्राणस्य च निरोधनम् .
लम्बिकोपरि जिह्वायाः स्थापनं योगसाधनम् .. ३२..
चित्ते निश्चलतां याते प्राणे मध्यपथं गते .
चिह्नान्येतानि जायन्ते पञ्चभूतजयात्पृथक् .. ३३..
मलमूत्रकफाल्पत्वमारोग्यं लघुता तनोः .
सुगन्धः स्वर्ण[स्वर]वर्णत्वं प्रथमं योगलक्षणम् .. ३४..
कण्टकाग्रेष्वसङ्गत्वं जलपङ्केष्वमज्जनम् .
क्षुत्तृडादिसहिष्णुत्वं द्वितीयं योगलक्षणम् .. ३५..
बह्वन्नपानभोक्तृत्वमातपाग्निसहिष्णुता .
दर्शनं श्रवणं दूरात्तृतीयं योगलक्षणम् .. ३६..
मण्डूकप्लवनं भूमौ मर्कटप्लवनं द्रुमे .
आकाशगमनं चेति चतुर्थं योगलक्षणम् .. ३७..
ज्ञानं त्रिकालविषयमैश्वर्यमणिमादिकम् .
अनन्तशक्तिमत्वं च पञ्चमं योगलक्षणम् .. ३८..
प्राणे सुषुम्नां संप्राप्ते नादोन्तः श्रूयतेष्टधा .
घण्टादुन्दुभिशङ्खाब्धिवीणावेण्वादितालवत् .. ३९..
तनूनपात्तटित्तारातारेशतपनोपमम् .
ब्रह्मनाडीं गते प्राणे बिम्बरूपं प्रकाशते .. ४०..
श्वासाश्चरन्ति यावन्तो मनुष्यस्य दिनं प्रति .
तावन्ति योजनान्यर्कः श्वासेश्वासे प्रधावति .. ४१..
एकविंशतिसाहस्रं षट्छतं श्वाससङ्ख्यया .
सोऽहमित्युच्चरत्यात्मा मन्त्रं प्रत्यहमायुषे .. ४२..
सकारं च हकारं च लोपयित्वा प्रयोजयेत् .
सन्धिं वै पूर्वरूपाख्यं ततोऽसौ प्रणवो भवेत् .. ४३..
अकारश्चाप्युकारश्च मकारो बिन्दुनादकौ .
पञ्चाक्षराण्यमून्याहुः प्रणवस्थानि पण्डिताः ..
ब्रह्मा विष्णुश्च रुद्रश्चापीश्वरश्च सदाशिवः .
तेष्वक्षरेषु तिष्ठन्ति षट्त्रिंशत्तत्त्वसंयुताः .. ४५..
गुरुप्रसादाल्लभते योगमष्टाङ्गलक्षणम् .
शिवप्रसादाल्लभते योगसिद्धिं च शाश्वतीम् .. ४६..
सच्चिदानन्दरूपाय बिन्दुनादान्तरात्मने .
आदिमध्यान्तशून्याय गुरूणां गुरवे नमः .. ४७..
इति श्रीदक्षिणामूर्तिस्तोत्रार्थप्रतिपादके .
प्रबन्धे मानसोल्लासे नवमोल्लाससङ्ग्रहः .. ४८..
सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिंस्तवे
तेनास्य श्रवणात्तदर्थमननाद्ध्यानाच्च संकीर्तनात् .
सर्वात्मत्वमहाविभूतिसहितं स्यादीश्वरत्वं स्वतः
सिद्ध्येत्तत्पुनरष्टधा परिणतं चैश्वर्यमव्याहतम् .. १०..
परिच्छिन्नमहम्भावं परित्यज्यानुषङ्गिकम् .
पूर्णाहम्भावलाभोस्य स्तोत्रस्य फलमुच्यते .. १..
पुत्रपौत्रगृहक्षेत्रधनधान्यसमृद्धयः .
अर्वाचीनाश्च सिध्यन्ति स्वर्गपाताळभूमिषु .. २..
पाके प्रवर्तमानस्य शीतादिपरिहारवत् .
प्रासङ्गिकाश्च सिध्यन्ति स्तोत्रेणानेन सर्वदा .. ३..
ऐश्वर्यमीश्वरत्वं हि तस्य नास्ति पृथक्स्थितिः .
पुरुषे धावमानेऽपि छाया तमनुधावति .. ४..
अनन्तशक्तिरैश्वर्यं निष्यन्दाश्चाणिमादयः .
स्वस्येश्वरत्वे संसिद्धे सिध्यन्ति स्वयमेव हि .. ५..
यदीयैश्वर्यविप्रुड्भिर्ब्रह्मविष्णुशिवादयः .
ऐश्वर्यवन्तो शासन्ते स एवात्मा सदाशिवः .. ६..
पुष्पमानयता गन्धो विनेच्छामनुभूयते .
पूर्णाहम्भावयुक्तेन परिच्छिन्ना विभूतयः .. ७..
अणिमा महिमा चैव गरिमा लघिमा तथा .
प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्टसिद्धयः .. ८..
अत्यन्तमणुषु प्राणिष्वात्मत्वेन प्रवेशनम् .
अणिमासंज्ञमैश्वर्यं व्याप्तस्य परमात्मनः .. ९..
ब्रह्माण्डादिशिवान्तायाः षट्त्रिंशत्तत्त्वसंहतेः .
बहिश्च व्याप्यवृत्तित्वमैश्वर्यं महिमाह्वयम् .. १०..
महामेरुसमाङ्गस्य समुद्धरणकर्मणि .
लाघवे तूलतुल्यत्वं लघिमानं विदुर्बुधाः .. ११..
परमाणुसमाङ्गस्य समुद्धरणकर्मणि .
गुरवे मेरुतुल्यत्वं गरिमाणं विदुर्बुधाः .. १२..
पातालवासिनः पुंसो ब्रह्मलोकावलोकनम् .
प्राप्तिर्नाम महैश्वर्यं सुदुष्प्रापमयोगिनाम् .. १३..
आकाशगमनादीनामन्यासं सिद्धिसम्पदाम् .
स्वेच्छामात्रेण संसिद्धिः प्राकाम्यमभिधीयते .. १४..
स्वशरीरप्रकाशेन सर्वार्थानां प्रकाशनम् .
प्राकाश्यमिदमैश्वर्यमिति केचित्प्रचक्षते .. १५..
स्वेच्छामात्रेण लोकानां सृष्टिस्थित्यन्तकर्तृता .
सूर्यादिनां नियोक्तृत्वमीशित्वमभिधीयते .. १६..
सलोकपालाः सर्वेऽपि लोकाः स्ववशवर्तिनः .
तदैश्वर्यं वशित्वाख्यं सुलभं शिवयोगिनाम् .. १७..
यस्त्वेवं ब्राह्मणो वेत्ति तस्य देवा वशे स्थिताः .
किं पुनः क्ष्मापतिव्याघ्रव्याळस्त्रीपुरुषादयः .. १८..
सर्वात्मभावसाम्राज्यनिरन्तरितचेतसाम् .
परिपक्वसमाधीनां किं किं नाम न सिध्यति .. १९..
स्तोत्रमेतत्पठेद्धीमान्सर्वात्मत्वं च भावयेत् .
अर्वाचीने स्पृहां मुक्त्वा फले स्वर्गादिसम्भवे .. २०..
स्वर्गादिराज्यं साम्राज्यं मनुते न हि पण्डितः .
तदेव तस्य साम्राज्यं यत्तु स्वाराज्यमात्मनि .. २१..
सर्वात्मभावनावन्तं सेवन्ते सर्वसिद्धयः .
तस्मादात्मनि साम्राज्यं कुर्यान्नियतमानसः .. २२..
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ .
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः .. २३..
प्रकाशात्मिकया शक्त्या प्रकाशानां प्रभाकरः .
प्रकाशयति यो विश्वं प्रकाशोऽयं प्रकाशताम् .. २४..
इति श्रीदक्षिणामूर्तिस्तोत्रार्थप्रतिपादके .
प्रबन्धे मानसोल्लासे दशम्मोल्लाससङ्ग्रहः .. २५..
इति श्रीमच्छङ्करभगवत्पादाचार्यकृत
दक्षिणामूर्तिस्तोत्रभावार्थवार्तिकं
सुरेश्वराचार्यकृतं समाप्तम् ..
ॐ तत् सत् ..
Encoded and proofread by Sunder Hattangadi sunderh@hotmail.com
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com