\Large shrii miinaaxii stuti 2
.. श्री मीनाक्षी स्तुति २ ..
अद्राक्षं बहुभाग्यतो गुरुवरैः संपूज्यमानां मुदा
पुल्लन्मल्लिमुखप्रसूननिवहैर्हालास्यनाथप्रियाम् |
वीणावेणुमृदङ्गवाद्यमुदितामेणाङ्क बिम्बाननां
काणादादिसमस्तशास्त्रमतिताम् शोणाधरां श्यामलाम् || १||
मातङ्गकुम्भविजयीस्तनभारभुग्न
मध्यां मदारुणविलोचनवश्यकान्ताम् |
ताम्राधरस्फुरितहासविधूततार
राजप्रवालसुषुमां भज मीननेत्राम् || २||
आपादमस्तकदयारसपूरपूर्णां
शापायुधोत्तमसमर्चितपादपद्माम् |
चापयितेक्षुममलीमसचित्ततायै
नीपाटविविहर्णां भज मीननेत्रम् || ३||
कन्दर्प वैर्यपि यया सविलास हास
नेत्रावलोकन वशीकृत मानसोऽभूत् |
तां सर्वदा सकल मोहन रूप वेषां
मोहान्धकार हरणां भज मीननेत्राम् || ४||
अद्यापि यत्पुरगतः सकलोऽपि जन्तुः
क्षुत्तृड् व्यथा विरहितः प्रसुवेव बालः |
संपोश्यते करुणया भजकार्ति हन्त्रीं
भक्त्याऽन्वहं तां हृदय भज मीननेत्राम् || ५||
हालास्यनाथ दयिते करुणा पयोधे
बालं विलोल मनसं करुणैक पात्रम् |
वीक्षस्व मां लघु दयार्मिल दृष्टपादैर्-
मातर्न मेऽस्ति भुवने गतिरन्द्रा त्वम् || ६||
श्रुत्युक्त कर्म निवहाकरणाद्विशुद्धिः
चित्तस्य नास्ति मम चञ्चलता निवृत्तैः |
कुर्यां किमम्ब मनसा सकलाघ शान्त्यैः
मातस्तवदङ्घ्रि भजनं सततं दयस्व || ७||
त्वद्रूपदेशिकवरैः सततं विभाव्यं
चिद्रूपमादि निधनन्तर हीनमम्ब |
भद्रावहं प्रणमतां सकलाघ हन्तृ
त्वद्रूपमेव मम हृत्कमले विभातु || ८||
|| इति श्री जगद्गुरु शृङ्गगिरि चन्द्रशेखर
भारति स्वामिगळ् विरचितं मीनाक्षी स्तोत्रं संपूर्णम् ||
Encoded by Ravisankar S. Mayavaram msr@comco.com
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com