||मुण्डकोपनिषत् ||
||श्रीः||
||मुण्डकोपनिषत् ||
ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः |
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः |
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः |
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु|
||ॐ शान्तिः शान्तिः शान्तिः ||
||ॐ ब्रह्मणे नमः ||
||प्रथममुण्डके प्रथमः खण्डः ||
ॐ ब्रह्मा देवानां प्रथमः संबभूव विश्वस्य कर्ता
भुवनस्य गोप्ता | स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय
ज्येष्ठपुत्राय प्राह ||१||
अथर्वणे यां प्रवदेत ब्रह्माऽथर्वा तं
पुरोवाचाङ्गिरे ब्रह्मविद्याम् |
स भारद्वाजाय सत्यवाहाय प्राह
भारद्वाजोऽङ्गिरसे परावराम् ||२||
शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ |
कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति ||३||
तस्मै स होवाच |
द्वे विद्ये वेदितव्ये इति ह स्म
यद्ब्रह्मविदो वदन्ति परा चैवापरा च ||४||
तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः
शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति |
अथ परा यया तदक्षरमधिगम्यते ||५||
यत्तदद्रेश्यमग्राह्यमगोत्रमवर्ण-
मचक्षुःश्रोत्रं तदपाणिपादम् |
नित्यं विभुं सर्वगतं सुसूक्ष्मं
तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः ||६||
यथोर्णनाभिः सृजते गृह्णते च
यथा पृथिव्यामोषधयः संभवन्ति |
यथा सतः पुरुषात् केशलोमानि
तथाऽक्षरात् संभवतीह विश्वम् ||७||
तपसा चीयते ब्रह्म ततोऽन्नमभिजायते |
अन्नात् प्राणो मनः सत्यं लोकाः कर्मसु चामृतम् ||८||
यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तापः |
तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायाते ||९||
||इति मुण्डकोपनिषदि प्रथममुण्डके प्रथमः खण्डः ||
||प्रथममुण्डके द्वितीयः खण्डः ||
तदेतत् सत्यं मन्त्रेषु कर्माणि कवयो
यान्यपश्यंस्तानि त्रेतायां बहुधा संततानि |
तान्याचरथ नियतं सत्यकामा एष वः
पन्थाः सुकृतस्य लोके ||१||
यदा लेलायते ह्यर्चिः समिद्धे हव्यवाहने |
तदाऽऽज्यभागावन्तरेणाऽऽहुतीः प्रतिपादयेत् ||२||
यस्याग्निहोत्रमदर्शमपौर्णमास-
मचातुर्मास्यमनाग्रयणमतिथिवर्जितं च |
अहुतमवैश्वदेवमविधिना हुत-
मासप्तमांस्तस्य लोकान् हिनस्ति ||३||
काली कराली च मनोजवा च
सुलोहिता या च सुधूम्रवर्णा |
स्फुलिङ्गिनी विश्वरुची च देवी
लेलायमाना इति सप्त जिह्वाः ||४||
एतेषु यश्चरते भ्राजमानेषु यथाकालं
चाहुतयो ह्याददायन् |
तं नयन्त्येताः सूर्यस्य रश्मयो यत्र
देवानां पतिरेकोऽधिवासः ||५||
एह्येहीति तमाहुतयः सुवर्चसः
सूर्यस्य रश्मिभिर्यजमानं वहन्ति |
प्रियां वाचमभिवदन्त्योऽर्चयन्त्य
एष वः पुण्यः सुकृतो ब्रह्मलोकः ||६||
प्लवा ह्येते अदृढा यज्ञरूपा
अष्टादशोक्तमवरं येषु कर्म |
एतच्छ्रेयो येऽभिनन्दन्ति मूढा
जरामृत्युं ते पुनरेवापि यन्ति ||७||
अविद्यायामन्तरे वर्तमानाः
स्वयं धीराः पण्डितं मन्यमानाः |
जङ्घन्यमानाः परियन्ति मूढा
अन्धेनैव नीयमाना यथान्धाः ||८||
अविद्यायं बहुधा वर्तमाना वयं
कृतार्था इत्यभिमन्यन्ति बालाः |
यत् कर्मिणो न प्रवेदयन्ति रागात्
तेनातुराः क्षीणलोकाश्च्यवन्ते ||९||
इष्टापूर्तं मन्यमाना वरिष्ठं
नान्यच्छ्रेयो वेदयन्ते प्रमूढाः |
नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वेमं
लोकं हीनतरं वा विशन्ति ||१०||
तपःश्रद्धे ये ह्युपवसन्त्यरण्ये
शान्ता विद्वांसो भैक्ष्यचर्यां चरन्तः |
सूर्यद्वारेण ते विरजाः प्रयान्ति
यत्रामृतः स पुरुषो ह्यव्ययात्मा ||११||
परीक्ष्य लोकान् कर्मचितान् ब्रह्मणो
निर्वेदमायान्नास्त्यकृतः कृतेन |
तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्
समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ||१२||
तस्मै स विद्वानुपसन्नाय सम्यक्
प्रशान्तचित्ताय शमान्विताय |
येनाक्षरं पुरुषं वेद सत्यं प्रोवाच
तां तत्त्वतो ब्रह्मविद्याम् ||१३||
||इति मुण्डकोपनिषदि प्रथममुण्डके द्वितीयः खण्डः ||
||द्वितीय मुण्डके प्रथमः खण्डः ||
तदेतत् सत्यं
यथा सुदीप्तात् पावकाद्विस्फुलिङ्गाः
सहस्रशः प्रभवन्ते सरूपाः |
तथाऽक्षराद्विविधाः सोम्य भावाः
प्रजायन्ते तत्र चैवापि यन्ति ||१||
दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः |
अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात् परतः परः ||२||
एतस्माज्जायते प्रणो मनः सर्वेन्द्रियाणि च |
खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ||३||
अग्नीर्मूर्धा चक्षुषी चन्द्रसूर्यौ
दिशः श्रोत्रे वाग् विवृताश्च वेदाः |
वायुः प्रणो हृदयं विश्वमस्य पद्भ्यां
पृथिवी ह्येष सर्वभूतान्तरात्मा ||४||
तस्मादग्निः समिधो यस्य सूर्यः
सोमात् पर्जन्य ओषधयः पृथिव्याम् |
पुमान् रेतः सिञ्चति योषितायां
बह्वीः प्रजाः पुरुषात् संप्रसूताः ||५||
तस्मादृचः साम यजूंषि दीक्षा
यज्ञाश्च सर्वे क्रतवो दक्षिणाश्च |
संवत्सरश्च यजमानश्च लोकाः
सोमो यत्र पवते यत्र सूर्यः ||६||
तस्माच्च देवा बहुधा संप्रसूताः
साध्या मनुष्याः पशवो वयांसि |
प्राणापानौ व्रीहियवौ तपश्च
श्रद्ध सत्यं ब्रह्मचर्यं विधिश्च ||७||
सप्त प्राणाः प्रभवन्ति तस्मात्
सप्तार्चिषः समिधः सप्त होमाः |
सप्त इमे लोका येषु चरन्ति प्राणा
गुहाशया निहिताः सप्त सप्त ||८||
अतः समुद्रा गिरयश्च सर्वेऽस्मात्
स्यन्दन्ते सिन्धवः सर्वरूपाः |
अतश्च सर्वा ओषधयो रसश्च
येनैष भूतैस्तिष्ठते ह्यन्तरात्मा ||९||
पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम् |
एतद्यो वेद निहितं गुहायां
सोऽविद्याग्रन्थिं विकिरतीह सोम्य ||१०||
||इति मुण्डकोपनिषदि द्वितीयमुण्डके प्रथमः खण्डः ||
||द्वितीय मुण्डके द्वितीयः खण्डः ||
आविः संनिहितं गुहाचरं नाम
महत्पदमत्रैतत् समर्पितम् |
एजत्प्राणन्निमिषच्च यदेतज्जानथ
सदसद्वरेण्यं परं विज्ञानाद्यद्वरिष्ठं प्रजानाम् ||१||
यदर्चिमद्यदणुभ्योऽणु च
यस्मिँल्लोका निहिता लोकिनश्च |
तदेतदक्षरं ब्रह्म स प्राणस्तदु वाङ्मनः
तदेतत्सत्यं तदमृतं तद्वेद्धव्यं सोम्य विद्धि ||२||
धनुर् गृहीत्वौपनिषदं महास्त्रं
शरं ह्युपासा निशितं सन्धयीत |
आयम्य तद्भावगतेन चेतसा
लक्ष्यं तदेवाक्षरं सोम्य विद्धि ||३||
प्रणवो धनुः शारो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते |
अप्रमत्तेन वेद्धव्यं शरवत् तन्मयो भवेत् ||४||
यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं
मनः सह प्राणैश्च सर्वैः |
तमेवैकं जानथ आत्मानमन्या वाचो
विमुञ्चथामृतस्यैष सेतुः ||५||
अरा इव रथनाभौ संहता यत्र नाड्यः |
स एषोऽन्तश्चरते बहुधा जायमानः |
ओमित्येवं ध्यायथ आत्मानं स्वस्ति वः
पाराय तमसः परस्तात् ||६||
यः सर्वज्ञः सर्वविद् यस्यैष महिमा भुवि |
दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा प्रतिष्ठितः ||
मनोमयः प्राणशरीरनेता
प्रतिष्ठितोऽन्ने हृदयं सन्निधाय |
तद् विज्ञानेन परिपश्यन्ति धीरा
आनन्दरूपममृतं यद् विभाति ||७||
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः |
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ||८||
हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् |
तच्छुभ्रं ज्योतिषं ज्योतिस्तद् यदात्मविदो विदुः ||९||
न तत्र सूर्यो भाति न चन्द्रतारकं
नेमा विद्युतो भान्ति कुतोऽयमग्निः |
तमेव भान्तमनुभाति सर्वं
तस्य भासा सर्वमिदं विभाति ||१०||
ब्रह्मैवेदममृतं पुरस्ताद् ब्रह्म पश्चाद् ब्रह्म दक्षिणतश्चोत्तरेण |
अधश्चोर्ध्वं च प्रसृतं ब्रह्मैवेदं विश्वमिदं वरिष्ठम् ||११||
||इति मुण्डकोपनिषदि द्वितीयमुण्डके द्वितीयः खण्डः ||
||तृतीय मुण्डके प्रथमः खण्डः ||
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते |
तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ||१||
समाने वृक्षे पुरुषो निमग्नोऽनिशया शोचति मुह्यमानः |
जुष्टं यदा पश्यत्यन्यमीशमस्य
महिमानमिति वीतशोकः ||२||
यदा पश्यः पश्यते रुक्मवर्णं
कर्तारमीशं पुरुषं ब्रह्मयोनिम् |
तदा विद्वान् पुण्यपापे विधूय
निरञ्जनः परमं साम्यमुपैति ||३||
प्रणो ह्येष यः सर्वभूतैर्विभाति
विजानन् विद्वान् भवते नातिवादी |
आत्मक्रीड आत्मरतिः क्रियावा-
नेष ब्रह्मविदां वरिष्ठः ||४||
सत्येन लभ्यस्तपसा ह्येष आत्मा
सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम् |
अन्तःशरीरे ज्योतिर्मयो हि शुभ्रो
यं पश्यन्ति यतयः क्षीणदोषाः ||५||
सत्यमेव जयते नानृतं
सत्येन पन्था विततो देवयानः |
येनाऽऽक्रमन्त्यृषयो ह्याप्तकामा
यत्र तत् सत्यस्य परमं निधानम् ||६||
बृहच्च तद् दिव्यमचिन्त्यरूपं
सूक्ष्माच्च तत् सूक्ष्मतरं विभाति |
दूरात् सुदूरे तदिहान्तिके च
पश्यन्त्विहैव निहितं गुहायाम् ||७||
न चक्षुषा गृह्यते नापि वाचा
नान्यैर्देवैस्तपसा कर्मण वा |
ज्ञानप्रसादेन विशुद्धसत्त्व-
स्ततस्तु तं पश्यते निष्कलं
ध्यायमानः ||८||
एषोऽणुरात्मा चेतसा वेदितव्यो
यस्मिन् प्राणः पञ्चधा संविवेश |
प्राणैश्चित्तं सर्वमोतं प्रजानां
यस्मिन् विशुद्धे विभवत्येष आत्मा ||९||
यं यं लोकं मनसा संविभाति
विशुद्धसत्त्वः कामयते यांश्च कामान् |
तं तं लोकं जयते तांश्च कामां-
स्तस्मादात्मज्ञं ह्यर्चयेत् भूतिकामः ||१०||
||इति मुण्डकोपनिषदि तृतीयमुण्डके प्रथमः खण्डः ||
|| तृतीयमुण्डके द्वितीयः खण्डः ||
स वेदैतत् परमं ब्रह्म धाम
यत्र विश्वं निहितं भाति शुभ्रम् |
उपासते पुरुषं ये ह्यकामास्ते
शुक्रमेतदतिवर्तन्ति धीराः || १||
कामान् यः कामयते मन्यमानः
स कामभिर्जायते तत्र तत्र |
पर्याप्तकामस्य कृतात्मनस्तु
इहैव सर्वे प्रविलीयन्ति कामाः ||२||
नायमात्मा प्रवचनेन लभ्यो
न मेधया न बहुना श्रुतेन |
यमेवैष वृणुते तेन लभ्य-
स्तस्यैष आत्मा विवृणुते तनूं स्वाम् ||३||
नायमात्मा बलहीनेन लभ्यो
न च प्रमादात् तपसो वाप्यलिङ्गात् |
एतैरुपायैर्यतते यस्तु विद्वां-
स्तस्यैष आत्मा विशते ब्रह्मधाम ||४||
संप्राप्यैनमृषयो ज्ञानतृप्ताः
कृतात्मानो वीतरागाः प्रशान्ताः
ते सर्वगं सर्वतः प्राप्य धीरा
युक्तात्मानः सर्वमेवाविशन्ति ||५||
वेदान्तविज्ञानसुनिश्चितार्थाः
संन्यासयोगाद् यतयः शुद्धसत्त्वाः |
ते ब्रह्मलोकेषु परान्तकाले
परामृताः परिमुच्यन्ति सर्वे ||६||
गताः कलाः पञ्चदश प्रतिष्ठा
देवाश्च सर्वे प्रतिदेवतासु |
कर्माणि विज्ञानमयश्च आत्मा
परेऽव्यये सर्वे एकीभवन्ति ||७||
यथा नद्यः स्यन्दमानाः समुद्रेऽ
स्तं गच्छन्ति नामरूपे विहाय |
तथा विद्वान् नामरूपाद्विमुक्तः
परात्परं पुरुषमुपैति दिव्यम् ||८||
स यो ह वै तत् परमं ब्रह्म वेद
ब्रह्मैव भवति नास्याब्रह्मवित्कुले भवति |
तरति शोकं तरति पाप्मानं गुहाग्रन्थिभ्यो
विमुक्तोऽमृतो भवति ||९||
तदेतदृचाऽभ्युक्तम् |
क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः
स्वयं जुह्वत एकर्षिं श्रद्धयन्तः |
तेषामेवैतां ब्रह्मविद्यां वदेत
शिरोव्रतं विधिवद् यैस्तु चीर्णम् ||१०||
तदेतत् सत्यमृषिरङ्गिराः
पुरोवाच नैतदचीर्णव्रतोऽधीते |
नमः परमऋषिभ्यो नमः परमऋषिभ्यः ||११||
||इति मुण्डकोपनिषदि तृतीयमुण्डके द्वितीयः खण्डः ||
||इत्यथर्ववेदीय मुण्डकोपनिषत्समाप्ता ||
ॐ भद्रं कर्णेभिः||||शान्तिः ||
||ॐ शान्तिः शान्तिः शान्तिः ||
Encoded by Kim Paulsen
Proofread by : Avinash Sathaye, P.P.Narayanaswami. John Manetta
%@@1
% File name : mundaka.itx
%--------------------------------------------
% Text title : muNDakopaniShat
% Author : Vedic Rishis
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Description/comments : #5/108; Atharva Veda, Mukhya upanishad
% Transliterated by : Kim Paulsen
% Proofread by : Avinash Sathaye, P.P.Narayanaswami. John Manetta
% Latest update : July 20,1999, Nov 1,10
% Send corrections to : sanskrit@cheerful.com
%
% Special Instructions:
% i1h.hdr,ijag.inc,itrans.sty,multicol.sty,iarticle.sty
% Transliteration scheme: ITRANS 5.2
% Site access :
% http://sanskritdocuments.org
% http://sanskrit.gde.to/
%-----------------------------------------------------
% The text is to be used for personal studies and research only.
% Any use for commercial purpose is prohibited as a 'gentleman's'
% agreement.
% @@2
%
% Commands upto engtitle are
% needed for devanaagarii output and formatting.
%--------------------------------------------------------
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Some help is available at Notes
on Viewing and Creating Devanagari Documents with Unicode Support.
Some of the Unicode fonts for Devanagari are linked at http://devanaagarii.net and for
Sanskrit Transliteration/Diacritics are available at IndUni
Fonts.
Questions, comments? Write to sanskrit@cheerful.com .