.. मङ्किगीता ..
१७१
युधिस्थिर
ईहमानः समारम्भान्यदि नासादयेद्धनम् .
धनतृष्णाभिभूतश्च किं कुर्वन्सुखमाप्नुयात् .. १..
भीस्म
सर्वसाम्यमनायासः सत्यवाक्यं च भारत .
निर्वेदश्चाविवित्सा च यस्य स्यात्स सुखी नरः .. २..
एतान्येव पदान्याहुः पञ्च वृद्धाः प्रशान्तये .
एष स्वर्गश्च धर्मश्च सुखं चानुत्तमं सताम् .. ३..
अत्राप्युदाहरन्तीममितिहासं पुरातनम् .
निर्वेदान्मङ्किना गीतं तन्निबोध युधिष्ठिर .. ४..
ईहमानो धनं मङ्किर्भग्नेहश्च पुनः पुनः .
केन चिद्धनशेषेण क्रीतवान्दम्य गोयुगम् .. ५..
सुसम्बद्धौ तु तौ दम्यौ दमनायाभिनिःसृतौ .
आसीनमुष्ट्रं मध्येन सहसैवाभ्यधावताम् .. ६..
तयोः सम्प्राप्तयोरुष्ट्रः स्कन्धदेशममर्षणः .
उत्थायोत्क्षिप्य तौ दम्यौ प्रससार महाजवः .. ७..
ह्रियमाणौ तु तौ दम्यौ तेनोष्ट्रेण प्रमाथिना .
म्रियमाणौ च सम्प्रेक्ष्य मङ्किस्तत्राब्रवीदिदम् .. ८..
न चैवाविहितं शक्यं दक्षेणापीहितुं धनम् .
युक्तेन श्रद्धया सम्यगीहां समनुतिष्ठता .. ९..
कृतस्य पूर्वं चानर्थैर्युक्तस्याप्यनुतिष्ठतः .
इमं पश्यत सङ्गत्या मम दैवमुपप्लवम् .. १०..
उद्यम्योद्यम्य मे दम्यौ विषमेनेव गच्छति .
उत्क्षिप्य काकतालीयमुन्माथेनेव जम्बुकः .. ११..
मनी वोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम .
शुद्धं हि दैवमेवेदमतो नैवास्ति पौरुषम् .. १२..
यदि वाप्युपपद्येत पौरुषं नाम कर्हि चित् .
अन्विष्यमाणं तदपि दैवमेवावतिष्ठते .. १३..
तस्मान्निर्वेद एवेह गन्तव्यः सुखमीप्सता .
सुखं स्वपिति निर्विण्णो निराशश्चार्थसाधने .. १४..
अहो सम्यक्षुकेनोक्तं सर्वतः परिमुच्यता .
प्रतिष्ठता महारण्यं जनकस्य निवेशनात् .. १५..
यः कामान्प्राप्नुयात्सर्वान्यश्चैनान्केवलांस्त्यजेत् .
प्रापनात्सर्वकामानां परित्यागो विशिष्यते .. १६..
नान्तं सर्वविवित्सानां गतपूर्वोऽस्ति कश् चन .
शरीरे जीविते चैव तृष्णा मन्दस्य वर्धते .. १७..
निवर्तस्व विवित्साभ्यः शाम्य निर्विद्य मामक .
असकृच्चासि निकृतो न च निर्विद्यसे तनो .. १८..
यदि नाहं विनाश्यस्ते यद्येवं रमसे मया .
मा मां योजय लोभेन वृथा त्वं वित्तकामुक .. १९..
सञ्चितं सञ्चितं द्रव्यं नष्टं तव पुनः पुनः .
कदा विमोक्ष्यसे मूढ धनेहां धनकामुक .. २०..
अहो नु मम बालिश्यं योऽहं क्रीदनकस्तव .
किं नैव जातु पुरुषः परेषां प्रेष्यतामियात् .. २१..
न पूर्वे नापरे जातु कामानामन्तमाप्नुवन् .
त्यक्त्वा सर्वसमारम्भान्प्रतिबुद्धोऽस्मि जागृमि .. २२..
नूनं ते हृदयं कामवज्र सारमयं दृधम् .
यदनर्थशताविष्टं शतधा न विदीर्यते .. २३..
त्यजामि कामत्वां चैव यच्च किं चित्प्रियं तव .
तवाहं सुखमन्विच्छन्नात्मन्युपलभे सुखम् .. २४..
कामजानामि ते मूलं सङ्कल्पात्किल जायसे .
न त्वां सङ्कल्पयिष्यामि समूलो न भविष्यति .. २५..
ईहा धनस्य न सुखा लब्ध्वा चिन्ता च भूयसी .
लब्धानाशो यथा मृत्युर्लब्धं भवति वा न वा .. २६..
परेत्य यो न लभते ततो दुःखतरं नु किम् .
न च तुष्यति लब्धेन भूय एव च मार्गति .. २७..
अनुतर्षुल एवार्थः स्वादु गाङ्गमिवोदकम् .
मद्विलापनमेतत्तु प्रतिबुद्धोऽस्मि सन्त्यज .. २८..
य इमं मामकं देहं भूतग्रामः समाश्रितः .
स यात्वितो यथाकामं वसतां वा यथासुखम् .. २९..
न युष्मास्विह मे प्रीतिः कामलोभानुसारिषु .
तस्मादुत्सृज्य सर्वान्वः सत्यमेवाश्रयाम्यहम् .. ३०..
सर्वभूतान्यहं देहे पश्यन्मनसि चात्मनः .
योगे बुद्धिं श्रुते सत्त्वं मनो ब्रह्मणि धारयन् .. ३१..
विहरिष्याम्यनासक्तः सुखी लोकान्निरामयः .
यथा मा त्वं पुनर्नैवं दुःखेषु प्रनिधास्यसि .. ३२..
त्वया हि मे प्रनुन्नस्य गतिरन्या न विद्यते .
तृष्णा शोकश्रमाणां हि त्वं कामप्रभवः सदा .. ३३..
धननाशोऽधिकं दुःखं मन्ये सर्वमहत्तरम् .
ज्ञातयो ह्यवमन्यन्ते मित्राणि च धनच्युतम् .. ३४..
अवज्ञान सहस्रैस्तु दोषाः कस्ततराधने .
धने सुखकला या च सापि दुःखैर्विधीयते .. ३५..
धनमस्येति पुरुषं पुरा निघ्नन्ति दस्यवः .
क्लिश्यन्ति विविधैर्दन्दैर्नित्यमुद्वेजयन्ति च .. ३६..
मन्दलोलुपता दुःखमिति बुद्धिं चिरान्मया .
यद्यदालम्बसे कामतत्तदेवानुरुध्यसे .. ३७..
अतत्त्वज्ञोऽसि बालश्च दुस्तोषोऽपूरणोऽनलः .
नैव त्वं वेत्थ सुलभं नैव त्वं वेत्थ दुर्लभम् .. ३८..
पातालमिव दुष्पूरो मां दुःखैर्योक्तुमिच्छसि .
नाहमद्य समावेष्टुं शक्यः कामपुनस्त्वया .. ३९..
निर्वेदमहमासाद्य द्रव्यनाशाद्यदृच्छया .
निर्वृतिं परमां प्राप्य नाद्य कामान्विचिन्तये .. ४०..
अतिक्लेशान्सहामीह नाहं बुध्याम्यबुद्धिमान् .
निकृतो धननाशेन शये सर्वाङ्गविज्वरः .. ४१..
परित्यजामि कामत्वां हित्वा सर्वमनोगतीः .
न त्वं मया पुनः कामनस्योतेनेव रंस्यसे .. ४२..
क्षमिष्येऽक्षममाणानां न हिंसिष्ये च हिंसितः .
द्वेष्य मुक्तः प्रियं वक्ष्याम्यनादृत्य तदप्रियम् .. ४३..
तृप्तः स्वस्थेन्द्रियो नित्यं यथा लब्धेन वर्तयन् .
न सकामं करिष्यामि त्वामहं शत्रुमात्मनः .. ४४..
निर्वेदं निर्वृतिं तृप्तिं शान्तिं सत्यं दमं क्षमाम् .
सर्वभूतदयां चैव विद्धि मां शरणागतम् .. ४५..
तस्मात्कामश्च लोभश्च तृष्णा कार्पण्यमेव च .
त्यजन्तु मां प्रतिष्ठन्तं सत्त्वस्थो ह्यस्मि साम्प्रतम् .. ४६..
प्रहाय कामं लोभं च क्रोधं पारुष्यमेव च .
नाद्य लोभवशं प्राप्तो दुःखं प्राप्स्याम्यनात्मवान् .. ४७..
यद्यत्त्यजति कामानां तत्सुखस्याभिपूर्यते .
कामस्य वशगो नित्यं दुःखमेव प्रपद्यते .. ४८..
कामान्व्युदस्य धुनुते यत्किं चित्पुरुषो रजः .
कामक्रोधोद्भवं दुःखमह्रीररतिरेव च .. ४९..
एष ब्रह्म प्रविष्टोऽहं ग्रीस्मे शीतमिव ह्रदम् .
शाम्यामि परिनिर्वामि सुखमासे च केवलम् .. ५०..
यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् .
तृष्णा क्षयसुखस्यैते नार्हतः सोदशीं कलाम् .. ५१..
आत्मना सप्तमं कामं हत्वा शत्रुमिवोत्तमम् .
प्राप्यावध्यं ब्रह्म पुरं राजेव स्यामहं सुखी .. ५२..
एतां बुद्धिं समास्थाय मङ्किर्निर्वेदमागतः .
सर्वान्कामान्परित्यज्य प्राप्य ब्रह्म महत्सुखम् .. ५३..
दम्य नाश कृते मङ्किरमरत्वं किलागमत् .
अछिनत्काममूलं स तेन प्राप महत्सुखम् .. ५४..
.. इति मङ्किगीता समाप्ता ..
Please send corrections to Sunder Hattangadi(sunderh@hotmail.com OR sanskrit@cheerful.com);
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com