Hymn to Krishna as Nandakumar
.. श्रीनन्दकुमाराष्टकम् ..
सुन्दरगोपालम् उरवनमालं नयनविशालं दुःखहरम् |
वृन्दावनचन्द्रमानन्दकन्दं परमानन्दं धरणिधरम् ||
वल्लभघनश्यामं पूर्णकामम् अत्यभिरामं प्रीतिकरम् |
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् || १||
सुन्दरवारिजवदनं निर्जितमदनम् आनन्दसदनं मुकुटधरम् |
गुञ्जाकृतिहारं विपिनविहारं परमोदारं चीरहरम् ||
वल्लभपटपीतं कृतउपवीतं करनवनीतं विबुधवरम् || २||
शोभितमुखधुलं यमुनाकूलं निपटअतूलं सुखदतरम् |
मुखमण्डितरेणुं चारितधेनुं वादितवेणुं मधुरसुरम् |
वल्लभमतिविमलं शुभपदकमलं नखरुचि अमलं तिमिरहरम् || ३||
शिरमुकुटसुदेशं कुञ्चितकेशं नटवरवेशं कामवरम् |
मायाकृतमनुजं हलधरअनुजं प्रतिहतदनुजं भारहरम् |
वल्लभव्रजपालं सुभगसुचालं हितमनुकालं भाववरम् || ४||
इन्दीवरभासं प्रकटसुरासं कुसुमविकासं वंशिधरम् |
हृत्मन्मथमानं रूपनिधानं कृतकलगानं चित्तहरम् |
वल्लभमृदुहासं कुञ्जनिवासं विविधविलासं केलिकरम् || ५||
अतिपरमप्रवीणं पालितदीनं भक्ताधीनं कर्मकरम् |
मोहनमतिधीरं फणिबलवीरं हतपरवीरं तरलतरम् |
वल्लभव्रजरमणं वारिजवदनं हलधरशमनं शैलधरम् || ६||
जलधरद्युतिअङ्गं ललितत्रिभङ्गं बहुकृतरङ्गं रसिकवरम् |
गोकुलपरिवारं मदनाकारं कुञ्जविहारं गूढतरम् |
वल्लभव्रजचन्द्रं सुभगसुछन्दं कृतआनन्दं भ्रान्तिहरम् || ७||
वन्दितयुगचरणं पावनकरणं जगदुद्धरणं विमलधरम् |
कालियशिरगमनं कृतफणिनमनं घातितयमनं मृदुलतरम् |
वल्लभदुःखहरणं निर्मलचरणम् अशरणशरणं मुक्तिकरम् || ८||
|| इति श्रीमहाप्रभुवल्लभाचार्यविरचितं
श्रीनन्दकुअमराष्टकं सम्पूर्णम्||
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com