.. नादबिन्दूपनिषत् ..
.. नादबिन्दूपनिषत् ..
( ऋग्वेदीय योगोपनिषत्)
वैराजात्मोपासनया सञ्जातज्ञानवह्निना .
दग्ध्वा कर्मत्रयं योगी यत्पदं याति तद्भजे ..
ॐ वाङ्मे मनसि प्रतिष्ठिता . मनो मे वाचि प्रतिष्टितम् .
आविरावीर्म एधि . वेदस्य मा आणीस्थः .श्रुतं मे मा
प्रहासीः .
अनेनाधीतेनाहोरात्रान्सन्दधामि .
ऋतं वदिष्यामि . सत्यं वदिष्यामि .
तन्मामवतु . तद्वक्तारमवतु .
अवतु मामवतु वक्तारम् ..
ॐ शान्तिः शान्तिः शान्तिः ..
ॐ अकारो दक्षिणः पक्ष उकारस्तूत्तरः स्मृतः .
मकारं पुच्छमित्याहुरर्धमात्रा तु मस्तकम् .. १..
पादादिकं गुणास्तस्य शरीरं तत्त्वमुच्यते .
धर्मोऽस्य दक्षिणश्चक्षुरधर्मो योऽपरः स्मृतः .. २..
भूर्लोकः पादयोस्तस्य भुवर्लोकस्तु जानुनि .
सुवर्लोकः कटीदेशे नाभिदेशे महर्जगत् .. ३..
जनोलोकस्तु हृद्देशे कण्ठे लोकस्तपस्ततः .
भ्रुवोर्ललाटमध्ये तु सत्यलोको व्यवस्थितः .. ४..
सहस्रार्णमतीवात्र मन्त्र एष प्रदर्शितः .
एवमेतां समारूढो हंसयोगविचक्षणः .. ५..
न भिद्यते कर्मचारैः पापकोटिशतैरपि .
आग्नेयी प्रथमा मात्रा वायव्येषा तथापरा .. ६..
भानुमण्डलसंकाशा भवेन्मात्रा तथोत्तरा .
परमा चार्धमात्रा या वारुणीं तां विदुर्बुधाः .. ७..
कालत्रयेऽपि यत्रेमा मात्रा नूनं प्रतिष्ठिताः .
एष ओङ्कार आख्यातो धारणाभिर्निबोधत .. ८..
घोषिणी प्रथमा मात्रा विद्युन्मात्रा तथाऽपरा .
पतङ्गिनी तृतीया स्याच्चतुर्थी वायुवेगिनी .. ९..
पञ्चमी नामधेया तु षष्ठी चैन्द्र्यभिधीयते .
सप्तमी वैष्णवी नाम अष्टमी शाङ्करीति च .. १०..
नवमी महती नाम धृतिस्तु दशमी मता .
एकादशी भवेन्नारी ब्राह्मी तु द्वादशी परा .. ११..
प्रथमायां तु मात्रायां यदि प्राणैर्वियुज्यते .
भरते वर्षराजासौ सार्वभौमः प्रजायते .. १२..
द्वितीयायां समुत्क्रान्तो भवेद्यक्षो महात्मवान् .
विद्याधरस्तृतीयायां गान्धर्वस्तु चतुर्थिका .. १३..
पञ्चम्यामथ मात्रायां यदि प्राणैर्वियुज्यते .
उषितः सह देवत्वं सोमलोके महीयते .. १४..
षष्ठ्यामिन्द्रस्य सायुज्यं सप्तम्यां वैष्णवं पदम् .
अष्टम्यां व्रजते रुद्रं पशूनां च पतिं तथा .. १५..
नवम्यां तु महर्लोकं दशम्यां तु जनं व्रजेत् .
एकादश्यां तपोलोकं द्वादश्यां ब्रह्म शाश्वतम् .. १६..
ततः परतरं शुद्धं व्यापकं निर्मलं शिवम् .
सदोदितं परं ब्रह्म ज्योतिषामुदयो यतः .. १७..
अतीन्द्रियं गुणातीतं मनो लीनं यदा भवेत् .
अनूपमं शिवं शान्तं योगयुक्तं सदा विशेत् .. १८..
तद्युक्तस्तन्मयो जन्तुः शनैर्मुञ्चेत्कलेवरम् .
संस्थितो योगचारेण सर्वसङ्गविवर्जितः .. १९..
ततो विलीनपाशोऽसौ विमलः कमलाप्रभुः .
तेनैव ब्रह्मभावेन परमानन्दमश्नुते .. २०..
आत्मानं सततं ज्ञात्वा कालं नय महामते .
प्रारब्धमखिलं भुञ्जन्नोद्वेगं कर्तुमर्हसि .. २१..
उत्पन्ने तत्त्वविज्ञाने प्रारब्धं नैव मुञ्चति .
तत्त्वज्ञानोदयादूर्ध्वं प्रारब्धं नैव विद्यते .. २२..
देहादीनामसत्त्वात्तु यथा स्वप्नो विबोधतः .
कर्म जन्मान्तरीयं यत्प्रारब्धमिति कीर्तितम् .. २३..
तत्तु जन्मान्तराभावात्पुंसो नैवास्ति कर्हिचित् .
स्वप्नदेहो यथाध्यस्तस्तथैवायं हि देहकः .. २४..
अध्यस्तस्य कुतो जन्म जन्माभावे कुतः स्थितिः .
उपादानं प्रपञ्चस्य मृद्भाण्डस्येव पश्यति .. २५..
अज्ञानं चेति वेदान्तैस्तस्मिन्नष्टे क्व विश्वता .
यथा रज्जुअं परित्यज्य सर्पं गृह्णाति वै भ्रमात् .. २६..
तद्वत्सत्यमविज्ञाय जगत्पश्यति मूढधीः .
रज्जुखण्डे परिज्ञाते सर्परूपं न तिष्ठति .. २७..
अधिष्ठाने तथा ज्ञाते प्रपञ्चे शून्यतां गते .
देहस्यापि प्रपञ्चत्वात्प्रारब्धावस्थितिः कृतः .. २८..
अज्ञानजनबोधार्थं प्रारब्धमिति चोच्यते .
ततः कालवशादेव प्रारब्धे तु क्षयं गते .. २९..
ब्रह्मप्रणवसन्धानं नादो ज्योतिर्मयः शिवः .
स्वयमाविर्भवेदात्मा मेघापायेंऽशुमानिव .. ३०..
सिद्धासने स्थितो योगी मुद्रां सन्धाय वैष्णवीम् .
शृणुयाद्दक्षिणे कर्णे नादमन्तर्गतं सदा .. ३१..
अभ्यस्यमानो नादोऽयं बाह्यमावृणुते ध्वनिम् .
पक्षाद्विपक्षमखिलं जित्वा तुर्यपदं व्रजेत् .. ३२..
श्रूयते प्रथमाभ्यासे नादो नानाविधो महान् .
वर्धमानस्तथाभ्यासे श्रूयते सूक्ष्मसूक्ष्मतः .. ३३..
आदौ जलधिमूतभेरीनिर्झरसम्भवः .
मध्ये मर्दलशब्दाभो घण्टाकाहलजस्तथा .. ३४..
अन्ते तु किङ्किणीवंशवीणाभ्रमरनिःस्वनः .
इति नानाविधा नादाः श्रूयन्ते सूक्ष्मसूक्ष्मतः .. ३५..
महति श्रूयमाणे तु महाभेर्यादिकध्वनौ .
तत्र सूक्ष्मं सूक्ष्मतरं नादमेव परामृशेत् .. ३६..
घनमुत्सृज्य वा सूक्ष्मे सूक्ष्ममुत्सृज्य वा घने .
रममाणमपि क्षिप्तं मनो नान्यत्र चालयेत् .. ३७..
यत्र कुत्रापि वा नादे लगति प्रथमं मनः .
तत्र तत्र स्थिरीभूत्वा तेन सार्धं विलीयते .. ३८..
विस्मृत्य सकलं बाह्यं नादे दुग्धाम्बुवन्मनः .
एकीभूयाथ सहसा चिदाकाशे विलीयते .. ३९..
उदासीनस्ततो भूत्वा सदाभ्यासेन संयमी .
उन्मनीकारकं सद्यो नादमेवावधारयेत् .. ४०..
सर्वचिन्तां समुत्सृज्य सर्वचेष्टाविवर्जितः .
नादमेवानुसंदध्यान्नादे चित्तं विलीयते .. ४१..
मकरन्दं पिबन्भृङ्गो गन्धान्नापेक्षते तथा .
नादासक्तं सदा चित्तं विषयं न हि काङ्क्षति .. ४२..
बद्धः सुनादगन्धेन सद्यः संत्यक्तचापलः .
नादग्रहणतश्चित्तमन्तरङ्गभुजङ्गमः .. ४३..
विस्मृत्य विश्वमेकाग्रः कुत्रचिन्न हि धावति .
मनोमत्तगजेन्द्रस्य विषयोद्यानचारिणः .. ४४..
नियामनसमर्थोऽयं निनादो निशिताङ्कुशः .
नादोऽन्तरङ्गसारङ्गबन्धने वागुरायते .. ४५..
अन्तरङ्गसमुद्रस्य रोधे वेलायतेऽपि च .
ब्रह्मप्रणवसंलग्ननादो ज्योतिर्मयात्मकः .. ४६..
मनस्तत्र लयं याति तद्विष्णोः परमं पदम् .
तावदाकाशसङ्कल्पो यावच्छब्दः प्रवतते .. ४७..
निःशब्दं तत्परं ब्रह्म परमात्मा समीर्यते .
नादो यावन्मनस्तावन्नादान्तेऽपि मनोन्मनी .. ४८..
सशब्दश्चाक्षरे क्षीणे निःशब्दं परमं पदम् .
सदा नादानुसन्धानात्संक्षीणा वासना भवेत् .. ४९..
निरञ्जने विलीयेते मनोवायू न संशयः .
नादकोटिसहस्राणि बिन्दुकोटिशतानि च .. ५०..
सर्वे तत्र लयं यान्ति ब्रह्मप्रणवनादके .
सर्वावस्थाविनिर्मुक्तः सर्वचिन्ताविवर्जितः .. ५१..
मृतवत्तिष्ठते योगी स मुक्तो नात्र संशयः .
शङ्खदुन्दुभिनादं च न श्रुणोति कदाचन .. ५२..
काष्ठवज्ज्ञायते देह उन्मन्यावस्थया ध्रुवम् .
न जानाति स शीतोष्णं न दुःखं न सुखं तथा .. ५३..
न मानं नावमानं च संत्यक्त्वा तु समाधिना .
अवस्थात्रयमन्वेति न चित्तं योगिनः सदा .. ५४..
जाग्रन्निद्राविनिर्मुक्तः स्वरूपावस्थतामियात् .. ५५..
दृष्टिः स्थिरा यस्य विना सदृश्यम्
वायुः स्थिरो यस्य विना प्रयत्नम् .
चित्तं स्थिरं यस्य विनावलम्बम्
स ब्रह्मतारान्तरनादरूपः .. ५६..
इत्युपनिषत् ..
ॐ वाङ्मे मनसीति शान्तिः ..
इति नादबिन्दूपनिषत्समाप्ता ..
Encoded by Sunder Hattangadi (sunderh@hotmail.com)
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com