.. नारायणभट्टकृत नारायणीय ..
Nar1.1.1-1सान्द्रानन्दावबोधात्मकमनुपमितं कालदेशावधिभ्यां
Nar1.1.1-2निर्मुक्तं नित्यमुक्तं निगमशतसहस्रेण निर्भास्यमानम् |
Nar1.1.1-3अस्पष्टं दृष्टमात्रे पुनरुरुपुरुषार्थात्मकं ब्रह्म तत्त्वं
Nar1.1.1-4तत्तावद्भाति साक्षाद्गुरुपवनपुरे हन्त भाग्यं जनानाम् ||
Nar1.1.2-1एवं दुर्लभ्यवस्तुन्यपि सुलभतया हस्तलब्धे यदन्यत्
Nar1.1.2-2तन्वा वाचा धिया वा भजति बत जनः क्षुद्रतैव स्फुटेयम् |
Nar1.1.2-3एते तावद्वयं तु स्थिरतरमनसा विश्वपीडापहत्यै
Nar1.1.2-4निश्शेषात्मानमेनं गुरुपवनपुराधीशमेवाश्रयामः ||
Nar1.1.3-1सत्त्वं यत्तत्पुराभ्यामपरिकलनतो निर्मलं तेन तावद्
Nar1.1.3-2भूतैर्भूतेनिद्रयैस्ते वपुरिति बहुशः श्रूयते व्यासवाक्यम् |
Nar1.1.3-3तत्स्वच्छत्वाद्यदच्छादितपरसुखचिद्गर्भनिर्भासरूपं
Nar1.1.3-4तस्मिन्धन्या रमन्ते श्रुतिमतिमधुरे सुग्रहे विग्रहे ते ||
Nar1.1.4-1निष्कम्पे नित्यपूर्णे निरवधि परमानन्दपीयूषरूपे
Nar1.1.4-2निर्लीनानेकमुक्तावलिसुभगतमे निर्मलब्रह्मसिन्धौ |
Nar1.1.4-3कल्लोलोल्लासतुल्यं खलु विमलतरं सत्त्वमाहुस्तदात्मा
Nar1.1.4-4कस्मान्नो निष्कलस्त्वं सकल इति वचस्त्वत्कलास्वेव भूमन्!||
Nar1.1.5-1निर्व्यापारोऽपि निष्कारणमज!भजसे यत्क्रियामीक्षणाख्यां
Nar1.1.5-2तेनैवोदेति लीना प्रकृतिरसतिकल्पापि कल्पादिकाले |
Nar1.1.5-3तस्याः संशुद्धमंशं कमपि तमतिरोधायकं सत्त्वरूपं
Nar1.1.5-4स त्वं धृत्वा दधासि स्वमहिमविभवाकुण्ठ!वैकुण्टःअ!रूपम् ||
Nar1.1.6-1तत्ते प्रत्यग्रधाराधरललितकलायावलीकेलिकारं
Nar1.1.6-2लावण्यस्यैकसारं सुकृतिजनदृशां पूर्णपुण्यावतारम् |
Nar1.1.6-3लक्ष्मीनिश्शङ्कलीलानिलयनममृतस्यन्दसन्दोहमन्तः
Nar1.1.6-4सिञ्चत्सञ्चिन्तकानां वपुरनुकलये मारुतागारनाथ!||
Nar1.1.7-1कष्टा ते सृष्टिचेष्टा बहुतरभवखेदावहा जीवभाजामित्येवं
Nar1.1.7-2पूर्वमालोचितमजित!मया नैवमद्याभिजाने |
Nar1.1.7-3नो चेज्जीवाः कथं वा मधुरतरमिदं त्वद्वपुश्चिद्रसार्द्रं
Nar1.1.7-4नेत्रैः श्रोत्रैश्च पीत्वा परमरससुधाम्भोधिपूरे रमेरन् ||
Nar1.1.8-1नम्राणां सन्निधत्ते सततमपि पुरस्तैरनभ्यार्थितानप्यर्थान्
Nar1.1.8-2अप्यर्थान् कामानजस्रं वितरति परमानन्दसान्द्रां गतिं च |
Nar1.1.8-3इत्थं निश्शेषलभ्यो निरवधिकफलः पारिजातो हरे!त्वं
Nar1.1.8-4क्षुद्रं तं शक्रवाटीद्रुममभिलषति व्यर्थमर्थिव्रजोऽयम् ||
Nar1.1.9-1कारुण्यात्काममन्यं ददति खलु परे स्वात्मदस्त्वं विशेषा-
Nar1.1.9-2दैश्वर्यादीशतेऽन्ये जगति परजने स्वात्मनोऽपीश्वरस्त्वम् |
Nar1.1.9-3त्वय्युच्चैरारमन्ति प्रतिपदमधुरे चेतनाः स्फीतभाग्यास्त्वं
Nar1.1.9-4छाऽऽत्मारामेवेत्यतुलगुणगणाधार!शौरे!नमस्ते ||
Nar1.1.10-1ऐश्वर्यं शङ्करादीश्वरविनियमनं विश्वतेजोहराणां
Nar1.1.10-2तेजस्संहारि वीर्यं विमलमपि यशो निस्पृहैश्चोपगीतम् |
Nar1.1.10-3अङ्गासङ्गा सदा श्रीरखिलविदसि न क्वापि ते सङ्गवार्ता
Nar1.1.10-4तद्वातागारवासिन्!मुरहर!भगवच्छब्दमुख्याश्रयोऽसि ||
Nar1.2.1-1सूर्यस्पर्धिकिरीटमूर्ध्वतिलकप्रोद्भासिफालान्तरं
Nar1.2.1-2कारुण्याकुलनेत्रमार्द्रहसितोल्लासं सुनासापुटम् |
Nar1.2.1-3गण्डोद्यन्मकराभकुण्डलयुगं कण्ठोज्ज्वलत्कौस्तुभं
Nar1.2.1-4त्वद्रूपं वनमाल्यहीरपटलश्रीवत्सदीप्रं भजे ||
Nar1.2.2-1केयूराङ्गदकङ्कणोत्तममहारत्नाङ्गुलीयाङ्कित
श्रीमद्बाहुचतुष्कसङ्गतगदाशङ्खारिपङ्केरुहाम् |
Nar1.2.2-2काञ्चित्काञ्चिनकाञ्चिलाच्छितलसत्पीताम्बरालम्बिनीइम्
आलम्बे विमलाम्बुजद्युतिपदां मूर्तिं तवार्तिच्छिदम् ||
Nar1.2.3-1यत्त्रैलोक्यमहीयसोऽपि महितं सम्मोहनं मोहनात्
Nar1.2.3-2कान्तं कान्तिनिधानतोऽपि मधुरं माधुर्यधुर्यादपि |
Nar1.2.3-3सौन्दर्योत्तरतोऽपि सुन्दरतरं त्वद्रूपमाश्चर्यतोऽप्याश्चर्यं
Nar1.2.3-4भुवने न कस्य कुतुकं पुष्णाति विष्णो!विभो!||
Nar1.2.4-1तत्तादृङ्मधुरात्मकं तव वपुः सम्प्राप्य सम्पन्मयी
Nar1.2.4-2सा देवी परमोत्सुका चिरतरं नास्ते स्वभक्तेष्वपि |
Nar1.2.4-3तेनास्या बत कष्टमच्युत्!विभो!
त्वद्रूपमानोज्ञकप्रेमस्थैर्यमयादचापलबलाच्चापल्यवार्तोदभूत् ||
Nar1.2.5-1लक्ष्मीस्तावकरामणीयकहृतैवेयं परेष्वस्थिरेत्
Nar1.2.5-2यस्मिन्नन्यदपि प्रमाणमधुना वक्ष्यामि लक्ष्मीपते!|
Nar1.2.5-3ये त्वद्ध्य्नगुणानुकीर्तनरसासक्ता हि भक्ता जनास्
Nar1.2.5-4तेष्वेषा वसति स्थिरैव दयितप्रस्तावदत्तादरा ||
Nar1.2.6-1एवम्भूतमनोज्ञतानवसुधानिष्यन्दसन्दोहनं
Nar1.2.6-2त्वद्रूपं परचिद्रसायनमयं चेतोहरं शृण्वताम् |
Nar1.2.6-3सद्यः प्रेरयते मतिं मदयते रोमाञ्चयत्य्ङ्गकं
Nar1.2.6-4व्यासिञ्चत्यपि शीतबाष्पविसरैरानन्दमूर्च्छोद्भवैः ||
Nar1.2.7-1एवम्भूततया हि भक्त्यभिहितो योगः स योगद्वयत्
Nar1.2.7-2कर्मज्ञानमयाद्भृशोत्तमतरो योगीश्वरैर्गीयते |
Nar1.2.7-3सौन्दर्यैकरसात्मके त्वयि खलु प्रेमप्रकर्षात्मिका
Nar1.2.7-4भक्तिर्निःश्रममेव विश्वपुरुषैर्लभ्या रमावल्लम्!||
Nar1.2.8-1निष्कामं नियतस्वधर्मचरणं यत्कर्मयोगाभिधं
Nar1.2.8-2तद्दूरेत्यफलं यदौपनिषदज्ञानोपलभ्यं पुनः |
Nar1.2.8-3तत्त्वव्यक्ततया सुदुर्गमतरं चित्तस्य तस्माद्विभो!
Nar1.2.8-4त्वत्प्रेमात्मकभक्तिरेव सततं स्वदीयसी श्रेयसी ||
Nar1.2.9-1अत्यायासकराणि कर्मपटलान्याचर्य निर्यन्मला
Nar1.2.9-2बोधे भक्तिपथेऽथवाप्युविततामायान्ति किं तावता |
Nar1.2.9-3क्लिष्ट्वा तर्कपथे परं तव वपुर्ब्रह्माख्यमन्ये पुनश्
Nar1.2.9-4चित्तार्द्रत्वमृते विचिन्त्य बहुभिः सिध्यन्ति जन्मान्तरैः ||
Nar1.2.10-1त्वद्भक्तिस्तु कथारसामृतज्ञरीनिर्मज्जनेन स्वयं
Nar1.2.10-2सिध्यन्ति विमलप्रषोधपदवीमक्लेशतस्तन्वती |
Nar1.2.10-3सद्यः सिद्धिकरी जयत्ययि विभो!सैवास्तु मे त्वत्पद-
Nar1.2.10-4प्रेमप्रौढिरसार्द्रता द्रुततरं वातालयाधीश्वर!||
Nar1.3.1-1पठन्तो नामानि प्रमदभरसिन्धौ निपतिताः
Nar1.3.1-2स्मरन्तो रूपं ते वरद!कठयन्तो गुणकठाः |
Nar1.3.1-3चरन्तो ये भक्तास्त्वपि खलु रमन्ते परममु-
Nar1.3.1-4नहं धन्यान्मन्ये समधिगतसर्वाभिलषितान् ||
Nar1.3.2-1गदक्लिष्टं कष्टं तव चरणसेवारसभरे-
Nar1.3.2-2अप्यनासक्तं चित्तं भवति बत विष्णो!कुरु दयाम् |
Nar1.3.2-3भवत्पादाम्भोजस्मरणरसिको नामनिवहा-
Nar1.3.2-4नहं गायंगायं कुहचन विवत्स्यामि विजने ||
Nar1.3.3-1कृपा ते जाता चेत्किमिव न हि लभ्यं तनुभृतां
Nar1.3.3-2मदीयक्लेशौघप्रशमनदशा नाम कियती |
Nar1.3.3-3न के के लोकेऽस्मिन्ननिशमयि शोकाभिरहिता
Nar1.3.3-4भवद्भक्ता मुक्ताः सुखगतिमसक्ता विदधते ||
Nar1.3.4-1मुनिप्रौढा रूढा जगति खलु गूढात्मगतयो
Nar1.3.4-2भवत्पादाम्भोजस्मरणविरुजो नारद्मुखाः |
Nar1.3.4-3चरन्तीश्!स्वैरं सततपरिनिर्भातपरचित्-
Nar1.3.4-4सदानन्दाद्वैतप्रसरपरिमग्नाः किमपरम् ||
Nar1.3.5-1भवद्भक्तिः स्फीता भवतु मम सैव प्रशमये-
Nar1.3.5-2दशेषक्लेशौघं न खलु हृदि सन्देहकणिका |
Nar1.3.5-3न चेद्व्यासस्योक्तिस्तव च वचनं नैगमवचो
Nar1.3.5-4भवेन्मिथ्या रथ्यापुरुषवचनप्रायमखिलम् ||
Nar1.3.6-1भवद्भक्तिस्तावत्प्रमुखमधुरा त्वाद्गुणरसात्
Nar1.3.6-2मिमप्यारूढा चेदखिलपरितापप्रशमनी |
Nar1.3.6-3पूनश्चान्ते स्वान्ते विमलपरि बोधोदयमिलन्
Nar1.3.6-4महानन्दाद्वैतं दिशति किमतः प्रार्थ्यमपरम् ||
Nar1.3.7-1विधूय क्लेशान्मे कुरु चरणयुग्मं धृतरसं
Nar1.3.7-2भवत्क्षेत्रप्राप्तौ करमपि च ते पूजनविधौ |
Nar1.3.7-3भवन्मूर्त्यालोके नयनमथ ते पादतुलसी-
Nar1.3.7-4परिघ्राणे घ्राणं श्रवणमपि ते चारुचरिते ||
Nar1.3.8-1प्रभूताधिव्याधिप्रसभवलिते मामकहृदि
Nar1.3.8-2त्वदीयं तद्रूपं परमरसचिद्रूपमुदियात् |
Nar1.3.8-3उदञ्चद्रोमाञ्चो गलितबहुहर्षाश्रूनिवहो
Nar1.3.8-4यथा विस्मर्यासं दुरुपशमपीडापरिभवन् ||
Nar1.3.9-1मरुद्गेहाधीश्!त्वयि खलु पराञ्चोऽपि सुखिनो
Nar1.3.9-2भवत्स्नेही सोऽहं सुबहु परितप्ये च किमिदम् |
Nar1.3.9-3अकीर्तिस्ते मा भूद्वरद!गदभारं प्रशमयन्
Nar1.3.9-4भवत्भक्तोत्तंसं झटिति कुरु मां कंसदमन!||
Nar1.3.10-1किमुक्तैर्भूयोभिस्तव हि करुणा यावदुदियादहं
Nar1.3.10-2तावद्देव!प्रहितविविधार्तप्रलपितः |
Nar1.3.10-3पुरः क्लृप्ते पादे वरद!तव नेष्यामि दिवसान्
Nar1.3.10-4यथाशक्ति व्यक्तं नतिनुतिनिषेवा विरचयन् ||
Nar2.4.1-1कल्यतां मम कुरुष्व तावतीं कल्यते भवदुपासनं यया |
Nar2.4.1-2स्पष्टमष्टविधयोगचर्यया पुष्टयाशु तव तुष्टिमाप्नुयाम् ||
Nar2.4.2-1भ्रह्मचर्यदृढतादिभिर्यमैराप्ल्वादिनियमैश्च पाविताः |
Nar2.4.2-2कुर्महे दृढममी सुखासनं पङ्कजाद्यमपि वा भवत्पराः ||
Nar2.4.3-1तारमन्तरनुचिन्त्य सन्ततं प्राणवायुमभियम्य निर्मलाः |
Nar2.4.3-2इन्द्रियाणि विषयादथापहृत्यास्महे भवदुपासनोन्मुखाः ||
Nar2.4.4-1अस्फुटे वपुषि प्रयत्नतो धारयेम धिषणां मुहुर्मुहुः |
Nar2.4.4-2तेन भक्तिरसमन्तराद्रतामुद्वहेम भवदङ्घ्रिचिन्तकाः ||
Nar2.4.5-1विस्फुटावयवभेदसुन्दरं त्वद्वपुः सुचिरशीलनावशात् |
Nar2.4.5-2अश्रमं मनसि चिन्तयामहे ध्यानयोगनिरतास्त्वदाश्रयाः ||
Nar2.4.6-1ध्यायतां सकलमूर्तिमीदृशीमुन्मिषन्मधुरताहृतात्मनाम् |
Nar2.4.6-2सान्द्रमोदरसरूपमान्तरं ब्रह्म रूपमयि!तेऽविभासते ||
Nar2.4.7-1तत्समास्वदनरूपिणीं स्थितिं त्वत्समाधिमयि विश्वनायक!|
Nar2.4.7-2आश्रिताः पुनरतः परिच्युतावारभेमहि च धारणादिकम् ||
Nar2.4.8-1इत्थमभ्यसननिर्भरोल्लसत्त्वत्परात्मसुखकल्पितोत्सवाः |
Nar2.4.8-2मुक्तभक्तकुलमौलितां गताः सञ्चरेम शुकनारदादिवत् ||
Nar2.4.9-1त्वत्समाधिविजये तु यः पुनर्मङ्क्षु मोक्षरसिकः क्रमेण वा |
Nar2.4.9-2योगवश्यमनिलं षडाश्रयैरुन्नयत्यज!सुषुम्णया शनैः ||
Nar2.4.10-1लिङ्गदेहमपि सन्त्यजन्नथो लीयते त्वयि परे निराग्रहः |
Nar2.4.10-2ऊर्ध्वलोककुतुकी तु मूर्धतः सार्धमेव करणैर्निरीयते ||
Nar2.4.11-1अग्निवासरवलर्क्षपक्षगैरुत्तरायणजुषा च दैवतैः |
Nar2.4.11-2प्रापितो रविपदं भवत्परो मोदवान्ध्रुवपदान्तमीयते ||
Nar2.4.12-1आस्थितोऽथ महरालये यदा शेषवक्त्रदहनोष्मणार्द्यते |
Nar2.4.12-2ईयते भवदुपाश्रयस्तदा वेधसः पदमतः पुरैव वा ||
Nar2.4.13-1तत्र वा तव पदेऽथवा वसन्प्राकृतप्रलय एति मुक्तताम् |
Nar2.4.13-2स्वेच्छया खलु पुरापि मुच्यते संचिभिद्य जगदण्डमोजसा ||
Nar2.4.14-1तस्य च क्षितिपयोमहोनिलद्योमहत्प्रकृतिसप्तकावृती |
Nar2.4.14-2तत्तदात्मकतया विशन्सुखी याति ते पदमनावृतं विभो!||
Nar2.4.15-1अर्चिरादिगतिमीदृशीं व्रजन्विच्युतिं न भजते जगत्पते!|
Nar2.4.15-2सच्चिदीत्मक!भवद्गुणोदयानुच्चरन्तमनिलेश!पाहि माम् ||
Nar2.5.1-1व्यक्ताव्यक्तमिदं न किञ्चिदभवत्प्राक्प्राकृतप्रक्षये
Nar2.5.1-2मायायां गुणसाम्यरुद्धविकृतौ त्वय्यागतायां लयम् |
Nar2.5.1-3नो मृत्युश्च तदामृतं च समभून्नाह्नो न रात्रेः स्थिति-
Nar2.5.1-4स्तत्रैकस्त्वमशिष्यथाः किल परानन्दप्रकाशात्मना ||
Nar2.5.2-1कालः कर्म गुणाश्च जीवनिवहा विश्वं च कार्यं विभो!
Nar2.5.2-2चिल्लीलारतिमेयुषि त्वयि तदा निर्लीनतामाययुः |
Nar2.5.2-3तेषां नैव वदन्त्यसत्त्वमयि भोः!शक्त्यात्मना तिष्ठताम्
Nar2.5.2-4नो चेत्किं गगनप्रसुनसदृशां भूयो भवेत्सम्भवः ||
Nar2.5.3-1एवञ्च द्विपरार्धकालविगतावीक्षां सिसृक्षात्मिकां
Nar2.5.3-2बिभ्राणे त्वयि चुक्षुमे त्रिभुवनीभावाय माया स्वयम् |
Nar2.5.3-3मायातः खलु कालशक्तिरखिलादृष्टं स्वभावोऽपि च
Nar2.5.3-4प्रादुर्भूय गुणान्विकास्य विदधुस्तस्याः सहायक्रियाम् ||
Nar2.5.4-1मायासन्निहितोऽप्रविष्टवपुषा साक्षीति गीतो भवान्
Nar2.5.4-2भेदैस्तां प्रतिबिम्बतो विविशिवान्जीवोऽपि नैवापरः |
Nar2.5.4-3कालादिप्रतिबोधिताथ भवता सञ्चोदिता च स्वयं
Nar2.5.4-4माया सा खलु बुद्धितत्त्वमसृजद्योऽसौ महानुच्यते ||
Nar2.5.5-1तत्रासौ त्रिगुणात्मकोऽपि च महान्सत्त्वप्रधानः स्वयं
Nar2.5.5-2जीवेऽस्मिन्खलु निर्विकल्पमहमित्युद्बोधनिष्पादकः |
Nar2.5.5-3चक्रेऽ स्मिन्सविकल्पबोधकमहन्तत्त्वं महान्खल्वसु
Nar2.5.5-4संपुष्टं त्रिगुणैस्तमोतिबहुलं विष्णो!भवत्प्रेरणात् ||
Nar2.5.6-1सोऽहं च त्रिगुणक्रमात्त्रिविधतामासाद्यवैकारिको
Nar2.5.6-2भूयस्तैजसतामसाविति भवन्नाद्येन सत्त्वात्मना |
Nar2.5.6-3देवानिद्रियमानिनोऽकृत दिशावातार्कपाश्यश्विनो
Nar2.5.6-4वह्नीन्द्राच्युतमित्रकान्विधुविधिश्रीरुद्रशारीरकान् ||
Nar2.5.7-1भूमन्!मानसबुद्ध्यहङ्कृतिमिलच्चित्ताख्यवृत्त्यन्वितं
Nar2.5.7-2तच्चान्तः करणं विभो!तव बलात्सत्त्वांशेवासृजत् |
Nar2.5.7-3जातस्तैजसतो दशेन्द्रियगणस्तत्तामसांशात्पुन-
Nar2.5.7-4स्तन्मात्रं नभसो मरुत्पुरपते!शब्दोऽजनि त्वद्बलात् ||
Nar2.5.8-1शब्दाद्व्याम ततः ससर्जिथ विभो!स्पर्शं ततो मारुतं
Nar2.5.8-2तस्माद्रूपमतो महोऽथच रसं तोयं गन्धं महीम् |
Nar2.5.8-3एवं माधव!पूर्वपूर्वकलनादाद्याद्यधर्मान्वितं
Nar2.5.8-4भूतग्राममिमं त्वमेव भगवन्!प्राकाशयस्तामसात् ||
Nar2.5.9-1एते भूतगणास्तथेन्द्रियगणा देवाश्च जाताः पृथङ्
Nar2.5.9-2नो शेकुर्भुवनाण्डनिर्मितिविधादेवैरमीभिस्तदा |
Nar2.5.9-3त्वं नानाविधसूक्तिभिर्नुतगुणस्तत्त्वान्यमून्याविशं-
Nar2.5.9-4श्चेष्टाशक्तिमुदीर्य तानि बटयन्हैरण्यमण्डं व्यधाः ||
Nar2.5.10-1अण्डं तत्खलु पूर्वसृष्टसलिलेऽतिष्ठत्सहस्रं समा
Nar2.5.10-2निर्बिन्दन्नकृथाश्चतुर्दशजगद्रूपं विराडाह्वयम् |
Nar2.5.10-3साहस्रैः करपादमूर्धनीवहैर्निश्शेषजीवात्मको
Nar2.5.10-4निर्भातोऽसि मरुत्पुराधिप!स मां त्रायस्व सर्वामयात् ||
Nar2.6.1-1एवं चतुर्दशजगन्मयतां गतस्य
Nar2.6.1-2पातालमीश!तव पादतलं वदन्ति |
Nar2.6.1-3पादोर्ध्वदेशमपि देव!रसातलं त
Nar2.6.1-4गुल्फद्वयम्खलु महातलमद्भुतात्मन् ||
Nar2.6.2-1जङ्घे तलातलमथो सुतलं च जान्
Nar2.6.2-2किञ्चोरुभागयुगलं वितलातेले द्वे |
Nar2.6.2-3क्षोणीतलं जघनमम्बरमङ्ग!नाभिर्-
Nar2.6.2-4वक्षश्च शक्रनिलयस्तव चक्रेपाणे!||
Nar2.6.3-1ग्रीवा महस्तव मुखं च जनस्तपस्तु
Nar2.6.3-2फालं शिरस्तव समस्तमयस्य सत्यम् |
Nar2.6.3-3एवं जगन्मयन्तयो!जगदाश्रीतैर-
Nar2.6.3-4प्यन्यैर्निबद्धवपुषे भगवन्!नमस्ते ||
Nar2.6.4-1त्वद्ब्रह्मरन्ध्रपदमीश्वर!विश्वकन्द-
Nar2.6.4-2च्छन्दांसि केशष्!धनास्तव केशपाशाः |
Nar2.6.4-3उल्लासिचिल्लियुगलं द्रुहिणस्य गेहं
Nar2.6.4-4पक्ष्माणि रात्रिदिवसौ सविता च नेत्रे ||
Nar2.6.5-1निश्शेषविश्वरचना च कटाक्षमोक्षः
Nar2.6.5-2कर्णौ दिशोऽश्वियुगलं तव नासिके द्वे |
Nar2.6.5-3लोभत्रपे च भगवन्नधरोत्तरोष्ठौ
Nar2.6.5-4तारागणाश्च रदनाः शमनश्च दंष्ट्रा ||
Nar2.6.6-1माया विलासहसितं श्वसितं समीरो
Nar2.6.6-2जिह्वा जलं वचनमीश्!शकुन्तपङ्क्तिः |
Nar2.6.6-3सिद्धादयः स्वरगणा मुखरन्ध्रमग्निर्
Nar2.6.6-4देवा भुजाः स्तनयुगं तव धर्मदेवः ||
Nar2.6.7-1पृष्ठं त्वधर्मैह देव!मनः सुधांशु-
Nar2.6.7-2रव्यक्तमेव हृदयाम्बुजमम्नुजाक्ष!|
Nar2.6.7-3कुक्षिः समुद्रनिवहा वसनं तु सन्ध्ये
Nar2.6.7-4शेफः प्रजापतिरसौ वृष्णौ च मित्रः ||
Nar2.6.8-1श्रोणीस्थलं मृगगणाः पदयोर्नखास्ते
Nar2.6.8-2हस्त्य्ष्ट्रसैन्धवमुखा गमनं तु कालः |
Nar2.6.8-3विप्रादिवर्णभवनं वदनाब्जबाहु-
Nar2.6.8-4चारूरुयुग्मचरणंकरुणाम्बुधे!ते ||
Nar2.6.9-1संसारचक्रमायि चक्रधर!क्रियास्ते
Nar2.6.9-2वीर्यं महासुरगणोऽस्थिकुलानि शैलाः |
Nar2.6.9-3नाड्यः सरित्समुदयास्तरवश्च रोम
Nar2.6.9-4जीयादिदं वपुरनिर्वचनीयमीश्!||
Nar2.6.10-1ईदृग्जगन्मयवपुस्तव कर्मभाजां
Nar2.6.10-2कर्मावसानसमये स्मरणीयमाहुः |
Nar2.6.10-3तस्यान्तरात्मवपुषे विमलात्मने ते
Nar2.6.10-4वातालयाधिप!नमोऽस्तु निरुन्धि रोगान् ||
Nar2.6.10-5एवं देव!चतुर्दशात्मकजगद्रूपेण जातः पुनस्
Nar2.6.10-6तस्योधर्वं खलु सत्यलोकनिकलये जातोऽसि धाता स्वयम् |
Nar2.6.10-7यं शंसन्ति हिरण्यगर्भमखिलत्रैलोक्यजीवात्मकं
Nar2.6.10-8योऽभूत्स्फीतरजोविकारविकसन्नानासिसृक्षारसः ||
Nar2.7.2-1सोऽयं विश्वविसर्गदत्तहृदयः संपश्यमानः स्वयं
Nar2.7.2-2बोधं खल्वनवाप्य विश्वविषयं हि चिन्ताकुलस्तस्थिवान् |
Nar2.7.2-3तावत्त्वं जगतां पते!तप तपेत्येवं हि वैहायसीं
Nar2.7.2-4वाणीमेनमशिश्रवः श्रुतिसुखां कुर्वंस्तपःप्रेरणाम् ||
Nar2.7.3-1कोऽसौ मामवदत्पुमानिति जलापूर्णे जगन्मण्डले
Nar2.7.3-2दिक्षूद्वीक्ष्य किमप्यनीक्षितवता वाक्यार्थमुत्पश्यता |
Nar2.7.3-3दिव्यं वर्षसहस्रमात्ततपसा तेन त्वमाराधितस्
Nar2.7.3-4तस्मै दर्शितवानसि स्वनिलयं वैकुण्ठमेकाद्भुतम् ||
Nar2.7.4-1माया यत्र कदापि नो विकुरुते भाते जगद्भ्यते बहिः
Nar2.7.4-2शोकक्रोधविमोहसाध्वसमुखा भावास्तु दूरं गताः |
Nar2.7.4-3सान्द्रानन्दझरी च यत्र परमज्योतिः प्रकाशात्मके
Nar2.7.4-4तत्ते धाम विभावितं विजयते वैकुण्ठरूपं विभो!||
Nar2.7.5-1यस्मिन्नाम चतुर्भुजा हरिमणिश्यामावदातत्विषो
Nar2.7.5-2नानाभूषणरत्नदीपितदिशो राजद्विमानालयाः |
Nar2.7.5-3भक्तिप्राप्ततथाविधोन्नतपदा दीव्यन्ति दिव्यो जनास्
Nar2.7.5-4तत्ते धाम निरस्तसर्वशमलं वैकुण्ठरूपं जयेत् ||
Nar2.7.6-1नानादिव्यवधूजनैरभिवृता विद्युल्लतातुल्यया
Nar2.7.6-2विश्वोन्मादनहृद्यगात्रलतया विद्योतिताशान्तरा |
Nar2.7.6-3त्वत्पादाम्बुजसौरमैककुतुकाल्लक्ष्मीः स्वयं लक्ष्यते
Nar2.7.6-4यस्मिन्विस्मयनीयदिव्यविभवा तत्ते ओअदं देहि मे ||
Nar2.7.7-1तत्रैवं प्रतिदर्शिते निजपदे रत्नासनाध्यासितं
Nar2.7.7-2भास्वत्कोटिलसत्किरीटकटकाद्याकल्पदीप्राकृति |
Nar2.7.7-3श्रीवत्साङ्कितमात्तकौस्तुभणिच्छायारुणं कारणं
Nar2.7.7-4विश्वेषां तव रूपमैक्षत विधिस्तत्ते विभो!भातु मे ||
Nar2.7.8-1कालाम्भोदकलायकोमलरुची चक्रेण चक्रं दिशा-
Nar2.7.8-2मावृण्वानमुदारमन्दहसितस्यन्दप्रसन्नाननम् |
Nar2.7.8-3राजत्कम्बुगदारिपङ्कजधरश्रीमद्भुजामण्डलं
Nar2.7.8-4स्रष्टुस्तुष्टिकरं वपुस्तव विभो!मद्रोगमुद्वासयेत् ||
Nar2.7.9-1दृष्ट्वा सम्भृतसम्भ्रमः कमलभूस्त्वत्पादपाथोरुहे
Nar2.7.9-2हर्षावेशवशंवदो निपतितः प्रीत्या कृतार्थीभवन् |
Nar2.7.9-3जानास्येव मनीषितं मम विभो!ज्ञानं तदापादय
Nar2.7.9-4द्वैताद्वैतभवत्स्वरूपपरमित्याचष्ट तं त्वां भजे ||
Nar2.7.10-1आताम्रे चरणे विनम्रमथ तं हस्तेन हस्ते स्पृशन्
Nar2.7.10-2बोधस्ते भविता न सर्गविधिभिर्बन्दोऽपि सञ्जायते |
Nar2.7.10-3इत्याभाष्य गिरं प्रतोष्य्त नितरां तच्चित्तगूढः स्वयं
Nar2.7.10-4सृष्टौ तं समुदैरयः स भगवन्नुल्लासयोल्लाघताम् ||
Nar3.8.1-1एवं तावत्प्राकृतप्रक्षयान्ते ब्राह्मे कल्पे ह्यादिमे लब्धजन्मा |
Nar3.8.1-2ब्रह्मा भूयस्त्वत्त एवाप्य वेदान्सृष्टिं चक्रे पूर्वकल्पोपमानाम् ||
Nar3.8.2-1सोऽयं चतुर्युगसहस्रमितान्यहानि
Nar3.8.2-2तावन्मिताश्च रजनीर्बहुशो निनाय |
Nar3.8.2-3निद्रात्यसौ त्वयि निलीय समं स्वसृष्टैर्
Nar3.8.2-4नैमित्तिकप्रलयमाहुरतोऽस्य रात्रिम् ||
Nar3.8.3-1अस्मादृशां पुनरहर्मुखकृत्यतुल्यां
Nar3.8.3-2सृष्टिं करोत्यनुदिनं स भवत्प्रसादात् |
Nar3.8.3-3प्राग्ब्राह्मकल्पजनुषां च परायुषां तु
Nar3.8.3-4सुप्तप्रबोधनसमास्ति तदा विसृष्टिः ||
Nar3.8.4-1पञ्चाशदब्दमधुना स्ववयोर्धरूपम्
Nar3.8.4-2एकं परार्धमतिवृत्य हि वर्ततेऽसौ |
Nar3.8.4-3तत्रान्त्यरात्रिजनितान्कथयामि भूमन्!
Nar3.8.4-4पश्चाद्दिनावतरणे च भवद्विलासान् ||
Nar3.8.5-1दिनावसानेऽथ सरोजयोनिः सुषुप्तिकामस्त्वयि सन्निलिल्ये |
Nar3.8.5-2जगन्ति च त्वज्जठरं समीयुस्तदेदमेकार्णवमास विश्वम् ||
Nar3.8.6-1तवैव वेषे फणिराजि शेषे जलैकशेषे भुवने स्म शेषे |
Nar3.8.6-2आनन्दसान्द्रानुभवस्वरूपः स्वयोगनिद्रापरिमुद्रितात्मा ||
Nar3.8.7-1कालाख्यशक्तिं प्रलयावसाने प्रबोधयेत्यादिशता किलादौ |
Nar3.8.7-2त्वया प्रसुप्तं परिसुप्तशक्तिव्रजेन तत्राखिलजीवधाम्ना ||
Nar3.8.8-1चतुर्युगाणां च सहस्रमेवं त्वयि प्रसुप्ते पुनरद्वितीये |
Nar3.8.8-2कालाख्यशक्तिः प्रथमप्रबुद्धा प्रावोधयत्त्वां किल विश्वनाथ ||
Nar3.8.9-1विबुध्य च त्वं जलगर्भशायिन्!विलोक्य लोकानखिलान्प्रलीनान् |
Nar3.8.9-2तेष्वेव सूक्ष्मात्मतया निजान्तः स्थितेषु विश्वेषु ददाथ दृष्टिम् ||
Nar3.8.10-1ततस्त्वदीयादयि!नाभिरन्ध्रादुदञ्चितं किञ्चन दिव्यपद्मम् |
Nar3.8.10-2निलीननिश्शेषपदार्थमालासङ्क्षेपरूपं मुकुलायमानम् ||
Nar3.8.11-1तदेतदम्भोरुहकुड्मलं ते कलेबरात्तोयपथे प्ररूडःअम् |
Nar3.8.11-2बहिर्निरीतं परितः स्फुरद्भिः स्वधामभिर्ध्वान्तमलं न्यकृन्तत् ||
Nar3.8.12-1संफुल्लपत्रे नितरां विचित्रे तस्मिन्भवद्वीर्यधृते सरोजे |
Nar3.8.12-2स पद्मजन्मा विधिराविरासीत्स्वयंप्रबुद्धाखिलवेदराशिः ||
Nar3.8.13-1अस्मिन्परात्मन्!ननु पाद्मकल्पे त्वमित्थमुत्थापितपद्मयोनिः |
Nar3.8.13-2अनन्तभुमा मम रोगराशिं निरुन्धि वातालयवास्!विष्णो!||
Nar3.9.1-1स्थितः स कमलोद्भवस्तव हि नाभिपङ्केरुहे
Nar3.9.1-2कुतः स्विदिदमम्बुधावुदितमित्यनालोकायन् |
Nar3.9.1-3तदीक्षणकुतूहलात्प्रतिदिशं विवृत्ताननश्
Nar3.9.1-4चतुर्वदनतामगाद्विकसदष्टदृष्ट्यम्बुजाम् ||
Nar3.9.2-1महार्णवविघूर्ण्तं कमलमेव तत्केवलं
Nar3.9.2-2विलोक्य तदुपाश्रयं तव तनुं तु नालोकयन् |
Nar3.9.2-3क एष कमलोदरे महति निस्सहायो ह्यहं
Nar3.9.2-4कुतः स्विदिदमम्बुजं समजनीति चिन्तामगात् ||
Nar3.9.3-1अमुष्य हि सरोरुहः किमपि कारणं सम्भवेद्
Nar3.9.3-2इतिस्म कृतनिश्चयः स खलु नालरन्ध्राध्वना |
Nar3.9.3-3सयोगबलविद्यया समवरूढवान्प्रौढधीस्
Nar3.9.3-4त्वदीयमतिमोहनं न तु कलेबरं दृष्टवान् ||
Nar3.9.4-1ततः सकलनालिकाविवरमार्गगो मार्गयन्
Nar3.9.4-2प्रय्स्य शतवत्सरं किमपि नैव सन्दृष्टवान् |
Nar3.9.4-3निवृत्य कमलोदरे सुखनिषण्ण एकाग्रधीः
Nar3.9.4-4समाधिबलमादधे भवदनुग्रहैकाग्रही ||
Nar3.9.5-1शतेन परिवत्सरैर्दृढसमाधिबन्धोल्लसत्
Nar3.9.5-2प्रबोधविश्दीकृतः स खलु पद्मिनीसम्भवः |
Nar3.9.5-3अदृष्टचरमद्भुतं तव हि रूपमन्तर्दृशा
Nar3.9.5-4व्यचष्ट परितुष्टधीर्भुजगभोगभागाश्रयम् ||
Nar3.9.6-1किरीटमकृटोल्लसत्कटकहारकेयूरयुग्
Nar3.9.6-2मणिस्फुरितमेखलं सुपरिवीतपीताम्बरम् |
Nar3.9.6-3कलायकुसुमप्रभं गलतलोल्लसत्कौस्तुभं
Nar3.9.6-4वपुस्तदयि!भावये कमलजन्मने दर्शितम् ||
Nar3.9.7-1श्रुतिप्रकरदर्शितप्रचुरवैभव!श्रीपते!
Nar3.9.7-2हरे!जय जय प्रभो!पदमुपैषि दिष्ट्या दृशोः |
Nar3.9.7-3कुरुष्व धियमाशु मे भुवननिर्मितौ कर्मठाम्
Nar3.9.7-4इति द्रुहिणवर्णितस्वगुणबंहिमा पाहि माम् ||
Nar3.9.8-1लभस्व भुवनत्रयीरचनदक्षतामक्षतां
Nar3.9.8-2गृहाण मदनुग्रहं कुरु तपश्च भूयो विधे!|
Nar3.9.8-3भवत्वखिलसाधनी मयि च भक्तिरत्युत्कटे-
Nar3.9.8-4त्युदीर्य गिरमादधा मुदितचेतसं वेधसम् ||
Nar3.9.9-1शतं कृततपास्ततः स खलु दिव्यसंवत्सरा-
Nar3.9.9-2नवाप्य च तपोबलं मतिबलं च पूर्वाधिकम् |
Nar3.9.9-3उदीक्ष्य किल कम्पितं पयसि पङ्कजं वायुना
Nar3.9.9-4भवत्बलविजृम्भितः पवनपाथसी पीतवान् ||
Nar3.9.10-1तवैव कृपया पुनः सरसिजेन तेनैव स
Nar3.9.10-2प्रकल्प्य भुवनत्रयीं प्रववृते प्रजानिर्मितौ |
Nar3.9.10-3तथाविधकृपाभरो गुरुमरुत्पुराधीश्वर!
Nar3.9.10-4त्वमाशु परिपाहि मां गुरुदयोक्षितैरीक्षितैः ||
Nar3.10.1-1वैकुण्टःअ!वर्धितबलोऽथ भवत्प्रसादा-
Nar3.10.1-2दम्भोजयोनिरसृजत्किल जीवदेहान् |
Nar3.10.1-3स्थास्नूनि भूरुहमयानि तथा तिरश्चां
Nar3.10.1-4जातीर्मनुष्यनिवहानपि देवभेदान् ||
Nar3.10.2-1मिथ्याग्रहास्मिमतिरागविकोपभीतिर्
Nar3.10.2-2अज्ञानवृत्तिमिति पञ्चविधां स सृष्ट्वा |
Nar3.10.2-3उद्दामतामसपदार्थविधानदूनस्
Nar3.10.2-4तेने त्वदीयचरणस्मरणं विशुद्ध्यै ||
Nar3.10.3-1तावत्ससर्ज मनसा सनकं सनन्दं
Nar3.10.3-2भूयं सनातनमुनिं च सनत्कुमारम् |
Nar3.10.3-3ते सृष्टिकर्मणि तु तेन नियुज्यमानास्
Nar3.10.3-4त्वत्पादभक्तिरसिका जगृहुर्न वाणीम् ||
Nar3.10.4-1तावत्प्रकोपमुदितं प्रतिरुन्धतोऽस्य
Nar3.10.4-2भ्रूमध्यतोऽजनि मृडो भवदेकदेशः |
Nar3.10.4-3नामानि मे कुरु पदानि च हा विरिञ्चेत्
Nar3.10.4-4यदौ रुरोद्किल तेन स रुद्रनामा ||
Nar3.10.5-1एकादशाह्वयतया च विभिन्नरूपं
Nar3.10.5-2रुद्रं विधाय दयिता वनिताश्च दत्त्वा |
Nar3.10.5-3तावन्त्यदत्त च पदानि भवत्प्रणुन्नः
Nar3.10.5-4प्राह प्रजाविरचनाय च सदारं तम् ||
Nar3.10.6-1रुद्राभिसृष्टभयदाकृतिरुद्रसङ्घ-
Nar3.10.6-2संपूर्यमाणाभुवनत्रयभीतचेताः |
Nar3.10.6-3मा मा प्रजाः सृज तपश्चर मङ्गलायेत्
Nar3.10.6-4याचष्ट तं कमलभूर्भवदीरितात्मा ||
Nar3.10.7-1तस्याथ सर्गरसिकस्य मरीचिरत्रिस्
Nar3.10.7-2तत्राङ्गिराः क्रतुमिनिः पुलहः पुलस्त्यः |
Nar3.10.7-3अङ्गादजयत भृगुश्च वसिष्ठदक्षौ
Nar3.10.7-4श्रीनारदश्च भगवान्भवदङ्घ्रिदासः ||
Nar3.10.8-1धर्मादिकानभ्सृजन्नथ कर्दमं च
Nar3.10.8-2वाणीं विधाय विधिरङ्गजसङ्कुलोऽभूत् |
Nar3.10.8-3त्वद्बोधितैः सनकदक्षमुखैस्तनूजैर्
Nar3.10.8-4उद्बोधितश्च विरराम तमो विमुञ्चन् ||
Nar3.10.9-1देवान्पुराणनिवहानपि सर्वविद्याः
Nar3.10.9-2कुर्वन्निजाननगणाच्चतुराननोऽसौ |
Nar3.10.9-3पुत्रेषु तेषु विनिधाय स सर्गवृद्धिम्
Nar3.10.9-4अप्राप्नुवंस्तव पदाम्बुजमाश्रितोऽभूत् ||
Nar3.10.10-1जानन्नुपायमथ देहमजो विभज्य
Nar3.10.10-2स्त्रीपुंसभावमभजन्मनुतद्वधूभ्याम् |
Nar3.10.10-3ताभ्यां च मानुषकुलानि विवर्धयंस्त्वं
Nar3.10.10-4गोविन्द!मारुतपुराधिप!रुन्धि रोगान् ||
Nar3.11.1-1क्रमेण सर्गे परिवर्धमाने कदापि दिव्याः सनकादयस्ते |
Nar3.11.1-2भवद्विलोकाय विकुण्ठलोकं प्रपेदिरे मारुतमन्दिरेश!||
Nar3.11.2-1मनोज्ञनैः श्रेयसकाननाद्यैरनेकवापमिणिमन्दिरैश्च |
Nar3.11.2-2अनोपमं तं भवतो निकेतं मुनीश्वराः प्रापुरतीतकक्ष्याः ||
Nar3.11.3-1भवद्दिदृक्षून्भवनं विविक्षून्द्वाःस्थौ जयस्तान्विजयोऽप्यरुन्धाम् |
Nar3.11.3-2तेषां च चित्ते पदमाप कोपः सर्वं भवत्प्रेरणयैव भूमन् ||
Nar3.11.4-1वैकुण्ठलोकानुचितप्रचेष्टौ कष्टौ युवां दैत्यगतिं भजेतम् |
Nar3.11.4-2इति प्रशप्तौ भवदाश्रयौ तौ हरिस्मृतिर्नोऽस्त्विति नेमतुस्तान् ||
Nar3.11.5-1तेदेतदाज्ञाय भवानवाप्तः सहैव लक्ष्म्या बहिरम्बुजाक्ष!|
Nar3.11.5-2खगेश्वरांसार्पितचारुबाहुरानन्दयंस्तीनभिराममूर्त्या ||
Nar3.11.6-1प्रसाद्य गीर्भिः स्तुवतो मुनीन्द्राननन्यनाथावथ पार्षदौ तौ |
Nar3.11.6-2संरम्भयोगेन भवैस्त्रिभिर्मामुपेतमित्यात्तकृपां न्यगादीः ||
Nar3.11.7-1त्वदीयभृत्यौ किल काश्यपात्तौ सुरारिवीरावुदितौ दितौ द्वौ |
Nar3.11.7-2सन्ध्यासमुत्पादनकष्टचेष्टौ यमौ च लोकस्य यमाविवायौ ||
Nar3.11.8-1हिरण्यपूर्वः कशिपुः किलैकः पुरो हिरण्याक्ष इति प्रतीतः |
Nar3.11.8-2उभौ भवन्नाथमशेषलोकं रुषा न्यरुन्धां निजवासनान्धौ ||
Nar3.11.9-1तयोर्हिरण्याक्षमहासुरेन्द्रो रणाय धावन्ननवाप्तवैरी |
Nar3.11.9-2भवत्प्रियां क्ष्मां सलिले निमज्ज्य चचार गर्वाद्विनदन्गदावान् ||
Nar3.11.10-1ततो जलेशात्सदृशं भवन्तं निशम्य बभ्राम गवेषयंस्त्वाम् |
Nar3.11.10-2भक्तैकदृश्यः स कृपानिधे!त्वं निरुन्धि रोगान्मरुदालयेश!||
Nar3.12.1-1स्वायम्भुवो मनुरथो जनसर्गशीलो
Nar3.12.1-2दृष्ट्वा महीमसमये सलिले निमघ्नाम् |
Nar3.12.1-3स्रष्टारमाप शरणं भवदङ्घ्रिसेवा-
Nar3.12.1-4तुष्टाशयं मुनिजनैः सह सत्यलोके ||
Nar3.12.2-1कष्टं प्रजाः सृजति मय्यवनी निमग्ना
Nar3.12.2-2स्थानं सरोजभव!कल्पय तत्प्रजानाम् |
Nar3.12.2-3इत्येवमेष कथितो मनुनि स्वयम्भू-
Nar3.12.2-4रम्भोरुहाक्ष!तव पादयुगं व्यचिन्तीत् ||
Nar3.12.3-1हा हा विभो!जलमहं न्यपिबं पुरस्ताद्
Nar3.12.3-2अद्यापि मज्जति मही किमहं करोमि |
Nar3.12.3-3इत्थं त्वदङ्घ्रियुगलं शरणं यतोऽस्य
Nar3.12.3-4नासापुटात्समभवः शिशुकोलरूपी ||
Nar3.12.4-1अङ्गुष्टःअमात्रवपुरुत्पतितः पुरस्ताद्
Nar3.12.4-2भूयोऽथ कुम्भिसदृशः समजृम्भथास्त्वम् |
Nar3.12.4-3अभ्रे तथाविधमुदीक्ष्य भवन्तमुच्चैर्
Nar3.12.4-4विस्मेरतां विधिरगात्सह सूनुभिः स्वैः ||
Nar3.12.5-1कोऽसावचिन्त्यमहिमा किटिरुत्थितो मे
Nar3.12.5-2घोणापुटात्किमु भवेदजितस्य माया |
Nar3.12.5-3इत्थं विचिन्तयति धातरिशैलमात्रः
Nar3.12.5-4सद्यो भवन्किल जगर्जिथ घोरघोरम् ||
Nar3.12.6-1तं ते निनादमुपकर्ण्य जनस्तपःस्थाः
Nar3.12.6-2सत्यस्थिताश्च मुनयो नुनुवुर्भवन्तम् |
Nar3.12.6-3तत्स्तोत्रहर्षुलमनाः परिणद्य भूयस्
Nar3.12.6-4तोयाशयं विपुलमूर्तिरवातरस्त्वम् ||
Nar3.12.7-1ऊर्ध्वप्रसारिपरिधूम्राविधूतरोमा
Nar3.12.7-2प्रोत्क्षिप्तवालधिरवाङ्मुखघोरघोणः |
Nar3.12.7-3तूर्णप्रदीर्णजलदः परिघूर्णदक्ष्णा
Nar3.12.7-4स्तोत्न्मुनीच्छिशिरयन्नवतेरिथ त्वम् ||
Nar3.12.8-1अन्तर्जलं तदनु सङ्कुलनक्रचक्रं
Nar3.12.8-2भ्राम्यत्तिमिङ्गिलकुलं कलुषोर्मिमालम् |
Nar3.12.8-3आविश्य भीषणरवेण रसातलस्था-
Nar3.12.8-4नाकम्पयन्वसुमतीमगवेषयस्त्वम् ||
Nar3.12.9-1दृष्ट्वाथ दैत्यहतकेन रसातलान्ते
Nar3.12.9-2संवेशितां झटिति कूटकिटिर्विभो!त्वम् |
Nar3.12.9-3आपातुकानविगणय्य सुरारिखेटान्
Nar3.12.9-4दंष्ट्राङ्कुरेण वसुधामदधाः सलीलम् ||
Nar3.12.10-1अभ्युद्धरन्नथ धरां दशनाग्रलग्न-
Nar3.12.10-2मुस्ताङ्कुराङ्कित इवाधिकपीवरात्मा |
Nar3.12.10-3उद्धातघोरसलिलाज्जलधेरुदञ्चन्
Nar3.12.10-4क्तीडावराहवपुरीश्वर!पाहि रोगात् ||
Nar3.13.1-1हिरण्याक्षं तावद्वरद!भवदन्वेषणपरं
Nar3.13.1-2चरन्तं सांवर्ते पयसि निजजङ्घापरिमिते |
Nar3.13.1-3भवद्भुक्तो गत्वा कपटपटुधीर्नारदमुनिः
Nar3.13.1-4शनैरूचे नन्दन्दनुजमपि निन्दंस्तव बलम् ||
Nar3.13.2-1स मायावी विष्णुर्हरति भवदीयं वसुमतीं
Nar3.13.2-2प्रभो!कष्टं कष्टं किमिदमिति तेनाभिगदितः |
Nar3.13.2-3नदन्क्वासौ क्वासाविति स मुनिना दर्शितप्थो
Nar3.13.2-4भवन्तं संप्रापद्धरणिधरमुद्यन्तमुदकात् ||
Nar3.13.3-1अहो आरण्योऽयं मृग इति हसन्तं बहुतरैर्
Nar3.13.3-2दुरुक्तैर्विध्यन्तं दितिसुतमवज्ञाय भगवन्!|
Nar3.13.3-3महीं दृष्ट्वा दंष्ट्राशिरसि चकितां स्वेन महसा
Nar3.13.3-4पयोधावाधाय प्रसभमुदयुङ्क्था मृधविधौ ||
Nar3.13.4-1गदापाणौ दैत्ये त्वमपि हि गृहीतोन्नतगदो
Nar3.13.4-2नियुद्धेन क्रीडन्घटघटरवोद्घुष्टवियता |
Nar3.13.4-3रणालोकैत्सुक्यान्मिलति सुरसङ्घे द्रुतममुं
Nar3.13.4-4निरुन्ध्याः सन्ध्यातः प्रथममिति धात्रा जगदिषे ||
Nar3.13.5-1गदोन्मर्दे तस्मिंस्तव खलु गदायां दितिभुवो
Nar3.13.5-2गदाघाताद्भूमौ झटिति पतितायामहह भोः!|
Nar3.13.5-3मृदुस्मेरास्यस्त्वं दनुजकुलनिर्मूलनचणं
Nar3.13.5-4महाचक्रं स्मृत्वा करभुवि दधानो रुरुचिषे ||
Nar3.13.6-1ततः शूलं कालप्रतिमरुषि दैत्ये विसृजति
Nar3.13.6-2त्वयिच्छिन्दत्येनत्करकलितचक्रप्रहरणात् |
Nar3.13.6-3समारुष्टो मुष्ट्या स खलु वितुदंस्त्वां समतमोद्
Nar3.13.6-4गलन्माये मायास्त्वयि किल जगन्मोहनकरीः ||
Nar3.13.7-1भवच्चक्रज्योतिष्कणलवनिपातेन विधुते
Nar3.13.7-2ततो मायाचक्रे विततघनरोषान्धमनसम् |
Nar3.13.7-3गरिष्ठाभिर्मुष्टिप्रहृतिभिरभिघ्नन्तमसुरं
Nar3.13.7-4कराग्रेण स्वेन श्रवणपदमूले निरवधीः ||
Nar3.13.8-1महाकायः सोऽयं तव करसरोजप्रमथितो
Nar3.13.8-2गलद्रक्तो वक्त्रादपतदृषिभिः श्लाघितहतिः |
Nar3.13.8-3तदा त्वामुदामप्रमदभरविद्योतिहृदया
Nar3.13.8-4मुनीन्द्राः सान्द्राभिः स्तुतिभिरनुवन्नध्वरतनम् ||
Nar3.13.9-1त्वचि च्छन्दो रोमस्वपि कुशगणश्चक्षुषि घृतं
Nar3.13.9-2चतुर्होतारोऽङ्घ्रौ स्रुगपि वदने चोदर इडा |
Nar3.13.9-3ग्रहा जिह्वायां ते परपुरुष!कर्णे च चमसा
Nar3.13.9-4विभो!सोमो वीर्यं वरद!गलदेशेऽप्युपसन्दः ||
Nar3.13.10-1मुनीन्द्रैरित्यादिस्तवनमुखरैर्मोदितमना
Nar3.13.10-2महीयस्या मूर्त्या विमलतरकीर्त्या च विलसन् |
Nar3.13.10-3स्वधिष्ण्यं संप्राप्तः सुखरसविहारी मधुरिपो!
Nar3.13.10-4निरुन्ध्या रोगं मे सकलमपि वातालयपते!||
Nar3.14.1-1समनुस्मृततावकाङ्घ्रियुग्मः स मनुः पङ्कजसम्भवाङ्गजन्मा |
Nar3.14.1-2निजमन्तरमन्तरायहीनं चरितं ते कथयन्सुखं निनाय ||
Nar3.14.2-1समये खलु तत्र कर्दमाख्यो द्रुहिणच्छायभवस्तदीयवाचा |
Nar3.14.2-2घृतसर्गरसो निसर्गरम्यं भगवंस्त्वामयुतं समाः सिषेवे ||
Nar3.14.3-1गरुडोपरि कालमेघकम्रं विलसत्केलिसरोजपाणिपद्मम् |
Nar3.14.3-2हसितोल्लसिताननं विभो!त्वं वपुराविष्कुरुषे स्म कर्दमाय ||
Nar3.14.4-1स्तुवते पुलकावृताय तस्मै मनुपुत्रीं दयितां नवापि पुत्रीः |
Nar3.14.4-2कपिलं च सुतं स्वमेव पश्चात्स्वगतिं चाप्यनुगृह्य निर्गतोऽभूः ||
Nar3.14.5-1स मनुः शतरूपया महिष्या गुणवत्या सुतया च देवहूत्या |
Nar3.14.5-2भवदीरितनारदोपदिष्टः समगात्कर्दममागतिप्रतीक्षम् ||
Nar3.14.6-1मनुनोपहृतां च देवहूतिं तरुणीरत्नमवाप्य कर्दमोऽसौ |
Nar3.14.6-2भवदर्चननिर्वृतोऽपि तस्यां दृढशुश्रूषणया दधौ प्रसादम् ||
Nar3.14.7-1सपुनस्त्वदुपासनप्रभावाद्दयिताकामकृते कृते विमाने |
Nar3.14.7-2वनिताकुलसङ्कुले नवात्मा व्यहरद्देवपथेषु देवहूत्या ||
Nar3.14.8-1शतवर्षमथ व्यतीत्य सोऽयं नव कन्याः समवाप्य धन्यरूपाः |
Nar3.14.8-2वनयानसमुद्यतोऽपि कान्ताहितकृत्त्वज्जननोत्सुको न्यवात्सीत् ||
Nar3.14.9-1निजभर्तृगिरा भवन्निषेवानिरतायामथ देव!देवहूत्याम् |
Nar3.14.9-2कपिलस्त्वमजायथा जनानां प्रथयिष्यन्परमात्मतत्त्वविद्याम् ||
Nar3.14.10-1वनमेयुषि कर्दमे प्रसन्ने मतसर्वस्वमुपादिशञ्जनन्यै |
Nar3.14.10-2कपिलात्मक!वायुमदिरेश्!त्वरितं त्वं परिपाहि मां गदौघात् ||
Nar3.15.1-1मतिरिह गुणसक्ता बन्धकृत्तेष्वसक्ता
Nar3.15.1-2त्वमृतकृदुपरुन्धे भक्तियोगस्तु सक्तिम् |
Nar3.15.1-3महदनुगमलभ्या भक्तिरेवात्र साध्या
Nar3.15.1-4कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ||
Nar3.15.2-1प्रकृतिमहदहङ्काराश्च मात्राश्च भूतान्यपि
Nar3.15.2-2हृदपि दशाक्षी पूरुषः पञ्चविंशः |
Nar3.15.2-3इति विदितविभागो मुच्यतेऽसौ प्रकृत्यां
Nar3.15.2-4कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ||
Nar3.15.3-1प्रकृतिगतगुणौघैर्नाज्यते पूरुषोऽयं
Nar3.15.3-2यदि तु सजति तस्यां तद्गुणास्तं भजेरन् |
Nar3.15.3-3मदनुभजनतत्त्वालोचनैः साप्यपेयात्
Nar3.15.3-4कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ||
Nar3.15.4-1विमलमतिरुपात्तैरासनाद्यैर्मदङ्गं
Nar3.15.4-2गुरुडसमधिरूढं दिव्यभूषायुधाङ्कम् |
Nar3.15.4-3रुचितुलिततमालं शीलयेतानुवेलं
Nar3.15.4-4कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ||
Nar3.15.5-1मम गुणगुणलीलाकर्णनैः कीर्तिनाद्यैर्
Nar3.15.5-2मयि सुरसरिदोघप्रख्यचित्तानुवृत्तिः |
Nar3.15.5-3भवति परमभक्तिः सा हि मृत्योर्विजेत्री
Nar3.15.5-4कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ||
Nar3.15.6-1अहह बहुलहिंसासञ्चितार्थैः कुडुम्बं
Nar3.15.6-2प्रतिदिनमनुपुष्णन्स्त्रीजितो बाललाली |
Nar3.15.6-3विशति हि गृहसक्तो यातनां मय्यभक्तः
Nar3.15.6-4कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ||
Nar3.15.7-1युवतिजठरखिन्नो जातबोधोऽप्यकाण्डे
Nar3.15.7-2प्रसवगलितबोधः पीडयोल्लङ्घ्य बाल्यम् |
Nar3.15.7-3पुनरपि बत मुह्यत्येव तारुण्यकाले
Nar3.15.7-4कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ||
Nar3.15.8-1पितृसुरगणयाजी धार्मिको यो गृहस्थः
Nar3.15.8-2स च निपतति काले दक्षिणाध्वोपगामी |
Nar3.15.8-3मयि निहितमकां कर्म तूदक्पथार्थं
Nar3.15.8-4कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ||
Nar3.15.9-1इति सुविदितवेद्यां देव!हे देवहूतिं
Nar3.15.9-2कृतनुतिमनुगृह्य त्वं गतो योगिसङ्घैः |
Nar3.15.9-3विमलमतिरथासौ भक्तियोगेन मुक्ता
Nar3.15.9-4त्वमपि जनहितीर्थं वर्तसे प्रागुदीच्याम् ||
Nar3.15.10-1परम!किमु बहूक्त्या त्वत्पदाम्भोजभक्तिं
Nar3.15.10-2सकलभयविनेत्रीं सर्वकामोपनेत्रीम् |
Nar3.15.10-3वदसि खलु दृढं त्वं त्वद्विधूयामयान्मे
Nar3.15.10-4गुरुपवनपुरेश्!त्वय्युपाधत्स्व भक्तिम् ||
Nar4.16.1-1दशो विरिञ्चतनयोऽथ मनोस्तनूजां
Nar4.16.1-2लब्ध्वा प्रसूतिमिह षोडश चाप कन्याः |
Nar4.16.1-3धर्मे त्रयोदश ददौ पिऋषु स्वधां च
Nar4.16.1-4स्वाहां हविर्भुजि सतीं गिरिशे त्वदंशे ||
Nar4.16.2-1मूर्तिर्हि धर्मगृहिणी सुषुवे भवन्तं
Nar4.16.2-2नारायणं नरसखं महितानुभावम् |
Nar4.16.2-3यज्जन्मनि प्रमुदिताः कृततुर्यघोषाः
Nar4.16.2-4पुष्पोत्करान्प्रववृषुर्नुनुवुः सुरौघाः ||
Nar4.16.3-1दैत्यं सहस्रकवचं कवचैः परीतं
Nar4.16.3-2साहस्रवत्सरतपस्समराभिलव्यैः |
Nar4.16.3-3पर्यायनीर्मिततपस्समरौ भवन्तौ
Nar4.16.3-4शिष्टैककङ्कटममुं न्यहतां सललिम् ||
Nar4.16.4-1अन्वाचरन्नुपदिशन्नपि मोक्षधर्मं
Nar4.16.4-2त्वं भ्रातृमान्बदरिकाश्रममध्यवात्सीः |
Nar4.16.4-3शक्रोऽथ ते शमतपोबलनिस्सहात्मा
Nar4.16.4-4दिव्याङ्गनापरिवृतं प्रजिघाय मारम् ||
Nar4.16.5-1कामो वसन्तमलयानिलबन्धुशाली
Nar4.16.5-2कान्ताकटाक्षविशिखैर्विकसद्विलासैः |
Nar4.16.5-3विध्यन्मुहुर्मुहुरकम्पमुदीक्ष्य च त्वां
Nar4.16.5-4भीतस्त्वायाथ जगदे मृदुहासभाजा ||
Nar4.16.6-1भीत्यालमङ्गजवसन्तसुराङ्गना!वो
Nar4.16.6-2मन्मानसं त्विह जुषुध्वमिति ब्रुवाणः |
Nar4.16.6-3त्वं विस्मयेन परितः स्तुवतामथैषां
Nar4.16.6-4प्रदर्शयः स्वपरिचारककातराक्षीः ||
Nar4.16.7-1सम्मोहनाय मिलिता मदनादय्स्ते
Nar4.16.7-2त्वद्दासिकापरिमलैः किल मोहमापुः |
Nar4.16.7-3दत्तां त्वया च जगृहुस्त्रपयैव सर्व-
Nar4.16.7-4स्वर्वासिगर्वशमनीं पुनरुर्वशीं ताम् ||
Nar4.16.8-1दृष्ट्वोर्वशीं त्वं कथां च निशम्य शक्रः
Nar4.16.8-2पर्याकुलोऽजानि भवन्महिमावमर्शात् |
Nar4.16.8-3एवं प्रशान्तरमणीयतरोऽवतारस्
Nar4.16.8-4त्वत्तोऽधिको वरद!कृष्णतनुस्त्वमेव ||
Nar4.16.9-1दक्षस्तु धातुरतिलालनया रजोन्धो
Nar4.16.9-2नात्यादृतस्त्वयि च कष्टमशान्तिरासीत् |
Nar4.16.9-3येन व्यन्रुन्ध स भवत्तनुमेव शर्वं
Nar4.16.9-4यज्ञो च वैरपिशुने स्वसुतां व्यमानीत् ||
Nar4.16.10-1क्रुद्धेशमर्दितमखः स तु कृत्तशीर्षो
Nar4.16.10-2देवप्रसादितहरादथ लब्धजीवः |
Nar4.16.10-3त्वत्पूरितक्रतुवरः पुनराप शान्तिं
Nar4.16.10-4स त्वं प्रशान्तिकर!पाहि मरुत्पुरेश्!||
Nar4.17.1-1उत्तानपादनृपतेर्मनुनन्दनस्य
Nar4.17.1-2जाया बभूव सुरुचिर्नितरामभीष्टा |
Nar4.17.1-3अन्या सुनीतिरिति भर्तुनराद्दता सा
Nar4.17.1-4त्वामेव नित्यमगतिः शरणं गताभूत् ||
Nar4.17.2-1अङ्के पितुः सुरुचिपुत्रकमुत्रमं तं
Nar4.17.2-2दृष्ट्वा ध्रुवः किल सुनीतिसुतोऽधिरोक्ष्यन् |
Nar4.17.2-3आचिक्षिपे किल शिशुः सुतरां सुरुच्या
Nar4.17.2-4दुस्सन्त्यजा खलु भवद्विमुखैरसूया ||
Nar4.17.3-1त्वन्मोहिते पितरि पश्यति दारवश्ये
Nar4.17.3-2दूरं दुरुक्तिनिहतः स गतो निजाम्बाम् |
Nar4.17.3-3सापि स्वकर्मगतिसन्तरणाय पुंसां
Nar4.17.3-4त्वत्पादमेव शरणं शिशवे शशंस ||
Nar4.17.4-1आकर्ण्य सोऽपि भवदर्चनिश्चितात्मा
Nar4.17.4-2मानी निरेत्य नगरात्किल पञ्चवर्षः |
Nar4.17.4-3सन्दृष्टनारदनिवेदितमन्त्रमार्गस्
Nar4.17.4-4त्वामारराध तपसा मधुकाननान्ते ||
Nar4.17.5-1ताते विषण्णहृदये नगरीं गतेन
Nar4.17.5-2श्रीनारदेन परिसान्त्वितचित्तवृत्तौ |
Nar4.17.5-3बालस्त्वदर्पितमनाः क्रमवर्धितेन
Nar4.17.5-4निन्ये कठोरतपसा किल पञ्च मासान् ||
Nar4.17.6-1तावत्तपोबलनिरुच्छ्वसिते दिगन्ते
Nar4.17.6-2देवार्थितस्त्वमुदयत्करुणार्द्रचेताः |
Nar4.17.6-3त्वद्रूपचिद्रसनिलीनमतेः पुरस्ता-
Nar4.17.6-4दाविर्बभूविथ विभो!गरुडाधिरूढः ||
Nar4.17.7-1त्वद्दर्शनप्रमदभारतरङ्गितं तं
Nar4.17.7-2दृग्भ्यां निमग्नमिव रूपरसायने ते |
Nar4.17.7-3तुष्टूषमाणमवगम्य कपोलदेशे
Nar4.17.7-4संस्पृष्टवानसि दरेण तथादरेण ||
Nar4.17.8-1तावद्विबोधविमलं प्रणुवन्तमेण-
Nar4.17.8-2माभाषथास्त्वमवगम्य तदीयभावम् |
Nar4.17.8-3राज्यं चिरं समनुभूय भजस्व भूयः
Nar4.17.8-4सर्वोत्तरं ध्रुव!पदं विनिवृत्तिहीनम् ||
Nar4.17.9-1इत्यूचुषि त्वयि गते नृपनन्दनोऽसा-
Nar4.17.9-2वानन्दिताखिलजनो नगरीमुपेतः |
Nar4.17.9-3रेमे चिरं भवदनुग्रहपूर्णकामस्
Nar4.17.9-4ताते गते च वनमादृतराज्यभारः ||
Nar4.17.10-1यक्षेण देव!निहते पुनरुत्तमेऽस्मिन्
Nar4.17.10-2यक्षैः स युद्धनिरतो विरतो मनूक्या |
Nar4.17.10-3शान्त्या प्रसन्नहृदयाद्धनदादुपेतात्
Nar4.17.10-4त्वद्भक्तिमेव सुदृढामवृणोन्महात्मा ||
Nar4.17.11-1अन्ते भवत्पुरुषनीतविमानयातो
Nar4.17.11-2मात्रा समं ध्रुवपदे मुदितोऽयमास्ते |
Nar4.17.11-3एवं स्वभृत्यजनपालनलोलधीस्त्वं
Nar4.17.11-4वातालयाधिप!निरुन्धि ममामयौघान् ||
Nar4.18.1-1जातस्य ध्रुवकुल एव तुङ्गकीर्ते-
Nar4.18.1-2रङ्गस्य व्यजनि सुतः स वेननामा |
Nar4.18.1-3यद्दोषव्यथितमतिः स राजवर्य-
Nar4.18.1-4स्त्वत्पादे विहितमना वनं गतोऽभूत् ||
Nar4.18.2-1पापोऽपि क्षितितलपालनाय वेनः
Nar4.18.2-2पौराद्यैरुपनिहितः कठिरवीर्यः |
Nar4.18.2-3सर्वेभ्यो निजबलमेव सम्प्रशंसन्
Nar4.18.2-4भूचक्रे तव यजनान्ययं न्यरौत्सीत् ||
Nar4.18.3-1सम्प्राप्ते हितकथनाय तापसौधे
Nar4.18.3-2मत्तोऽन्यो भवनपतिर्न कश्चनेति |
Nar4.18.3-3त्वन्निन्दावचनपरो मुनीश्वरैस्तैः
Nar4.18.3-4शापाग्नौ शलभदशामनायि वेनः ||
Nar4.18.4-1तन्नाशात्खलजनभीरुकैर्मुनीन्द्रै-
Nar4.18.4-2स्तन्मात्रा चिरपरिरक्षिते तदङ्गे |
Nar4.18.4-3त्यक्ताघे परिमथितादथोरुदण्डाद्
Nar4.18.4-4दोर्दण्डे परिमथिते त्वमाविरासीः ||
Nar4.18.5-1विख्यातः पृथुरिति तापसोपदिष्टैः
Nar4.18.5-2सूताद्यैः परिणुतभाविभूरिवीर्यः |
Nar4.18.5-3वेनार्त्या कबलितसम्पदं धरित्री-
Nar4.18.5-4माक्रान्तां निजधनुषा समामकार्षी ||
Nar4.18.6-1भूयस्तां निजकुलमुख्यवत्सयुक्तैर्
Nar4.18.6-2देवाद्यैः समुचितचारुभाजनेसु |
Nar4.18.6-3अन्नादीन्यभिलषितानि यानि तानि
Nar4.18.6-4स्वच्छन्दं सुरभितनूमदूदुहस्त्वम् ||
Nar4.18.7-1आत्मानं यहति सखैस्त्वयि त्रिधाम-
Nar4.18.7-2न्नारब्धे शततमवाजिमेधयागे |
Nar4.18.7-3स्पर्धालुः शतमख एत्य नीचवेषो
Nar4.18.7-4हृत्वाश्वं तव तनयात्पराजितोऽभूत् ||
Nar4.18.8-1देवेन्द्रं मुहुरिति वाजिनं हरन्तं
Nar4.18.8-2वह्नौ तं मुनवरमण्डले जुहूषौ |
Nar4.18.8-3रुन्धाने कमलभवे क्रतोः समाप्तौ
Nar4.18.8-4साक्षात्त्वं मधुरिपुमैक्षथाः स्वयं स्वम् ||
Nar4.18.9-1तद्दतं वरमुपलभ्य भक्तिमेकां
Nar4.18.9-2गङ्गान्ते विहितपदः कदापि देव!|
Nar4.18.9-3सत्रस्थं मुनिनिवहं हितानि शंस-
Nar4.18.9-4न्नैक्षिष्ठाः सनकमुखान्मुनीन्पुरस्तात् ||
Nar4.18.10-1विज्ञानं सनकमुखोदितं दधानः
Nar4.18.10-2स्वात्मानं स्वयमगमो वनान्तसेवी |
Nar4.18.10-3तत्तादृक्पृथुवपुरीश!सत्वरं मे
Nar4.18.10-4रोगौघं प्रशमय वातगेहवासिन्!||
Nar4.19.1-1पृथोस्तु नप्ता पृथुधर्मकर्मठः प्राचीनबर्हिर्युवतौ शतद्रुतौ |
Nar4.19.1-2प्रचेतसो नाम सुचेतसः सुतानजीजनत्त्वत्करुणाङ्कुरानिव ||
Nar4.19.2-1पितुः सिसृक्षानिरतस्य शासनाद्भवत्तपस्यानिरता दशापि ते |
Nar4.19.2-2पयोनिधिं पश्चिममेत्य तत्तटे सरोवरं सन्ददृशुर्मनोहरम् ||
Nar4.19.3-1तदा भवत्तीर्थमिदं समागतो भवो भवत्सेवकदर्शनादृतः |
Nar4.19.3-2प्रकाशमासाद्य पुरः प्रचेतसामुपादिशद्भक्ततमस्तव स्तवम् ||
Nar4.19.4-1स्तवं जपन्तस्तममी जलान्तरे भवन्तमासेविषतायुतं समाः |
Nar4.19.4-2भवत्सुखास्वादरसादमीष्वियान्बभूव कलो ध्रुववन्न शीघ्रता ||
Nar4.19.5-1तपोभिरेषामतिमात्रवर्धिभिः स यज्ञहिंसानिरतोऽपि पावितः |
Nar4.19.5-2पितापि तेषाम्गृहयातनारदप्रदर्शितात्मा भवदात्मतां ययौ ||
Nar4.19.6-1कृपाबलेनैव ततः प्रचेतसां प्रकाशमागाः पतगेन्द्रवाहनः |
Nar4.19.6-2विराजिचक्रादिवरायुधांशुभिर्भुजाभिरष्टाभिरुदञ्चितद्युतिः ||
Nar4.19.7-1प्रचेतसां तावदयाचतामपि त्वमेव कारुण्यभराद्वारानदाः |
Nar4.19.7-2भवद्विचिन्तापि शिवायदेहिनां भवत्वसौ रुद्रनुतिश्च कामदा ||
Nar4.19.8-1अवाप्य कान्तां तनयां महीरुहां तया रमध्वं दशलक्षवत्सरीम् |
Nar4.19.8-2सुतोऽस्तु दक्षो ननु तत्क्षणाच्च मां प्रयास्यथेति न्यगदो मुदैव तान् ||
Nar4.19.9-1ततश्च ते भूतलरोधिनस्तरून्क्रूधा दहन्तो द्रुहिणेन वारिताः |
Nar4.19.9-2द्रुमैश्च दत्तां तनयामवाप्य तां त्वदुक्तकालं सुखिनोऽभिरेमिरे ||
Nar4.19.10-1अवाप्य दक्षं च सुतं कृताध्वराः प्रचेतसो नारदलब्धया धिया |
Nar4.19.10-2अवापुरानन्दपदं तथाविधुस्त्वमीश!वातालयनाथ!पाहि माम् ||
Nar5.20.1-1प्रियव्रतस्य प्रियपुत्रभूतादाग्नीध्रराजादुदितो हि नाभिः |
Nar5.20.1-2त्वां दृष्टवानिष्टदमिष्टमध्ये तवैव तुष्ट्यै कृतयज्ञकर्मा ||
Nar5.20.2-1अभिष्टुतस्तत्र मुनीश्वरैस्त्वं राज्ञा स्वतुल्यं सुतमर्थ्यमानः |
Nar5.20.2-2स्वयं जनिष्येऽहमिति ब्रुवाणस्तिरोदधा बर्हिषि विश्वमूर्ते!||
Nar5.20.3-1नाभिप्रियायामथ मेरुदेव्यां त्वमंशतोऽभूरृषभाभिधानः |
Nar5.20.3-2अलोकसामान्यगुणप्रभावप्रभाविताशेषजनप्रमोदः ||
Nar5.20.4-1त्वयि त्रिलोकीभृति राज्य्भारं निधाय नाभिः सह मेरुदेव्या |
Nar5.20.4-2तपोवनं प्राप्य भवन्निषेवी गतः किलानन्दपदं पदं ते ||
Nar5.20.5-1इन्द्रस्त्वदुत्कर्षकृतादमर्षाद्ववर्ष नास्मिन्नजनाभवर्षे |
Nar5.20.5-2यदा तदा त्वं निजयोगशक्त्या स्ववर्षमेनद्व्यदधाः सुवर्षम् ||
Nar5.20.6-1जितेन्द्रदत्तां कमनीं जयन्तीमथोद्वहन्नात्मरताशयोऽपि |
Nar5.20.6-2अजीजनत्तत्र शतं तनूजान्येषां क्षितीषो भरतोऽग्रजन्मा ||
Nar5.20.7-1नवाभवन्योगिवरा नवान्ये त्वपालयन्भारतवर्षखण्डान् |
Nar5.20.7-2सैका त्वशीतिस्तव शेषपुत्रास्तपोबलाद्भूसुरभूयमीयुः ||
Nar5.20.8-1उक्त्वा सुतेभ्योऽथ मुनीन्द्रमध्ये विरक्तिभक्त्यन्वितमुक्तिमार्गम् |
Nar5.20.8-2स्वयं गतः पारमहंस्यवृत्तिमधा जडोन्मत्तपिशाचचर्याम् ||
Nar5.20.9-1परात्मभूतोऽपि परोपदेशं कुर्वन्भवन्सर्वनिरस्यमानः |
Nar5.20.9-2विकारहीनो विचचार कृत्स्नां महीमहीनात्मरसाभिलीनः ||
Nar5.20.10-1शयुव्रतं गोमृगकाकचर्यां चिरं चरन्नाप्य परं स्वरूपम् |
Nar5.20.10-2दवाहृताङ्गः कुटकाचले त्वं तापान्ममापाकुरु वातनाथ!||
Nar5.21.1-1मध्योद्भवओ भुव इलावृतनाम्रि वर्षे
Nar5.21.1-2गौरीप्रधानवनिताजनमात्रभाजि |
Nar5.21.1-3शर्वेण मन्त्रनुतिभिः सुमुपास्यमानं
Nar5.21.1-4सङ्कर्षणात्मकमधीश्वर!सम्श्रये त्वाम् ||
Nar5.21.2-1भद्राश्वनामक इलावृतपूर्ववर्षे
Nar5.21.2-2भद्रश्रवोभिरृषिभिः परिणूयमानम् |
Nar5.21.2-3कल्पान्तगूढनिगमोद्धरणप्रवीणं
Nar5.21.2-4ध्यायामि देव!हयशीर्षतनुं भवन्तम् ||
Nar5.21.3-1ध्यायामि दक्षिणगते हरिवर्षवर्षे
Nar5.21.3-2प्राह्लादमुख्यपुरुषैः परिषेव्यमाणम् |
Nar5.21.3-3उत्तुङ्गशान्तधवलाकृतिमेकशुद्ध-
Nar5.21.3-4ज्ञानप्रदं नरहरिं भगवन्!भवन्तम् ||
Nar5.21.4-1वर्षे प्रतीचि ललितात्मनि केतुमाले
Nar5.21.4-2लीलाविशेषललितस्मितशोभनाङ्गम् |
Nar5.21.4-3लक्ष्म्या प्रजापतिसुतैश्च निषेव्यमाणं
Nar5.21.4-4तस्याः प्रियाय धृतकामतनुं भजे त्वाम् ||
Nar5.21.5-1रम्येऽप्युदीचि खलु रम्यकनाम्रि वर्षे
Nar5.21.5-2तद्वर्षनाथमनुवर्य्सपर्यमाणम् |
Nar5.21.5-3भक्तैकवत्सलममत्सरहृत्सु भान्तं
Nar5.21.5-4मत्स्याकृतिं भुवननाथ!भजे भवन्तम् ||
Nar5.21.6-1वर्षं हिरण्मयसमाह्वयमौत्तराह-
Nar5.21.6-2मासीनमद्रिधृतिकर्मठकामठाङ्गम् |
Nar5.21.6-3संसेवते पितृगणप्रवरोऽर्यमायं
Nar5.21.6-4तं त्वां भजामि भगवन्!परचिन्मयात्मन्!||
Nar5.21.7-1किञ्चोत्तरेषु कुरुषु प्रियया धरण्या
Nar5.21.7-2संसेवितो महितमन्त्रनुतिप्रभेदैः |
Nar5.21.7-3दंष्ट्राग्रघृष्टघनपृष्ठगरिष्ठवर्ष्मा
Nar5.21.7-4त्वं पाहि विज्ञनुतयज्ञवराहमूर्ते!||
Nar5.21.8-1याम्यां दिशं भजति किम्पुरुषाख्यवर्षे
Nar5.21.8-2संसेवितो हनुमता दृढभक्तिभाजा |
Nar5.21.8-3सीताभिरामपरमाद्भुतरूपशाली
Nar5.21.8-4रामात्मकः परिलसन्परिपाहि विष्णो!||
Nar5.21.9-1श्रीनारदेन सह भारतखण्डमुख्यैस्
Nar5.21.9-2त्वं साङ्ख्ययोगनुतिभिः समुपास्यमानः |
Nar5.21.9-3आकल्पकालमिह साधुजनाभिरक्सी
Nar5.21.9-4नारायणो नरसखः परिपाहि भूमन्!||
Nar5.21.10-1प्लाक्षेऽर्करूपमयि शाल्मल इन्दुरूपं
Nar5.21.10-2द्वीये भजन्ति कुशनामनि वह्निरूपम् |
Nar5.21.10-3क्रौञ्चेऽम्बुरूपमथ वायुमयं च शाके
Nar5.21.10-4त्वां ब्रह्मरूपमयि पुष्करनाम्रि लोकाः ||
Nar5.21.11-1सर्वैर्ध्रुवीदिभिरुडुप्रकरैर्ग्रहैश्च
Nar5.21.11-2पुच्छादिकेष्ववयवेष्वभिकल्प्यमानैः |
Nar5.21.11-3त्वं शिंशुमारवपुषा महतामुपास्यः
Nar5.21.11-4सन्ध्यासु रुन्धि नरकं मम सिन्धुशायैन्!||
Nar5.21.12-1पातालमूलभुवि शेषतनुं भवन्तं
Nar5.21.12-2लोलैककुण्डलविराजिसहस्रशीर्षम् |
Nar5.21.12-3नीलाम्बरं धृतहलं भुजगाङ्गनाभिर्-
Nar5.21.12-4जुष्टं भजे हर गदान्गुरुगेहनाथ!||
Nar6.22.1-1अजामिलो नाम महीसुरः पुरा चरन्विभो!धर्मपथान्गृहाश्रमी |
Nar6.22.1-2गुरोर्गिरा काननमेत्य दृष्टवान्सुघृष्टशीलां कुलटां मदाकुलाम् ||
Nar6.22.2-1स्वतः प्रशान्तोऽपि तदाहृताशयः स्वधर्ममुत्सृज तया समारमन् |
Nar6.22.2-2अधर्मकारी दशमी भवन्पुनर्दधौ भवन्नामयुते सुते रतिम् ||
Nar6.22.3-1स मृत्युकाले यमराजकिङ्गरान्भयङ्कराम्स्त्रीनभिलक्षयन्भिया |
Nar6.22.3-2पुरा मनाक्त्वत्स्मृतिवासनाबलाज्जुहाव नारायणनामकं सुतम् ||
Nar6.22.4-1दुराशयस्यापि तदात्वनिर्गतत्वदीयनामाक्षरमात्रवैभवात् |
Nar6.22.4-2पुरोऽभिपेतुर्भवदीयपार्षदाश्चतुर्भुजाः पीतपटा मनोहराः ||
Nar6.22.5-1अमुं च सम्पाश्य विकर्षतो भटान्विमुञ्चतेत्यारुरुधुर्बलादमी |
Nar6.22.5-2निवारितास्ते च भवज्जनैस्तदा तदीयपापं निखिलं न्यवेदयन् ||
Nar6.22.6-1भवन्तु पापानि कथं तु निष्कृते कृतेऽपि भो दण्डनमस्ति पण्डिताः!|
Nar6.22.6-2न निष्कृतिः किईं विदिता भवादृशामिति प्रभो!त्वत्पुरुषा बभाषिरे ||
Nar6.22.7-1श्रुतिस्मृतिभ्यां विहिता व्रतादयः पुनन्ति पापं न लुनन्ति वासनाम् |
Nar6.22.7-2अनन्तसेवा तु निकृन्तति द्वयीमिति प्रभो!त्वत्पुरुषा बभाषिरे ||
Nar6.22.8-1अनेन भो!जन्मसहस्रकोटिभिः कृतेषु पापेष्वपि निष्कृतिः कृता |
Nar6.22.8-2तदग्रहीन्नाम भयाकुलो हरेरिति प्रभो!त्वत्पुरुषा बभाषिरे ||
Nar6.22.9-1नृणामबुद्ध्यापि मुकुन्दकीर्तनं दहत्यघौघान्महिमास्य तादृशः |
Nar6.22.9-2यथाग्निरेधांसि यथौषेधं गदानिति प्रभो!त्वत्पुरुषा बभाषिरे ||
Nar6.22.10-1इतीरितैर्याम्यभटैरपासृते भवद्भटानां च गणे तिरोहिते |
Nar6.22.10-2भवत्स्मृतिं कञ्चन कालमाचरन्भवत्पदं प्रापि भवद्भटैरसौ ||
Nar6.22.11-1स्वकिङ्गरावेदनशङ्कितो यमस्त्वदङ्घ्रिभक्तेषु न गम्यतामिति |
Nar6.22.11-2स्वकीयभृत्यानशिशिक्षदुच्चकैः स देव!वातालय्नाथ!पाहि माम् ||
Nar6.23.1-1प्रचेतस्तु भगवन्नपरोऽपि दक्षस्-
Nar6.23.1-2त्वत्सेवनं व्यधित सर्गविवृद्धिकामः |
Nar6.23.1-3आविर्बभूविथ तदा लसदष्टबाहुस्-
Nar6.23.1-4तस्मै वरं ददिथ तां च वधूमसिक्नीम् ||
Nar6.23.2-1तस्यात्मजास्त्वयुतमीश!पुनः सहस्रं
Nar6.23.2-2श्रीनारदस्य वचसा तव मार्गमापुः |
Nar6.23.2-3नैकत्रवासमृषये मुमुचे स शापं
Nar6.23.2-4भक्तोत्तमस्त्वृषिरनुग्नहमेव मेने ||
Nar6.23.3-1षष्ट्या ततो दुहितृभिः सृजतः कुलौघान्
Nar6.23.3-2दौहित्रसूनुरथ तस्य स विश्वरूपः |
Nar6.23.3-3त्वत्स्तोत्रवर्मितमजापयदिन्द्रमाजौ
Nar6.23.3-4देव!त्वदीयमहिमा खलु सर्वजैत्रः ||
Nar6.23.4-1प्राक्षूरसेनविषये किल चित्रकेतुः
Nar6.23.4-2पुत्राग्रही नृपतिरङ्गिरसः प्रभावात् |
Nar6.23.4-3लब्ध्वैकपुत्रमथ तत्र हते सपत्नी-
Nar6.23.4-4सङ्घैरमुह्यदवशस्तव माययासौ ||
Nar6.23.5-1तं नारदस्तु सममङ्गिरसा दयालुः
Nar6.23.5-2सम्प्राप्य तावदुपदर्श्य सुतस्य जीवम् |
Nar6.23.5-3कस्यास्मि पुत्र इति तस्य गिरा विमोहं
Nar6.23.5-4त्यकत्वा त्वदर्चनविधौ नृपतिं न्ययुङ्क्त ||
Nar6.23.6-1स्तोत्रं च मन्त्रमपि नारदतोऽथ लब्ध्वा
Nar6.23.6-2तोषाय शेषवपुषो ननु ते तपस्यन् |
Nar6.23.6-3विद्याधराधिपतितां स हि सप्तरात्रे
Nar6.23.6-4लब्ध्वात्युकुण्टःअमतिरन्वभजद्भवन्तम् ||
Nar6.23.7-1तस्मै मृणालधवलेन सहस्रशीर्ष्णा
Nar6.23.7-2रूपेण बद्धनुतिसिद्धगणावृतेण |
Nar6.23.7-3प्रादुर्भवन्नचिरतो नुतिभिः प्रसन्नो
Nar6.23.7-4दत्त्वात्मतत्त्वमनुगृह्य तिरोदधाथ ||
Nar6.23.8-1त्वद्भक्तमौलिरथ सोऽपि च लक्षलक्षं
Nar6.23.8-2वर्षाणि हर्षुलमना भुवनेषु कामम् |
Nar6.23.8-3सन्ङ्गापयन्गुणगणं तव सुन्दरीभिः
Nar6.23.8-4सङ्गतिरेकरहितो ललितं चचार ||
Nar6.23.9-1अत्यन्तसङ्गविलयाय भवत्प्रणुन्नो
Nar6.23.9-2नूनं स रूप्यगिरिमाप्य महत्समाजे |
Nar6.23.9-3निश्शङ्कमङ्ककृतवल्लभमङ्गजारिं
Nar6.23.9-4तं शङ्करं परिहसन्नुमयाभिशेपे ||
Nar6.23.10-1निस्सम्भ्रमस्त्वयमयाचितशापमोक्षो
Nar6.23.10-2वृत्रासुरत्वमुपगम्य सुरेन्द्रयोधी |
Nar6.23.10-3भक्त्यात्मतत्त्वकथनैः समरे विचित्रं
Nar6.23.10-4शत्रोरपि भ्रममपास्य गतः पदं ते ||
Nar6.23.11-1त्वत्सेवनेन दितिरिन्द्रवधोद्यतापि
Nar6.23.11-2तान्प्र्त्युतेन्द्रसुहृदो मरुतोऽभिलेभे |
Nar6.23.11-3दुष्टाशयेऽपि शुभदैव भवन्निषेवा
Nar6.23.11-4तत्तादृशस्त्वमव मां पवनालयेश!||
Nar7.24.1-1हिरण्याक्षे पोत्रिप्रवरवपुषा देव!भवता
Nar7.24.1-2हते शोलक्रोधग्लपितघृतिरेतस्य सहजः |
Nar7.24.1-3हिरण्यप्रारम्भः कशिपुरमरारातिसदसि
Nar7.24.1-4प्रतिज्ञामातेने तव किल वधार्थं मुररिपो!||
Nar7.24.2-1विधातारं घोरं स खलु तपसित्वा नचिरतः
Nar7.24.2-2पुरः साक्षात्कुर्वन्सुरनरमृगाद्यैरनिधनम् |
Nar7.24.2-3वरं लब्ध्वा दृप्तो जगदिह भवन्नायकमिदं
Nar7.24.2-4परिक्षुन्दन्निन्द्रादहरत दिवं त्वामगणयन् ||
Nar7.24.3-1निहन्तुं त्वां भूयस्तव पदमवाप्तस्य च रिपोर्-
Nar7.24.3-2बहिर्दृष्टेरन्तर्दधिथ हृदये सूक्ष्मवपुषा |
Nar7.24.3-3नदन्नुच्चैस्तत्राप्यखिलभुवनान्ते च मृगयन्
Nar7.24.3-4भिया यातं मत्वा स खलु जितकाशी निववृते ||
Nar7.24.4-1ततोऽस्य प्रह्लादः समजनि सुतो गर्भवसतौ
Nar7.24.4-2मुनेर्वीणापाणेरधिगतभबद्भक्तिमहिमा |
Nar7.24.4-3स वै जात्या दैत्यः शिशुरपि समेत्य त्वयि रतिं
Nar7.24.4-4गतस्त्वद्भक्तानां वरद!परमोदाहरणताम् ||
Nar7.24.5-1सुरारीणां हास्यं तव चरणदास्यं निजसुते
Nar7.24.5-2स दृष्ट्वा दिष्टात्मा गुरुभिरशिशिक्षच्चिरममुम् |
Nar7.24.5-3गुरुप्रोक्तं चासाविदमिदमभद्राय दृढमि-
Nar7.24.5-4त्यपाकुर्वन्सर्वं तव चरणभक्त्यैव ववृधे ||
Nar7.24.6-1अधीतेषु श्रेष्ठं किमिति परिपृष्टेऽथ तनये
Nar7.24.6-2भवद्भक्तिं वर्यामभिगदति पर्याकुलधृतिः |
Nar7.24.6-3गुरुभ्यो रोषित्वा सहजमतिरस्योत्यभिविदन्
Nar7.24.6-4वधिपायानस्मिन्व्यततुत्भवत्पादशरणे ||
Nar7.24.7-1स शूलैराविद्धः सुबहु मथितो दिग्गजगणैर्-
Nar7.24.7-2महासर्पैर्दष्टोऽप्यनशनगराहारविधुतः |
Nar7.24.7-3गिरिन्द्रावक्षिप्तोऽप्यहह परमात्मन्नयि विभो!
Nar7.24.7-4त्वयि न्यस्तात्मत्वात्किमपि न निपीडामभजत ||
Nar7.24.8-1ततः शङ्काविष्टः स पुनरतिदुष्टोऽस्य जनको
Nar7.24.8-2गुरूक्त्या तद्गेह किल वरुणपाशैस्तमरुणत् |
Nar7.24.8-3गुरोश्चासान्निध्ये स पुनरनुगान्दैत्यतनयान्
Nar7.24.8-4भवद्भक्तेस्तत्त्वं परमपि विज्ञानमशिषत् ||
Nar7.24.9-1पिता शृण्वन्बालप्रकरमखिलं त्वत्स्तुतिपरं
Nar7.24.9-2रुषान्धः प्राहैनं कुलहतक!कस्ते बलमिति |
Nar7.24.9-3बलं मे वैकुण्ठस्तव च जगतां चापि स बलं
Nar7.24.9-4स एव त्रैलोक्यं सकलमिति धीरोऽयमगदीत् ||
Nar7.24.10-1अरे!क्वासौ क्वासौ सकलजगदात्मा हरिरिति
Nar7.24.10-2प्रभिन्ते स्म स्तम्भं चलितकरवालो दितिसुतः |
Nar7.24.10-3अतः पश्चाद्विष्णो!न हि वदितुमीशोऽस्मि सहसा
Nar7.24.10-4कृपात्मन्!विश्वात्मन्!पवनपुरवासिन्!मृडय माम् ||
Nar7.25.1-1स्तम्भे घट्टयतो हिरण्यकशिपोः कर्णौ समाचूर्णय-
Nar7.25.1-2न्नाधूर्णज्जगदण्दकुण्डकुहरो घोरस्तवाभूद्रवः |
Nar7.25.1-3श्रुत्वा यं किल दैत्यराजहृदये पूर्वं कदाप्यश्रुतं
Nar7.25.1-4कम्पः कश्चन सम्पपात्चलितोऽप्यम्भोजभूर्विष्टपात् ||
Nar7.25.2-1दैत्ये दिक्षु विसृष्टचक्षुषि महासंराम्भिणी स्तम्भतः
Nar7.25.2-2सम्भूतं न मृगात्मकं न मनुजाकारं वपुस्ते विभो!|
Nar7.25.2-3किं किं भीषणमेतदद्भुतमिति व्युद्भ्रान्तचित्तेऽसुरे
Nar7.25.2-4विस्फुर्जद्धवलोग्ररोमविकसद्वर्ष्मा समाजृम्भथाः ||
Nar7.25.3-1तप्तस्वर्णसवर्णघूर्णदतिरूक्षाक्षं सटाकेसर-
Nar7.25.3-2प्रोत्कम्पप्रनिकुम्बिताम्बरमहो जीयात्तवेदं वपुः |
Nar7.25.3-3व्यात्तव्याप्तमहादरीसखमुखं खड्गोग्रवल्गन्महा-
Nar7.25.3-4जिह्वानिर्गमदृश्यमानसुमहादंष्ट्रायुगोड्डामरम् ||
Nar7.25.4-1उत्सर्पद्वलिभङ्गभीषुणहनुं ह्वस्वस्थवीयस्तर-
Nar7.25.4-2ग्रीवं पीवरदोश्शतोद्गतनखक्रूरांशुदूरोल्बणम् |
Nar7.25.4-3व्योमोल्लङ्घिघनाघनोपमघनप्रध्वाननिर्धावित-
Nar7.25.4-4स्पर्धालुप्रकरं नमामि भवतस्तन्नारसिंहं वपुः ||
Nar7.25.5-1नूनः वुष्णुरयं निहन्म्यमुमिति भ्राम्यद्गदाभीषणं
Nar7.25.5-2दैत्येन्द्रं समुपाद्रवन्तमधृथा दोर्भ्यां पृथुभ्यामम्मुम् |
Nar7.25.5-3वीरो निर्गलितोऽथ खड्गफलके गृह्णन्विचित्रश्रमान्
Nar7.25.5-4व्यावृण्वन्पुनरापपात भुवनग्रासोद्यतं त्वामहो ||
Nar7.25.6-1भ्राम्यन्तं दितिहाधमं पुनरपि प्रोद्गृह्य दोर्भ्यां जवाद्
Nar7.25.6-2द्वारेऽथोरुयुगे निपात्य नखरान्व्युत्न्खाय वक्षोभुवि |
Nar7.25.6-3निर्भिन्दन्नधिगर्भनिर्भरगलद्रक्ताम्बु बद्धोत्सवं
Nar7.25.6-4पायं पायमुदैरयो बहुजगत्संहारिसिंहारवान् ||
Nar7.25.7-1त्यक्त्वा तं हतमाशु रक्तलहरीसिक्तोन्नमद्वर्ष्मणि
Nar7.25.7-2प्रत्युत्पत्य समस्तदैत्यपटलीं चाखाद्यमाने त्वयि |
Nar7.25.7-3भ्राम्यद्भूमि विकम्पिताम्बुधिकुलं व्यालोलशैलोत्करं
Nar7.25.7-4प्रोत्सर्पत्खचरं चराचरमहो दुःस्थामवस्थां दधौ ||
Nar7.25.8-1तावन्मांसवपाकरालवपुषं घोरान्त्रमालाधरं
Nar7.25.8-2त्वां मध्येसभमिद्धरोषमुषितं दुर्वारगुर्वारवम् |
Nar7.25.8-3अभ्येतुं न शशक कोऽपि भुवने दूरे स्थिता भीरवः
Nar7.25.8-4सर्वे शर्वविरिञ्चवासवमुखाः प्रत्येकमस्तोषत ||
Nar7.25.9-1भूयोऽप्यक्षतरोषधाम्नि भवति ब्रह्माज्ञया बालके
Nar7.25.9-2प्रह्लादे पदयोर्नमत्यपभये कारुण्यभाराकुलः |
Nar7.25.9-3शान्तस्त्वं करमस्य मूर्ध्नि समधाः स्तोत्रैरथोद्नायत-
Nar7.25.9-4स्तस्याकामधियोऽपि तेनिथ वरं लोकाय चानुग्रहम् ||
Nar7.25.10-1एवं नाटितरौद्रचेष्टित!विभो!श्रीतापनीयाभिध-
Nar7.25.10-2श्रुत्यन्तस्फुटगीतसर्वमहिमन्नत्यन्तशुद्धाकृते!|
Nar7.25.10-3तत्तादृङ्निखिलोत्तरं पुनरहो कस्त्वां परो लङ्घयेत्
Nar7.25.10-4प्रह्लादप्रिय!हे मरुत्पुरपते!सर्वामयात्पाहि माम् ||
Nar8.26.1-1इन्द्रद्यूम्नः पाण्ड्यखण्डाधिराजस्त्वद्भक्तात्मी चन्दनाद्रौ कदीचित् |
Nar8.26.1-2त्वत्सेवायां मग्नधीरालुलोके नैवागस्त्यं प्राप्तमातिथ्यकामम् ||
Nar8.26.2-1कुम्भोद्भूतः संभृतक्रोधभारः स्तब्धात्मा त्वं हस्तिभूयं भजेति |
Nar8.26.2-2शप्त्वाथैनं प्रत्यगात्सोऽपि लेभे हस्तीन्द्रत्वं त्वत्स्मृतिव्यक्तिधन्यम् ||
Nar8.26.3-1दुग्धाम्भोधेर्मध्यभाजि त्रिकूटे क्रोडञ्छैले यूथपोऽयं वशाभिः |
Nar8.26.3-2सर्वान्जन्तूनत्यवर्तिष्ट शक्त्या त्वद्भक्तानां कुत्र नोत्कर्षलाभः ||
Nar8.26.4-1स्तेन स्थेम्ना दिव्यदेहत्वशक्त्या सोऽयं खेदानप्रजानन्कदाचित् |
Nar8.26.4-2शैलप्रान्ते घर्मतान्तः सरस्यां यूथैः सार्धं त्वत्प्रणुन्नोऽभिरेमे ||
Nar8.26.5-1हूहूस्तावद्देवलस्यापि शापद्ग्राहीभूतस्तज्जले वर्तमानः |
Nar8.26.5-2जग्राहैनं हस्तिनं पाददेशे शान्त्यर्थं हि श्रान्तिदोऽसि स्वकानाम् ||
Nar8.26.6-1त्वत्सेवाया वैभवाद्दुर्निरोधं युध्यन्तं तं वत्सराणां सहस्रम् |
Nar8.26.6-2प्राप्ते काले त्वत्पदैकाग्र्यसिद्ध्यै नक्राक्रान्तं हस्तिवीरं व्यधास्त्वम् ||
Nar8.26.7-1आर्तिव्यक्तप्राक्तनज्ञानभक्तिः शुण्डोत्क्षिप्तैः समर्चन् |
Nar8.26.7-2पूर्वाभ्यस्तं निर्विशेषात्मनिष्ठं स्तोत्रश्रेष्ठं सोऽन्दगादीत्परात्मन्!||
Nar8.26.8-1श्रुत्वा स्तोत्रं निर्गुणस्थं समस्तं ब्रह्मेशाद्यैर्नाहमित्यप्रयाते |
Nar8.26.8-2सर्वात्मा त्वं भूरिकारुण्यवेगात्तार्क्ष्यारूढः प्रेक्षितोऽभूः पुरस्तात् ||
Nar8.26.9-1हस्तीन्द्रं तं हस्तपद्मेन धृत्वा चक्रेण त्वं नक्रवर्यं व्यदारीः |
Nar8.26.9-2गन्धर्वेऽस्मिन्मुक्तशापे स हस्ती त्वत्सारूप्यं प्राप्य देदीप्यते स्म ||
Nar8.26.10-1एतद्वृत्तं त्वां च मां च प्रगे यो गायेत्सोऽयं भूयसे श्रेयसे स्यात् |
Nar8.26.10-2इत्युक्त्वैनं तेन सार्धं गतस्त्वं धिष्ण्यं विष्णो!पाहि वातालयेश!||
Nar8.27.1-1दुर्वासाः सुरवनिताप्तदिव्यमाल्यं शक्राय स्वयमुपदाय तत्र भूजः |
Nar8.27.1-2नागेन्द्रप्रतिमृदिते शशाय शक्रं का क्षान्तिस्त्वदितरदेवतांशजानाम् ||
Nar8.27.2-1शापेन प्रथितजरेऽथ निर्जरेन्द्रे देवेष्वप्यसुरजितेषु निष्प्रभेषु |
Nar8.27.2-2शर्वाद्याः कमलजमेत्य सर्वदेवा निर्वाणप्रभव!समं भवन्तमापुः ||
Nar8.27.3-1ब्रह्माद्यैर्नुतमहिमा चिरं तदानीं प्रादुःषन्वरद!पुरः परेण धाम्ना |
Nar8.27.3-2हे देवा!दितिजकुलैर्विधाय सन्धिं पीयूषं परिमथतेति पर्यशास्त्वम् ||
Nar8.27.4-1सन्धानं कृतवति दानवैः सुरौधे मन्थानं नयति मदेन मन्दराद्रिम् |
Nar8.27.4-2भ्रष्टेऽस्मिन्बदरमिवोद्वहन्खगेन्द्रे सद्य्स्त्वं विनिहितवान्पयः पयोधौ ||
Nar8.27.5-1आधाय द्रुतमथ वासुकिं वरत्रां पाथोधौ विनिहितसर्वबीजजाले |
Nar8.27.5-2प्रारब्धे मथनविधौ सुरासुरैस्तैर्व्याजात्त्वं भुजगमुखेऽकरोः सुरारीन् ||
Nar8.27.6-1क्षुब्धाद्रौ क्षुभितजलोदरे तदानीं दुग्धाब्धौ गुरुतरभारतो निमग्ने |
Nar8.27.6-2देवेषु व्यथिततमेषु तत्प्रियैषी प्राणैषीः कमठतनुं कठोरपृष्ठाम् ||
Nar8.27.7-1वज्रातिस्थिरतरकर्परेण विष्णो!विस्तारात्परिगतलक्षयोजनेन |
Nar8.27.7-2अम्भोधेः कुहरगतेन वर्ष्मणा त्वं निर्मग्नं क्षितिधरनाथमुन्निनेथ ||
Nar8.27.8-1उन्मग्ने झटिति तदा धराधरेन्द्रे निर्मेथुर्दृढमिह सम्मदेन सर्वे |
Nar8.27.8-2आविश्य द्वितयगणेऽपि सर्पराजे वैवश्यं परिशमयन्नवीवृधस्तान् ||
Nar8.27.9-1उद्दामभ्रमणजवोन्नमद्गिरीन्द्रन्यस्तैकस्थिरतरहस्तपङ्कजं त्वाम् |
Nar8.27.9-2अभ्रान्ते विधिगिरिशादयः प्रमोदादुद्भ्रान्ता नुनुवुरुपात्तपुष्पवर्षाः ||
Nar8.27.10-1दैत्यौधे भुजगमुखानिलेन तप्ते तेनैव त्रिदशकुलेऽपि किञ्चिदार्ते |
Nar8.27.10-2कारुण्यात्तव किल देव!वारिवाहाः प्रावर्षन्नमरगणान्न दैत्यसङ्घान् ||
Nar8.28.1-1गरलं तरलानलं पुरस्ताज्जलधेरुद्विजगाल कालकूटम् |
Nar8.28.1-2अमरस्तुतिवादमोदनिघ्नो निरिशस्तन्निपपौ भवत्प्रियार्थम् ||
Nar8.28.2-1विमथत्सु सुरासुरेषु जाता सुरभिस्तामृषिषु न्यधास्त्रिधामन्!|
Nar8.28.2-2हयरत्नमभूदथेभरत्नं द्यूतरुश्चाप्सरसः सुरेषु तानि ||
Nar8.28.3-1जगदीश!भवत्परा तदानीं कमनीया कमला बभूव देवी |
Nar8.28.3-2अमलामवलोक्य यां विलोकः सकलोऽपि स्पृहयाम्बभूव लोकः ||
Nar8.28.4-1त्वयि दत्तहृद्दे तदैव देव्यै त्रिदशेन्द्रो मणिपीठिकां व्यतारीत् |
Nar8.28.4-2सकलोपहृताभिषेचनीयैरृषयस्तां श्रुतिगीर्भिरभ्यषिञ्चन् ||
Nar8.28.5-1अभिषेकजलानुपातिमुग्धत्वदपाङ्गैरवभूषिताङ्गवल्लीम् |
Nar8.28.5-2मणिकुण्डलपीतचेलहारप्रमुखैस्ताममरादयोऽन्दभूषन् ||
Nar8.28.6-1वरणस्रजमात्तभृङ्गनादां दधती सा कुचकुम्भमन्दयाना |
Nar8.28.6-2पदशिञ्जितमञ्जुन्पुरा त्वां कलितव्रीलविलासमाससाद ||
Nar8.28.7-1गिरिशद्रुहिणादिसर्वदेवान्गुणभाजोऽप्यविमुक्तदोषलेशान् |
Nar8.28.7-2अवमृश्य सदैव सर्वरम्ये निहिता त्वय्यनयापि दिव्यमाला ||
Nar8.28.8-1उरसा तरसा ममानिथैनां भुवनानां जननीमनन्यभावाम् |
Nar8.28.8-2त्वदुरोविलसत्तदीक्षणश्रीपरिवृष्ट्या परिपुष्टमास विश्वम् ||
Nar8.28.9-1अतिमोहनविभ्रमा तदानीं मदयन्ती खलु वारुणी निरागात् |
Nar8.28.9-2तमसः पदवीमदास्त्वमेनामतिसम्माननया महासुरेभ्यः ||
Nar8.28.10-1तरुणाम्बुदसुन्दरस्तदा त्वं ननु धन्वन्तरिरुत्थितोऽम्बुराशेः |
Nar8.28.10-2अमृतं कलशे वहन्कराभ्यामखिलार्तिं हर मारुतालयेश!||
Nar8.29.1-1उद्गच्छतस्तव करादमृतं हरत्सु
Nar8.29.1-2दैत्येषु तानशरणाननुनीय देवान् |
Nar8.29.1-3सधस्तिरोदधिथ देव!भवत्प्रभावाद्
Nar8.29.1-4उद्यत्सयूथ्यकलहा दितिजा बभूवुः ||
Nar8.29.2-1श्यामां रुचापि वयसापि तनुं तदानीं
Nar8.29.2-2प्राप्तोऽसि तुङ्गकुचमण्डलभङ्गुरां त्वम् |
Nar8.29.2-3पीयुषकुम्भकलहं परिमुच्य सर्वे
Nar8.29.2-4तृष्णाकुलाः प्रतिययुस्त्वदुरोजकुम्भे ||
Nar8.29.3-1का त्वं मृगाक्षि!विभजस्व सुधामिमामि-
Nar8.29.3-2त्यारूढरागविवशानभियाचतोऽमून् |
Nar8.29.3-3विश्वस्यते मयि कथं कुलटास्मि दैत्या!
Nar8.29.3-4इत्यालपन्नपि सुविश्वसितानतानीः ||
Nar8.29.4-1मोदात्सुधाकलशमेषु ददत्सु सा त्वं
Nar8.29.4-2दुश्चेष्टितं मम सहध्वमिति ब्रुवाणा |
Nar8.29.4-3पङ्क्तिप्रभेदविनिवेशितदेवदैत्या
Nar8.29.4-4लीलाविलासगतिभिः समदाः सुधां ताम् ||
Nar8.29.5-1अस्मास्वियं प्रणयिनीत्युसुरेषु तेषु
Nar8.29.5-2जोषं स्थितेष्वथ समाप्य सुधां सुरेषु |
Nar8.29.5-3त्वं भक्तलोकवशगो मिजरूपमेत्य
Nar8.29.5-4स्वर्भानुमर्धपरिपीतसुधं व्यलावीः ||
Nar8.29.6-1त्वत्तं सुधाहरणयोग्यफलं परेषु
Nar8.29.6-2दत्त्वा गते त्वयि सुरैः खलु ते व्यगृह्णन् |
Nar8.29.6-3घोरेऽथ मूर्छति रणे बलिदैत्यमाया-
Nar8.29.6-4व्यामोहिते सुरगणे त्वमिहाविरासीः ||
Nar8.29.7-1त्वं कालनेमिमथ मालिसुखाञ्जघन्थ
Nar8.29.7-2शक्रो जघान बलिजम्भवलान्सपाकान् |
Nar8.29.7-3शुष्कार्द्रदुष्करवधे नमुचौ च लूने
Nar8.29.7-4फेनेन नारदगिरा न्यरुणो रणं तम् ||
Nar8.29.8-1योषावपुर्दनुजमोहनमाहितं ते
Nar8.29.8-2श्रुत्वं विलोकनकुतूहलवान्महेशः |
Nar8.29.8-3भूतैः समं गिरिजया च गतः पदं ते
Nar8.29.8-4स्तुत्वाब्रवीदभिमतं त्वमथो तिरोधाः ||
Nar8.29.9-1आरामसीमनि च कन्दुकघातलीला-
Nar8.29.9-2लोलायमाननयनां कमनीं मनोज्ञाम् |
Nar8.29.9-3त्वामेष वीक्ष्य विगलद्वसनां मनोभू-
Nar8.29.9-4वेगादनङ्गरिपुरङ्ग!समालिलिङ्ग ||
Nar8.29.10-1भूयोऽपि विद्रुतवतीमुपधाव्य देवो
Nar8.29.10-2वीर्यप्रमोक्षविकसत्परमार्थबोधः |
Nar8.29.10-3त्वन्मानितस्तव महत्त्वमुवाच देव्यै
Nar8.29.10-4तत्तादृशस्त्वमव वातनिकेतनाथ!||
Nar8.30.1-1शक्रेण संयति हतोऽपि बलिर्महात्मा
Nar8.30.1-2शुक्रेण जीविततनुः क्रतुवर्धितोष्मा |
Nar8.30.1-3विक्रान्तिमान्भयनिलीनसुरां त्रिलोकीं
Nar8.30.1-4चक्रे वशे स तव चक्रमुखादभीतः ||
Nar8.30.2-1पुत्रार्तिदर्शनवशाददितिर्विषण्णा
Nar8.30.2-2तं काश्यपं निजपतिं शरणं प्रपन्ना |
Nar8.30.2-3त्वत्पूजनं तदुदितं हि पयोव्रताख्यं
Nar8.30.2-4सा द्वादशाहमचरत्त्वयि भक्तिपूर्णा ||
Nar8.30.3-1तस्यावधौ त्वयि निलीनमतेरमुष्याः
Nar8.30.3-2श्यामश्चतुर्भुजवपुः स्वयमाविरासीः |
Nar8.30.3-3नम्रां च तामिह भवत्तनयो भवेयं
Nar8.30.3-4गोप्यं मदीक्षणमिति प्रलपन्नयासीः ||
Nar8.30.4-1त्वं काश्यपे तपसि सन्निदधत्तदानीं
Nar8.30.4-2प्राप्तोऽसि गर्भमदितेः प्रणुतो विधात्रा |
Nar8.30.4-3प्रासूत च प्रकटवैष्णवदिव्यरूपं
Nar8.30.4-4सा द्वादशीश्रवणपुण्यदिने भवन्तम् ||
Nar8.30.5-1पुण्याश्रमं तमभिवर्षति पुष्पवर्षैर्-
Nar8.30.5-2हर्षाकुले सुरकुले कृततूर्यघोषे |
Nar8.30.5-3बद्ध्वाञ्जलिं जय जयेति तनुः पितृभ्यां
Nar8.30.5-4त्वं तत्क्षणे पटुतमं वटुरूपमाधाः ||
Nar8.30.6-1तावत्प्रजापतिमुखैरुपनीय मौञ्जी-
Nar8.30.6-2दण्डाजिनाक्षवलयादिभिरर्च्यमानः |
Nar8.30.6-3देदीप्यमानवपुरीश!कृताग्निकार्यस्
Nar8.30.6-4त्वं प्रास्थिथा बलिगृहं प्रकृताश्वमेधम् ||
Nar8.30.7-1गात्रेण भाविमहिमोचितगौरवं प्राग्
Nar8.30.7-2व्यावृण्वतेव धरणीं चलयन्नयासीः |
Nar8.30.7-3छत्रं परोष्मतिरणार्थमिवादधानो
Nar8.30.7-4दण्डं च दानवजनेष्विवं सन्निधातुम् ||
Nar8.30.8-1तां नर्मदित्तरतटे हयमेधशाला-
Nar8.30.8-2मासेदुषि त्वयि रुचा तव रुद्धनेत्रैः |
Nar8.30.8-3भास्वान्किमेष दहनो नु सनत्कुमारो
Nar8.30.8-4योगी नु कोऽयमिति शुक्रमुखैः शशङ्के ||
Nar8.30.9-1आनीतमाशु भृगुभिर्महसाभिभूतैस्
Nar8.30.9-2त्वां रम्यरूपमसुरः पुलकावृताङ्गः |
Nar8.30.9-3भक्त्या समेत्य सुकृती परिषिच्य पादौ
Nar8.30.9-4तत्तोयमन्वधृत मूर्धति तीर्थतीर्थम् ||
Nar8.30.10-1प्रह्लादवंशजतया क्रतुभिर्द्विजेषु
Nar8.30.10-2विश्वासतो नु तदिदं दितिजोऽपि लेभे |
Nar8.30.10-3यत्ते पदाम्बु गिरिशस्य शिरोभिलाल्यं
Nar8.30.10-4स त्वं विभो!गुरुपुरालय!पालयेथाः ||
Nar8.31.1-1प्रीत्या दैत्यस्तव तनुमहःप्रेक्षणीत्सर्वथापि
Nar8.31.1-2त्वामाराध्यन्नजित!रचयन्नञ्जलिं सञ्जगाद |
Nar8.31.1-3मत्तः किं ते समभिलषितं विप्रसूनो!वद त्वं
Nar8.31.1-4वित्तं भक्तं भवनमवनीं वापि सर्वं प्रदास्ये ||
Nar8.31.2-1तामक्षीणां बलिगिरमुपाकर्ण्य कारुण्यपूर्णो-
Nar8.31.2-2अप्यस्योत्सेकं शमयितुमना दैत्यवंशं प्रशंसन् |
Nar8.31.2-3भूमिं पादत्रयपरिमितां प्रार्थयामासिथ त्वं
Nar8.31.2-4सर्वं देहीति तु निगदिते कस्य हास्यं न वा स्यात् ||
Nar8.31.3-1विश्वेशं मां त्रिपदमिह किं याचसे बालिशस्त्वं
Nar8.31.3-2सर्वां भूमिं वृणु किममुनेत्यालपत्त्वां स दृप्यन् |
Nar8.31.3-3यस्माद्दर्पात्त्रिपदपरिपूर्त्यक्षमः क्षेपवादान्
Nar8.31.3-4बन्धं चासावगमदतदर्होऽपि गाढोपशान्त्यै ||
Nar8.31.4-1पादत्रय्या यदि न मुदितो विष्टपैर्नापि तुष्ये-
Nar8.31.4-2दित्युक्तेऽस्मिन्वरद!भवते दातुकामेऽथ तोयम् |
Nar8.31.4-3दैत्याचार्यस्तव खलु परीक्षार्थिनः प्रेरणात्तं
Nar8.31.4-4मा मा देयं हरिरयमिति व्यक्तमेवाबभाषे ||
Nar8.31.5-1याचत्येवं यदि स भगवान्पूर्णकामोऽस्मि सोऽहं
Nar8.31.5-2दास्याम्येव स्थिरमिति वदन्काव्यशप्तोऽपि दैत्यः |
Nar8.31.5-3विन्ध्यावल्या निजदयितया दत्तपाद्याय तुभ्यं
Nar8.31.5-4चित्रं चित्रं सकलमपि स प्रार्पयत्तोयपूर्वम् ||
Nar8.31.6-1निस्सन्देहं दितिकुलपतौ त्वय्यशेषार्पणं तद्
Nar8.31.6-2व्यातन्वाने मुमुचुरृषयः सामराः पुष्पवर्षम् |
Nar8.31.6-3दिव्यं रूपं तव च तदिदं पश्यतां विश्वभाजाम्-
Nar8.31.6-4उच्चैरुच्चैरवृधदवधीकृत्य विश्वाण्डभाण्डम् ||
Nar8.31.7-1त्वत्पादाग्रं निजपदगतं पुण्डरीकोद्भवोऽसौ
Nar8.31.7-2कुण्डीतोयैरसिचदपुनाद्यज्जलं विश्वलोकान् |
Nar8.31.7-3हर्षोत्कर्षात्सुबहु खेचरैरुत्सवेऽस्मिन्
Nar8.31.7-4भेरीं निघ्नन्भुवनमचरज्जाम्बवान्भक्तिशाली ||
Nar8.31.8-1तावद्दैत्यास्त्वनुमतिमृते भर्तुरारब्धतुद्धा
Nar8.31.8-2देवोपेतैर्भवदनुचरैः सङ्गता भङ्गमापन् |
Nar8.31.8-3कालात्मायं वसति पुरतो यद्वशात्प्राग्जिताः स्मः
Nar8.31.8-4किं वो युद्धैरिति बलिगिरा तेऽथ पातालमापुः ||
Nar8.31.9-1पाशैर्बद्धं पतगपतिना दैत्यमुच्चैरवादी-
Nar8.31.9-2स्तार्तीयीकं दिश मम पदं किं न विश्वेश्वरोऽसि |
Nar8.31.9-3पादं मूर्ध्नि प्रणय भगवन्नित्यकम्पं वदन्तं
Nar8.31.9-4प्रह्लादस्तं स्वयमुपगतो मानयन्नस्तवीत्त्वाम् ||
Nar8.31.10-1दर्पोच्छित्त्यै विहितमखिलं दैत्य!सिद्धोऽसि पुण्यैर्
Nar8.31.10-2लोकस्तेऽस्तु त्रिदिवविजयी वासवत्वं च पश्चात् |
Nar8.31.10-3मत्सायुज्यं भज च पुनरित्यन्वगृह्णा बलिं तं
Nar8.31.10-4विप्रैः सन्तानितमखवरः पाहि वातालयेश!||
Nar8.32.1-1पुरा हयग्रीवमहासुरेण षष्ठान्तरान्तोद्यदकाण्डकल्पे |
Nar8.32.1-2निद्रोन्मुखब्रह्ममुखाद्धृतेषु वेदेष्वधित्सः किल मत्स्यरूपम् ||
Nar8.32.2-1सत्यव्रतस्य द्रमिलाधिभर्तुर्नदीजले तर्पयतस्तदानीम् |
Nar8.32.2-2कराञ्जलौ स ज्वलिताकृतिस्त्वमदृश्यथाः कश्चन बालमीनः ||
Nar8.32.3-1क्षिप्तं जले त्वां चकितं विलोक्य निन्येऽन्बुपात्रण मुनिः स्वगेहम् |
Nar8.32.3-2स्वल्पैरहोभिः कलशीं च कूपं वापीं सरश्चानशिषे विभो!त्वम् ||
Nar8.32.4-1योगप्रभावाद्भवदाज्ञयैव नीतस्ततस्त्वं मुनिना पयोधिम् |
Nar8.32.4-2पृष्टोऽमुना कल्पदिदृक्षुमेनं सप्ताहमास्स्वेति वदन्नयासीः ||
Nar8.32.5-1प्राप्ते त्वदुक्तेऽहनि वारिधारापरिप्लुते भूमितले मुनीन्द्रः |
Nar8.32.5-2सप्तर्षिभिः सार्धमपारवारिण्युद्घूर्णमानः शरणं ययौ त्वाम् ||
Nar8.32.6-1धरां त्वदादेशकरीमवाप्तां नौरूपिणीमारुरुहुस्तदा ते |
Nar8.32.6-2तत्कम्पकम्प्रेषु च तेषु भूयस्त्वमम्बुधेराविरभूर्महीयान् ||
Nar8.32.7-1झषाकृतिं योजनलक्षदीर्घां दधानमुच्चैस्तरतेजसं त्वाम् |
Nar8.32.7-2निरीक्ष्य तुष्टा मुनयस्त्वदुक्त्या त्वत्तुङ्गशृङ्गे तरणिं बबन्धुः ||
Nar8.32.8-1आकृष्टनौको मुनिमण्डलाय प्रदर्शयन्विश्वजगद्विभागान् |
Nar8.32.8-2संस्तूयमानो नृवरेण तेन ज्ङानं परं चोपदिशन्नचारीः ||
Nar8.32.9-1कल्पावधौ सप्त मुनीन्पुरोवत्प्रस्ताप्य सत्यव्रतभूमिपं तम् |
Nar8.32.9-2वैवस्वताख्यं मनुमादधानः क्रोधाद्धयग्रीवमभिद्रुतोऽभूः ||
Nar8.32.10-1स्वतुङ्गशृङ्गक्षतवक्षसं तं निपात्य दैत्यं निगमान्गृहीत्वा |
Nar8.32.10-2विरिञ्चये प्रीतहृदे ददानः प्रभञ्जनागारपते!प्रपायाः ||
Nar9.33.1-1वैवस्वताख्यमनुपुत्रनभागजात-
Nar9.33.1-2नाभागनामकनरेन्द्रसुतोऽम्बरीषुः |
Nar9.33.1-3सप्तार्णवावृतमहीदयितोऽपि रेमे
Nar9.33.1-4त्वत्सङ्गिषु त्वयि च मग्नमनाः सदैव ||
Nar9.33.2-1त्वत्प्रीतयेसकलमेव वितन्वतोऽस्य
Nar9.33.2-2भक्त्यैव देव!नचिरादभृथाः प्रसादम् |
Nar9.33.2-3येनास्य याचनमृतेऽप्यभिरक्षणार्थं
Nar9.33.2-4चक्रं भवान्प्रविततार सहस्रधारम् ||
Nar9.33.3-1स द्वादशीव्रतमथो भ्वदर्चनार्थं
Nar9.33.3-2वर्षं दधौ मधुवने यमुनोपकण्ठे |
Nar9.33.3-3पत्न्या समं सुमनसा महतीं वितन्दन्
Nar9.33.3-4पूजां द्विजेषु विसृजन्पशुषष्टिकोटिम् ||
Nar9.33.4-1तत्राथ पारणदिने भवदर्चनान्ते
Nar9.33.4-2दुर्वाससास्य मुनिना भवनं प्रपेदे |
Nar9.33.4-3भोक्तुं वृतश्च स नृपेण परार्तिशीलो
Nar9.33.4-4मन्दं जगाम यमुनां नियमान्विधास्यन् ||
Nar9.33.5-1राज्ञाथ पारणमुह्ङ्र्तसमाप्तिखेदाद्
Nar9.33.5-2वारैव पारणमकारि भवत्परेण |
Nar9.33.5-3प्राप्तो मुनिस्तदथ दिव्यदृशा विजानन्
Nar9.33.5-4क्षिप्यन्क्रुधोद्धृतजटो विततान कृत्याम् ||
Nar9.33.6-1कृत्यां च तामसिधरां भुवनं दहन्ती-
Nar9.33.6-2मग्रेऽभिवीक्ष्य नृपतिर्न पदाच्चकम्पे |
Nar9.33.6-3त्वद्भक्तबाधमभिवीक्ष्य सुदर्शनं ते
Nar9.33.6-4कृत्यानलं शलभयन्मुनिमन्वधावीत् ||
Nar9.33.7-1धावन्नशेषभुवनेषु भिया स पश्यन्
Nar9.33.7-2विश्वत्र चक्रमपि ते गतवान्विरिञ्चम् |
Nar9.33.7-3कः कालचक्रमतिलङ्घयतीत्यपास्तः
Nar9.33.7-4शर्वं ययौ स च भवन्तमवन्दतैव ||
Nar9.33.8-1भूयो भवन्निलयमेत्य मुनिं नमन्तं
Nar9.33.8-2प्रोचे भवानहमृषे!ननु भक्तदासः |
Nar9.33.8-3ज्ञानं तपश्च विनयान्वितमेव मान्यं
Nar9.33.8-4याह्यम्बरीषपदमेव भजेति भूमन्!||
Nar9.33.9-1तावत्समेत्य मुनिना स गृहीतपादो
Nar9.33.9-2राजापसृत्य भवदस्त्रमसाव ( नौषी? नावी) ते |
Nar9.33.9-3चक्रे गते मुनिरदादखिलाशिषोऽस्मै
Nar9.33.9-4त्वद्भक्तिमागसि कृतेऽपि कृपां च शंसन् ||
Nar9.33.10-1राजा प्रतीक्ष्य मुनिमेकसमामनाश्वान्
Nar9.33.10-2सम्भोज्य साधु तमृषिं विसृजन्प्रसन्नम् |
Nar9.33.10-3भुक्त्वा स्वयं त्वयि ततोऽपि दृढं रतोऽभूत्
Nar9.33.10-4सायुज्यमाप च स मां पवनेश!पायाः ||
Nar9.34.1-1गीर्वाणैरर्थ्यमानो दशमुखनिधनं कोसलेष्वृश्यशृङ्गे
Nar9.34.1-2पुत्रीयामिष्टिमिष्ट्वा ददुषि दशरथक्ष्माभृते पायसाग्र्यम् |
Nar9.34.1-3तद्भुक्त्या तत्पुरन्ध्रीष्वपि तिसृषु समं जातगर्भासु जातो
Nar9.34.1-4रामस्त्वं लक्ष्मणेन स्वयमथ भरतेनापि शत्रुघ्ननाम्ना ||
Nar9.34.2-1कोदण्डी कौशिकस्य क्रतुवरमवितुं लक्ष्मणेनानुयातो
Nar9.34.2-2यातोऽभूस्तातवाचा मुनिकथितमनुद्वन्द्वशान्ताध्वखेदः |
Nar9.34.2-3न्णां त्राणाय बाणैर्मुनिवचनबलात्ताटकां पाटयित्वा
Nar9.34.2-4लब्ध्वास्मादस्त्रजालं मुनिवनमगमो देव!सिद्धाश्रमाख्यम् ||
Nar9.34.3-1मारीचं द्रावयित्वा मखशिरसि शरैरन्यरक्षांसि निघ्नन्
Nar9.34.3-2कल्यां कुर्वन्नहल्यां पथि पदरजसा प्राप्य वैदेहगेहम् |
Nar9.34.3-3भिन्दानश्चान्द्रचूडं धनुरवनिसुतामिन्दिरामेव लब्ध्वा
Nar9.34.3-4रायं प्रातिष्ठथास्त्वं त्रिभिरपि च समं भ्रातृवीरैः सदारैः ||
Nar9.34.4-1आरुन्धाने रुषान्धे भृगुकुलतिलके संक्रमय्य स्वतेजो
Nar9.34.4-2याते यातोऽस्ययोध्यां सुखमिह निवसन्कान्तया कान्तमूर्ते!|
Nar9.34.4-3शत्रुघ्नेनैकदाथो गतवति भरते मातुलस्याधिवासं
Nar9.34.4-4तातात्रब्धोऽभिषेकस्तव किल विहतः केकयाधीशपुत्र्या ||
Nar9.34.5-1तातोक्या यातुकामो वनमनुजवधूसंयुतश्चापधारः
Nar9.34.5-2पौरानारूध्य मार्गे गुहनिलयगतस्त्वं जटाचीरधारी |
Nar9.34.5-3नावा सन्तीर्य गङ्गामधिपदवि पुनस्तं भरद्वाजमारा-
Nar9.34.5-4न्नत्वा तद्वाक्यहेतोरतिसुखमवसश्चित्रकूटे गिरीन्द्रे ||
Nar9.34.6-1श्रुत्वा पुत्रार्तिखिन्नं खलु भरतमुखात्स्वर्गयातं स्वतातं
Nar9.34.6-2तप्तो दत्त्वाम्बु तस्मै निदधिथ भरते पादुकां मेदिनीं च |
Nar9.34.6-3अत्रिं नत्वाथ गत्वा वनमतिविपुलां दण्डकां चण्डकायं
Nar9.34.6-4हत्वा दैत्यं विराधं सुगतिमकलयश्चारु भोः!शारभङ्गीम् ||
Nar9.34.7-1नत्वागस्त्यं समस्ताशरनिकरसपत्राकृतिं तापसेभ्यः
Nar9.34.7-2प्रत्यश्रौषीः प्रियैषी तदनु च मुनिना वैष्णवे दिव्यचापे |
Nar9.34.7-3ब्रह्मास्त्रे चापि दत्ते पथि पितृसुहृदं दीक्ष्य जटायुं
Nar9.34.7-4मोदाद्गोदातटान्ते परिरमसि पुरा पञ्चवत्यां वधूट्या ||
Nar9.34.8-1प्राप्तायाः शूर्पणख्या मदनचलधृतेरर्थनैर्निस्सहात्मा
Nar9.34.8-2तां सौमित्रौ विसृज्य प्रबलतमरुषा तेन निर्लुननासाम् |
Nar9.34.8-3दृष्ट्वैनां रुष्टचित्तं खरमभिपतितं दुषणं च त्रिमूर्धं
Nar9.34.8-4व्याहिंसीराशरानप्ययुतसमधिकांस्तत्क्षणादक्षतोष्मा ||
Nar9.34.9-1सोदर्याप्रोक्तवार्ताविवशदशमुखादिष्टमारीचमाया-
Nar9.34.9-2सारङ्गं सारसाक्ष्या स्पृहितमनुगतः प्रावधीर्बाणघातम् |
Nar9.34.9-3तन्मायाक्रन्दनिर्यापितभवदनुजां रावणस्तामहार्षीत्
Nar9.34.9-4तेनार्तोऽपि त्वमन्तः किमपि मुदमधास्तद्वधोपायायलाभात् ||
Nar9.34.10-1भूयस्तन्वीं विचिन्वन्नहृत दशमुखस्त्वद्वधूं मद्वधेने-
Nar9.34.10-2त्युक्त्वा याते जटायौ दिवमथ सुहृदः प्रातनोः प्रेतकार्यम् |
Nar9.34.10-3गृह्णानं तं कबन्धं जघनिथ शबरीं प्रेक्ष्य पम्पातटे त्वं
Nar9.34.10-4सम्प्राप्तो वातसूनुं भृशमुदितमनाः पाहि वातालयेश!||
Nar9.35.1-1नीतः सुग्रीवमैत्रीं तदनु दुन्दुभेः कायमुच्चैः
Nar9.35.1-2क्षिप्त्वाङ्गुष्ठेन भूयो लुलविथ युगपत्पत्रिणा सप्त सालान् |
Nar9.35.1-3हत्वा सुग्रीवघातोद्यतमतुलबलं वालिनं व्याजवृत्त्या
Nar9.35.1-4वर्षावेलामनैषीर्विरहतरलैतस्त्वं मतङ्गाश्रमान्ते ||
Nar9.35.2-1सुग्रीवेणानुजोक्त्या सभयमभियता व्यूहितां वाहिनीं ता-
Nar9.35.2-2मृक्षाणां वीक्ष्य दिक्षु द्रुतमथ दयितामार्गणायावनम्राम् |
Nar9.35.2-3सन्देशं चान्गुलीयं पवनसुतकरे प्रादिशो मोदशाली
Nar9.35.2-4मार्गे मार्गे ममार्गे कपिभिरपि तदी त्वत्प्रिया सप्रयासः ||
Nar9.35.3-1त्वद्वार्ताकर्णनोद्यद्गरुदुरुजवसम्पातिसम्पातिवाक्य-
Nar9.35.3-2प्रोत्तीर्णार्णोधिरन्तर्नगरि जनकजां वीक्ष्य दत्त्वाङ्गुलीयम् |
Nar9.35.3-3प्रक्षुद्योद्यानमक्षक्षपणचणरणः सोढबन्धो दशास्यं
Nar9.35.3-4दृष्ट्वा प्लुष्ट्वा च लङ्कां झटिति स हनुमान्मौलिरत्नं ददौ ते ||
Nar9.35.4-1त्वं सुग्रीवाङ्गदादिप्रबलकपिचमूचक्रविक्रान्तभूमि-
Nar9.35.4-2चक्रोऽभिक्रम्य पारेजळ्हि निशिचरेन्द्रानुजाश्रीयमाणः |
Nar9.35.4-3तत्प्रोक्तां शत्रुवार्तां रहसि निशमयन्प्रार्थनापार्थ्यरोष-
Nar9.35.4-4प्रास्ताग्नेयास्त्रतेजस्त्रमदुदधिगिरा लब्धवान्मध्यमार्गम् ||
Nar9.35.5-1कीशैराशान्तरोपाहृतगिरिनिकरैः सेतुमाधाप्य यातो
Nar9.35.5-2यातून्यामर्द्य दंष्ट्रानखशिखरिशिलासालशस्त्रैः स्वसैन्यैः |
Nar9.35.5-3व्याकुर्वन्सनुजस्त्वं समरभुवि परं विक्रमं शक्रजेत्रा
Nar9.35.5-4वेगान्नागास्त्रबद्धः पतगपतिगरुन्मारुतैर्मोचितोऽभूः ||
Nar9.35.6-1सौमित्रिस्त्वत्र शक्तिप्रहृतिगलदसुर्वातजानीतशैल-
Nar9.35.6-2घ्राणात्प्रणानुपेतो व्यकृणुत कुसृतिश्लाघिनं मेघनादम् |
Nar9.35.6-3मायाक्षोभेषु वैभीषणवचनहृतस्तम्भनः कुम्भकर्णं
Nar9.35.6-4सम्प्राप्तं कम्पितोर्वीतलमखिलचमूभक्षिणं व्यक्षिणोस्त्वम् ||
Nar9.35.7-1गृह्णन्जम्भारिसम्प्रेषितरथकवचौ रावणेनाभियुध्यन्
Nar9.35.7-2ब्रह्मास्त्रेणास्य भिन्दन्गलततिमबलामग्निशुद्धां प्रगृह्णन् |
Nar9.35.7-3देव!श्रेणीवरोज्जीवितसमरमृतैरक्षतैरृक्षसङ्घैर्-
Nar9.35.7-4लङ्काभर्त्रा च साकं निजनगरमगाः सप्रियः पुष्पकेण ||
Nar9.35.8-1प्रीतो दिव्याभिषेकैरयुतसमधिकान्वत्सरान्पर्यरंसीर्-
Nar9.35.8-2मैथिल्यां पापवाचा शिव शिव किल तां गर्भिणीमभ्यहासीः |
Nar9.35.8-3शत्रुघ्नेनार्दयित्वा लवणनिशिचरं प्रार्दयः शूद्रपाशं
Nar9.35.8-4तावद्वाल्मीकिगेहे कृतवसतिरुपासूत सीत सुतौ ते ||
Nar9.35.9-1वाल्मीकेस्त्वत्सुतोद्गापितमधुरकृतेराज्ञया यज्ञवाटे
Nar9.35.9-2सीतां त्वय्यासुकामे क्षितिमविशदसौ त्वं च कालार्थितोऽभूः |
Nar9.35.9-3हेतोः सौमित्रिघाती स्वयमथ सरयूमग्ननिश्शेषभृत्यैः
Nar9.35.9-4साकं नाकं प्रयातो निजपदमगमो देव!वैकुण्ठमाद्यम् ||
Nar9.35.10-1सोऽयं मर्त्यावतारस्तव खलु नियतं मर्त्यशिक्षार्थमेवं
Nar9.35.10-2विश्लेषार्तिर्निरागस्त्यजनमपि भवेत्कामधर्मातिसक्त्या |
Nar9.35.10-3नो चेत्स्वात्मानुभूतेः क्वनु तव मनसो विक्रिया चक्रपाणे!
Nar9.35.10-4स त्वं सत्त्वैकमूर्ते!पवनपुरपते!व्याधुनु व्याधितापान् ||
Nar9.36.1-1अत्रेः पुत्रतया पुरा त्वमनसूयायां हि दत्ताभिधो
Nar9.36.1-2जातः शिष्यानिषन्धतन्द्रितमनाः स्वस्थश्चरन्कान्तया |
Nar9.36.1-3दृष्टो भक्ततमेन हेहयमहीपालेन तस्मै वरा-
Nar9.36.1-4नष्टैश्वर्यमुखान्प्रदाय ददिथ स्वेनैव चान्ते वधम् ||
Nar9.36.2-1सत्यं कर्तुमथार्जुनस्य च वरं तच्छक्तिमात्रानतं
Nar9.36.2-2ब्रह्मद्वेषि तदाखिलं नृपकुलं हन्तुं च भूमेर्भरम् |
Nar9.36.2-3सञ्जातो जमदग्नितो भृगुकुले त्वं रेणुकायां हरे!
Nar9.36.2-4रामो नाम तदात्मजेष्ववरजः पित्रोरधाः सम्मदम् ||
Nar9.36.3-1लब्धाम्नायगणश्चतुर्दशवया गन्धर्वराजे मना-
Nar9.36.3-2गासतां किल मातरं प्रति पितुः क्रोधाकुलस्याज्ञया |
Nar9.36.3-3ताताज्ञातिगसोदरैः सममिमां छित्वाथ शान्तात्पितुस्-
Nar9.36.3-4तेषां जीवनयोगमापिथ वरं माता च तेऽदाद्वरम् ||
Nar9.36.4-1पित्रा मातृमुदे स्तवाहृतवियद्धेनोर्निजादाश्रमात्
Nar9.36.4-2प्रस्थायाथ भृगोर्गिरा हिमगिरावाराध्य गौरीपतिम् |
Nar9.36.4-3लब्ध्वा तत्परशुं तदुक्तदनुजच्छेदी महास्त्रादिकं
Nar9.36.4-4प्राप्तो मित्रमथाकृतवृअणमुनिं प्राप्यागमः स्वाश्रमम् ||
Nar9.36.5-1आखेटेपगतोऽर्जुनः सुरगवीसम्प्राप्तसम्पद्गणैस्-
Nar9.36.5-2त्वत्पित्रा परिपूजितः पुरगतो दुर्मन्त्रिवाचा पुनः |
Nar9.36.5-3गां क्रेतुं सचिवं न्ययुङ्क्त कुधिया तेनापि रुन्धन्मुनि-
Nar9.36.5-4प्राणक्षेपसरोषगोहतचमूचक्रेण वत्सो हृतः ||
Nar9.36.6-1शुक्रोज्जीविततातवाक्यचलितक्रोधोऽथ सख्या समं
Nar9.36.6-2बिभ्रुद्ध्यातमहोदरोपनिहितं चापं कुठारं शरन् |
Nar9.36.6-3आरूढः सहवाहयन्तृकरथं माहिष्मतीमाविशन्
Nar9.36.6-4वाग्भिर्वत्समदाशुषि क्षितिपतौ सम्प्रास्तुथाः सङ्गरम् ||
Nar9.36.7-1पुत्राणामयुतेनसप्तदशभिश्चाक्षौहिणीभिर्महा-
Nar9.36.7-2सेनानीभिरनेकमित्रनिवहिर्व्याजृम्भितीयोधनः |
Nar9.36.7-3सद्यस्त्वत्ककुठारबाणविदलन्निश्शेषसैन्योत्करो
Nar9.36.7-4भीतिप्रद्रुतनष्टशिष्टनयस्त्वामापतद्धेहयः ||
Nar9.36.8-1लीलावारितनर्मदाजलवलल्लङ्केशगर्वापह-
Nar9.36.8-2श्रीमद्बाहुसहस्रमुक्तबहुशस्त्रास्त्रं निरुन्धन्नमुम् |
Nar9.36.8-3चक्रे त्वय्यथ वैष्णवेऽपि विकले बुद्ध्वा हरिं त्वां मुदा
Nar9.36.8-4ध्यायन्तं छितस्र्वदोषमवधीः सोऽगात्परं ते पदम् ||
Nar9.36.9-1भूयोऽमर्षितहेहयात्मजगणैस्ताते हते रेणुका-
Nar9.36.9-2माघ्नानां हृदयं निरीक्ष्य बहुशो घोरां प्रतिज्ञां वहन् |
Nar9.36.9-3ध्यानानीतरथायुधस्त्वमकृथा विप्रद्रुहः क्षत्रियान्
Nar9.36.9-4दिक्चक्रेषु कुठारयन्विशिखयन्निःक्षात्रियां मेदिनीम् ||
Nar9.36.10-1तातोज्जीवनकृन्नृपालककुलं त्रिःसप्तकृत्वो जयन्
Nar9.36.10-2सन्तर्प्याथ समन्तपञ्चकमहारक्तहृदौधे पित्न् |
Nar9.36.10-3यज्ञे क्ष्मामपि काश्यपादिषु दिशन्साल्वेन युध्यन्पुनः
Nar9.36.10-4कृष्णोऽमुं निहनिष्यतीति शमितो युद्धात्कुमारैर्भवान् ||
Nar9.36.11-1न्यस्यास्त्राणि महेन्द्रभूभृति तपस्तन्वन्पुनर्मज्जितां
Nar9.36.11-2गोकर्णावधि सागरेण धरणीं दृष्ट्वार्थितस्तापसैः |
Nar9.36.11-3ध्यातेष्वासघृतानलास्त्रचकितं सिन्धुं स्रुवक्षेपणा-
Nar9.36.11-4दुत्सार्योद्धृतकेरलो भृगुपते!वातेश!संरक्ष माम् ||
Nar9.36.11-5सान्द्राननन्दतनो!हरे!ननु पुरा दैवासुरे सङ्गरे
Nar9.36.11-6त्वत्कृत्ता अपि कर्मशेषवशतो ये ते न याता गतिम् |
Nar9.36.11-7तेषां भूतलजन्मनां दितिभुवां भारेण दुरार्दिता
Nar9.36.11-8भूमिः प्राप विरिञ्चमाश्रितपदं देवैः पुरैवागतैः ||
Nar10.37.2-1हा हा दुर्जनभूरिभारमथितां पाथोनिधौ पातुकाम्-
Nar10.37.2-2एतां पालय हन्त मे विवशतां संपृच्छ देवानिमान् |
Nar10.37.2-3इत्यादिप्रचुरप्रलापविवशामालोक्य धाता महीं
Nar10.37.2-4देवानां वदनानि वीक्ष्य परितो दध्यौ भवन्तं हरे!||
Nar10.37.3-1ऊचे चाम्बुजभूरमूनयि सुराः!सत्यं धरित्र्या वचो
Nar10.37.3-2नन्वस्या भवतां च रक्षणविधौ दक्षो हि लक्ष्मीपतिः |
Nar10.37.3-3सर्वे शर्वपुरस्सरा वयमितो गत्वा पयोवारिधिं
Nar10.37.3-4नत्वा तं स्तुमहे जवादिति युयः साकं तवाकेतनम् ||
Nar10.37.4-1ते मुग्धानिलशालिदुग्धजलधेस्तीरं गताः सङ्गता
Nar10.37.4-2यावत्त्वत्पदचिन्तनैकमनसस्तावत्स पाथोजभूह् |
Nar10.37.4-3त्वद्वाचं हृदये निशम्य सकलानानन्दयन्नचिवा-
Nar10.37.4-4नाख्यातः परमात्मना स्वयमहं वाक्यं तदाकर्ण्यताम् ||
Nar10.37.5-1जाने दीनदशामहं दिविषदां भूमेश्च भीमैर्नृपैस्-
Nar10.37.5-2तत्क्षेपाय भवामि यादवकुले सोऽहं समग्रात्मना |
Nar10.37.5-3देवा वृष्णिकुले भवन्तु कलया देवाङ्गनाश्चावनौ
Nar10.37.5-4मत्सेवार्थमिति त्वदीयवचनं पाथोजभूरूचिवान् ||
Nar10.37.6-1श्रुत्वा कर्णरसायनं तव वचः सर्वेषु निर्वापित-
Nar10.37.6-2स्वान्तेष्वीश!गतेषुइ तावककृपापीयूषतृप्तात्मसु |
Nar10.37.6-3विख्याते मथुरापुरे किल भवत्सान्निध्यपुण्योत्तरे
Nar10.37.6-4धन्यां देवकनन्दनामुदवहद्राजा स शूरात्मजः ||
Nar10.37.7-1उद्वाहावसितौ तदीयसहजः कंसोऽथ सम्मानय-
Nar10.37.7-2न्नेतौ सूततया गतः पथि रथे व्योमोत्थया त्वद्गिरा |
Nar10.37.7-3अस्यास्त्वामतिदुष्टमष्टमसुतो हन्तेति हन्तेरितः
Nar10.37.7-4सत्त्रासात्स तु हन्तुमन्तिकगताः तन्वीं कृपाणीमधात् ||
Nar10.37.8-1गृह्णानश्चिकुरेषु तां खलमतिः शौरेश्चिरं सान्त्वनैर्-
Nar10.37.8-2नो मुञ्चन्पुनरात्मजार्पणगिरा प्रीतोऽथ यातो गृहान् |
Nar10.37.8-3आद्यं त्वत्सहजं तथार्पितमपि स्नेहेन नाहन्नसौ
Nar10.37.8-4दुष्टानामपि देव!पुष्टकरुणा दृष्टा हि धीरेकदा ||
Nar10.37.9-1तावत्त्वन्मनसैव नारदमुनिः प्रोचे स भोजेश्वरं
Nar10.37.9-2यूयं नन्वसुराः सुराश्च यदवो जानासि किं न प्रभो!|
Nar10.37.9-3मायावी स हरिर्भवद्वधकृते भावी सुरप्रार्थना-
Nar10.37.9-4दित्याकर्ण्य यदूनदूधुनदसौ शौरेश्च सूनूनहन् ||
Nar10.37.10-1प्राप्ते सप्तमगर्भतामहिपतौ त्वत्प्रेरणान्मायया
Nar10.37.10-2नीते माधव!रोहिणीं त्वमपि भोः!सच्चित्सुखैकात्मकः |
Nar10.37.10-3देवक्या जठरं विवेशिथ विभो!संस्तूयमानः सुरैः
Nar10.37.10-4स त्वं कृष्ण!विधूय रोगपटलीं भक्तिं परां देहि मे ||
Nar10.38.1-1आनन्दरूप!भगवन्नयि!तेऽवतारे
Nar10.38.1-2प्राप्ते प्रदीप्तभवदङ्ग निरीयमाणैः |
Nar10.38.1-3कान्तिव्रजैरिव घनाघनमण्डलैर्द्या-
Nar10.38.1-4मावृण्वती विरुरुचे किल वर्षवेला ||
Nar10.38.2-1आशासु शीतलतरासु पयोदतोयै-
Nar10.38.2-2राशासिताप्तिविवशेषु च सज्जनेषु |
Nar10.38.2-3नैशाकरोदयविधौ निशि मध्यमायां
Nar10.38.2-4क्लेशापहस्त्रिजगतां त्वमिहाविरासीः ||
Nar10.38.3-1बाल्यसृशापि वपुषा दधुषा वुभूती-
Nar10.38.3-2रुद्यत्किरीटकटकाङ्गदहारभासा |
Nar10.38.3-3शङ्खारिवारिजगदापरिभासितेन
Nar10.38.3-4मेघासितेन परिलेसिथ सूतिगेहे ||
Nar10.38.4-1वक्षःस्थलीसुखनिलानविलासिलक्ष्मी-
Nar10.38.4-2मन्दाक्षलक्षितकटाक्षविमोक्षभेदैः |
Nar10.38.4-3तन्मन्दिरस्य खलकंसकृतामलक्ष्मी-
Nar10.38.4-4मुन्मार्जयन्निव विरेजिथ वासुदेव!||
Nar10.38.5-1शौरिस्तु धीरमुनिमण्डलचेतसोऽपि
Nar10.38.5-2दूरस्थितं वपुरुदीक्ष्य निजेक्षणाभ्याम् |
Nar10.38.5-3आनन्दबष्पपुलकोद्गमगद्गदार्द्र-
Nar10.38.5-4स्तुष्टाव दृष्टिमकरन्दरसं भवन्तम् ||
Nar10.38.6-1देव!प्रसीद परपूरुष!तापवल्ली-
Nar10.38.6-2निर्लूनिदात्र!समनेत्र!कलाविलासिन्!|
Nar10.38.6-3खेदानपाकुरु कृपागुरुभिः कटाक्षैर्-
Nar10.38.6-4इत्यादि तेन मुदितेन चिरं नुतोऽभूः ||
Nar10.38.7-1मात्रा च नेत्रसलिलास्तृतगात्रवल्ल्या
Nar10.38.7-2स्तोत्रैरभिष्टुतगुणः करुणालयस्त्वम् |
Nar10.38.7-3प्राचीनजन्मयुगलं प्रतिबोध्य ताभ्यां
Nar10.38.7-4मातुर्गिरा दधिथ मानुषबालवेषम् ||
Nar10.38.8-1त्वत्प्रेरिस्ततदनु नन्दतनूजया ते
Nar10.38.8-2व्यत्यासमारचयितुं स हि शूरसूनुः |
Nar10.38.8-3त्वां हस्तयोरधित चित्ताविधार्यमार्यै-
Nar10.38.8-4रम्भोरुहस्थकलहंसकिशोररम्यम् ||
Nar10.38.9-1जाता तदा पुशुपसद्मनि योगनिद्रा
Nar10.38.9-2निद्राविमुद्रितमथाकृत पौरलोकम् |
Nar10.38.9-3त्वत्प्रेरणात्किमिह चित्रमचेतनैर्यद्
Nar10.38.9-4द्वारैः स्वयं व्यघटि सङ्गटितैः सुगाढम् ||
Nar10.38.10-1शेषेण भूरिफणवारितवारिणाथ
Nar10.38.10-2स्वैरं प्रदर्शितपथो मणिदीपितेन |
Nar10.38.10-3त्वां धारयन्स खलु धन्यतमः प्रतस्थे
Nar10.38.10-4सोऽयं त्वमीश!मम नाशय रोगवेगान् ||
Nar10.39.1-1भवन्तमयमुद्वहन्यदुकुलोद्वहो निस्सरन्
Nar10.39.1-2ददर्श गगनोच्चलज्जलभरां कलिन्दात्मजाम् |
Nar10.39.1-3अहि सलिलसञ्चयः स पुनरैन्द्रजालोदितो
Nar10.39.1-4जलौघ इव तत्क्षणात्प्रपदमेयतामाययौ ||
Nar10.39.2-1प्रसुप्तपशुपालिकां निभृतमारुदद्बालिका-
Nar10.39.2-2मपावृतकवाटिकां पशुपवाटिकामाविशन् |
Nar10.39.2-3भवन्तमयमर्पयन्प्रसवतल्पके तत्पदाद्
Nar10.39.2-4वहन्कपटकन्यकां स्वपुरमागतो वेगतः ||
Nar10.39.3-1ततस्त्वदनुजारवक्षपितनिद्रवेगद्रवद्-
Nar10.39.3-2भटोत्करनिवेदितप्रसववार्तयैवार्तिमान् |
Nar10.39.3-3विमुक्तचिकुरोत्करस्त्वरितमापतन्भोजरा-
Nar10.39.3-4डतुष्ट इव दृष्टवान्भगिनिकाकरे कन्यकाम् ||
Nar10.39.4-1ध्रुवं कपटशालिनो मधुहरस्य माया भवे-
Nar10.39.4-2दसाविति किशोरिकां भगिनिकाकरालिङ्गिताम् |
Nar10.39.4-3द्विपो नलिनिकान्तरादिव मृणालिकामाक्षिप-
Nar10.39.4-4न्नयं त्वदनुजामजामुपलपट्टके पिष्टवान् ||
Nar10.39.5-1ततो भवदुपासको झटिति मृत्युपाशादिव
Nar10.39.5-2प्रमुच्य तरसैव सा समधिरूढरूपान्तरा |
Nar10.39.5-3अधस्तलमजग्मुषी विकसदष्टबाहुस्फुरन्-
Nar10.39.5-4महायुधमहो गता किल विहायसा दिद्युते ||
Nar10.39.6-1नृशंसतर!कंस!ते किमु मया विनिष्पिष्टया
Nar10.39.6-2बभूव भवदन्तकः क्वचन चिन्त्यतां ते हितम् |
Nar10.39.6-3इति त्वदनुजा विभो!खलमुदीर्य तं जग्मुषी
Nar10.39.6-4मरुद्गणपणायिता भुवि च मन्दिराण्येयुषी ||
Nar10.39.7-1प्रगे पुनरगात्मजावचनमीरिति भूभुजा
Nar10.39.7-2प्रलम्बबकपूतनाप्रमुखदानवा मानिनः |
Nar10.39.7-3भवन्निधनकाम्यया जगति बभ्रमुर्निर्भयाः
Nar10.39.7-4कुमारकविमारकाः किमिव दुष्करं निष्कृपैः ||
Nar10.39.8-1ततः पशुपमन्दिरे त्वयि मुकुन्द!नन्दप्रिया-
Nar10.39.8-2प्रसूतिशयनेशये रुवति किञ्चिदञ्चत्पदे |
Nar10.39.8-3विबुध्य वनिताजनैस्तनयसम्भवे घोषिते
Nar10.39.8-4मुदा किमु वदाम्यहो सकलमाकुलं गोकुलम् ||
Nar10.39.9-1अहो खलु यशोदया नवकलायचेतोहरं
Nar10.39.9-2भवन्तमलमन्तिके प्रथममापिबन्त्या दृशा |
Nar10.39.9-3पुनः स्तनभरं निजं सपदि पाययन्त्या मुदा
Nar10.39.9-4मनोहरतनुस्पृशा जगति पुण्यवन्तो जिताः ||
Nar10.39.10-1भवत्कुशलकाम्यया स खलु नन्दगोपस्तदा
Nar10.39.10-2प्रमोदभरसंकुलो द्विजकुलाय किं नाददात् |
Nar10.39.10-3तथैव पशुपालकाः किमु न मङ्गलं तेनिरे
Nar10.39.10-4जगत्रितयमङ्गल!त्वमिह पाहि मामामयात् ||
Nar10.40.1-1तदनु नन्दममन्दशुभास्पदं नृपपुरीं करदानकृते गतम् |
Nar10.40.1-2समवलोक्य जगाद्भवत्पिता विदितकंससहायजनोद्यमः ||
Nar10.40.2-1अयि सखे!तव बालकजन्म मां सुखयतेऽद्य निजात्मजजन्मवत् |
Nar10.40.2-2इति भवत्पितृतां व्रजनायके समधिरोप्य शशंस तमादरात् ||
Nar10.40.3-1इह च सन्त्यनिमित्तशतानि ते कटकसीम्ने ततो लघु गम्यताम् |
Nar10.40.3-2इति च तद्वचसा व्रजनायको भवदपायभिया द्रुतमाययौ ||
Nar10.40.4-1अवसरे खलु तत्र च काचन व्रजपदे मधुराकृतिरङ्गना |
Nar10.40.4-2तरलषट्पदलालितकुन्तला कपटपोतक!ते निकटं गता ||
Nar10.40.5-1सपसि सा हृतबालकचेतना निशिचरान्वयजा किल पूतना |
Nar10.40.5-2व्रजवधूष्विह केयमिति क्षणं विमृशतीषु भवन्तमुपाददे ||
Nar10.40.6-1ललितभावविलासहृतात्मभिर्युवतिभिः प्रतिरोद्धुमपारिता |
Nar10.40.6-2स्तनमसौ भवनान्तनिषेदुषी प्रददुषी भवते कपटात्मने ||
Nar10.40.7-1समधिरुह्य तदङ्कमशङ्कितस्त्वमथ बालकलोपनरोषितः |
Nar10.40.7-2महदिवाम्रफलं कुचमण्डलं प्रतिचुचूषिथ दुर्विषदूषितम् ||
Nar10.40.8-1असुभिरेव समं धयति त्वयि स्तनमसौ स्तनितोपमनिस्वना |
Nar10.40.8-2निरपतद्भयदायि निजं वपुः प्रतिगता प्रविसार्य भुजावुभौ ||
Nar10.40.9-1भयदघोषणभीषणविग्रहश्रवणदर्शनमोहितवल्लवे |
Nar10.40.9-2व्रजपदे तदुरःस्थलखेलनं ननु भवन्तमगृह्णत गोपिकाः ||
Nar10.40.10-1भुवनमङ्कल!नामभिरेव ते युवतिभिर्बहुधा कृतरक्षणः |
Nar10.40.10-2त्वमयि वातनिकेतननाथ!मामगदयन्कुरु तावकसेवकम् ||
Nar10.41.1-1व्रजेश्वरः शौरिवचो निशम्य समाव्रजन्नध्वनि भीतचेताः |
Nar10.41.1-2निष्पिष्टनिश्शेषतरुं निरीक्ष्य कञ्चित्पदार्थं शरणं गतस्त्वाम् ||
Nar10.41.2-1निशम्य गोपीवचनादुदन्तं सर्वेऽपि गोपा भयविस्मयान्धाः |
Nar10.41.2-2त्वत्पातितं घोरपिशाचदेहं देहुर्विदूरेऽथ कुठारकृत्तम् ||
Nar10.41.3-1त्वत्पीतपूतस्तनतच्छरीरात्समुच्चलन्नुच्चतरो हि धूमः |
Nar10.41.3-2शङ्कामधादागरवः किमेषु किं चान्दनो गौग्गुलवोऽथवेति ||
Nar10.41.4-1मदङ्गसङ्गस्य फलं न दूरं क्षणेन तावद्भवतामपि स्यात् |
Nar10.41.4-2उत्युल्लपन्वल्लवतल्लजेभ्यस्त्वं पूतनामातनुथाः सुगन्धिम् ||
Nar10.41.5-1चित्रं पिशाच्या न हतः कुमारश्चित्रं पुरैवाकथि शौरिणेदम् |
Nar10.41.5-2इति प्रशंसन्किल गोपलोको भवन्मुखालोकरसे न्यमाङ्क्षीत् ||
Nar10.41.6-1दिने दिनेऽथ प्रतिवृद्धलक्ष्मीरक्षीणमङ्गल्यशतो व्रजोऽयम् |
Nar10.41.6-2भवन्निवासादयि वासुदेव!प्रमोदसान्द्रः परितो विरेजे ||
Nar10.41.7-1गृहेषु ते कोमलरूपहासमिथःकथासङ्कुलिताः कमन्यः |
Nar10.41.7-2वृत्तेषु कृत्येषु भवन्निरीक्षासमागताः प्रत्यहमत्यनन्दन् ||
Nar10.41.8-1अहो कुमारो मयि दत्तदृष्टिः स्मितः कृतं मां प्रति वत्सकेन |
Nar10.41.8-2एह्येहि मामित्युपसार्य पाणिं त्वयाश!किं किं न कृतं वधूभिः ||
Nar10.41.9-1भवद्वपुःस्पर्शनकौतुकेन करात्करं गोपवधूजनेन |
Nar10.41.9-2नीतस्त्वमाताम्रसरोजमालाव्यालम्बिलोलम्बतुलामलासीः ||
Nar10.41.10-1निपाययन्ती स्तनमङ्कगं त्वां विलोकयन्ती वदनं हसन्ती |
Nar10.41.10-2दशां यशोदा कतमां न भेजे स तादृशः पाहि हरे!गदान्माम् ||
Nar10.42.1-1कदापि जन्मर्क्षदिने तव प्रभो!निमन्त्रितज्ञातिवधूमहीसुरा |
Nar10.42.1-2महानसस्त्वां सविधे निधाय सा महानसादौ ववृते व्रजेश्वरी ||
Nar10.42.2-1ततो भवत्त्राणनियुक्तबालकप्रभीतिसङ्क्रन्दनसङ्कुलारवैः |
Nar10.42.2-2विमिश्रमश्रावि भवत्समीपतः परिस्फुटद्दारुचटच्चटारवः ||
Nar10.42.3-1ततस्तदाकर्णनसंभ्रमश्रमप्रकम्पिवक्षोजभरा व्रजाङ्गनाः |
Nar10.42.3-2भवन्तमन्तर्ददृशुः समन्ततो विनिष्पतद्दारुणदारुमध्यगम् ||
Nar10.42.4-1शिशोरहो किं किमभूदिति द्रुतं प्रधाव्य नन्दः पशुपाश्च भूसुराः |
Nar10.42.4-2भवन्तमालोक्य यशोदया धृतं समाश्वसन्नश्रुजलार्द्रलोचनाः ||
Nar10.42.5-1कस्को नु कौतस्कुत एष विस्मयो विशङ्कटं यच्छकटं विपाटितम् |
Nar10.42.5-2न कारणं किञ्चिदिहेति ते स्थिताः स्वनासिकादत्तकरास्त्वदीक्षकाः ||
Nar10.42.6-1कुमारकस्यास्य पयोधरार्थिनः प्ररोदने लोलपदाम्बुजाहतम् |
Nar10.42.6-2मया मया दृष्टमनो विपर्यगादितीश!ते पालकबालका जगुः ||
Nar10.42.7-1भिया तदा किञ्चिदजानतामिदं कुमारकाणामतिदुर्घटं वचः |
Nar10.42.7-2भवत्प्रभावाविदुरैरितीरितं मनागिवाशङ्क्यात दृष्टपूतनैः ||
Nar10.42.8-1प्रवालताम्रं किमिदं पदं क्षतं सरोजरम्यौ नु करौ विरोजितौ |
Nar10.42.8-2इति प्रसर्पत्करुणातरङ्गितास्त्वदङ्गमापस्पृशुरङ्गनाजनाः ||
Nar10.42.9-1अये सुतं देहि जगत्पतेः कृपातरङ्गपातात्परिपातमद्य मे |
Nar10.42.9-2इति स्म सङ्गृह्य पिता त्वदङ्गुकं गुहुर्मुहुः श्लिष्यति जीतकण्टकः ||
Nar10.42.10-1अनोनिलीनः किल हन्तुमागतः सुरारिरेवं भवता विहिंसितः |
Nar10.42.10-2रजोऽपि नोदृष्टममुष्य तत्कथं स शुद्धसत्त्वे त्वयि लीनवान्ध्रुवम् ||
Nar10.42.11-1प्रपूजितैस्तत्र ततो द्विजातिभिर्विशेषतो लम्भितमङ्गलाशिषः |
Nar10.42.11-2व्रजं निजैर्बाल्यरसैर्विमोहयन्मरुत्पुराधीश!रुजां जहीहि मे ||
Nar10.43.1-1त्वमेकदा गुरुमरुत्पुरनाथ!वोढुं
Nar10.43.1-2गाढाधिरूडःअगरिमाणमपारयन्ती |
Nar10.43.1-3माता नोधाय शयने किमिदं बतेति
Nar10.43.1-4ध्यायन्त्यचेष्टत गृहेषु निविष्टशङ्का ||
Nar10.43.2-1तावद्विदूरमुपकर्णितघोरघोष-
Nar10.43.2-2व्याजृम्भिपांसुपटलीपरिपूरिताशः |
Nar10.43.2-3वात्यावपुः स किल दैत्यवरस्तृणाव-
Nar10.43.2-4र्ताख्यो जहार जनमानसहारिणं त्वाम् ||
Nar10.43.3-1उद्दामपांसुतिमिराहतदृष्टिपाते
Nar10.43.3-2द्रष्टुं किमप्यकुशले पशुपाललोके |
Nar10.43.3-3हा बालक्स्य किमिति त्वदुपान्तमाप्ता
Nar10.43.3-4माता भवन्तमविलोक्य भृशं रुरोद् ||
Nar10.43.4-1तावत्स दानववरोऽपि च दीनमूर्तिर्-
Nar10.43.4-2भावत्कभारपरिधारणलूनवेगः |
Nar10.43.4-3सङ्कोचमाप तदनु क्षतपांसुघोषे
Nar10.43.4-4घोषे व्यतायत भवज्जननीनिनादः ||
Nar10.43.5-1रोदोपकर्णनवशादुपगम्य गेहं
Nar10.43.5-2क्रन्दत्सु नन्दमुखगोपकुलेषु दीनः |
Nar10.43.5-3त्वां दानवस्त्वखिलमुक्तिकरं मुमुक्षुस्-
Nar10.43.5-4त्वय्यप्रमुञ्चति पपात्वियत्प्रदेशात् ||
Nar10.43.6-1रोदाकुलास्तदनु गोपगणा बहिष्ठ-
Nar10.43.6-2पाषाणपृष्ठभुवि देहमतिस्थविष्ठम् |
Nar10.43.6-3प्रैक्षन्त हन्त निपन्तममुष्य वक्ष-
Nar10.43.6-4स्यक्षीणमेव च भवन्तमलं हसन्तम् ||
Nar10.43.7-1ग्रावप्रपातपरिपिष्टगरिष्ठदेह-
Nar10.43.7-2भ्रष्टासुदुष्टदनुजोपरि धृष्टहासम् |
Nar10.43.7-3आघ्नानमम्बुजकरेण भवन्तमेत्य
Nar10.43.7-4गोप दधुर्गिरिवरादिव नीलरत्नम् ||
Nar10.43.8-1एकैकमाशु परिगृह्य निकामनन्द-
Nar10.43.8-2न्नन्दादिगोपपरिरब्धविचुम्बताङ्गम् |
Nar10.43.8-3आदातुकामपरिशङ्कितगोपनारी-
Nar10.43.8-4हस्ताम्बुजप्रपतितं प्रणुमो भवन्तम् ||
Nar10.43.9-1भूयोऽपि किन्नु कृणुमः प्रणतार्तिहारी
Nar10.43.9-2गोविन्द एव परिपालयतात्सुतं नः |
Nar10.43.9-3इत्यादि मातरपितृप्रसुखैस्तदानीं
Nar10.43.9-4सम्प्रार्थितस्त्वदवनाय विभो!त्वमेव ||
Nar10.43.10-1वातात्मकं दनुजमेवमयि प्रधून्वन्
Nar10.43.10-2वातोद्भवान्मम गदान्किमु नो धुनोषि |
Nar10.43.10-3किं वा करोमि पुरनप्यनिलालयेश!
Nar10.43.10-4निश्शेषरोगशमनं मुहुरर्थये त्वाम् ||
Nar10.44.1-1गूढं वसुदेवगिरा कर्तुं ते निष्क्रियस्य संस्कारान् |
Nar10.44.1-2हृद्गतहोरातत्त्वो गर्गमुनिस्त्वद्गृहान्विभो!गतवान् ||
Nar10.44.2-1नन्दोऽथ नन्दितात्मा बृन्दिष्ठं मानयन्नमुं यमिनाम् |
Nar10.44.2-2मन्दस्मितार्द्रमूचे त्वत्संस्कारान्विधातुमुत्सुकधीः ||
Nar10.44.3-1यदुवंशाचार्यत्वात्सुनिभृतमिदमार्य!कार्यमिति कथयन् |
Nar10.44.3-2गर्गो निर्गतपुलकश्चक्रे तव साग्रजस्य नामानि ||
Nar10.44.4-1कथमस्य नाम कुर्वे सहस्रनाम्नो ह्यनन्तनाम्नो वा |
Nar10.44.4-2इति नूनं गर्गमुश्चक्रे तव नाम नाम रहसि विभो!||
Nar10.44.5-1कृषिधीतुणकाराभ्यां सत्तानन्दात्मतां किलाभिलपत् |
Nar10.44.5-2जगदघकर्षित्वं वा कथयदृषिः कृष्णनाम ते व्यतनोत् ||
Nar10.44.6-1अन्यांश्च नामभेदान्न्यीकुर्वन्नग्रजे च रामादीन् |
Nar10.44.6-2अतिमानुषानुभावं न्यगदत्त्वामप्रकाशयन्पित्रे ||
Nar10.44.7-1स्निह्यति यत्सव पुत्रे सुह्यति स न मायिकैः पुनः शोकैः |
Nar10.44.7-2द्रुह्यति यः स तु नश्येदित्यवदत्ते महत्त्वमृषिवर्यः ||
Nar10.44.8-1जेष्यति बहुतरदैत्यान्नेष्यति निजबन्धुलोकममलपदम् |
Nar10.44.8-2श्रोष्यसि सुविमलकीर्तीरस्येति भवद्विभूतिमृषिरूचे ||
Nar10.44.9-1अमुनैव सर्वदुर्गं तरितास्थ कृतास्थमन्त्र तिष्ठध्वम् |
Nar10.44.9-2हरिरेवेत्यनभिलपन्नित्यादि त्वामवर्णयत्स मुनिः ||
Nar10.44.10-1गर्गेऽथ निर्गतेऽस्मिन्नन्दितनन्दादिनन्द्यमानस्त्वम् |
Nar10.44.10-2मद्गदमुद्गतकरुणो निर्गमय श्रीमरुत्पुराधीश!||
Nar10.45.1-1अयि सबल!मुरारे!पाणिजानुप्रचारैः
Nar10.45.1-2किमपि भवनभागान्भूषयन्तौ भवन्तौ |
Nar10.45.1-3चलितचरणकञ्जे मञ्जुमञ्जीरशिञ्जा-
Nar10.45.1-4श्रवणकुतुकभाजौ चेरतुश्चारु वेगात् ||
Nar10.45.2-1मृदु मृदु विहसन्तावुन्मिषद्दन्तवन्तौ
Nar10.45.2-2वदनपतितकेशौ दृश्यपादाब्जदेशौ |
Nar10.45.2-3भुजगलितकरान्तव्यालगत्कङ्कणाङ्कौ
Nar10.45.2-4मतिमहरतमुच्चैः पश्यतां विश्वन्णाम् ||
Nar10.45.3-1अनुसरति जनौघे कौतुकव्याकुलाक्षे
Nar10.45.3-2किमपि कृतनिनादं व्याहसन्तौ द्रवन्तौ |
Nar10.45.3-3बलितवदनपद्मं पृष्ठतो दत्तदृष्टी
Nar10.45.3-4किमिव न विदधाथे कौतुकं वासुदेव!||
Nar10.45.4-1दुतगतिषु पतन्तावुत्थितौ लिप्तपङ्कौ
Nar10.45.4-2दिवि मुनिभिरपङ्कैः सस्मितं वन्द्यमानौ |
Nar10.45.4-3द्रुतमथ जननीभ्यां सानुकम्पं गृहीतौ
Nar10.45.4-4मुहुरपि परिरब्धौ द्राग्युवां चुम्बितौ च ||
Nar10.45.5-1स्नुतकुचभरमङ्के धारयन्ती भवन्तं
Nar10.45.5-2तरलमति यशोदा स्तन्यदा धन्यधन्या |
Nar10.45.5-3कपटपशुप!मध्ये मुग्धहासाङ्कुरं ते
Nar10.45.5-4दशनमुकुलहृद्यं वीक्ष्यं वक्त्रं जहर्ष ||
Nar10.45.6-1तदनु चरणचारी दारकैः साकमारा-
Nar10.45.6-2न्निलयततिषु खेलन्बालचापल्यशाली |
Nar10.45.6-3भवनशुकबिडालान्वत्सकांश्चानुधावन्
Nar10.45.6-4कथमपि कृतहासैर्गोपकैर्वारितोऽभूः ||
Nar10.45.7-1हलधरसहितस्त्वं यत्र यत्रोपयातो
Nar10.45.7-2विवशपतितनेत्रास्तत्र तत्रैव गोप्यः |
Nar10.45.7-3विगलितगृहकृत्या विस्मृतापत्यभृत्या
Nar10.45.7-4मुरहर!मुहुरत्यन्ताकुला नित्यमासन् ||
Nar10.45.8-1प्रतिनवनवनीतं गोपिकादत्तमिच्छन्
Nar10.45.8-2कलपदमुपगायन्कोमलं क्वापि नृत्यन् |
Nar10.45.8-3सदययुवतिलोकैरर्पितं सर्पिरश्नन्
Nar10.45.8-4क्वचन नवविपक्वं दुग्धमत्यापिबस्त्वम् ||
Nar10.45.9-1मम खलु बलिगेहे याचनं जातमास्ताम्-
Nar10.45.9-2इह पुनरबलानामग्रतो नैव कुर्वे |
Nar10.45.9-3इति विहितमतिः किं देव!सन्त्यज्य याच्ञां
Nar10.45.9-4दधिघृतमहरस्त्वं चारुणा चोरणेन ||
Nar10.45.10-1तव दधिघृतमोषे घोषयोषाजनाना-
Nar10.45.10-2मभजत हृदि रोषो नावकाशं न शोकः |
Nar10.45.10-3हृदयमपि मुषित्वा हर्षसिन्धौ न्यधास्त्वं
Nar10.45.10-4स मम शमय रोगान्वातगेहाधिनाथ!||
Nar10.45.11-1शाखाग्रेऽथ विधुं विलोक्य फलमित्यम्बां च तातं मुहुः
Nar10.45.11-2सम्प्रार्थ्याथ तदा तदीयवचसा प्रोत्क्षिप्तबाहौ त्वयि |
Nar10.45.11-3चित्रं देव!शशी स ते करमगात्किं ब्रूमहे सम्पत-
Nar10.45.11-4ज्ज्योतिर्मण्डलपूरिताखिलवपुः प्रागा विराड्रूपताम् ||
Nar10.45.12-1किं किं बतेदमिति संभ्रमभाजमेनं
Nar10.45.12-2ब्रह्मार्णवे क्षणममुं परिमज्ज्य तातम् |
Nar10.45.12-3मायां पुनस्तनयमोहमयीं वितन्व-
Nar10.45.12-4न्नानन्दचिन्मय!जगन्मय!पाहि रोगात् ||
Nar10.46.1-1अयि देव!पुरा किल त्वयि स्वयमुत्तानशये स्तनन्धये |
Nar10.46.1-2परिजृम्भणतो व्यपावृते वदने विश्वमचष्ट वल्लवी ||
Nar10.46.2-1पुनरप्यथ बालकैः समं त्वयि लीलानिरते जगत्पते!|
Nar10.46.2-2फलसञ्चयवञ्चनक्रुधा तव मृद्भोजनमूचुरर्भकाः ||
Nar10.46.3-1अयि ते प्रलयावधौ विभो!क्षितितोयादिसमस्तभक्षिणः |
Nar10.46.3-2मृदुपाशनतो रुजा भवेदिति भीता जननी चुकोप सा ||
Nar10.46.4-1अयि दुर्विनयात्मक!त्वया किमु मृत्सा बत वत्स!भक्षिता |
Nar10.46.4-2इति मातृगिरं चिरं विभो!वितथां त्वं प्रतिजज्ञिषे हसन् ||
Nar10.46.5-1अयि ते सकलैर्विनिश्चिते विमतिश्चेद्वदनं विदार्यताम् |
Nar10.46.5-2इति मातृविभर्त्सितो मुखं विकसत्पद्मनिभं व्यदारयः ||
Nar10.46.6-1अयि मृल्लवदर्शनोत्सुकां जननीं तां बहु तर्पयन्निव |
Nar10.46.6-2पृथिवीं निखिलां न केवलं भुवनान्यप्यखिलान्यदीदृशः ||
Nar10.46.7-1कुहचिद्वनमम्बुधिः क्वचित्क्वचिदभ्रं कुहचिद्रसातलम् |
Nar10.46.7-2मनुजा दनुजाः क्वचित्सुरा ददृशे किं न तदा त्वदानने ||
Nar10.46.8-1कलशाम्बुधिशायिनं पुनः परवैकुण्ठपदाधिवासिनम् |
Nar10.46.8-2स्वपुरश्च निजार्भकात्मकं कतिधा त्वां न ददर्श सा मुखे ||
Nar10.46.9-1विकसद्भुवने मुखोदरे ननु भूयोऽपि तथाविधाननः |
Nar10.46.9-2अनया स्फुटमीक्षितो भवाननवस्थां जगतां बतातनोत् ||
Nar10.46.10-1धृततत्त्वधियं तदा क्षणं जननीं तां प्रणयेन मोहयन् |
Nar10.46.10-2स्तनमम्ब!दिशेत्युपासजन्भगवन्नद्भुतबाल!पाहि माम् ||
Nar10.47.1-1एकदा दधिविमाथकारिणीं मातरं समुपसेदिवान्भवान् |
Nar10.47.1-2स्तन्यलोलुपतया निवारयन्नङ्कमेत्य पपिवान्पयोधरौ ||
Nar10.47.2-1अर्धपीतकुचकुड्मले त्वयि स्निग्धहासमधुराननाम्बुजे |
Nar10.47.2-2दुग्धमीश!दहने परिस्नुतं धर्तुमाशु जननी जगाम ते ||
Nar10.47.3-1सामिपीतरसभङ्गसङ्गतक्रोधभारपरिभूतचेतसा |
Nar10.47.3-2मन्थदण्डमुपगृह्य पाटितं हन्त देव!दधिभाजनं त्वया ||
Nar10.47.4-1उच्चल ध्वनितमुच्चकैस्तदा संनिशम्य जननी समाद्रुता |
Nar10.47.4-2त्वद्यशोविसरवद्ददर्श सा सद्य एव दधि विसृतं क्षितौ ||
Nar10.47.5-1वेदमार्गपरिमार्गितं रुषा त्वामवीक्ष्य परिमार्गयन्त्यसौ |
Nar10.47.5-2सन्ददर्श सुकृतिन्युलूखले दीयमाननवनीतमोतवे ||
Nar10.47.6-1त्वां प्रगृह्य बत भीतिभावनाभासुराननसरोजमाशु सा |
Nar10.47.6-2रोषरूषितमुखी सखीपुरो बन्धनाय रशनामुपाददे ||
Nar10.47.7-1बन्धुमिच्छति यमेव सज्जनस्तं भवन्तमयि बन्धुमिच्छती |
Nar10.47.7-2सा नियुज्य रशनागुणान्बहून्व्द्यङ्गुलोनमखिलं किलैक्षत ||
Nar10.47.8-1विस्मितोत्स्मितसखीजनेक्षितां स्विन्नसन्नवपुषं निरीक्ष्य ताम् |
Nar10.47.8-2नित्यमुक्तवपुरप्यहो हरे!बन्धमेव कृपयान्वमयथाः ||
Nar10.47.9-1स्थीयतां चिरमुलूखले खलेत्यागता भवनमेव सा यदा |
Nar10.47.9-2प्रागुलूखलबिलान्तरे तदा सर्पिरर्पितमदन्नवास्थिथाः ||
Nar10.47.10-1यद्यपाशसुगमो भवान्विभो!संयतः किमु सपाशयानया |
Nar10.47.10-2एवमादि दिविजैरभिष्टुतो वातनाथ!परिपाहि मां गदात् ||
Nar10.48.1-1मुदा सुरौधैस्त्वमुदारसम्मदैरुदीर्य दामोदर इत्यभिष्टुतः |
Nar10.48.1-2मृदूदरः स्वैरमुलूखले लगन्नदूरतो द्वौ ककुभावुदैक्षथाः ||
Nar10.48.2-1कुबेरसूनुर्नलकूबराभिधः परो मणिग्रीव इति प्रथां गतः |
Nar10.48.2-2महेशसेवाधिगतश्रियोन्मदौ चिरं किल त्वद्विमुखावखेलताम् ||
Nar10.48.3-1सुरापगायां किल तौ मदोत्कटौ सुरापगायद्बहुयौवतावृतौ |
Nar10.48.3-2विवाससौ केलिपरौ स नारदो भवत्पदैकप्रवणो निरैक्षत ||
Nar10.48.4-1भिया प्रियालोकमुपात्तवाससं पुरो निरीक्ष्यापि मदान्धचेतसौ |
Nar10.48.4-2इमौ भवद्भक्त्युपशान्तिसिद्धये मुनिर्जगौ शान्तिमृते कुतः सुखम् ||
Nar10.48.5-1युवामवाप्तौ ककुभात्मतां चिरं हरिं निरीक्ष्याथ पदं स्वमाप्नुतम् |
Nar10.48.5-2इतीरितौ तौ भवदीक्षणस्पृहां गतौ व्रजान्ते ककुभौ बभूवतुः ||
Nar10.48.6-1अतन्द्रमिन्द्रद्रुयुगं तथाविधं समेयुषा मन्थरगामिना त्वया |
Nar10.48.6-2तिरायितोलूखलरोधनिर्धुतौ चिराय जीर्णौ परिपातितौ तरू ||
Nar10.48.7-1अभाजि शाखिद्वितयं यदा त्वया तदैव तद्गर्भतलान्निरेयुषा |
Nar10.48.7-2महात्विषा यक्षयुगेन तत्क्षणादभाजि गोविन्द!भवानपि स्तवैः ||
Nar10.48.8-1इहान्यभक्तोऽपि समेष्यति क्रमाद्भवन्तमेतौ खलु रुद्रसेवकौ |
Nar10.48.8-2मुनिप्रसादाद्भवदङ्घ्रिमागतौ गतौ वृणानौ खलु भक्तिमुत्तमाम् ||
Nar10.48.9-1ततस्तरूद्दारणदारुणारवप्रकम्पिसम्पातिनि गोपमण्डले |
Nar10.48.9-2विलज्जितत्वज्जननीमुखेक्षिणा व्यमोक्षि नन्दने भवान्विमोक्षदः ||
Nar10.48.10-1महीरुहोर्मध्यगतो बतार्भको हरेः प्रभावादपरिक्षतोऽधुना |
Nar10.48.10-2इति ब्रवाणैर्गमितो गृहं भवान्मरुत्पुराधीश्वर!पाहि मां गदात् ||
Nar10.49.1-1भवत्प्रभावाविदुरा हि गोपास्तरुप्रपातादिकमत्र गोष्टःए |
Nar10.49.1-2शेतुमुत्पातगणं विशङ्क्य प्रयातुमन्यत्र मनो वितेनुः ||
Nar10.49.2-1तत्रोपनन्दाभिधगोपवर्यो जगौ भवत्प्रेरणयैव नूनम् |
Nar10.49.2-2इतिः प्रतीच्यां विपिनं मनोज्ञं बृन्दावनं नाम विराजतीति ||
Nar10.49.3-1बृहद्वनं तत्खलु नन्दमुख्या विधाय गौष्ठीनमथ क्षणेन |
Nar10.49.3-2त्वदन्वितत्वज्जननीनिविष्टगरिष्टयानानुगता विचेलुः ||
Nar10.49.4-1अनोमनोज्ञध्वनिधेनुपालीखुरप्रणादान्तरतो वधूभिः |
Nar10.49.4-2भवद्विनोदालपितीक्षराणि प्रपीय नाज्ञायत मार्गदैर्घ्यम् ||
Nar10.49.5-1निरीक्ष्य बृन्दावनमीश!नन्दत्प्रसूनकुन्दप्रमुखद्रुमौघम् |
Nar10.49.5-2अमोदथाः शाद्वलसान्द्रलक्ष्म्या हरिन्मणीकुट्टिमपुष्टशोभम् ||
Nar10.49.6-1नवाकनिर्व्युढनिवासभेदेष्वशेषगोपेषु सुखासितेषु |
Nar10.49.6-2वनश्रियं गोपकिशोरपालीविमिश्रितः पर्यगलोकथास्त्वम् ||
Nar10.49.7-1अरालमार्गागतनिर्मलापां मरालकुजाकृतनर्मलापाम् |
Nar10.49.7-2निरन्तरस्मेरसरोजवक्त्रां कलिन्दकन्यां समलोकयस्त्वम् ||
Nar10.49.8-1मयूरकेकाशतलोभनीयं म्यूखमीलशबलं मणीनाम् |
Nar10.49.8-2विरिञ्चलोकस्पृशमुच्चशृङ्गैर्गिरिं च गोवर्धनमैक्षथास्त्वम् ||
Nar10.49.9-1समं ततो गोपकुमारकैस्त्वं समन्ततो यत्र वनान्तमागाः |
Nar10.49.9-2ततस्ततस्तां कृटिलामपश्यः कलिन्दजां रागवतीमिवैकाम् ||
Nar10.49.10-1तथाविधेऽस्मिन्विपिने पशव्ये समुत्सुको वत्सगणप्रचारे |
Nar10.49.10-2चरन्सरामोऽथ कुमारकैस्त्वं समीरगेहाधिप!पाहि रोगात् ||
Nar10.50.1-1तरलमधुकृद्बृन्दे बृन्दावनेऽथ मनोहरे
Nar10.50.1-2पशुपशिशुभिः साकं वत्सानुपालनलोलुपः |
Nar10.50.1-3हलधरसखो देव!श्रीमन्!विचेरिथ धारयन्
Nar10.50.1-4गवलमुरलीवेत्रं नेत्राभिरामतनुद्युतिः ||
Nar10.50.2-1विहितजगतीरक्षं लक्ष्मीकराम्बुजलीलितं
Nar10.50.2-2ददति चरणद्वन्द्वं बृन्दावने त्वयि पावने |
Nar10.50.2-3किमिव न बभौ सम्पत्सम्पूरितं तरुवल्लरी-
Nar10.50.2-4सलिलधरणीगोत्रक्षेत्रादिकं कमलापते!||
Nar10.50.3-1विलसदुलपे कान्तारान्ते समीरणशीतले
Nar10.50.3-2विपुलयमुनातीरे गोवर्धनाचलमूर्धसु |
Nar10.50.3-3ललितमुरलीनादः सञ्चारयन्खलु वात्सकं
Nar10.50.3-4क्वचन दिवसे दैत्यं वत्साकृतिं त्वमुदैक्षथाः ||
Nar10.50.4-1रभसविलसत्पुच्छं विच्छायतोऽस्य विलोकयन्
Nar10.50.4-2किमपि वलितस्कन्धं रन्ध्रप्रतीक्षमुदीक्षितम् |
Nar10.50.4-3तमथ चरणे बिभ्रद्विभ्रामयन्मुहुरुच्चकैः
Nar10.50.4-4कुहचन महावृक्षे चिक्षेपिथ क्षतजीवितम् ||
Nar10.50.5-1निपतति महादैत्ये जात्या दुरात्मनि तत्क्षणं
Nar10.50.5-2निपतनजवक्षुण्णक्षोणीरुहक्षतकानने |
Nar10.50.5-3दिवि परमिलद्बृन्दा बृन्दारकाः कुसुमोत्करैः
Nar10.50.5-4शिरसि भवतो हर्षाद्वर्षन्ति नाम तदा हरे!||
Nar10.50.6-1सुरभिलतमा मूर्धन्यूर्ध्वं कुतः कुसुमावली
Nar10.50.6-2निपतति तवेत्युक्तो बालैः सहेलमुदैरयः |
Nar10.50.6-3झटिति दनुजक्षेपेणोर्ध्वं गतस्तरुमण्डलात्
Nar10.50.6-4कुसुमनिकरः सोऽयं नूनं समेति शनैरिति ||
Nar10.50.7-1क्वचन दिवसे भूयो भूयस्तरेपरुषातपे
Nar10.50.7-2तपनतनयापाथः पातुं गता भवदादयः |
Nar10.50.7-3चलितगरुतं प्रेक्षामासुर्बकं खलु विस्मृतं
Nar10.50.7-4क्षितिधरगरुच्छेदे कैलासशैलमिवापरम् ||
Nar10.50.8-1पिबति सलिलं गोपव्राते भवनतमभिद्रुतः
Nar10.50.8-2स किल निगिनलन्नग्निप्रख्यं पुनर्द्रुतमुद्वमन् |
Nar10.50.8-3दलयितुमगात्त्रोट्याः कोट्या तदा यु भवान्विभो!
Nar10.50.8-4खलजनभिदाचुञ्चुश्चञ्चू प्रगृह्य ददार तम् ||
Nar10.50.9-1सपदि सहजां सन्द्रष्टुं वा मृतां खलु पूतना-
Nar10.50.9-2मनुजमघमप्यग्रे गत्वा प्रतीक्षितुमेव वा |
Nar10.50.9-3शमननिलयं याते तस्मिन्बके सुमनोगणे
Nar10.50.9-4किरति सुमनोबृन्दं बृन्दावनाद्गृहमैयथाः ||
Nar10.50.10-1ललितमुरलीनादं दूरान्निशम्य वधूजनैस्-
Nar10.50.10-2त्वरितमुपगम्यारादारूढमोदमुदीक्षितः |
Nar10.50.10-3जनितजननीनन्दानन्दः समीरणमन्दिर-
Nar10.50.10-4प्रथितवसते!शौरे!दूरीकुरुष्व ममामयान् ||
Nar10.51.1-1कदाचन व्रजशिशुभिः समं भवान्
Nar10.51.1-2वनाशने विहितमतिः प्रगेतराम् |
Nar10.51.1-3समावृतो बहुतरवत्समण्डलैः
Nar10.51.1-4सतेमनैर्निरगमदीश!जेमनैः ||
Nar10.51.2-1विनिर्यतस्तव चरणाम्बुजद्वया-
Nar10.51.2-2दुदाञ्चितं त्रिभुवनपावनं रजः |
Nar10.51.2-3महर्षयः पुलकधरैः कलेबरै-
Nar10.51.2-4रुदूहिरे धृतभवदीक्षणोत्सवाः ||
Nar10.51.3-1प्रचारयत्यविरलशाद्वले तले
Nar10.51.3-2पशून्विभो!भवति समं कुमारकैः |
Nar10.51.3-3अघासुरो न्यरुणदघाय वर्तनीं
Nar10.51.3-4भयानकः सपदि शयानकाकृतिः ||
Nar10.51.4-1महाचलप्रतिमतनोर्गुहानिभ-
Nar10.51.4-2प्रसारितप्रथितमुखस्य कानने |
Nar10.51.4-3मुखोदरं विहरणकौतुकाद्गताः
Nar10.51.4-4कुमारकाः किमपि विदूरगे त्वयि ||
Nar10.51.5-1प्रमादतः प्रविशति पन्नगोदरं
Nar10.51.5-2क्वथत्तनौ पशुपकुले सवात्सके |
Nar10.51.5-3विदन्निदं त्वमपि विवेशिथ प्रभो!
Nar10.51.5-4सुहृज्जनं विशरणामाशु रक्षितुम् ||
Nar10.51.6-1गलेदरे विपुलितवर्ष्मणा त्वया
Nar10.51.6-2महोरगे लुठति निरुद्धमारुते |
Nar10.51.6-3द्रुतं भवान्विदलितकण्ठमण्डलो
Nar10.51.6-4विमोचयन्पशुपशून्विनिर्ययौ ||
Nar10.51.7-1क्षणं दिवि त्वदुपगमार्थमास्थितं
Nar10.51.7-2महासुरप्रभवमहो महो महत् |
Nar10.51.7-3विनिर्गते त्वयि तु निलीनमञ्जसा
Nar10.51.7-4नभःश्तले ननृतुरथो जगुः सुराः ||
Nar10.51.8-1सविस्मयैः कमलभवादिभिः सुरैर्-
Nar10.51.8-2अनुद्रुतस्तदनु गतः कुमारकैः |
Nar10.51.8-3दिने पुनस्तरुणदशामुपेयुषि
Nar10.51.8-4स्वकैर्भवानतनुत भोजनोत्सवम् ||
Nar10.51.9-1विषाणिकामपि मुरलीं नितम्बके
Nar10.51.9-2निवेशयन्कबलधरः कराम्बुजे |
Nar10.51.9-3प्रहासयन्कलवचनैः कुमारकान्
Nar10.51.9-4बुभोजिथ त्रिदशगणैर्मुदा नुतः ||
Nar10.51.10-1सुखाशनं त्विह तव गोपमण्डले
Nar10.51.10-2मखाशनात्प्रियमिव देवमण्डले |
Nar10.51.10-3इति स्तुतस्त्रिदशवरैर्जगत्प्रभो!
Nar10.51.10-4मरुत्पुरीनिलय!गदात्प्रपाहि माम् ||
Nar10.52.1-1अन्यावतारनिकरेष्वनिरीक्षितं ते
Nar10.52.1-2भूमातिरेकमभिवीक्ष्य तदाघमोक्षे |
Nar10.52.1-3ब्रह्मा परीक्षितुमनाः स परोक्षभावं
Nar10.52.1-4निन्येऽथ वत्सकगणान्प्रवितत्य मायाम् ||
Nar10.52.2-1वत्सानवीक्ष्य विवशे पशुपोत्करे ता-
Nar10.52.2-2नानेतुकाम इव धातृमतानुवर्ती |
Nar10.52.2-3त्वं सामिभुक्तकबलो गतवांस्तदानीं
Nar10.52.2-4भुक्तांस्तिरोधित सरोजभवः कुमारान् ||
Nar10.52.3-1वत्सायितस्तदनु गोपगणायितस्त्वं
Nar10.52.3-2शिक्यादिभाण्डमुरलीगवलादिरूपः |
Nar10.52.3-3प्राग्वद्विहृत्य विपिनेषु चिराय सायं
Nar10.52.3-4त्वं माययाथ बहुधा व्रजमाययाथ ||
Nar10.52.4-1त्वामेव शिक्यागवलादिमयं दधानो
Nar10.52.4-2भूयस्त्वमेव पशुवत्सकबालरूपः |
Nar10.52.4-3गोरूपिणीभिरपि गोपवधूमयीभि-
Nar10.52.4-4रासादितोऽसि जननीभिरतिप्रहर्षात् ||
Nar10.52.5-1जीवं हि कञ्चिदभिमानवशात्स्वकीयं
Nar10.52.5-2मत्वा तनूज इति रागभरं वहन्त्यः |
Nar10.52.5-3आत्मानमेव तु भवन्तमवाप्य सूनुं
Nar10.52.5-4प्रीतिं ययुर्न कियतीं वनिताश्च गावः ||
Nar10.52.6-1एवं प्रतिक्षणविजृम्भितहर्षभार-
Nar10.52.6-2निश्शेषगोपगणलालितभूरिमूर्तिम् |
Nar10.52.6-3त्वामग्रजोऽपि बुबुधे किल वत्सरान्ते
Nar10.52.6-4ब्रह्मात्मनोरपि महान्युवयोर्विशेषः ||
Nar10.52.7-1वर्षावधौ नवपुरातनवत्सपालान्
Nar10.52.7-2दृष्ट्वा विवेकमसृणे द्रुहिणे विमूढे |
Nar10.52.7-3प्रादीदृशः प्रतिनवान्मकुटान्गदादि-
Nar10.52.7-4भूशांश्चतुर्भुजयुजः सजलाम्बुदाभान् ||
Nar10.52.8-1प्रत्येकमेव कमलापरिलालिताङ्गान्
Nar10.52.8-2भोगीन्द्रभोगशयनान्नयनाभिरामान् |
Nar10.52.8-3लीलानिमीलितदृशः सनकादियोगि-
Nar10.52.8-4व्यासेवितान्कमलभूर्भवतो ददर्श ||
Nar10.52.9-1नारायणाकृतिमसङ्ख्यतमां निरीक्ष्य
Nar10.52.9-2सर्वत्र सेवकमपि स्वमवेक्ष्य धाता |
Nar10.52.9-3मायानिमग्नहृदयो विमुमोह याव्त-
Nar10.52.9-4देको बभूविथ तदा कबलार्धपाणिः ||
Nar10.52.10-1नश्यन्मदे तदनु विश्वपतिं मुहुस्त्वां
Nar10.52.10-2नत्वा च नूतवति धातरि धाम याते |
Nar10.52.10-3पोतैः समं प्रमुदितैः प्रविशन्निकेतं
Nar10.52.10-4वातालयाधिप!विभो!परिपाहि रोगात् ||
Nar10.53.1-1अतीत्य बाल्यं जगतां पते!त्वमुपेत्य पौगण्डवयो मनोज्ञम् |
Nar10.53.1-2उपेक्ष्य वत्सावनमुत्सवेन प्रावर्तथा गोगणपालनायाम् ||
Nar10.53.2-1उपक्रमस्यानुगुणैव सेयं मरुत्पुराधीष!तव प्रवृत्तिः |
Nar10.53.2-2गोत्रापरित्राणकृतेऽवतीनस्तदेव देवारभथास्तदा यत् ||
Nar10.53.3-1कदापि रामेण समं वनान्ते वनश्रियं वीक्ष्य चरन्सुखेन |
Nar10.53.3-2श्रीदामनाम्नः स्वसखस्य वाचा मोदादगा धेनुककाननं त्वम् ||
Nar10.53.4-1उत्तालतालीनिवहे त्वदुक्त्या बलेन धूतेऽथ बलेन दोर्भ्याम् |
Nar10.53.4-2मृदुः खरश्चाभ्यपतत्पुरस्तात्फलोत्करो धेनुकदानवोऽपि ||
Nar10.53.5-1समुद्यतो धैनुकपालनेऽहं वधं कथं धैनुकमद्य कुर्वे |
Nar10.53.5-2इतीव मत्वा ध्रुवमग्रजेन सुरौघरोद्धारमजीघतस्त्वम् ||
Nar10.53.6-1तदीयभृत्यानपि जम्बुकत्वेनोपागतानग्रजसंयुतस्त्वम् |
Nar10.53.6-2जम्बूफलानीव तदा निरास्थस्तालेषु खेलन्भगवन्!निरास्थः ||
Nar10.53.7-1विनिघ्नति त्वय्यथ जम्बुकौघं सनामकत्वाद्वरुणस्तदानीम् |
Nar10.53.7-2भयाकुलो जम्बुकनामधेयं श्रुतिप्रसिद्धं व्यधितेति मन्ये ||
Nar10.53.8-1तवावतारस्य फलं मुरारे!सञ्जातमद्येति सुरैर्नुतस्त्वम् |
Nar10.53.8-2सत्यं फलं जातमिहेति हासी बालैः समं तालफलान्यभुङ्क्थाः ||
Nar10.53.9-1मधुद्रवस्रुन्ति बृहन्ति तानि फलानि मेदोभरभृन्ति भुक्त्वा |
Nar10.53.9-2तृप्तैश्च दृप्तैर्भवनं फलौघं वहद्भिरागाः खलु बालकैस्त्वम् ||
Nar10.53.10-1हतो हतो धेनुक इत्युपेत्य फलान्यदद्भिर्मधुराणि लोकैः |
Nar10.53.10-2जयेति जीवेति नुतो विभो!त्वं मरुत्पुराधीश्वर!पाहि रोगात् ||
Nar10.54.1-1त्वत्सेवोत्कः सौभारिर्नाम पूर्वं कालिन्द्यन्तर्द्वादशाब्दं तपस्यन् |
Nar10.54.1-2मीनव्राते स्नेहवान्भोगलोले तार्क्ष्यं साक्षादैक्षताग्रे कदाचित् ||
Nar10.54.2-1त्वद्वाहं तं सक्षुधं तृक्षसूनुं मीनं कञ्चिज्जक्षतं लक्षयन्सः |
Nar10.54.2-2तप्तश्चित्ते शप्तवानत्र चेत्त्वं जन्तून्भोक्ता जीवितं चापि भोक्ता ||
Nar10.54.3-1तस्मिन्काले कालियः क्ष्वेलदर्पात्सर्पाराते कल्पितं भागम्श्नन् |
Nar10.54.3-2तेन क्रोधात्त्वत्पदाम्भोजभाजा पक्षक्षिप्तस्तद्दुरापं पयोऽगात् ||
Nar10.54.4-1घोरे तस्मिन्सूरजानीरवासे तीरे वृक्षा विक्षताः क्ष्वेलवेगात् |
Nar10.54.4-2पक्षिव्राताः पेतुरभ्रे पतन्तः कारुण्यार्द्रं त्वन्मनस्तेन जातम् ||
Nar10.54.5-1काले तस्मिन्नेकदा सीरपाणिं मुक्त्वा याते यामुनं काननान्तम् |
Nar10.54.5-2त्वय्युद्दामग्रीष्मभीष्मोष्मतप्ता गोगोपाला व्यापिबन्क्ष्वेलतोयम् ||
Nar10.54.6-1नश्यज्जीवान्विच्युतान्क्ष्मातले तान्विश्वान्पश्यन्नच्युत!त्वं दयार्द्रः |
Nar10.54.6-2प्राप्योपान्तं जीवयामासिथ द्राक्पीयूषाम्भोवर्षिभिः श्रीकटाक्षैः ||
Nar10.54.7-1किं किं जातो हर्षवर्षातिरेकः सर्वाङ्गेष्वित्युत्थिता गोपसङ्घाः |
Nar10.54.7-2दृष्ट्वाग्रे त्वां त्वत्कृतं तद्विदन्तस्र्वामालिङ्गन्दृष्टनानाप्रभावाः ||
Nar10.54.8-1गावश्चैवं लब्धजीवाः क्षणेन स्फीतानन्दास्त्वां च दृष्ट्वा पुरस्तात् |
Nar10.54.8-2द्रागावव्रुः सर्वतो हर्षबाष्पं व्यामुञ्चन्त्यो मन्दमुद्यन्निनादाः ||
Nar10.54.9-1रोमाञ्चोऽयं सर्वतो नः शरीरे भूयस्यन्तः काचिदानन्दमूर्छा |
Nar10.54.9-2आश्चर्योऽयं क्ष्वेलवेगो मुकुन्देत्युक्तो गोपैर्नन्दितो वन्दितोऽभूः ||
Nar10.54.10-1एवं भक्तान्मुक्तजीवानपि त्वं मुग्धापाङ्कैरस्तरोगांस्तनोषि |
Nar10.54.10-2तादृग्भूतस्फीतकारुण्यभूमा रोगीत्पाया वायुगेहाधिवास!||
Nar10.55.1-1अथ वारिणि घोरतरं फणिनं प्रतिवारयितुं कृतधीर्भगवन्!|
Nar10.55.1-2द्रुतमारिथ तीरगनीपतरुं विषमीरुतशोषितपर्णचयम् ||
Nar10.55.2-1अधिरुह्य पदाम्बुरुहेण च तं नवपल्लवतुल्यमोज्ञरुचा |
Nar10.55.2-2हदवारिणि दूरतरं न्यपतः परिघूर्णितघोरतरङ्गगणे ||
Nar10.55.3-1भुवनत्रयभारभृतो भवतो गुरुभारविक्रम्पिविजृम्भिजला |
Nar10.55.3-2परिमज्जयति स्म धनुःशतं तटिनी झटिति स्फुटघोषवती ||
Nar10.55.4-1अथ दिक्षु विदिक्षु परिक्षुभितभ्रमितोदरवारिनिनादभरैः |
Nar10.55.4-2उदकादुदगादुरगाधिपतिस्त्वदुपान्तमशान्तरुषान्धमनाः ||
Nar10.55.5-1फणशृङ्गसहस्रविनिःसृमरज्वलदग्निकणोग्रविषाम्बुधरम् |
Nar10.55.5-2पुरतः फणिनं समलोकयथा बहुशृङ्गिणमञ्जनशैलमिव ||
Nar10.55.6-1ज्वलदक्षिपरिक्षरदुग्रविषश्वसनिष्मभरः स महान्भुजगः |
Nar10.55.6-2परिदश्य भवन्तमनन्तबलं समवेष्टयदस्फुटचेष्टमहो ||
Nar10.55.7-1अविलोक्य भवन्तमथाकुलिते तटगामिनि बालकधेनुगणे |
Nar10.55.7-2व्रजगेहतलेऽप्यनिमित्तशतं समुदीक्ष्य गता यमुनां पशुपाः ||
Nar10.55.8-1अखिलेषु विभो!भवदीयदशामवलोक्य जिहासुषु जीवभरम् |
Nar10.55.8-2फणिबन्धनमाशु विमुच्य जवादुदगम्यत हासजुषा भवता ||
Nar10.55.9-1अधिरुह्य ततः फणिराजफणान्ननृते भवता मृदुपादरुचा |
Nar10.55.9-2कलशिञ्चितनूपुरमञ्चुमिलत्करकङ्कणसंकुलसंक्वणितम् ||
Nar10.55.10-1जहृषुः पशुपास्तुतुषुर्मुनयो ववृषुः कुसुमानि सुरेन्द्रगणाः |
Nar10.55.10-2त्वयि नृत्यति मारुतगेहपते!परिपाहि स मां त्वमदान्तगदात् ||
Nar10.56.1-1रचिरकम्पितकुण्डलमण्डलः सुचिरमीश!ननर्तिथ पन्नगे |
Nar10.56.1-2अमरताडितदुन्दुभिसुन्दरं वियति गायति दैवतयौवते ||
Nar10.56.2-1नमति यद्यदमुष्य शिरो हरे!परिविहाय तदुन्नतमुन्नतम् |
Nar10.56.2-2परिमथन्पदपङ्करुहा चिरं व्यहरथाः करतालमनोहरम् ||
Nar10.56.3-1त्वदवभग्नविभुग्नफणागणे गलितशोणितशोणितपाथसि |
Nar10.56.3-2फणिपताववसीदति सन्नतास्तदबलास्तव माधव!पादयोः ||
Nar10.56.4-1अयि पुरैव चिराय परिश्रुतत्वदनुभावविलीनहृदो हि ताः |
Nar10.56.4-2मुनिभिरप्यनवाप्यपथैः स्तवैर्नुनुवुरीश!भवन्तमयन्त्रितम् ||
Nar10.56.5-1फणिवधूगणभक्तिविलोकनप्रविकसत्करुणाकुलचेतसा |
Nar10.56.5-2फणिपतिर्भवताच्युत!जीवितस्त्वजि समर्पितमूर्तिरवानमत् ||
Nar10.56.6-1रमणकं व्रजे चारिधिमध्यगं फणिरिपुर्न करोति विरोधिताम् |
Nar10.56.6-2इति भवद्वचनान्यतिमानयन्फणिपतिर्निरगादुरगैः समम् ||
Nar10.56.7-1फणिवधूजनदत्तमणिव्रजज्वलितहारदुकूलविभूषितः |
Nar10.56.7-2तटगतैः प्रमदाश्रुविमिश्रितैः समगथाः स्वजनैर्दिवसावधौ ||
Nar10.56.8-1निशि पुनस्तमसा व्रजमन्दिरं व्रजितुमक्षम एव जनोत्करे |
Nar10.56.8-2स्वपति तत्र भवच्चरणाश्रये दवकृशानुररुन्ध समन्ततः ||
Nar10.56.9-1प्रबुधितानथ पालय पालयेत्युदयदार्तरवान्पशुपालकान् |
Nar10.56.9-2अवितुमाशु पपाथ महानलं किमिह चित्रमयं खलु ते मुखम् ||
Nar10.56.10-1शिखिन वर्णत एव हि पीतता परिलसत्युधना क्रिययाप्यसौ |
Nar10.56.10-2इति नुतः पशुपैर्मुदितैर्विभो!हर हरे!दुरितैः सह मे गदान् ||
Nar10.57.1-1रामसखः क्वापि दिने कामद!भगवन्!गतो भवान्विपिनम् |
Nar10.57.1-2सूनुभिरपि गोपानां धेनुभिरभिसंवृतो लसद्वेषु ||
Nar10.57.2-1सन्दर्शयन्बलाय स्वैरं बृन्दावनश्रियं विमलाम् |
Nar10.57.2-2काण्डीरैः सह बालैर्भाण्डीरकमागमो वटं क्रीडन् ||
Nar10.57.3-1तावत्तावकनिधनस्पृहयालुर्गोपमूर्तिरदयालुः |
Nar10.57.3-2दैत्यः प्रलम्बनामा प्रलम्बबाहुं भवन्तमापेदे ||
Nar10.57.4-1जानन्नप्यविजानन्निव तेन समं निषद्धसौहार्दः |
Nar10.57.4-2वटनिकटे पटुपशुपव्यानद्धं द्वन्द्वयुद्धमारब्धाः ||
Nar10.57.5-1गोपान्विभज्य तन्वन्सङ्घं बलभद्रकं भवत्कमपि |
Nar10.57.5-2त्वद्बलभीरुं दैत्यं त्वद्बलगतमन्वमन्यथा भगवन्!||
Nar10.57.6-1कल्पितविजेतृवहने समरे परौऊथगं स्वदयिततरम् |
Nar10.57.6-2श्रीदामानमधत्थाः पराजितो भक्तदासतां प्रथयन् ||
Nar10.57.7-1एवं बहुषु विभूमन्!बालेषु वहत्सु वाह्यमानेषु |
Nar10.57.7-2रामविजितः प्रलम्बो जहार तं दूरतो भवद्भीत्या ||
Nar10.57.8-1त्वद्दूरं गमयन्तं तं दृऋष्ट्वा हलिनि विहितगरिमभरे |
Nar10.57.8-2दैत्यः स्वरूपमागाद्यद्रूपात्स हि बलोऽपि चकितोऽभूत् ||
Nar10.57.9-1उच्चतया दैत्यतनोस्त्वन्मुखमालोक्य दूरतो रामः |
Nar10.57.9-2विगतभयो दृढमुष्ट्या भृशदुष्टं सपदि पिष्टवानेनम् ||
Nar10.57.10-1हत्वा दानववीरं प्राप्तं बलमालिलिङ्गिथ प्रेम्णा |
Nar10.57.10-2तावन्मिलतोर्य्वयोः शिरसि कृता पुष्पवृष्टिरमरगणैः ||
Nar10.57.11-1आलम्बो भुवनानां प्रालम्बं निधनमेवमारचयन् |
Nar10.57.11-2कालं विहाय सद्यो लोलम्बरुचे!हरे!हरेः क्लेशान् ||
Nar10.58.1-1त्वयि विहरणलोले बालजालैः प्रलम्ब-
Nar10.58.1-2प्रमथनसविलम्बे धेनवः स्वैरचाराः |
Nar10.58.1-3तृणकुतुकनिविष्टा दूरदूरं चरन्त्यः
Nar10.58.1-4किमपि विपिनमैषीकाख्यमीषांबभूवुः ||
Nar10.58.2-1अनधिगतनिदाघक्रौर्यबृन्दावनान्ताद्
Nar10.58.2-2बहिरिदमुपयाताः काननं धेनवस्ताः |
Nar10.58.2-3तव विरहविषण्णा ऊष्मलग्रीष्मताप-
Nar10.58.2-4प्रसरविसरदम्भस्याकुलाः स्तम्भमापुः ||
Nar10.58.3-1तदनु सह सहायैर्दूरमन्विष्य शौरे!
Nar10.58.3-2गलितसरणिमुञ्जारण्यसञ्जातखेदम् |
Nar10.58.3-3पशुकुलमभिवीक्ष्य क्षिप्रमानेतुमारात्
Nar10.58.3-4त्वयि गतवति ही ही सर्वतोऽग्निर्जजृम्भे ||
Nar10.58.4-1सकलहरिति दीप्ते घोरभाङ्कारभीमे
Nar10.58.4-2शिखिनि विहतमार्गा अर्धदग्धा इवार्ताः |
Nar10.58.4-3अहह भुवनबन्धो!पाहि पाहीति सर्वे
Nar10.58.4-4शरणमुपगतास्त्वां तापहर्तारमेकम् ||
Nar10.58.5-1अलमलमतिभीत्य सर्वतो मीलयध्वं
Nar10.58.5-2दृशमिति तव वाचा मीलिताक्षेषु तेषु |
Nar10.58.5-3क्वनु दवदहनोऽसौ कुत्र मुञ्जाटवी सा
Nar10.58.5-4सपदि ववृतिरे ते हन्त भण्डीरदेशे ||
Nar10.58.6-1जय जय तव माया केयमीशेति तेषां
Nar10.58.6-2नुतिभिरुदितहासो बद्धनानाविलासः |
Nar10.58.6-3पुनरपि विपिनान्ते प्राचरः पाटलादि-
Nar10.58.6-4प्रसवनिकरमात्रग्राह्यघर्मानुभावे ||
Nar10.58.7-1त्वयि विमुखमिवोच्चैस्तापभारं वहन्तं
Nar10.58.7-2तव भजनवदन्तः पङ्कमुच्छोषयन्तम् |
Nar10.58.7-3तव भुजवदुदञ्चद्भूरितेजःप्रवाहं
Nar10.58.7-4तपसमयमनैषीर्यामुनेषु स्थलेषु ||
Nar10.58.8-1तदनु जलदजालैस्त्वद्वपुस्तुल्यभाभिर्-
Nar10.58.8-2विकसदमलविद्युत्पीतवासोविलासैः |
Nar10.58.8-3सकलभुवनभाजां हर्षदां वर्षवेलां
Nar10.58.8-4क्षितिधरकुहरेषु स्वैरवासी व्यनैषीः ||
Nar10.58.9-1कुहरतलनिविष्टं त्वां गरिष्ठं गिरीन्द्रः
Nar10.58.9-2शिखिकुलनवकेकाकाकुभिः स्तोत्रकारी |
Nar10.58.9-3स्फुटकुटजकदम्बस्तोमपुष्पाञ्जलिं च
Nar10.58.9-4प्रविदधदनुभेजे देव!गोवर्धनोऽसौ ||
Nar10.58.10-1अथ शरदमुपेतां तां भवद्भक्तचेतो-
Nar10.58.10-2विमलसलिलपूरां मानयन्काननेषु |
Nar10.58.10-3तृणाममलवनान्ते चारु सञ्चारयन्गाः
Nar10.58.10-4पवनपुरपते!त्वं देहि मे देहसौख्यम् ||
Nar10.59.1-1त्वद्वपुर्नवकलायकोमलं प्रेमदोहनमशेषमोहनम् |
Nar10.59.1-2ब्रह्मा तत्त्वपरचिन्मुदात्मकं वीक्ष्य सम्मुमुहुरन्वहं स्त्रियः ||
Nar10.59.2-1मन्मथोन्मथितमानसाः क्रमात्त्वद्विलोकनरतास्ततस्ततः |
Nar10.59.2-2गोपिकास्तव न सेहिरे हरे!काननोपगतिमप्यहर्मुखे ||
Nar10.59.2-3निर्गते भवति दत्तदृष्टयस्त्वद्गतेन मनसा मृगेक्षणाः |
Nar10.59.2-4वेणुनादमुपकर्ण्य दूरतस्त्वद्विलासकथयाभिरेमिरे ||
Nar10.59.4-1काननान्तमितवान्भवानपि स्निग्धपादपतले मनोरमे |
Nar10.59.4-2व्यत्ययाकलितपादमास्थितः प्रत्यपूरयत वेणुनालिकाम् ||
Nar10.59.5-1मारबाणधुतखेचरीकुलं निर्विकारपशुपक्षिमण्डलम् |
Nar10.59.5-2द्रावणं च दृषदामपि प्रभो!तावकं व्यजनि वेणुकूजितम् ||
Nar10.59.6-1वेणुरन्ध्रतरलाङ्गुलीदलं तालसञ्चलितपादपल्लवम् |
Nar10.59.6-2तत्स्थितं तव परोक्षमप्यहो संविचिन्त्या मुमुहुर्व्रजाङ्गनाः ||
Nar10.59.7-1निर्विशङ्कभवदङ्गदर्शिनीः खेचरीः खगमृगान्पशूनपि |
Nar10.59.7-2त्वत्पदप्रणयि काननं च ता धन्यधन्यमिति नन्वमानय ||
Nar10.59.8-1आपिषेयमधरामृतं कदा वेणुभुक्तरसशेषमेकदा |
Nar10.59.8-2दूरतो बत कृतं दुराशयेत्याकुला मुहुरिमाः समामुहन् ||
Nar10.59.9-1प्रत्यहं च पुनरित्थमङ्गनाश्चित्तयोनिजनितादनुग्रहात् |
Nar10.59.9-2बद्धरागविवशास्त्वयि प्रभो!नित्यमापुरिह कृत्यमूढताम् ||
Nar10.59.10-1रागस्तावज्जायते हि स्वभावान्मोक्षोपाये यत्नतः स्यान्न वा स्यात् |
Nar10.59.10-2तासां त्वेकं तद्द्वयं लब्धमासीद्भाग्यं भाग्यं पाहि मां मार्य्तेश!||
Nar10.60.1-1मदनातुरचेतसोऽन्वहं भवदङ्घ्रिद्वयदास्यकाम्पया |
Nar10.60.1-2यमुनातटसीम्नि सैकतीं तरलाक्ष्यो गिरिजां समार्चिचन् ||
Nar10.60.2-1तव नामकथारताः समं सुदृशः प्रातरुपागता नदीम् |
Nar10.60.2-2उपहारशतैरपूजयन्दयितो नन्दसुतो भवेदिति ||
Nar10.60.3-1इति मासमुपाहितव्रतास्तरलाक्षीरभिवीक्ष्य ता भवान् |
Nar10.60.3-2करुणामृदुलो नदीतटं समयासीत्तदनुग्रहेच्छया ||
Nar10.60.4-1नियमावसितौ निजाम्बरं तटसीमन्यवमुच्य तास्तदा |
Nar10.60.4-2यमुनाजलखेलनाकुलाः पुरतस्त्वामवलोक्य लज्जिताः ||
Nar10.60.5-1त्रपया नमिताननास्वथो वनितास्वम्बरजालमन्तिके |
Nar10.60.5-2निहितं परिगृह्य भूरुहो विटपं तं तरसाधिरूढवान् ||
Nar10.60.6-1इह तावदुपेत्य नीयतां वसनं वः सुदृशो!यथायथम् |
Nar10.60.6-2इति नर्ममृदुस्मिते त्वयि व्रुवति व्यामुमुहे वधूजनैः ||
Nar10.60.7-1अयि जीव चिरं किशोर!नस्तव दासीरवशीकरोषि किम् |
Nar10.60.7-2प्रदिशाम्बरमम्बुजेक्षणेत्युदितस्त्वं स्मितमेव वत्तवान् ||
Nar10.60.8-1अधिरुह्य तटं कृताञ्जलीः परिशुद्धाः स्वगतीर्निरीक्ष्य ताः |
Nar10.60.8-2वसनान्यखिलान्यनुग्रहं पुनरेवं गिरमप्यदा मुदा ||
Nar10.60.9-1विदितं ननु वो मनीषितं वदितारस्त्विह योग्यमुत्तरम् |
Nar10.60.9-2यमुनापुलीने सचन्द्रिकाः क्षणदा इत्यबलास्त्वमूचिवान् ||
Nar10.60.10-1उपकर्ण्य भवन्मुखच्युतं मधुनिष्यन्दि वचो मृगीदृशः |
Nar10.60.10-2प्रणयादयि वीक्ष्य वीक्ष्य ते वदनाब्जं शनकैर्गृहं गताः ||
Nar10.60.11-1इति नन्वनुगृह्य बल्लवीर्तिपिनान्तेषु पुरेव सञ्चरन् |
Nar10.60.11-2करुणाशिशिरो हरे!हर त्वरया मे सकलामयावलिम् ||
Nar10.61.1-1ततश्च बृन्दावनतोऽतिदूरतो वनं गतस्त्वं खलु गोपगोकुलैः |
Nar10.61.1-2हृदन्तरे भक्ततरद्विजाङ्गिनाकदम्बकानुग्रहणाग्रहं वहन् ||
Nar10.61.2-1ततो निरीक्ष्याशरणे वनान्तरे किशोरलोकं क्षुधितं तृषाकुलम् |
Nar10.61.2-2उदूरतो यज्ञपरान्द्विजान्प्रति व्यसर्जयो दीदिवियाचनाय तान् ||
Nar10.61.3-1गतेष्वथो तेष्वभिधाय तेऽभिधां कुमारकेष्वोदनयाचिषु प्रभो!|
Nar10.61.3-2श्रुतिस्थिरा अप्यभिनिन्युरश्रुतिं न किञ्चिदूचुश्च महीसुरोत्तमाः ||
Nar10.61.4-1अनादरात्खिन्नधियो हि बालकाः समाययुर्युक्तमिदं हि यज्वसु |
Nar10.61.4-2चिरादभक्ताः खलु ते महीसुराः कथं हि भक्तं त्वयि तैः समर्प्यते ||
Nar10.61.5-1निवेदयध्वं गृहिणीजनाय मां दिशेयुरन्नं करुणाकुला इमाः |
Nar10.61.5-2इति स्मितार्द्रं भवतेरिता गतास्ते दारका दारजनं ययाचिरे ||
Nar10.61.6-1गृहीतनाम्नि त्वयि सम्भ्रमाकुलाश्चतुर्विधं भोज्यरसं प्रगृह्य ताः |
Nar10.61.6-2चिरं धृतत्वत्प्रविलोकनाग्रहाः स्वकैर्निरुद्धा अपि तूर्णमाययुः ||
Nar10.61.7-1विलोलपिञ्छं चिकुरे कपोलयोः समुल्लसत्कुण्डलमार्द्रमीक्षिते |
Nar10.61.7-2निधाय बाहुं सुहृदंससीमनि स्थितं भवन्तं समलोकयन्त ताः ||
Nar10.61.8-1तदा च काचित्त्वदुपागमोद्यता गृहीतहस्ता दयितेन यज्वना |
Nar10.61.8-2तदैव सञ्चिन्त्य भवन्तमञ्जसा विवेश कैवल्पमहो कृतिन्यसौ ||
Nar10.61.9-1आदाय भोज्यान्यनुगृह्य ताः पुनस्त्वदङ्गसङ्गस्पृहयोज्झतीर्गृहम् |
Nar10.61.9-2विलोक्य यज्ञाय विसर्जयन्निमाश्चकर्थ भर्त्नपि तास्वगर्हणान् ||
Nar10.61.10-1निरूप्य दोषं निजमङ्गनाजने विलोक्य भक्तिं च पुनर्विचारिभिः |
Nar10.61.10-2प्रबुद्धतत्त्वैस्त्वमभिष्टुतो द्विजैर्मरुत्पुराधीश!निरुन्धि मे गदान् ||
Nar10.62.1-1कदाचिद्गोपालान्विहितमखसम्भारविभवान्
Nar10.62.1-2निरीक्ष्य त्वं शौरे!मघवमदमुद्ध्वंसितुमनाः |
Nar10.62.1-3विजानन्नप्येतान्विनयमृदु नन्दादिपशुपा-
Nar10.62.1-4नपृच्छः को वायं जनक!भवतामुद्यम इति ||
Nar10.62.2-1बभाषे नन्दस्त्वां सुत!ननु विधेयो मघवतो
Nar10.62.2-2मखो वर्षे वर्षे सुखयति स वर्षेण पृथिवीम् |
Nar10.62.2-3नृणां वर्षायत्तं निखिलमुपजीव्यं महितले
Nar10.62.2-4विशेषादस्माकं तृणसलिलजीवा हि पशवः ||
Nar10.62.3-1इति श्रुत्वा वाचं पितुरयि भवानाह सरसं
Nar10.62.3-2धिगेतन्नो सत्यं मघवजनिता वृष्टिरिति यत् |
Nar10.62.3-3अदृष्टं जीवानां सृजति खलु वृष्टिं समुचितां
Nar10.62.3-4महारण्ये वृक्षाः किमिव बलिमिन्द्राय ददते ||
Nar10.62.4-1इदं तावत्सत्यं यदिह पशपो नः कुलधनं
Nar10.62.4-2तदाजीव्यायासौ बलिरचलभर्त्रे समुचितः |
Nar10.62.4-3सुरेभ्योऽप्युत्कृष्टा ननु धरणिदेवाः क्षितितले
Nar10.62.4-4ततस्तेऽप्याराध्या इति जगदिथ त्वं निजजनाम् ||
Nar10.62.5-1भवद्वाचं श्रुत्वा बहुमतियुतास्तेऽपि पशुपा
Nar10.62.5-2द्विजेन्द्रानर्चन्तो बलिमददुरुच्चैः क्षितिभृते |
Nar10.62.5-3व्यधुः प्रादक्षिण्यं सुभृशमनमन्नादरयुतास्-
Nar10.62.5-4त्वमादः शैलात्मा बलिमखिलमाभीरपुरतः ||
Nar10.62.6-1अवोचश्चैवं तान्किमिह वितथं मे निगदितं
Nar10.62.6-2गिरीन्द्रो नन्वेषु स्वबलिमुपभूङ्क्ते स्ववपुषा |
Nar10.62.6-3अयं गोत्रो गोत्रद्विषि च कुपिते रक्षितुमलं
Nar10.62.6-4समस्तानित्युक्ता जहृषुरखिला गोकुलजुषः ||
Nar10.62.7-1परिप्रीता याताः खलु भवदुपेता व्रजजुषो
Nar10.62.7-2व्रजं यावत्तावन्निजमखविभङ्गं निशमयन् |
Nar10.62.7-3भवन्तं जानन्नप्यधिकरजसाक्रान्तहृदयो
Nar10.62.7-4न सेहे देवेन्द्रस्त्वदुपरचितात्मोन्नतिरपि ||
Nar10.62.8-1मनुष्यत्वं यातो मधुभिदपि देवेष्वविनयं
Nar10.62.8-2विधत्ते चेन्नष्टस्त्रिदशसदसां कोऽपि महिमा |
Nar10.62.8-3ततश्च ध्वंसिष्ये पशुपहतकस्य श्रियमिति
Nar10.62.8-4प्रवृत्तस्त्वां जेतुं स किल मघवा दुर्मदनिधिः ||
Nar10.62.9-1त्वदावासं हन्तुं प्रलयजलदानम्बरभुवि
Nar10.62.9-2प्रहिण्वन्बिभ्राणः कुलिशमयमभ्रेभगमनः |
Nar10.62.9-3प्रतस्थेऽन्यैरन्तर्दहनमरुदाद्यैर्विहसितो
Nar10.62.9-4भवन्माया नैव त्रिभूवनपते!मोहयति कम् ||
Nar10.62.10-1सुरेन्द्रः कुद्धश्चेद्द्विजकरुणया शैलकृपया-
Nar10.62.10-2प्यनातङ्कोऽस्माकं नियत इति विश्वास्य पशुपान् |
Nar10.62.10-3अहो किं नायातो गिरिभिदिति सञ्चिन्त्य निवसन्
Nar10.62.10-4मरुद्गेहाधीश!प्रणुद मुरवैरिन्!मम गदान् ||
Nar10.63.1-1ददृशिरे किल तत्क्षणमक्षतस्तनितजृम्भितकम्पितदिक्तटाः |
Nar10.63.1-2सुषमया भवदङ्गतुलां गता व्रजपदोपरि वारिधरास्त्वया ||
Nar10.63.2-1विपुलकरकमिश्चैस्तोयधारानिपातैर्-
Nar10.63.2-2दिशि दिशि पशुपानां मण्डले दण्ड्यमाने |
Nar10.63.2-3कुपितहरिकृतान्नः पाहि पाहीति तेषां
Nar10.63.2-4वचनमजित!शृण्वन्मा बिभीतेत्यभाणीः ||
Nar10.63.3-1कुल इह खलु गोत्रो दैवतं गोत्रशत्रोर्-
Nar10.63.3-2विहतिमिह स रुन्ध्यत्को नुः वः संशायोऽस्मिन् |
Nar10.63.3-3इति सहसितवादी देव!गोवर्धनाद्रिं
Nar10.63.3-4त्वरितमुदमुमूलो मूलतो बाल!दोर्भ्याम् ||
Nar10.63.4-1तदनु गिरिवरस्य प्रोद्धृतस्यास्य तावत्
Nar10.63.4-2सिकतिलमृदुदेशे दूरतो वारितापे |
Nar10.63.4-3परिकरपरिमिश्रान्धेनुगोपानधस्ता-
Nar10.63.4-4दुपनिदधदधत्था हस्तपद्मेन शैलम् ||
Nar10.63.5-1भवति विधृतशैले बालिकाभिर्वयस्यैर्-
Nar10.63.5-2अपि विहितविलासं केलिलापादिलोले |
Nar10.63.5-3सविधमिलितधेनूरेकहस्तेन कण्दू-
Nar10.63.5-4यति सति पशुपालास्तोषमैषन्त सर्वे ||
Nar10.63.6-1अतिमहान्गिरिरेषु तु वामके करसरोरुहि तं धरते चिरम् |
Nar10.63.6-2किमिदमद्भुतमद्रिबलं न्विति त्वदवलोकिभिराकथि गोपकैः ||
Nar10.63.7-1अहह धार्ष्ट्यममुष्य वटोर्गिरिं व्यथितबाहुरसाववरोपयेत् |
Nar10.63.7-2इति हरिस्त्वयि बद्धविगर्हणो दिवससःतकमुग्रमवर्षयत् ||
Nar10.63.8-1अचलति त्वयि देव!पदात्पदं गलितसर्वजले च घनोत्करे |
Nar10.63.8-2अपहृते मरुता मरुतां पतिस्त्वदभिशङ्कितधीः समुपाद्रवत् ||
Nar10.63.9-1शममुपेयुषि वर्षभरे तदा पशुपधेनुकुले च विनिर्गते |
Nar10.63.9-2भुवि विभो!समुपाहितभूधरः प्रमुदितैः पशुपैः परिरेभिषे ||
Nar10.63.10-1धरणिमेव पुरा धृतवानसि क्षितिधरोद्धरणे तव कः श्रमः |
Nar10.63.10-2इति नुतस्त्रिदशैः कुमलापते!गुरुपुरालय!पालय मां गदात् ||
Nar10.64.1-1आलोक्य शैलोद्धरणादिरूपं प्रभावमुच्चैस्तव गोपलोकाः |
Nar10.64.1-2वीश्वेश्वरं त्वामभिमत्य विश्वे नन्दः भवज्जातकमन्वपृच्छन् ||
Nar10.64.2-1गर्गोदितो निर्गदितो निजाय वर्गाय तातेन तव प्रभावः |
Nar10.64.2-2पूर्वाधिक्स्त्वय्यनुराग एषामैधिष्ट तावद्बहुमानभारः ||
Nar10.64.3-1ततोऽवमानोदिततत्त्वबोधः सुराधिराजः सह दिव्यगव्या |
Nar10.64.3-2उपेत्य तुष्ट स नष्टगर्वः स्पृष्ट्वा पदाब्जं मणिमौलिना ते ||
Nar10.64.4-1स्नेहस्तुनैस्त्वां सुरभिः पयोभिर्गोविन्दनामाङ्कितमभ्यषिञ्चत् |
Nar10.64.4-2एरावतोपाहृतदिव्यगङ्गापाथोभिरिन्द्रोऽपि च जातहर्षः ||
Nar10.64.5-1जगत्त्रयेशे त्वयि गोकुलेशतयाभिषिक्ते सति गोपवाटः |
Nar10.64.5-2नोकेऽपि वैकुण्ठपदेऽप्यलभ्यां श्रियं प्रपेदे भवतः प्रभावात् ||
Nar10.64.6-1कदाचिदन्तर्यमुनं प्रभाते स्नायन्पिता वारुणपूरुषेण |
Nar10.64.6-2नीतस्तमानेतुमगाः पुरीं त्वं तां वारुणीं कारणमर्त्यरूपः ||
Nar10.64.7-1ससम्भ्रमं तेन जलाधिपेन प्रपूजितस्त्वं प्रतिगृह्य तातम् |
Nar10.64.7-2उपागतस्तत्क्षणमात्मगेहं पितावदत्तच्चरितं निजेभ्यः ||
Nar10.64.8-1हरिं विनिश्चित्य भवन्तमेतान्भवत्पदालोकनबद्धतृष्णान् |
Nar10.64.8-2निरीक्ष्य विष्णो!परमं पदं तद्दुरापमन्यैस्त्वमदीदृशस्तान् ||
Nar10.64.9-1स्फुरत्परानन्दरसप्रवाहप्रपूर्णकैवल्यमहापयोधौ |
Nar10.64.9-2चिरं निमग्नाः खलु गोपसङ्घास्त्वयैव भूमन्!पुनरुद्धृतास्ते ||
Nar10.64.10-1करबदरवदेवं देव!कुत्रावतारे
Nar10.64.10-2निजपदमनवाप्यं दर्शितं भक्तिभाजाम् |
Nar10.64.10-3तदिह पशुपरूपी त्वं हि साक्षात्परात्मन्!
Nar10.64.10-4पवनपुरनिवासिन्!पाहि मामामयेभ्यः ||
Nar10.65.1-1गोपीजनाय कथितं नियमावसाने
Nar10.65.1-2मरोत्सवं त्वमथ साधयितुं प्रवृत्तः |
Nar10.65.1-3सान्द्रेण चान्द्रमहसा शिशिरीकृताशे
Nar10.65.1-4प्रापूरयो मुरलिकां यमुनावनान्ते ||
Nar10.65.2-1सम्भूर्छनाभिरुदितस्वरमण्डलाभिः
Nar10.65.2-2सम्मूर्छयन्तमखिलं भुवनान्तरालम् |
Nar10.65.2-3त्वद्वेणुनादमुपकर्ण्य विभो!तरुण्यस्-
Nar10.65.2-4तत्तादृशं कमपि चित्तविमोहमापुः ||
Nar10.65.3-1ता गेहकृत्यनिरतास्तनयप्रसक्ताः
Nar10.65.3-2कान्तोपसेवनपराश्च सरोरुहाक्ष्यः |
Nar10.65.3-3सर्वं विसृज्य मुरलीरवमोहितास्ते
Nar10.65.3-4कान्तारदेशमयि कान्ततनो!समेताः ||
Nar10.65.4-1काश्चिन्निजाङ्गपरिभूषणमादधाना
Nar10.65.4-2वेणुप्रणादमुपकर्ण्य कृतार्धभूषाः |
Nar10.65.4-3त्वामागता ननु तथैव विभूषिताभ्यस्-
Nar10.65.4-4ता एव संरुरुचिरे तव लोचनाय ||
Nar10.65.5-1हारं नितम्बभूवि काचन धारयन्ती
Nar10.65.5-2काञ्चीं च कण्ठभुवि देव!समागता त्वाम् |
Nar10.65.5-3हारित्वमात्मजघनस्य मुकुन्द!तुभ्यं
Nar10.65.5-4व्यक्तं बभाष इव मुग्धसुखी विशेषात् ||
Nar10.65.6-1काचित्कुचे पुनरसज्जितकञ्चुलीका
Nar10.65.6-2व्यामोहतः परवधूभिरलक्ष्यमाणा |
Nar10.65.6-3त्वामाययौ निरुपमप्रणयातिभार-
Nar10.65.6-4राज्याभिषेकविधये कलशीधरेव ||
Nar10.65.7-1काश्चिद्गृहात्किल निरेतुमपारयन्त्यस्-
Nar10.65.7-2त्वामेव देव!हृदये सुदृढं विभाव्य |
Nar10.65.7-3देहं विधूय परचित्सुखरूपमेकं
Nar10.65.7-4त्वामाविशन्परमिमा ननु धन्यधन्याः ||
Nar10.65.8-1जारात्मना न परमात्मतया स्मरन्त्यो
Nar10.65.8-2नार्यो गताः परमहंसगतिं क्षणेन |
Nar10.65.8-3तत्त्वां प्रकाशपरमात्मतनुं कथञ्चि-
Nar10.65.8-4च्चित्ते वहन्नमृतमश्रममश्नुवीय ||
Nar10.65.9-1अभ्यागताभिरभितो व्रजसुन्दरीभिर्-
Nar10.65.9-2मुग्धास्मितार्द्रवदनः करुणावलोकी |
Nar10.65.9-3निस्सीमकान्तिजलधिस्त्वमवेक्ष्यमाणो
Nar10.65.9-4विश्वैकहृद्य!हर मे परमेश!रोगान् ||
Nar10.66.1-1उपयातानां सुदृशां कुसुमायुधबाणपातविवशानाम् |
Nar10.66.1-2अभिवाञ्छितं विधातुं कृतमतिरपि ता जगाथ वाममिव ||
Nar10.66.2-1गगनगतं मुनिनिवहं श्रावयितुं जगिथ कुलवधूधर्मम् |
Nar10.66.2-2धर्म्यं खलु ते वचनं कर्म तु नो निर्मलस्य विश्वास्यम् ||
Nar10.66.3-1आकर्ण्य ते प्रतीपां वाणीमेणीदृशः परं दीनाः |
Nar10.66.3-2मा मा करुणासिन्धो!परित्यजेत्यतिचिरं विलेपुस्ताः ||
Nar10.66.4-1तासां रुदितैर्लपितैः करुणाकुलमानसो मुरारे!त्वम् |
Nar10.66.4-2ताभिः समं प्रवृत्तो यमुनापुलिनेषु काममभिरन्तुम् ||
Nar10.66.5-1चन्द्रकरस्यन्दलसत्सुन्दरयमुनातटान्तवीथीषु |
Nar10.66.5-2गोपीजनोत्तरीयैरापादितसंस्तरो न्यषीदस्त्वम् ||
Nar10.66.6-1सुमधुरनर्मालपनैः करसंग्रहणैश्च चुम्बनोल्लासैः |
Nar10.66.6-2गाढालिङ्गनसङ्गैस्त्वमङ्गनालोकमाकुलीचकृषे ||
Nar10.66.7-1वासोहरणदिने यद्वासोहरणं प्रतिश्रुतं तासाम् |
Nar10.66.7-2तदपि विभो!रसविवशस्वान्तानां कान्तसुभ्रुवामदधाः ||
Nar10.66.8-1कन्दलितधर्मलेशं कुन्दमृदुस्मेरवक्त्रपाथोजम् |
Nar10.66.8-2नन्दसुत!त्वां त्रिजगत्सुन्दरमुपगूह्य नन्दिता बालाः ||
Nar10.66.9-1विरहेश्वङ्गारमयः शृङ्गारमयश्च सङ्गमेऽपि त्वम् |
Nar10.66.9-2नितरामङ्गारमयस्तत्र पुनः सङ्गमेऽपि चित्रमिदम् ||
Nar10.66.10-1राधातुङ्गपयोधरसाधुपरिरम्भलोलुपात्मानम् |
Nar10.66.10-2आराधये भवन्तं पवनपुराधीश!शमय सकलगदान् ||
Nar10.67.1-1स्फुरत्परानन्दरसात्मकेन त्वया समासादितभोहलीलाः |
Nar10.67.1-2असीममानन्दभरं प्रपन्ना महान्तमापुर्मदमम्बुजाक्ष्यः ||
Nar10.67.2-1निलीयतेऽसौ मयि मय्यमायं रमापतिर्विश्वमनोभिरामः |
Nar10.67.2-2इतिस्म सर्वाः कलिताभिमाना निरीक्ष्य गोविन्द!तिरोहितोऽभूः ||
Nar10.67.3-1राधाभिधां तावदजातगर्वामतिप्रियां गोपवधूं मुरारे!|
Nar10.67.3-2भवानुपादाय गतो विदूरं तया सह स्वैरविहारकारी ||
Nar10.67.4-1तिरोहितेऽथ त्वयि जाततापाः समं समेताः कमलायताक्ष्यः |
Nar10.67.4-2वने वने त्वां परिमार्गयन्त्यो विषादमापुर्भगवन्नपारम् ||
Nar10.67.5-1हा चूत!हा चम्पक!कर्णिकार!हा मल्लिके!मालति!बालवल्ल्यः!|
Nar10.67.5-2किं वीक्षितो नो हृदयैकचोर इत्यादि तास्त्वत्प्रवणा विलेपुः ||
Nar10.67.6-1निरीक्षितोऽयं सखि!पङ्कजाक्षः पुरो ममेत्याकुलमालपन्ती |
Nar10.67.6-2त्वां भावनाचक्षुषि वीक्ष्य काचित्तापं सखीनां द्विगुणीचकार ||
Nar10.67.7-1त्वदात्मिकास्ता यमुनातटान्ते तवानुचक्रुः किल चेष्टितानि |
Nar10.67.7-2विचित्य भूयोऽपि तथैव मानात्त्वया वियुक्तां ददृशुश्च राधाम् ||
Nar10.67.8-1ततः समं ता विपिने समन्तात्तमोवतारावधि मार्गयन्त्यः |
Nar10.67.8-2पुनर्विमिश्रा यमुनातटान्ते भृशं विलेपुश्च जगुर्गुणांस्ते ||
Nar10.67.9-1तथाव्यथासंकुलमानसानां व्रजाङ्गनानां करुणैकसिन्धो!|
Nar10.67.9-2जगत्त्रयीमोहनमोहनात्मा त्वं प्रादुरासीरयि मन्दहासी ||
Nar10.67.10-1सन्दिग्धसन्धर्शनमात्मकान्तं त्वां वीक्ष्य तन्व्यः सहसा तदानीम् |
Nar10.67.10-2किं किं न चक्रुः प्रमदातिभारात्स त्वं गदात्पालय मारुतेश!||
Nar10.68.1-1तव विलोकनाद्गोप्पिकाजनाः प्रमदसंकुलाः पङ्कजेक्षण!|
Nar10.68.1-2अमृतधारय संप्लुता इव स्तिमिततां दधुस्त्वत्पुरोगताः ||
Nar10.68.2-1तदनु काचन त्वत्कराम्बुजं सपदि गृह्णती निर्विशङ्कितम् |
Nar10.68.2-2घनपयोधरे सन्निधाय सा पुलकसंवृता तस्थुषी चिरम् ||
Nar10.68.3-1तव विभो!पुरा कोमलं भुजं निजगलान्तरे पर्यवेष्टयत् |
Nar10.68.3-2गलसमुद्गतं प्राणमारुतं प्रतिनिरुन्धतीवातिहर्षुला ||
Nar10.68.4-1अपगतत्रपा कापि कामिनी तव मुखाम्बुजात्पूगचर्वितम् |
Nar10.68.4-2प्रतिगृहय्य तद्वक्त्रपङ्कजे निदधती गता पूर्णकामताम् ||
Nar10.68.5-1विकरुणो वने संविहाय मामपगतोऽसि का त्वामि स्पृशेत् |
Nar10.68.5-2इति सरोषया तवदेकया सजललोचनं वीक्षितो भवान् ||
Nar10.68.6-1इति मुदाकुलैर्वल्लवीजनैः सममुपागतो यामुने तटे |
Nar10.68.6-2मृदुकुचाम्बरैः कल्पितासने घुसृणभासुरे पर्यशोभथाः ||
Nar10.68.7-1कतिविधा कृपा केऽपि सर्वतो धृतदयोदयाः केचिदाश्रिते |
Nar10.68.7-2कतिचिदीदृशा मादृशेष्वत्पीत्यभिहितो भवान्वल्लवीजनैः ||
Nar10.68.8-1अयि कुमारिका!नैव शङ्क्यतां कठिनता मयि प्रेमकातरे |
Nar10.68.8-2मयि यु चेतसो वोऽनुवृत्तये कृतमिदं मयेत्युचिवान्भवान् ||
Nar10.68.9-1अयि निशम्यतां जीववल्लभाः!प्रियतमो जनो नेदृशो मम |
Nar10.68.9-2तदिह रम्यतां रम्ययामिनीष्वनुपरोधमित्यालपो विभो!||
Nar10.68.10-1इति गिराधिकं मोदमेदुरैर्व्रजवधूजनैः साकमारमन् |
Nar10.68.10-2कलितकौतुको रासखेलने गुरुपुरीपते!पाहि मां गदात् ||
Nar10.69.1-1केशपाशधृतपिच्छिकावितति सञ्चलन्मकरकुण्डलं
Nar10.69.1-2हारजालवनमालिकाललितमङ्गरागघनसौरभम् |
Nar10.69.1-3पीतचेलधृतकाञ्चिकाञ्चितमुदञ्चदंशुमणिनूपुरं
Nar10.69.1-4रासकेलिपरिभूषितं तव हि रूपमीश!कलयामहे ||
Nar10.69.2-1तावदेव कृतमण्डने कलितकञ्चुलीककुचमण्डले
Nar10.69.2-2गण्डलोलमणिकुण्डले युवतिमण्डलेऽथ परिमण्डले |
Nar10.69.2-3अन्तरा सकलसुन्दरीयुगलमिन्दिरारमण!सञ्चरन्
Nar10.69.2-4मञ्जुलां तदनु रासकेलिमयि कञ्जनाभ!समुपादधाः ||
Nar10.69.3-1वासुदेव!तव भासमानमिह रासकेलिरससौरभं
Nar10.69.3-2दूरतोऽपि खलु नारदागदितमाकलय्य कुतुकाकुला |
Nar10.69.3-3वेषभूषणविलासपेशलविलासिनीशतसमावृता
Nar10.69.3-4नाकतो युगपदागता वियति वेगतोऽथ सुरमण्डली ||
Nar10.69.4-1वेणुनादकृततानदानकलगानरागगतियोजना-
Nar10.69.4-2लोभनीयमृदुपादपातकृततालमेलनमनोहरम् |
Nar10.69.4-3पाणिसंक्वणितकङ्कणं च मुहुरंसलम्बितकराम्बुजंष्
Nar10.69.4-4श्रोणिबिम्बचलदम्बरं भजत रासकेलिरसडम्बरम् ||
Nar10.69.5-1श्रद्धया विरचितानुगानकृततारतारमधुरस्वरे
Nar10.69.5-2नर्तनेऽथ ललिताङ्गहारलुलिताङ्गहारमणिभूषणे |
Nar10.69.5-3सम्मदेन कृतपुष्पवर्षमलमुन्मिषद्दिविषदां कुलं
Nar10.69.5-4चिन्मये त्वयि निलीयमानमिव संमुमोह सवधूकुलम् ||
Nar10.69.6-1स्विन्नसन्नतनुवल्लरी तदनु कापि नाम पशुपाङ्गना
Nar10.69.6-2कान्तमंसमवलम्बते स्म तव तान्तिभारमुकुलेक्षणा |
Nar10.69.6-3काचिदाचलितकुन्तला नवपटीरसारनवसौरभं
Nar10.69.6-4वञ्चनेन तव सञ्चुचुम्ब भुजमञ्चितोरुपुलकाङ्कुरम् ||
Nar10.69.7-1कापि गण्डभुवि सन्निधाय निजगण्डमाकुलितकुण्डलं
Nar10.69.7-2पुण्यपूरनिधिरन्ववाप तव पूगचर्वितरसामृतम् |
Nar10.69.7-3इन्दिराविहृतिमन्दिरं भुवनसुन्दरं हि नटनान्तरे
Nar10.69.7-4त्वामवाप्य दधुरङ्गनाः किमु न सम्मदोन्मददशान्तरम् ||
Nar10.69.8-1गानमीश!विरतं क्रमेण किल वाद्यमेलनमुपारतं
Nar10.69.8-2ब्रह्मसम्मदरसाकुलाः सदसि केवलं ननृतुरङ्गनाः |
Nar10.69.8-3नाविदन्नपि च नीविकां किमपि कुन्तलीमपि च कञ्चुलीं
Nar10.69.8-4ज्योतिषामपि कदम्बकं दिवि विलम्बितं किमपरं ब्रुवे ||
Nar10.69.9-1मोदसीम्नि भुवनं विलाप्य विहृतिं समाप्य च ततो विभो!
Nar10.69.9-2केलिसम्प्तृदितनिर्मलाङ्गनवघर्मलेशसुभगात्मनाम् |
Nar10.69.9-3मन्मथासहनचेतसां पशुपयोषितां सुकृतचोदितस्-
Nar10.69.9-4तावदाकलितमूर्तिरादधिथ मारवीरपरमोत्सवान् ||
Nar10.69.10-1केलिभेदपरिलोलिताभिरतिलालिताभिरबलालिभिः
Nar10.69.10-2स्वैरमीश!ननु सूरजापयसि चारु नाम विहृतिं व्यधाः |
Nar10.69.10-3काननेऽपि च विसारिशीतलकिशोरमारुतमनोहरे
Nar10.69.10-4सूनसौरभमये विलेसिथ विलासिनीशतविमोहनम् ||
Nar10.69.11-1कामिनीरिति हि यामिनीषु खलु कामनीयकनिधे!भवान्
Nar10.69.11-2पूर्णसम्मदरसार्णवं कमपि योगिगम्यमनुभावयन् |
Nar10.69.11-3ब्रह्मशङ्करमुखानपीह पशुपाङ्गनासु बहुमानयन्
Nar10.69.11-4भक्तलोकगमनीयरूप!कमनीय!कृष्ण!परिपाहि माम् ||
Nar10.70.1-1इति त्वयि रसाकुलं रमितवल्लभे वल्लवाः
Nar10.70.1-2कदापि पुनरम्बिकाकमितुरम्बिकाकानने |
Nar10.70.1-3समेत्य भवता समं निशि निषेव्य दिव्योत्सवं
Nar10.70.1-4सुखं सुषुपुरग्रसीद्व्रजपमुग्रनागस्तदा ||
Nar10.70.2-1समुन्मुखमथोल्मुकैरभिहतेऽपि तस्मिन्बला-
Nar10.70.2-2दमुञ्चति भवत्पदे न्यपति पाहि पाहीति तैः |
Nar10.70.2-3तदा खलु पदा भवान्समुपगम्य पस्पर्श तं
Nar10.70.2-4बभौ स च निजां तनुं समुपसाद्य वैद्याधरीम् ||
Nar10.70.3-1सुदर्शनधर!प्रभो!ननु सुदर्शनाख्योऽस्म्यहं
Nar10.70.3-2सुनीन्क्वचिदपाहसं त इह मां व्यधुर्वाहसम् |
Nar10.70.3-3भवत्पदसमर्पणादमलतां गतोऽस्मीत्यसौ
Nar10.70.3-4स्तुवन्निजपदं ययौ व्रजपदं च गोपा मुदा ||
Nar10.70.4-1कदापि खलु सीरिणा विहरति त्वयि स्त्रीजनैर्-
Nar10.70.4-2जहार्धनदानुगः स किल शङ्खचूडोऽबलाः |
Nar10.70.4-3अतिद्रुतमनुद्रुतस्तमथ मुक्तनारीजनं
Nar10.70.4-4रुरोजिथ शिरोमणिं हलभृते च तस्याददाः ||
Nar10.70.5-1दिनेषु च सुहृज्जनैः सह वनेषु लीलापरं
Nar10.70.5-2मनोभवमनोहरं रसितवेणुनादामृतम् |
Nar10.70.5-3भवन्तममरीदृशाममृतपारणादायिनं
Nar10.70.5-4विचिन्त्य किमु नालपन्विरहतापिता गोपिकाः ||
Nar10.70.6-1भोजराजभृतकस्त्वथ कश्चित्कष्टदुष्टपथदृष्टिररिष्टः |
Nar10.70.6-2निष्ठुराकृतिरपष्ठुनिनादस्तिष्ठते स्म भवते वृषरूपी ||
Nar10.70.7-1शाक्वरोऽथ जगतीधृतिहारी मूर्तिमेष बृहतीं प्रदधानः |
Nar10.70.7-2पङ्क्तिमाशु परिघूर्ण्य पशूनां छन्दसां निधिमवाप भवन्तम् ||
Nar10.70.8-1तुङ्गशृङ्गमुखमाश्वभियन्तं ससङ्गृहय्य रभसादभियं तम् |
Nar10.70.8-2भद्ररूपमपि दैत्यमभद्रं मर्दयन्नमदयः सुरलोकम् ||
Nar10.70.9-1चित्रमद्य भगवन्!वृषघातात्सुस्थिराजनि वृषस्थितिरुर्व्याम् |
Nar10.70.9-2वर्धते च वृषचेतसि भूयान्मोद इत्यभिनुतोऽसि सुरस्त्वम् ||
Nar10.70.10-1औक्षकाणि!परिधावत दूरं वीक्ष्यतामयमिहोक्षविभेदी |
Nar10.70.10-2इत्थमात्तहसितैः सह गोपैर्गेहगस्त्वमव वातपुरेश!||
Nar10.71.1-1यत्नेषु सर्वेष्वपि नावकेशी केशी स भोजेशितुरिष्टबन्धुः |
Nar10.71.1-2त्वं सिन्धुजावाप्य इतीव मत्वा संप्राप्तवान्सिन्धुजवाजिरूपः ||
Nar10.71.2-1गन्धर्वतामेष गतोऽपि रूक्षैर्नादैः समुद्वेजितसर्वलोकः |
Nar10.71.2-2भवद्विलोकावधि गोपवाटीं प्रमर्द्य पापः पुनरा पतत्त्वाम् ||
Nar10.71.3-1तार्क्ष्यार्पिताङ्घ्रेस्तव तार्क्ष्य एष चिक्षेप वक्षोभुवि नाम पादम् |
Nar10.71.3-2भृगोः पदाघातकथं निशम्य स्वेनापि शक्यं तदितीव मोहात् ||
Nar10.71.4-1प्रवञ्चयन्नस्य खुराञ्चलं द्रागमुं च विक्षेपिथ दूरदूरम् |
Nar10.71.4-2संमूर्छितोऽपि हतिमूर्छितेन क्रोधोष्मणा खादितुमाद्रुतस्त्वाम् ||
Nar10.71.5-1त्वं वाहदण्डे कृतधीश्च बाहादण्डं न्यधास्तस्य मुखे तदानीम् |
Nar10.71.5-2तद्वृद्धिरुद्धश्वसनो गतासुः सप्तीभवन्नप्ययमैक्यमागात् ||
Nar10.71.6-1आलम्भमात्रेण पशोः सुराणां प्रसादके नूत्न इवाश्वमेधे |
Nar10.71.6-2कृते त्वया हर्षवशात्सुरेन्द्रास्त्वां तुष्टुषुः केशवनामधेयम् ||
Nar10.71.7-1कंसाय ते शौरिसुतत्वमुक्त्वा तं तद्वधोत्कं प्रतिरुध्य वाचा |
Nar10.71.7-2प्राप्तेन केशिक्षपणावसाने श्रीनारदेन त्वमभिष्टुतोऽभूः ||
Nar10.71.8-1कदापि गोपैः सह काननान्ते निलायनक्रीडनलोलुपं त्वाम् |
Nar10.71.8-2मयात्मजः प्राप दुरन्तमायो व्योमाभिधो व्योमचरोपरोधी ||
Nar10.71.9-1स चोरपालायितवल्लवेषु चोरायितो गोपशिशून्पशूंश्च |
Nar10.71.9-2गुहासु कृत्वा पिदधे शिलाभिस्त्वया च बुद्ध्वा परिमर्दितोऽभूत् ||
Nar10.71.10-1एवंविधैश्चाद्भुतकेलिभेदैरानन्दमूर्छामतुलां व्रजस्य |
Nar10.71.10-2पदे पदे नूतनयन्नसीमं परात्मरूपिन्!पवनेश!पायाः ||
Nar10.72.1-1कंसोऽथ नारदगिरा व्रजवासिनं त्वा-
Nar10.72.1-2माकर्ण्य दीर्णहृदयः स हि गान्दिनेयम् |
Nar10.72.1-3आहूय कार्मुकमखच्छलतो भवन्त-
Nar10.72.1-4मानेतुमेनमहिनोदहिनाथशायिन्!||
Nar10.72.2-1अक्रूर एष भवदङ्घ्रिपरश्चिराय
Nar10.72.2-2त्वद्दर्शनाक्षममनाः क्षितिपालभीत्या |
Nar10.72.2-3तस्याज्ञयैव पुनरीक्षितुमुद्यतस्त्वाम्-
Nar10.72.2-4आनन्दभारमतिभूरितरं बभार ||
Nar10.72.3-1सोऽयं रथेन सुकृती भवतो निवासं
Nar10.72.3-2गच्छन्मनोरथगणांस्त्वयि धार्यमाणान् |
Nar10.72.3-3आस्वादयन्मुहुरपायभयेन दैवं
Nar10.72.3-4संप्रार्थयन्पथि न किञ्चिदपि व्यजानात् ||
Nar10.72.4-1द्रक्ष्यामि देवशतगीतगतिं म्पुमांसं
Nar10.72.4-2स्प्रक्ष्यामि किंस्विदपिनाम परिष्वजेय |
Nar10.72.4-3किं वक्ष्यते स खलु मां क्व नु वीक्षितः स्या-
Nar10.72.4-4दित्थं निनाय स भवन्मयमेव मार्गम् ||
Nar10.72.5-1भूयः क्रमादभिविशन्भवदङ्घ्रिपूतं
Nar10.72.5-2बृन्दावनं हरविरिञ्चसुराभिवन्द्यम् |
Nar10.72.5-3आनन्दमग्न इव लग्न इव प्रमोहे
Nar10.72.5-4किं किं दशान्तरमवाप न पङ्कजाक्ष!||
Nar10.72.6-1पश्यन्नवन्दत भवद्विहृतिस्थलानि
Nar10.72.6-2पांसुष्ववेष्टत भवच्चरणाङ्कितेषु |
Nar10.72.6-3किं ब्रूमहे बहुजना हि तदापि जाता
Nar10.72.6-4एवं तु भक्तिरला विरलाः परात्मन्!||
Nar10.72.7-1सायं स गोपभवनानि भवच्चरित्र-
Nar10.72.7-2गीतामृतप्रसृतकर्णरसायनानि |
Nar10.72.7-3पश्यन्प्रमोदसरितेव किलोह्यमानो
Nar10.72.7-4गच्छन्भवद्भवन न्निधिमन्वयासीत् ||
Nar10.72.8-1तावद्ददर्श पशुदोहविलोकलोलं
Nar10.72.8-2भक्तोत्तमागतिमिव प्रतिपालयन्तम् |
Nar10.72.8-3भूमन्!भवन्तमयमग्रजवन्तमन्तर्-
Nar10.72.8-4ब्रह्मानुभूतिरससिन्धुमिवोद्वमन्तम् ||
Nar10.72.9-1सायन्तनाप्लवविशेषविविक्तगात्रौ
Nar10.72.9-2द्वौ पीतनीलरुचिराम्बरलोभनीयौ |
Nar10.72.9-3नातिप्रपञ्चधृतभूषणचारुवेषौ
Nar10.72.9-4मन्दस्मितार्द्रवदनौ स युवां ददर्श ||
Nar10.72.10-1दूराद्रथात्समवरुह्य नमन्तमेन-
Nar10.72.10-2मुत्थाप्य भक्तकुलमौलिमथोपगूहन् |
Nar10.72.10-3हर्षान्मिताक्षरगिरा कुशलानुयोगी
Nar10.72.10-4पाणिं प्रग्र्ह्य सबलोऽथ गृहं निनेथ ||
Nar10.72.11-1नन्देन साकममितादरमर्चयित्वा
Nar10.72.11-2तं यादवं तदुदितां निशमय्य वार्ताम् |
Nar10.72.11-3गोपेषु भूपतिनिदेशकथां निवेद्य
Nar10.72.11-4नानाकथाभिरिह तेन निशामनैषीः ||
Nar10.72.12-1चन्द्रागृहे किमुत चन्द्रभगागृहे नु
Nar10.72.12-2राधागृहे नु भवने किमु मैत्रविन्दे |
Nar10.72.12-3धूर्त्तो विलम्बत इति प्रमदाभिरुच्चै-
Nar10.72.12-4राशङ्कितो निशि मरुत्पुरनाथ!पायाः ||
Nar10.73.1-1मिशमय्य तवाथ यानवार्तां भृशमार्ताः पशुपालबालिकास्ताः |
Nar10.73.1-2किमिदं किमिदं कथं न्वितीमाः समवेताः परिदेवितान्यकुर्वन् ||
Nar10.73.2-1करुणानिधिरेषु नन्दसूनुः कथमस्मान्विसृजेदनन्यनाथाः |
Nar10.73.2-2बत नः किमु दैवमेवमासीदिति तास्त्वद्गतमानसा विलेपुः ||
Nar10.73.3-1चरमप्रहरे प्रतिष्ठमानः सह पित्रा निजमित्रमण्डलैश्च |
Nar10.73.3-2परितापभरं नितम्बिनीनां शमयिष्यन्व्यमुचः सखायमेकम् ||
Nar10.73.4-1अचिरादुपयामि सन्निधिं वो भविता साधु मयैव सङ्गमश्रीः |
Nar10.73.4-2अमृताम्बुनिधौ निमज्जयिष्ये द्रुतमित्याश्वसिता वधूरकार्षीः ||
Nar10.73.5-1सविषादभरं सयाञ्चमुच्चैरतिदूरं वनिताभिरीक्ष्यमाणः |
Nar10.73.5-2मृदु तद्दिशि पातयन्नपाङ्गान्सबलोऽक्रूररथेन निर्गतोऽभूः ||
Nar10.73.6-1अनसा बहुलेन वल्लवानां मनसा चनुगतोऽथ वल्लभानाम् |
Nar10.73.6-2वनमार्तभृगं विषण्णवृक्षं समतीतो यमुनातटीमयासीः ||
Nar10.73.7-1मियमाय निमज्ज्य वारिणि त्वमभिवीक्ष्याथ रथेऽपि गान्दिनेयः |
Nar10.73.7-2विवशोऽजनि किन्न्विदं विभोस्ते ननु चित्रं त्ववलोकनं समन्तात् ||
Nar10.73.8-1पुनरेष निमज्ज्य पुण्यशाली पुरुषं त्वां परमं भुमङ्गभोगे |
Nar10.73.8-2अरिकम्बुगदाम्बुजैः स्फुरन्तं सुरसिद्धोघपरीतमालुलोके ||
Nar10.73.9-1स तदा परमात्मसौख्यसिन्धौ विनिमग्नः प्रणुवन्प्रकारभेदैः |
Nar10.73.9-2अविलोक्य पुनश्च हर्षसिन्धोरनुवृत्त्या पुलकावृतो ययौ त्वाम् ||
Nar10.73.10-1किमु शीतलिमा महान्जले यत्पुलकोऽसाविति चोदितेन तेन |
Nar10.73.10-2अतिहर्षनिरुत्तरेण सार्धं रथवासी पवनेश!पाहि मां त्वम् ||
Nar10.74.1-1सम्प्राप्तो मथुरां दिनार्धविगमे तत्रान्तरस्मिन्वस-
Nar10.74.1-2न्नारामे विहिताशनः सखिजनैर्यातः पुरीमीक्षितुम् |
Nar10.74.1-3प्रापो राजपथं चिरश्रुतिधृतव्यालोककौतूहल-
Nar10.74.1-4स्त्रीपुंसोद्यदगण्यपुण्यनिगलैराकृष्यमाणो नु किम् ||
Nar10.74.2-1त्वत्पादद्दुतिवत्सरागसुभगास्त्वन्मूर्तिवद्योषितः
Nar10.74.2-2सम्प्राप्ता विलसत्पयोधररुचो लोला भवद्दृष्टिवत् |
Nar10.74.2-3हारिण्यस्त्वदुरस्स्थलीवदयि ते मन्दस्मितप्रौढिव-
Nar10.74.2-4न्नैर्मल्योल्लसिताः कचौघरुचिवद्राजत्कलापाश्रिताः ||
Nar10.74.3-1तासामाकलयन्नपाङ्गवलनैर्मोदं प्रहर्षाद्भुत-
Nar10.74.3-2व्यालोलेषु जनेषु तत्र रजकं कञ्चित्पटीं प्रार्थयन् |
Nar10.74.3-3कस्ते दास्यति राजकीयवसनं याहीति तेनोदितः
Nar10.74.3-4सद्यस्तस्य करेण शीर्षमहृथाः सोऽप्याप पुण्यां गतिम् ||
Nar10.74.4-1भूयो वायकमेकमायतमतिं तोषेण वेषोचितं
Nar10.74.4-2दाश्वांसं स्वपदं निनेथ सुकृतं को वेद जीवात्मनाम् |
Nar10.74.4-3मालाभिः स्तबकैः स्तवैरपि पुनर्मालाकृता मानितो
Nar10.74.4-4भक्तिं तेन वृतां दिदेशिथ परां लक्ष्मीं च लक्ष्मीपते!||
Nar10.74.5-1कुब्जामब्जविलोचनां पथि पुनर्दृष्ट्वाङ्गरागे तया
Nar10.74.5-2दत्ते साधु किलाङ्गरागमददास्तस्या महान्तं हृदि |
Nar10.74.5-3चित्तस्थामृजुतामथ प्रथयितुं गात्रेऽपि तस्याः स्फुटं
Nar10.74.5-4गृह्णन्मञ्जु करेण तामुदनयस्तावज्जगत्सुन्दरीम् ||
Nar10.74.6-1तावन्निश्चितवैभवास्तव विभो!नात्यन्तपापा जना
Nar10.74.6-2यत्किञ्चिद्ददते स्म शक्त्यनुगुणं ताम्बुलमाल्यादिकम् |
Nar10.74.6-3गृह्णानः कुसुमादि किञ्चन तदा मार्गे निबद्धाञ्जलिर्-
Nar10.74.6-4नातिष्ठं बत यतोऽद्य विपुलामार्तिं व्रजामि प्रभो!||
Nar10.74.7-1एष्यामीति विमुक्तयापि भगवन्नालेपदात्र्या तया
Nar10.74.7-2दूरात्कातरया निरीक्षितगतिस्त्वं प्राविशो गोपुरम् |
Nar10.74.7-3आघोषानुमितत्वदागममहाहर्षोल्ललद्देवकी-
Nar10.74.7-4वक्षोजप्रगलत्पयोरसमिषात्त्वत्कीर्तिरन्तर्गता ||
Nar10.74.8-1आविष्टो नगरीं महोत्सववतीं कोदण्डशालां व्रजन्
Nar10.74.8-2माधुर्येण नु तेजसा नु पुरुषैर्दूरेण दत्तान्तरः |
Nar10.74.8-3स्रग्भिर्भूषितमर्चितं वरधनुर्मा मेति वादात्पुरः
Nar10.74.8-4प्रागृह्णाः समरोपयः किल समाक्राक्षीरभाङ्क्षीरपि ||
Nar10.74.9-1श्वः कंसक्षपणोत्सवस्य पुरतः प्रारम्भतूर्योपम-
Nar10.74.9-2श्चापध्वंसमहाध्वनिस्तव विभो!देवानरोमाञ्चयत् |
Nar10.74.9-3कंसस्यापि च वेपथुस्तदुदितः कोदण्डखण्डद्वयी-
Nar10.74.9-4चण्डाभ्याहतरक्षिपूरुषरवैरुत्कूलितोऽभूत्त्वया ||
Nar10.74.10-1शिष्टैर्दुष्टजनैश्च दृष्टमिहिमा प्रीत्या च भीत्या ततः
Nar10.74.10-2संपश्यन्पुरसम्पदं प्रविवरन्सायं गतो वाटिकाम् |
Nar10.74.10-3श्रीदाम्ना सह राधिकाविरहजं खेदं वदन्प्रस्वप-
Nar10.74.10-4न्नानन्दन्नवतारकार्यघटनाद्वातेश!संरक्ष माम् ||
Nar10.75.1-1प्रातः सन्त्रस्तभोजक्षितिपतिवचसा प्रस्तुते मल्लतूर्ये
Nar10.75.1-2सङ्घे राज्ञां च मञ्चानभिययुषि गते नन्दगोपेऽपि हर्म्यम् |
Nar10.75.1-3कंसे सौधाधिरूढे त्वमपि सहबलः सानुगश्चारुवेषो
Nar10.75.1-4रङ्गद्वारं गतोऽभूः कुपितकुवलयापीडनागावलीढम् ||
Nar10.75.2-1पापिष्ठापेहि मार्गाद्द्रुतमिति वचसा निष्टुरक्रुद्धबुद्धे-
Nar10.75.2-2रग्बष्ठस्य प्रणोदादधिकजवजुषा हस्तिना गृह्यमाणः |
Nar10.75.2-3केलीमुक्तोऽथ गोपीकुचकलशचिरस्पर्धिनं कुम्भमस्य
Nar10.75.2-4व्याहत्यालीयथास्त्वं चरणभुवि पुनर्निर्गतो वल्गुहासी ||
Nar10.75.3-1हस्तप्राप्योऽप्यगम्यो झटिति मुनिजनस्येव धावन्गजेन्द्रं
Nar10.75.3-2क्रीडन्नापत्य भूमौ पुनरभिपततस्तस्य दन्तं सजीवम् |
Nar10.75.3-3मूलादुन्मूल्य तन्मूलगमहितमहामौक्तिकान्यात्ममित्रे
Nar10.75.3-4प्रादास्त्वं हारमेभिर्ललितविरचितं राधिकायै दिशेति ||
Nar10.75.4-1गृह्णानं दन्तमंसे युतमथ हलिना रङ्गमङ्गाविशन्तं
Nar10.75.4-2त्वां मङ्गल्याङ्गभङ्गीरभसहृतमनोलोचना वीक्ष्य लोकाः |
Nar10.75.4-3हंहो धन्यो नु नन्दो नहि नहि पशुपालाङ्गना नो यशोदा
Nar10.75.4-4नो नो धन्येक्षणाः स्मस्त्रिजगति वयमेवेति सर्वे शशंसुः ||
Nar10.75.5-1पूर्णं ब्रह्मैव साक्षान्निरवधिपरमानन्दसान्द्रप्रकाशं
Nar10.75.5-2गोपेषु त्वं व्यलासीर्न खलु बहुजनैस्तावदावेदितोऽभूः |
Nar10.75.5-3दृष्ट्वाथ त्वां तदेदंप्रथममुपगते पुण्यकाले जनौघाः
Nar10.75.5-4पूर्णानन्दा विपापाः सरसमभिजगुस्त्वत्कृतानि स्मृतानि ||
Nar10.75.6-1चाणूरो मल्लवीरस्तदनु नृपगिरा मुष्टिको मुष्टिशाली
Nar10.75.6-2त्वां रामं चाभिपेदे झटझटिति मिथो मुष्टिपातातिरूक्षम् |
Nar10.75.6-3उत्पातापातनाकर्षणविविधरणान्यासतां तत्र चित्रं
Nar10.75.6-4मृत्योः प्रागेव मल्लप्रभुरगमदयं भूरिशो बन्धमोक्षान् ||
Nar10.75.7-1हा धिक्कष्टं कुमआरौ सुललितवपुषौ मल्लवीरौ कठोरौ
Nar10.75.7-2न द्रक्ष्यामो व्रजामस्त्वरितमिति जने भाषमाणे तदानीम् |
Nar10.75.7-3चाणूरं तं कराद्भ्रामणविगलदसुं पोथयामासिथोर्व्यां
Nar10.75.7-4पिष्टोऽभून्मुष्टिकोऽपि द्रुतमथ हलिना नष्टशिष्टैर्दधावे ||
Nar10.75.8-1कंसः संवार्यं त्ङ्र्यं खलमतिरविदन्कार्यमार्यान्पित्ंस्ता-
Nar10.75.8-2नाहन्तुं व्याप्तमूर्तेस्तव च समशिषद्मञ्चमञ्चन्नुदञ्चत-
Nar10.75.8-3खङ्गव्यावल्गदुस्संग्रहमपि च हठात्प्राग्रहीरौग्रसेनिम् ||
Nar10.75.9-1सद्यो निष्पिष्टसन्धिं भुवि नरपतिमापात्य तस्योपरिष्टात्
Nar10.75.9-2त्वय्यापात्ये तदैव त्वदुपरि पतिता नाकिनां पुष्पवृष्टिः |
Nar10.75.9-3किं किं ब्रूमस्तदानीं सततमपि भिया त्वद्गतात्मा स भेजे
Nar10.75.9-4सायुज्यं त्वद्वधोत्था परम!परमियं वासना कालनेमेः ||
Nar10.75.10-1तद्भ्रात्नष्ट पिष्ट्वा द्रुतमथ पितरौ सन्नमन्नुग्रसेनं
Nar10.75.10-2कृत्वा राजानमुच्चैर्यदुकुलमखिलं मोदयन्कामदानैः |
Nar10.75.10-3भक्तानामुत्तमं चोद्धवममरगुरोराप्तनीतिं सखायं
Nar10.75.10-4लब्ध्वा तुष्टो नगर्यां पवनपुरपते!रुन्धि मे सर्वरोगान् ||
Nar10.76.1-1गत्वा सान्दीपनिमथ चतुष्षष्टिमात्रैरहोभिः
Nar10.76.1-2सर्वज्ञस्त्वं सह मुसलिना सर्वविद्यां गृहीत्वा |
Nar10.76.1-3पुत्रं नष्टं यमनिलयनादाहृतं दक्षिणार्थं
Nar10.76.1-4दत्त्वा तस्मै निजपुरमगा नादयन्पाञ्चजन्यम् ||
Nar10.76.2-1स्मृत्वा स्मृत्वा पशुपसुदृशः प्रेमभारप्रणुन्नाः
Nar10.76.2-2कारुण्येन त्वमपि विवशः प्रहिणोरुद्धवं तम् |
Nar10.76.2-3किञ्चामुष्मै परमसुहृदे भक्तवर्याय तासां
Nar10.76.2-4भक्त्युद्रेकं सकलभुवने दुर्लभं दर्शयिष्यन् ||
Nar10.76.3-1त्वन्माहात्म्यप्रथिमपिशुनं गोकुलं प्राप्य सायं
Nar10.76.3-2त्वद्वार्ताभिर्बहु स रमयामास नन्दं यशोदाम् |
Nar10.76.3-3प्रातर्दृष्ट्वा मणिमयरथं शङ्किताः पङ्कजाक्ष्यः
Nar10.76.3-4श्रुत्वौ प्राप्तं भवदनुचरं त्यक्तकार्याः समीयुः ||
Nar10.76.4-1दृष्ट्वा चैनं त्वदुपमलसद्वेषभूषाभिरामं
Nar10.76.4-2स्मृत्वा स्मृत्वा तव विलसितान्युच्चकैस्तानि तानि |
Nar10.76.4-3रुद्धालापाः कथमपि पुनर्गद्गदां वाचमूचुः
Nar10.76.4-4सौजन्यादीन्निजपरभिदामप्यलं विस्मरन्त्यः ||
Nar10.76.5-1श्रीमन्!किं त्वं पितृजनकृते प्रेषितो निर्दयेन
Nar10.76.5-2क्वासौ कान्तो नगरसुदृशां हा हरे!नाथ!पायाः |
Nar10.76.5-3आश्लेषाणाममृतवपुषो हन्त ते चुम्बनाना-
Nar10.76.5-4मुन्मादानां कुहकवचसां विस्मरेत्कान्त!का वा ||
Nar10.76.6-1रासक्रीडालुलितललितं विश्लथत्केशपाशं
Nar10.76.6-2मन्दोद्भिन्नश्रमजलकणं लोभनीयं त्वदङ्गम् |
Nar10.76.6-3कारुण्याब्धे!सकृदपि समालिङ्गितुं दर्शयेति
Nar10.76.6-4प्रेमोन्मादाद्भुवनमदन!त्वत्प्रियास्त्वां विलेपुः ||
Nar10.76.7-1एवम्प्रायैर्विवशवचनैराकुला गोपिकास्तास्-
Nar10.76.7-2त्वत्सन्देशैः प्रकृतिमनयत्सोऽथ विज्ञानगर्भैः |
Nar10.76.7-3भूयस्ताभिर्मुदितमतिभिस्त्वन्मयीभिर्वधूभिस्-
Nar10.76.7-4तत्तद्वार्तासरसमनयत्कानिचिद्वासराणि ||
Nar10.76.8-1त्वत्प्रोद्गाणैः सहितमनिशं सर्वतो गेहकृत्यं
Nar10.76.8-2त्वद्वार्तैव प्रसरति मिथः सैव चोत्स्वापलापाः |
Nar10.76.8-3चेष्टाः प्रायस्त्वदनुकृतयस्त्वन्मयं सर्वमेवं
Nar10.76.8-4दृष्ट्वा तत्र व्यमुहदधिकं विस्मयादुद्धवोऽयम् ||
Nar10.76.9-1राधाया मे प्रियतममिदं मत्प्रियैवं ब्रवीति
Nar10.76.9-2त्वं किं मौनं कलयसि सखे!मानिनी मत्प्रियेव |
Nar10.76.9-3इत्याद्येव प्रवदति सखि!त्वत्प्रियो निर्जने मा-
Nar10.76.9-4मित्थंवादैररमयदयं त्वत्प्रियामुत्पलाक्षीम् ||
Nar10.76.10-1एष्यामि द्रागनुपगमनं केवलं कार्यभाराद्
Nar10.76.10-2विश्लेषेऽपि स्मरणदृढतासम्भवान्मास्तु खेदः |
Nar10.76.10-3ब्रह्मानन्दे मिलति नचिरात्सङ्गमो वा वियोगस्-
Nar10.76.10-4तुल्यो वः स्यादिति तव गिरा सोऽकरोन्निर्व्यथास्ताः ||
Nar10.76.11-1एवं भक्तिः सकलभुवने नेशिता न श्रुता वा
Nar10.76.11-2किं शास्त्रौघैः किमिह तपसा गोपिकाभ्यो नमोऽस्तु |
Nar10.76.11-3इत्यानन्दाकुलमुपगतं गोकुलादुद्धवं तं
Nar10.76.11-4दृष्ट्वा हृष्टो गुरुपुरपते!पाहि मामामयौघात् ||
Nar10.77.1-1सैरन्ध्र्यास्तदनु चिरं स्मरातुराया
Nar10.77.1-2यातोऽभूः सललितमुद्धवेन सार्धम् |
Nar10.77.1-3आवासं त्वदुपगमोत्सवं सदैव
Nar10.77.1-4ध्यायन्त्याः प्रतिदिनवाससज्जिकायाः ||
Nar10.77.2-1उपगते त्वयि पूर्णमनोरथां
Nar10.77.2-2प्रमदसम्भ्रमकम्प्रपयोधराम् |
Nar10.77.2-3विविधमाननमादधतीं मुदा
Nar10.77.2-4रहसि तां रमयञ्चकृषे सुखम् ||
Nar10.77.3-1पृष्टा वरं पुनरसाववृणोद्वराकी
Nar10.77.3-2भूयस्त्वया सुरतमेव निशान्तरेषु |
Nar10.77.3-3सायुज्यमस्त्विति वदेद्बुध एव कामं
Nar10.77.3-4सामीप्यमस्त्वनिशामित्यपि नाब्रवीत्किम् ||
Nar10.77.4-1ततो भवान्देव!निशासु कासुचिन्-
Nar10.77.4-2मृगीदृशं तां निभृतं विनोदयन् |
Nar10.77.4-3अदादुपश्लोक इति श्रुतं सुतं
Nar10.77.4-4स नारदात्सात्त्वततन्त्रविद्बभौ ||
Nar10.77.5-1अक्रूरमन्दिरमितोऽथ बलोद्धवाभ्या-
Nar10.77.5-2मभ्यर्चितो बहु नुतो मुदितेन तेन |
Nar10.77.5-3एनं विसृज्य विपिनागतपाण्डवेय-
Nar10.77.5-4वृत्तं विवेदिथ तथा धृतराष्ट्रचेष्टाम् ||
Nar10.77.6-1विघाताज्जामातुः परमसुहृदो भोजनृपतेर्-
Nar10.77.6-2जरासन्धे रुन्धत्यनवधिरुषान्धेऽथ मथुराम् |
Nar10.77.6-3रथाद्यैर्द्योलब्धैः कतिपयबलस्त्वं बलयुत-
Nar10.77.6-4स्त्रयोविंशत्यक्षौहिणि तदुपनीतं समहृथाः ||
Nar10.77.7-1बद्धं बलादथ बलेन बलोत्तरं त्वं
Nar10.77.7-2भूयो बलोद्यमरसेन मुमोचिथैनम् |
Nar10.77.7-3निश्शेषदिग्जयसमाहृतविश्वसैन्यात्
Nar10.77.7-4कोऽन्यस्ततो हि बलपौरुषवांस्तदानीम् ||
Nar10.77.8-1भग्नः स लग्नहृदयोऽपि नृपैः प्रणुन्नो
Nar10.77.8-2युद्धं त्वया व्यधित षोडशकृत्व एवम् |
Nar10.77.8-3अक्षौहिणीः शिव शिवास्य जघन्थ विष्णो!
Nar10.77.8-4सम्भूय सैकनवतित्रिशतं तदानीम् ||
Nar10.77.9-1अष्टादशेऽस्य समरे समुपेयुषि त्वं
Nar10.77.9-2दृष्ट्वा पुरोऽथ यवनं यवनत्रिकोट्या |
Nar10.77.9-3त्वष्ट्रा विधाप्य पुरमाशु पयोधिमध्ये
Nar10.77.9-4तत्राथ योगबलतः स्वजनाननैषीः ||
Nar10.77.10-1पद्भ्यां त्वं पद्ममाली चकितिव पुरान्निर्गतो धावमानो
Nar10.77.10-2म्लेच्छेशेनानुयातो वधसुकृतविहीनेन शैले न्यलैषीः |
Nar10.77.10-3सुप्तेनाङ्घ्र्याहतेन द्रुतमथ मुचुकुन्देन भस्मीकृतेऽस्मिन्
Nar10.77.10-4भूपायास्मै गुहान्ते सुललितवपुषा तस्थिषे भक्तिभाजे ||
Nar10.77.11-1एक्ष्वाकोऽहं विरक्तोऽस्म्यखिलनृपसुखे त्वत्प्रसादैककाङ्क्षी
Nar10.77.11-2हा देवेति स्तुवन्तं वरविततिषु तं निस्पृहं वीक्ष्य हृष्यन् |
Nar10.77.11-3मुक्तेस्तुल्यां च भक्तिं धुतसकलमलं मोक्षमप्याशु दत्त्वा
Nar10.77.11-4कार्यं हिंसाविशुद्ध्यै तप इति च तदा प्रार्थ लोकप्रतीत्यै ||
Nar10.77.12-1तदनु मथुरां गत्वा हत्वा चमूं यवनाहृतां
Nar10.77.12-2मगधपतिना मार्गे सैन्यैः पुरेव निवारितः |
Nar10.77.12-3चरमविजयं दर्पायास्मै प्रदाय पलायितो
Nar10.77.12-4जलधिनगरीं यातो वातालयेश्वर!पाहि माम् ||
Nar10.78.1-1त्रिदिववर्धकिवर्धितकौशलं त्रिदश्दत्तसमस्तविभूतिमत् |
Nar10.78.1-2जलधिमध्यगतः त्वमभूषयो नवपुरं वपुरञ्चितरोचिषा ||
Nar10.78.2-1ददुषि रेवतभुभृति रेवतीं हलभृते तनयां विधिशासनात् |
Nar10.78.2-2महितमुत्सवघोषमपूपुषः समुदितैर्मुदितैः सह यादवैः ||
Nar10.78.3-1अथ विदर्भसुतां खलु रुक्मिणीं प्रणयिणीं त्वयि देव!सहोदरः |
Nar10.78.3-2स्वयमदित्सत चेदिमहीभुजे स्वतमसा तमसाधुमुपाश्रयन् ||
Nar10.78.4-1चिरधृतप्रणया त्वयि बालिका सपदि काङ्क्षितभङ्गसमाकुला |
Nar10.78.4-2तव निवेदयितुं द्विजमादिशत्स्वकदनं कदनङ्गविनिर्मितम् ||
Nar10.78.5-1द्विजसुतोऽपि च तूर्णमुपाययौ तव पुरं हि दुराशदुरासदम् |
Nar10.78.5-2मुदमवाप च सादरपूजितः स भवता भवतापहृता स्वयम् ||
Nar10.78.6-1स च भवन्तमवोचत कुण्डिने नृपसुता खलु राजति रुक्मिणी |
Nar10.78.6-2त्वयि समुत्सुकया निजधीरतारहितया हि तया प्रहितोऽस्म्यहम् ||
Nar10.78.7-1तव हृतास्मि पुरैव गुणैरहं हरति मां किल चेदिनृपोऽधुना |
Nar10.78.7-2अयि कृपालय!पालय मामिति प्रजगदे जगदेकपते!तया ||
Nar10.78.8-1अशरणां यदि मां त्वमुपेक्षसे सपदि जीवितमेव जाहाम्यहम् |
Nar10.78.8-2इति गिरा सुतनोरतनोद्भृशं सुहृदयं हृदयं तव कातरम् ||
Nar10.78.9-1अकथयस्त्वमथैनमये सखे!तदधिका मम मन्मथवेदना |
Nar10.78.9-2नृपसमक्षमुपेत्य हराम्यहं तदयि तां दयितामसितेक्षणाम् ||
Nar10.78.10-1प्रमुदितेन च तेन समं तदा रथगतो लघु कुण्डिनमेयिवान् |
Nar10.78.10-2गुरुमरुत्पुरनायक!मे भवान्वितनुतां तनुतां निखिलापदाम् ||
Nar10.79.1-1बलसमेतबलानुगतो भवान्पुरमगाहत भीष्मकमानितः |
Nar10.79.1-2द्विजसुतं त्वदुपागमवादिनं धृतरसा तरसा प्रणनाम सा ||
Nar10.79.2-1भुवनकान्तमवेक्ष्य भवद्वपुर्नृपसुतस्य निशम्य च चेष्टितम् |
Nar10.79.2-2विपुलखेदजुषां पुरवासिनां सरुदितैरुदितैरगमन्निशा ||
Nar10.79.3-1तदनु वन्दितुमिन्दुमुखी शिवां विहितमङ्गलभूषणभासुरा |
Nar10.79.3-2निरगमद्भवदर्पितजीविता स्वपुरतः पुरतः सुभटावृता ||
Nar10.79.4-1कुलवधूभिरुपेत्य कुमारिका गिरिसुतां परिपूज्य च सादरम् |
Nar10.79.4-2मुहुरयाचत तत्पदपङ्कजे निपतिता पतितां तव केवलम् ||
Nar10.79.5-1समवलोक्य कुतुहलसङ्कुले नृपकुले निभृतं त्वयि च स्थिते |
Nar10.79.5-2नृपसुता निरगाद्गिरिजालयात्सुरुचिरं रुचिरञ्जितदिङ्मुखा ||
Nar10.79.6-1भुवनमोहनरूपरुचा तदा विवशिताखिलराजकदम्बया |
Nar10.79.6-2त्वमपि देव!कटाक्षविमोक्षणैः प्रमदया मदयाञ्चकृषे मनाक् ||
Nar10.79.7-1क्व तु गमिष्यसि चन्द्रमुखीति तां सरसमेत्य करेण हरन्क्षणात् |
Nar10.79.7-2समधिरोप्य रथं त्वमपाहृथा भुवि ततो विततो निनदो द्विषाम् ||
Nar10.79.8-1क्व नु गतः पशुपाल इति क्रुधा कृतरणा यदुभिश्च जिता नृपाः |
Nar10.79.8-2न तु भवानुदचाल्यत तैरहो पिशुनकैः शुनकैरिव केसरी ||
Nar10.79.9-1तदनु रुक्मिणमागतमाहवे वधमुपेक्ष्य निबध्य विरूपयन् |
Nar10.79.9-2हृतमदं परिमुच्य बलोक्तिभिः पुरमया रमया सह कान्तया ||
Nar10.79.10-1नवसमागमल्ज्जितमानसां प्रणयकौतुकजृम्भितमन्मथाम् |
Nar10.79.10-2अरमयः खलु नाथ!यथासुखं रहसि तां हसितांशुलसन्मुखीम् ||
Nar10.79.11-1विविधनर्म भिरेवमहर्निशं प्रमदमाकलयन्पुनरेकदा |
Nar10.79.11-2ऋजुमतेः किल वक्रागिरा भवान्वरतनोरतनोदतिलोलताम् ||
Nar10.79.12-1तदधिकैरथ लालनकौशलैः प्रणयिनीमधिकं रमयन्निमाम् |
Nar10.79.12-2अयि मुकुन्द!भवच्चरितानि नः प्रगदतां गदतान्तिमपाकुरु ||
Nar10.80.1-1सत्राजितस्त्वमथ लुब्धवदर्कलब्धं
Nar10.80.1-2दिव्यं स्पमन्तकमणिं भगवन्नयाचीः |
Nar10.80.1-3तत्कारणं बहुविधं मम भाति नूनं
Nar10.80.1-4तस्यात्मजां त्वयि रतां छलतो विवोढुम् ||
Nar10.80.2-1अदत्तं तं तुभ्यं मणिवरमनेनाल्पमनसा
Nar10.80.2-2प्रसेनस्तद्भ्राता गलभुवि वहन्प्राप्मृगयाम् |
Nar10.80.2-3अहन्नेनं सिंहो मणिमहसि मांसभ्रमवशात्
Nar10.80.2-4कपीन्द्रस्तं हत्वा मणिमपि च बालाय ददिवान् ||
Nar10.80.3-1शशंसुः सत्राजिद्गिरमनु जनास्त्वां मणिहरं
Nar10.80.3-2जनानां पीयूषं भवति गुणिनां दोषकणिका |
Nar10.80.3-3ततः सर्वज्ञोऽपि स्वजनसहितो मार्गणपरः
Nar10.80.3-4प्रसेनं तं दृष्ट्वा हरिमपि गतोऽभूः कपिगुहाम् ||
Nar10.80.4-1भवन्तमवितर्कयन्नतिवयाः स्वयं जाम्बवान्
Nar10.80.4-2मुकुन्दशरनं हि मां क इह रोद्धुमित्यालपन् |
Nar10.80.4-3विभो!रघुपते!हरे!जय जयेत्यलं मुष्टिभि-
Nar10.80.4-4श्चरंस्तव समर्चनं व्यधित भक्तचूडामणिः ||
Nar10.80.5-1बुद्ध्वाथ तेन दत्तां नवरमणीं वरमणीं च परिगृह्णन् |
Nar10.80.5-2अनुगृह्णन्नमुमागाः सपदि च सत्राजिते मणिं प्रादाः ||
Nar10.80.6-1तदनु स खलु व्रीडालोलो विलोलविलोचनां
Nar10.80.6-2दुहितरमहो धीमान्भामां गिरैव परार्पिताम् |
Nar10.80.6-3अदित मणिना तुभ्यं लभ्यं समेत्य भवानपि
Nar10.80.6-4प्रमुदितमनास्तस्यैवादान्मणीं गहनाशयः ||
Nar10.80.7-1व्रीडाकुलां रमयति त्वयि सत्यभामां
Nar10.80.7-2कौन्तेयदाहकथयाथ कुरून्प्रयाते |
Nar10.80.7-3ही गान्दिनेयकृतवर्मगिरा निपात्य
Nar10.80.7-4सत्राजितं शतधनुर्मणिमाजहार ||
Nar10.80.8-1शोकात्कुरूनुपगतामवलोक्य कान्तां
Nar10.80.8-2हत्वा द्रुतं शतधुनं समहर्षयस्ताम् |
Nar10.80.8-3रत्ने सशङ्क इव मैथिलगेहमेत्य
Nar10.80.8-4रामो गदां समशिशिक्षत धार्तराष्ट्रम् ||
Nar10.80.9-1अक्रूर एष भगवन्!भवदिच्छयैव
Nar10.80.9-2सत्राजितः कुचरितस्य युयोज हिंसाम् |
Nar10.80.9-3अक्रूरतो मणिमनाहृतवान्पुनस्त्वं
Nar10.80.9-4तस्यैव भूतिमुपधातुमिति ब्रुवन्ति ||
Nar10.80.10-1भक्तस्त्वयि स्थिरतरः स हि गान्दिनेयस्-
Nar10.80.10-2तस्यैव कापथमतिः कथमीश!जाता |
Nar10.80.10-3विज्ञानवान्प्रशमवानहमित्युदीर्णं
Nar10.80.10-4गर्वं ध्रुवं शमयितुं भवता कृतैव ||
Nar10.80.11-1यातं भयेन कृतवर्मयुतं पुनस्त-
Nar10.80.11-2माहूय तद्विनिहितं च मणिं प्रकाश्य |
Nar10.80.11-3तत्रिव सुवरतधरे विनिधाय तुष्यन्
Nar10.80.11-4भामाकुचान्तरशयः पवनेश!पायाः ||
Nar10.81.1-1स्निग्धां मुग्धां सततमपि तां लालयन्सत्यभामां
Nar10.81.1-2यातो भूयः सह खलु तया याज्ञसेनीविवाहम् |
Nar10.81.1-3पार्थप्रीत्यै पुनरपि पनागास्थितो हस्तिपुर्यां
Nar10.81.1-4शक्रप्रस्थं पुरमपि विभो!संविधायागतोऽभूः ||
Nar10.81.2-1भद्रां भद्रां भवदवरजां कौरवेणार्थ्यमानां
Nar10.81.2-2त्वद्वाचा तामहृत कुहनामस्करी शक्रसूनुः |
Nar10.81.2-3तत्र क्रुद्धं बलमनुनयन्प्रत्यगास्तेन सार्धं
Nar10.81.2-4शक्रप्रस्थं प्रियसखमुदे सत्यभामासहायः ||
Nar10.81.3-1तत्र क्रीडन्नपि च यमुनाकूलदृष्टां गृहीत्वा
Nar10.81.3-2तां कालिन्दीं नगरमगमः खाण्डवप्रीणिताग्निः |
Nar10.81.3-3भ्रातृत्रस्तां प्रणयविवशां देव!पैतृष्वसेयीं
Nar10.81.3-4राज्ञां मध्ये सपदि जह्रिषे मित्रविन्दामवन्तीम् ||
Nar10.81.4-1सत्यां गत्वा पुनरुदवहो नग्नजिन्नन्दनां तां
Nar10.81.4-2बद्ध्वा सप्तापि च वृषवरान्सप्तमूर्तिर्निमेषात् |
Nar10.81.4-3भद्रां नाम प्रददुरथ ते देव!सन्तर्दनाद्यास्-
Nar10.81.4-4तत्सोदर्यां वरद!भवतः सापि पैतृष्वसेयी ||
Nar10.81.5-1पार्थाद्यैरप्यकृतलवनं तोयमात्राभिलक्ष्यं
Nar10.81.5-2लक्षं छित्वा शफरमवृथा लक्षणां मद्रकन्याम् |
Nar10.81.5-3अष्टावेवं तव समभवन्वल्लभास्तत्र मध्ये
Nar10.81.5-4शुश्रोथ त्वं सुरपतिगिरा भौमदुश्चेष्टितानि ||
Nar10.81.6-1स्मृतायातं पक्षिप्रवरमधिरूढस्त्वमगमो
Nar10.81.6-2वहन्नङ्के भामामुपवनमिवारातिनगरम् |
Nar10.81.6-3विभिन्दन्दुर्गाणि त्रुटितपृतनाशोनितरसैः
Nar10.81.6-4पुरं तावत्प्राग्ज्योतिषमकुरुथाः शोणितपूरम् ||
Nar10.81.7-1मुरस्त्वां पञ्चास्यो जलधिवनमध्यादुदपतत्
Nar10.81.7-2स चक्रे चक्रेण प्रदलितशिरा मङ्क्षु भवता |
Nar10.81.7-3चतुदन्तैर्दन्तावलपतिभिरिन्धानसमरं
Nar10.81.7-4रथाङ्गेनच्छित्वा नरकमकरोस्तीर्णरकम् ||
Nar10.81.8-1स्तुतो भूम्या राज्यं सपदि भगदत्तेऽस्य तनये
Nar10.81.8-2गजं चैकं दत्त्वा प्रजिघायिथ नागान्निजपुरीम् |
Nar10.81.8-3खलेनाबद्धानां स्वगतमनसां षोडश पुनः
Nar10.81.8-4सहस्राणि स्त्रीणामपि च धनराशिं च विपुलम् ||
Nar10.81.9-1भौमापाहृतकुण्डलं तददितेर्दातुं प्रयातो दिवं
Nar10.81.9-2शक्राद्यैर्महितः समं दयितया द्युस्त्रीषु दत्तह्विया |
Nar10.81.9-3हृत्वा कल्पतरुं रुषाभिपतितं जित्वेन्द्रमभ्यागमस्-
Nar10.81.9-4तत्तु श्रीमददोष ईदृश इति व्याख्यातुमेवाकृथाः ||
Nar10.81.10-1कल्पद्रुं सत्यभामाभवनभुवि सृजन्द्व्यष्टसाहस्रयोषाः
Nar10.81.10-2स्वीकृत्य प्रत्यगारं विहितबहुवपुर्लालयन्केलिभेदैः |
Nar10.81.10-3आश्चर्यान्नारदालोकितविविधगतिस्तत्र तत्रापि गेहे
Nar10.81.10-4भूयः सर्वासु कुर्वन्दश दश तनयान्पाहि वातालयेश!||
Nar10.82.1-1प्रद्युम्नो रौक्मिणेयः स खलु तव कला शम्बरेणाहृतस्तं
Nar10.82.1-2हत्वा रत्या सहाप्तो निजपूरमहरद्रुक्मिकन्यां च धन्याम् |
Nar10.82.1-3तत्पुत्रोऽथानिरुद्धो गुणनिधिरवहद्रोचनां रुक्मिपौत्रीं
Nar10.82.1-4तत्रोद्वाहे गतस्त्वं न्यवधि मुसलिना रुक्म्यपि द्यूतवैरात् ||
Nar10.82.2-1बाणस्य सा बलिसुतस्य सहस्रबाहोर्-
Nar10.82.2-2माहेश्वरस्य महिता दुहिता किलोषा |
Nar10.82.2-3त्वत्पौत्रमेनमनिरुद्धमदृष्टपूर्वं
Nar10.82.2-4स्वप्नेऽनुभूय भगवन्!विरहातुराभूत् ||
Nar10.82.3-1योगिन्यतीव कुशला खलु चित्रलेखा
Nar10.82.3-2तस्याः सखी विलिखती तरुणानशेषान् |
Nar10.82.3-3तत्रानिरुद्धमुष्या विदितं निशाया-
Nar10.82.3-4मानेष्ट योगबलतो भवतो निकेतात् ||
Nar10.82.4-1कन्यापुरे दयितया सुखमारमन्तं
Nar10.82.4-2चैनं कथञ्चन बबन्धुषि शर्वबन्धौ |
Nar10.82.4-3श्रीनारदोक्ततदुदन्तदुरन्तरोषैस्-
Nar10.82.4-4त्वं तस्य शोणितपुरं यदुभिर्न्यरुन्धाः ||
Nar10.82.5-1पुरीपालः शैलप्रियदुहितृनाथोऽस्य भगवान्
Nar10.82.5-2समं भूतव्रातैर्यदुबलमशङ्कं निरुरुधे |
Nar10.82.5-3महाप्राणो बाणो जटिति युयुधानेन युयुधे
Nar10.82.5-4गुहः प्रद्युम्नेन त्वमपि पुरहन्त्रा जघटिषे ||
Nar10.82.6-1निरुद्धाशेषास्त्रे मुमुहुषि तवास्त्रेण गिरिशे
Nar10.82.6-2द्रुता भूता भीताः प्रमथकुलवीराः प्रमथिताः |
Nar10.82.6-3परास्कन्दत्स्कन्दः कुसुमशरबाणैश्च सचिवः
Nar10.82.6-4स कुम्भाण्डो भाण्डं नवमिव बलेनाशु बिभिदे ||
Nar10.82.7-1चापानां पञ्चशत्या प्रसभमुपगते छिन्नचापेऽथ बाणे
Nar10.82.7-2व्यर्थे याते समेतो ज्वरपतिरशनैरज्वरि त्वज्ज्वरेण |
Nar10.82.7-3ज्ञानी स्तुत्वाथ दत्त्वा तव चरितजुषां विज्वरं स ज्वरोऽगात्
Nar10.82.7-4प्रायोऽन्तर्ज्ञानवन्तोऽपि च बहुतमसा रौद्रचेष्टा हि रौद्राः ||
Nar10.82.8-1बाणं नानायुधोग्रं पुनरभिपतितं दुर्पदोषाद्वितन्वन्
Nar10.82.8-2निर्लूनाशेषदोषं सपदि बुबुधुषा शङ्करेणोपगीतः |
Nar10.82.8-3तद्वाचा शिष्टबाहुद्वितयमुभयतो निर्भयं तत्प्रियं तं
Nar10.82.8-4मुक्त्वा तद्दत्तमानो निजपुरमगमः सानिरुद्धः सहोषः ||
Nar10.82.9-1मुहुस्तावच्छक्रं वरुणमजयो नन्दहरणे
Nar10.82.9-2यमं बालानीतौ दवदहनपानेऽनिलसखम् |
Nar10.82.9-3विधिं वत्सस्तेये गिरिशामिह बाणस्य समरे
Nar10.82.9-4विभो!विश्वोत्कर्षी तदयमवतारो जयति ते ||
Nar10.82.10-1द्विजरुषा कृकलासवपुर्धरं नृगनृपं त्रिदिवालयमापयन् |
Nar10.82.10-2निजजने द्विजभक्तिमनुत्तमामुपदिशन्पवनेश्वर!पाहि माम् ||
Nar10.83.1-1रामेऽथगोकुलगते प्रमदाप्रसक्ते
Nar10.83.1-2हूतानुपेतयमुनादमने मदान्धे |
Nar10.83.1-3स्वैरं समारमति सेवकवादमूढो
Nar10.83.1-4दूतं न्ययुङ्क्त तव पौण्ड्रकवासुदेवः ||
Nar10.83.2-1नारायणोऽहमवतीर्ण इहास्मि भूमौ
Nar10.83.2-2धत्से किल त्वमपि मामकलक्षणानि |
Nar10.83.2-3उत्सृज्य तानि शरणं व्रज मामिति त्वां
Nar10.83.2-4दूतो जगाद सकलैर्हसितः सभायाम् ||
Nar10.83.3-1दूतेऽथ यातवति यादवसैनिकस्त्वं
Nar10.83.3-2यातो ददर्शिथ वपुः किल पौण्ड्रकीयम् |
Nar10.83.3-3तापेन वक्षसि कृताङ्कमनल्पमूल्य-
Nar10.83.3-4श्रीकौस्तुभं मकरकुण्डलपीतचेलम् ||
Nar10.83.4-1कालायसं निजसुदर्शनमस्यतोऽस्य
Nar10.83.4-2कालानलोत्करकिरेण सुदर्शनेन |
Nar10.83.4-3शीर्षं चकर्तिथ ममर्दिथ चास्य सेनां
Nar10.83.4-4तन्मित्रकाशिपशिरोऽपि चकर्थ काश्याम् ||
Nar10.83.5-1जाड्येन बालकगिरापि किलाहमेव
Nar10.83.5-2श्रीवासुदेव इति रूढमतिश्चिरं सः |
Nar10.83.5-3सायुज्यमेव भवदैक्यधिया गतोऽभूत्
Nar10.83.5-4को नाम कस्य सुकृतं कथमित्यवेयात् ||
Nar10.83.6-1काशीश्वरस्य तनयोऽथ सुदक्षिणाख्यः
Nar10.83.6-2शर्वं प्रपूज्य भवते विहिताभिचारः |
Nar10.83.6-3कृत्यानलं कमपि बाणरणातिभीतैर्-
Nar10.83.6-4भूतैः कथञ्चन वृतैः सममभ्यमुञ्चत् ||
Nar10.83.7-1तालप्रमाणचरणामखिलं दहन्तीं
Nar10.83.7-2कृत्यां विलोक्य चकितैः कथितोऽपि पौरैः |
Nar10.83.7-3द्यूतोत्सवे कमपि नो चलितो विभो!त्वं
Nar10.83.7-4पार्श्वस्थमाशु विससर्जिथ कालचक्रम् ||
Nar10.83.8-1अभ्यापतत्यमितधाम्नि भवन्महास्त्रे
Nar10.83.8-2हा हेति विद्रुतवती खलु घोरकृत्या |
Nar10.83.8-3रोषात्सुदक्षिणमदक्षिणचेष्टितं तं
Nar10.83.8-4पुप्लोष चक्रमपि काशिपुरामधाक्षीत् ||
Nar10.83.9-1स खलु विविदो रक्षोघाते कृतोपकृतिः पुरा
Nar10.83.9-2तव तु कलया मृत्युं प्राप्तुं तदा खलतां गतः |
Nar10.83.9-3नरकसचिवो हलिना युध्यन्नद्धा पपात तलाहतः ||
Nar10.83.10-1साम्बं कौरव्यपुत्रीहरणनियमितं सान्त्वनार्थी कुरूणां
Nar10.83.10-2यातस्तद्वाक्यरोषोद्धृतकरिनगरो मोचयामास रामः |
Nar10.83.10-3ते घात्याः पाण्डवेयैरिति यदुपृतनां नामुचस्त्वं तदानीं
Nar10.83.10-4तं त्वां दुर्बोधलीलं पवनपुरपते!तापशान्त्यै निषेवे ||
Nar10.84.1-1क्वचिदथ तपनोपरागकाले पुरि निदधत्कृतवर्मकामसूनू |
Nar10.84.1-2यदुकुलमहिलावृतः सुतीर्थं समुपगतोऽसि समन्तपञ्चकाख्यम् ||
Nar10.84.2-1बहुतरजनताहिताय तत्र त्वमपि पुनन्विनिमज्ज्य तीर्थतोये |
Nar10.84.2-2द्विजगणपरिमुक्तवित्तराशिः सममिलथाः कुरुपाण्डवादिमित्रैः ||
Nar10.84.3-1तव खलु दयिताजनैः समेता द्रुपदसुता त्वयि गाढभक्तिभारा |
Nar10.84.3-2तदुदितभवदाहृतिप्रकारैरतिमुमुदे सममन्यभामिनीभिः ||
Nar10.84.4-1तदनु च भगवन्!निरीक्ष्य गोपानतिकुतुकादुपगम्य मानयित्वा |
Nar10.84.4-2चिरतरविरहातुराङ्गरेखाः पशुपवधूः सरसं त्वमन्वयासीः ||
Nar10.84.5-1सपदि च भवदीक्षणोत्सवेन प्रमुषितमानहृदां नितम्बिनीनाम् |
Nar10.84.5-2अतिरसपरिमुक्तकञ्चुलीके परिचयहृद्यतरे कुचे न्यलैषीः ||
Nar10.84.6-1रिपुजनकलहैः पुनः पुनर्मे समुपगतैरियती विलम्बनाभूत् |
Nar10.84.6-2इति कृतपरिरम्भणे त्वयि द्रागतिविवशा खलु राधिका निलिल्ये ||
Nar10.84.7-1अपगतविरहव्यथास्तदा ता रहसि विधाय ददाथ तत्त्वबोधम् |
Nar10.84.7-2परमसुखचिदात्मकोऽहमात्मेत्युदयतु वः स्फुटमेव चेतसीति ||
Nar10.84.8-1सुखरसपरिमिश्रितो वियोगः किमपि पुराभवदुद्धवोपदेशैः |
Nar10.84.8-2समभवदमुतः परं तु तासां परमसुकैक्यमयी भवद्विचिन्ता ||
Nar10.84.9-1मुनिवरनिवहैस्तवाथ पित्रा दुरितशमाय शुभानि पृच्छ्यमानैः |
Nar10.84.9-2त्वयि सति किमिदं शुभान्तरैरित्युरुहसितैरपि याजितस्तदासौ ||
Nar10.84.10-1सुमहति यजने वितायमाने प्रमुदितमित्रजने सहैव गोपाः |
Nar10.84.10-2यदुजनमहितास्त्रिमासमात्रं भवदनुषङ्गरसं पुरेव भेजुः ||
Nar10.84.11-1व्यपगमसमये समेत्य राधां दृढमुपगूह्य निरीक्ष्य वीतखेदाम् |
Nar10.84.11-2प्रमुदितहृदयः पुरं प्रयातः पवनपुरेश्वर!पाहि मां गदेभ्यः ||
Nar10.85.1-1ततो मगधभूमृता चिरनिरोधसंक्लेशितं
Nar10.85.1-2शताष्टकयुतायुतद्वितयमीश!भूमीभृताम् |
Nar10.85.1-3अनाथशरणाय ते कमपि पूरुषं प्राहिणो-
Nar10.85.1-4दयाचत स मागधक्षपणमेव किं भूयसा ||
Nar10.85.2-1यियासुरभिमागधं तदनु नारदोदीरिताद्
Nar10.85.2-2युधिष्ठिरमखोद्यमादुभयकार्यपर्याकुलः |
Nar10.85.2-3विरुद्धजयिनोऽध्वरादुभयसिद्धिरित्युद्धवे
Nar10.85.2-4शशंसुषि निजैः समं पुरमियेथ यौधिष्ठिरीम् ||
Nar10.85.3-1अशेषदयितायुते त्वयि समागते धर्मजो
Nar10.85.3-2विजित्य सहजैर्महीं भवदपाङ्गसंवर्धितैः |
Nar10.85.3-3श्रियं निरुपमां वहन्नहह भक्तदासायितं
Nar10.85.3-4भवन्तमयि!मागधे प्रहितवान्सभीमार्जुनम् ||
Nar10.85.4-1गिरिव्रजपुरं गतास्तदनु देव!यूयं त्रयो
Nar10.85.4-2ययाच समरोत्सवं द्विजमिषेण तं मागधम् |
Nar10.85.4-3अपूर्णसुकृतं त्वमुं पवनजेन संग्रामयन्
Nar10.85.4-4निरीक्ष्य सह जिष्णुना त्वमपि राजयुध्वा स्थितः ||
Nar10.85.5-1अशान्तसमरोद्धतं विटपपाटनासंज्ञया
Nar10.85.5-2निपात्य जरसः सुतं पवनजेन निष्पाटितम् |
Nar10.85.5-3विमुच्य नृपतीन्मुदा समनुगृह्य भक्तिं परां
Nar10.85.5-4दिदेशिथ गतस्पृहानपि च धर्मगुप्त्यै भुवः ||
Nar10.85.6-1प्रचक्रुषि युधिष्ठिरे तदनु राजसूयाध्वरं
Nar10.85.6-2प्रसन्नभृतकीभवत्सकलराजकव्याकुलम् |
Nar10.85.6-3त्वमप्ययि जगत्पते!द्विजपदावनेजादिकं
Nar10.85.6-4चकर्थ किमु कथ्यते नृपवरस्य भाग्योन्नतिः ||
Nar10.85.7-1ततः सवनकर्मणि प्रवरमग्र्यपूजाविधिं
Nar10.85.7-2विचार्य सहदेववागनुगतः स धर्मात्मजः |
Nar10.85.7-3व्यधत्त भवते मुदा सदसि विश्वभूतात्मने
Nar10.85.7-4तदा ससुरमानुषं भवनमेव तृप्तिः दधौ ||
Nar10.85.8-1ततः सपदि चेदिपो मुनिनृपेषु तिष्ठत्स्वहो
Nar10.85.8-2सभाजयति को जडः पशुपदुर्दुरूटं वटुम् |
Nar10.85.8-3इति त्वयि स दुर्वचोविततिमुद्वमन्नासना-
Nar10.85.8-4दुदापतदुदायुधः समपतन्नमुं पाण्डवाः ||
Nar10.85.9-1निवार्य निजपक्षगानभिमुखस्य विद्वेषिणस्-
Nar10.85.9-2त्वमेव जहिषे शिरो दनुजदारिणा स्वारिणा |
Nar10.85.9-3जनुस्त्रितयलब्धया सततचिन्तया शुद्धधीस्-
Nar10.85.9-4त्वया स परमेकतामधृत योगिनां दुर्लभाम् ||
Nar10.85.10-1ततः सुमाहितो त्वया क्रतुवरे निरूढे जनो
Nar10.85.10-2ययौ जयति धर्मजो जयति कृष्ण इत्यालपन् |
Nar10.85.10-3खलः स तु सुयोधनो धुतमनाः सपत्नश्रिया
Nar10.85.10-4मयार्पितसभामुखे स्थलजलभ्रमादभ्रमीत् ||
Nar10.85.11-1तदा हसितमुत्थितं द्रुपदन्दनाभीमयो-
Nar10.85.11-2रपाङ्गकलया विभो!किमपि तावदुज्जृम्भयन् |
Nar10.85.11-3धराभरनिराकृतौ सपदि नाम बीजं वपन्
Nar10.85.11-4जनार्दन!मरुत्पुरीनिलय!पाहि मामामयात् ||
Nar10.86.1-1साल्वो भैष्मीविवाहे यदुबलविजितश्चन्द्रचूडाद्विमानं
Nar10.86.1-2विन्दन्सौभं स मायी त्वयि वसति कुरूंस्त्वत्पुरीमभ्यभाङ्क्षीत् |
Nar10.86.1-3प्रद्युम्नस्तं निरुन्धन्नखिलयदुभटैर्न्यग्रहीदुग्रवीर्यं
Nar10.86.1-4तस्यामात्यं द्युमन्तं व्यजनि च समरः सप्तविंशत्यहान्तम् ||
Nar10.86.2-1तावत्त्वं रामशाली त्वरितमुपगतः खण्डितप्रायसैन्यं
Nar10.86.2-2सौभेशं तं न्यरुन्धाः स च किल गदया शार्ङ्गमभ्रंशयत्ते |
Nar10.86.2-3मायातातं व्यहिंसीदपि तव पुरतस्तत्त्वयापि क्षणार्धं
Nar10.86.2-4नाज्ञायीत्याहुरेके तदिदमवमतं व्यास एव न्यषेधीत् ||
Nar10.86.3-1क्षिप्त्वा सौभं गदाचूर्णितमुदकनिधौ मङ्क्षु साल्वेऽपि चक्रे-
Nar10.86.3-2णोत्कृत्ते दन्तवक्त्रः प्रसभमभिपतन्नभ्यमुञ्चद्गदां ते |
Nar10.86.3-3कौमोदक्या हतोऽसावपि सुकृतनिधिश्चैद्यवत्प्रापदैक्यं
Nar10.86.3-4सर्वेषामेष पूर्वं त्वयि धृतमनसां मोक्षणार्थोऽवतारः ||
Nar10.86.4-1त्वय्यायातेऽथ जाते किल कुरुसदसि द्यूतके संयतायाः
Nar10.86.4-2क्रन्दन्त्या याज्ञसेन्याः सकरुणमकृथाश्चेलमालामनन्ताम् |
Nar10.86.4-3अन्नान्तप्राप्तशर्वांशजमुनिचकितद्रौपदीचिन्तितोऽथ
Nar10.86.4-4प्राप्तः शाकान्नमश्नन्मुनिगणमकृथास्तृप्तिमन्तं वनान्ते ||
Nar10.86.5-1युद्धोद्योगेऽथ मन्त्रे मिलति सति वृतः फल्गुनेन त्वमेकः
Nar10.86.5-2कौरव्ये दत्तसैन्यः करिपुरमगमो दूत्यकृत्पाण्डवार्थम् |
Nar10.86.5-3मीष्मद्रोणादिमान्ये तव खलु वचने धिक्कृते कौरवेण
Nar10.86.5-4व्यावृण्वन्विश्वरूपं मुनिसदसि पुरीं क्षोभयित्वागतोऽभूः ||
Nar10.86.6-1जिष्णोस्त्वं कृष्ण!सूतः खलु समरमुखे बन्धुघाते दयालुं
Nar10.86.6-2खिन्नं तं वीक्ष्य वीरं किमिदमयि सखे!नित्य एकोऽयमात्मा |
Nar10.86.6-3को वध्यः कोऽत्र हन्ता तदिह वधभियं प्रोज्झ्य मय्यर्पितात्मा
Nar10.86.6-4धर्म्यं युद्धं चरेति प्रकृतिमनयथा दर्शयन्विश्वरूपम् ||
Nar10.86.7-1भक्तोत्तंसेऽथ भीष्मे तव धरणिभरक्षेपकृत्यैकसक्ते
Nar10.86.7-2नित्यं नित्यं विभिन्दत्यवनिभृदयुतं प्राप्तसादे च पार्थे |
Nar10.86.7-3निश्शस्त्रत्वप्रतिज्ञां विजहदरिवरं धारयन्क्रोधशाली-
Nar10.86.7-4वाधावन्प्राञ्जलिं तं नतशिरसमथो वीक्ष्य मोदादपागाः ||
Nar10.86.8-1युद्धे द्रोणस्य हस्तिस्थिररणभगदत्तेरितं वैष्णवास्त्रं
Nar10.86.8-2वक्षस्याधत्त चक्रस्थगितरविमहाः प्रार्दयन्सिन्धुराजम् |
Nar10.86.8-3नागास्त्रे कर्णमुक्ते क्षितिमवनमयन्केवलं कृत्तमौलिं
Nar10.86.8-4तत्रे तत्रापि पार्थं किमिव न हि भवान्पाण्डवानामकार्षीत् ||
Nar10.86.9-1युद्धादौ तीर्थगामि स खलु हलधरो नैमिशक्षेत्रमृच्छ-
Nar10.86.9-2न्नप्रत्युत्थायिसूतक्षयकृदथ सुतं तत्पदे कल्पयित्वा |
Nar10.86.9-3यज्ञघ्नं बल्वलं पर्वणि परिदलयम्स्नाततीर्थो रणान्ते
Nar10.86.9-4सम्प्राप्तो भीमदुर्योधनरणमशमं वीक्ष्य यातः पुरीं ते ||
Nar10.86.10-1संसुप्तद्रौपदेयक्षपणहतधियं द्रौणिमेत्य त्वदुक्त्या
Nar10.86.10-2तन्मुक्तं ब्राह्ममस्त्रं समहृत विजयो मौलिरत्नं च जहे |
Nar10.86.10-3उच्छित्त्यै पाण्डवानां पुनरपि च विशत्युत्तरागर्भमस्त्रे
Nar10.86.10-4रक्षन्नङ्गुष्ठमात्रः किल जठरमगाश्चक्रपाणिर्विभो!त्वम् ||
Nar10.86.11-1धर्मौघं धर्मसूनोरभिदधदखिलं छन्दमृत्युः स भीष्मस्-
Nar10.86.11-2त्वां पश्यन्भक्तिभूम्नैव हि सपदि ययौ निष्कलब्रह्मभूयम् |
Nar10.86.11-3संयाज्याथाश्वमेधैस्त्रिभिरतिमहितैर्धर्मजं पूर्णकामं
Nar10.86.11-4सम्प्राप्तो द्वारकां त्वं पवनपुरपते!पाहि मां सर्वरोगात् ||
Nar10.87.1-1कुचेलनामा भवतः सतीर्थ्यतां गतः स सान्दीपनिमन्दिरे द्विजः |
Nar10.87.1-2त्वदेकरागेण धनादिनिःस्पृहो दिनानि निन्ये प्रशमी गृहाश्रमी ||
Nar10.87.2-1समानशीलापि तदायवल्लभा तथैव नो चित्तहयं समेयुसी |
Nar10.87.2-2कदाचिदूचे बत वृत्तिलब्धये रमापतिः किं न सखा निषेव्यते ||
Nar10.87.3-1इतीरितोऽयं प्रियया क्षुधार्तया जुगुप्समानोऽपि धने मदावहे |
Nar10.87.3-2तदा त्वदालोकनकौतुकाद्ययौ वहन्पटान्ते पृथुकानुपायनम् ||
Nar10.87.4-1गतोऽयमाश्चर्यमयीं भवत्पूरीं गृहेषु शैब्याभवनं समेयिवान् |
Nar10.87.4-2प्रविश्य वैकुण्ठमिवाप निर्वृतिं तवातिसम्भावनया तु किं पुनः ||
Nar10.87.5-1प्रपूजितं तं प्रियया च वीजितं करे गृहीत्वाकथयः पुरा कृतम् |
Nar10.87.5-2यदिन्धनार्थं गुरुदारचोदितैरपर्तुवर्षं तदमर्षि कानने ||
Nar10.87.6-1त्रपाजुषोऽस्मात्पृथुकं बलादथ प्रगृह्य मुष्टौ सकृदाशिते त्वया |
Nar10.87.6-2कृतं कृतं नन्वियतेति सम्भ्रमाद्रमा किलोपेत्य करं रुरोध ते ||
Nar10.87.7-1भक्तेषु भक्तेन स मानितस्त्वया पुरीं वसन्नेकनिशां महासुखम् |
Nar10.87.7-2बतापरेद्युर्द्रविणं विना ययौ विचित्ररूपस्तव खल्वनुग्रहः ||
Nar10.87.8-1यदि ह्ययाचिष्यमदास्यदच्युतो वदामि भार्यां किमिति व्रजन्नसौ |
Nar10.87.8-2त्वदुक्तिलीलास्मितमग्नधीः पुनः क्रमादपश्यन्मणिदीप्रमालयम् ||
Nar10.87.9-1किं मार्गविभ्रंश इति भ्रमन्क्षणं गृहं प्रविष्टः स ददर्श वल्लभाम् |
Nar10.87.9-2सखीपरीतां मणिहेमभूषितां बुबोध च त्वत्करुणां महाद्भुताम् ||
Nar10.87.10-1स रत्नशालासु वसन्नपि स्वयं समुन्नमद्भक्तिभरोऽमृतं ययौ |
Nar10.87.10-2त्वमेवमापूरितभक्तवाञ्छितो मरुत्पुराधीश!हरस्व मे गदान् ||
Nar10.88.1-1प्रागेवाचार्यपुत्राहृतिनिशमनया स्वीयषट्सूनुवीक्षां
Nar10.88.1-2काङ्क्षन्त्या मातुरुकत्या सुतलभुवि बलिं प्राप्य तेनार्चितस्त्वम् |
Nar10.88.1-3धातुः शापाद्धिरण्यान्वितकशिपुभवान्शौरिजान्कंसभग्ना-
Nar10.88.1-4नानीयैनान्प्रदर्श्य स्वपदमनयथाः पूर्वपुत्रान्मरीचेः ||
Nar10.88.2-1श्रुतदेव इति श्रुतं द्विजेन्द्रं बहुलाश्वं नृपतिं च भक्तिपूर्णम् |
Nar10.88.2-2युगपत्त्वमनुग्रहीतुकामो मिथिलां प्रापिथ तापसैः समेतः ||
Nar10.88.3-1गच्छन्द्विमूर्तिरुभयोर्युगपन्निकेत-
Nar10.88.3-2मेकेन भूरिविभवैर्विहितोपचारः |
Nar10.88.3-3अन्येन तद्दिनभृतैश्च फलौदनाद्यैस्-
Nar10.88.3-4तुल्यं प्रसेदिथ ददाथ च मुक्तिमाभ्याम् ||
Nar10.88.4-1भूयोऽथ द्वारवत्यां द्विजतनयमृतिं तत्प्रलापानपि त्वं
Nar10.88.4-2को वा दैवं निरुन्ध्यादिति किल कथयन्विश्ववोढाप्यसोढाः |
Nar10.88.4-3जिष्णोर्गर्वं विनेतुं त्वयि मनुजधिया कुण्ठितां चास्य बुद्धिं
Nar10.88.4-4तत्त्वारूढां विधातुं परमतमपदप्रेक्षणेनेति मन्ये ||
Nar10.88.5-1नष्टा अष्टास्य पुत्राः पुनरपि तव तूपेक्षया कष्टवादः
Nar10.88.5-2स्पष्टो जातो जनानामथ तदवसरे द्वारकामार पार्थः |
Nar10.88.5-3मैत्र्या तत्रोषितोऽसौ नवमसुतभृतौ विप्रवर्यप्ररोदं
Nar10.88.5-4श्रुत्वा चक्रे प्रतिज्ञामनुपहृतसुतः सन्निवेक्ष्ये कृशानुम् ||
Nar10.88.6-1मानी स त्वामपृष्ट्वा द्विजनिलयगतो बाणजालैर्महास्त्रै
Nar10.88.6-2रुन्धानः सूतिगेहं पुनरपि सहसा दृष्टनष्टे कुमारे |
Nar10.88.6-3याम्यामैन्द्रींतथायाः सुरवरनगरीर्विद्ययासाद्य सद्यो
Nar10.88.6-4मोघोद्योगः पतिष्यन्हुतभुजि भवता सस्मितं वारितोऽभूत् ||
Nar10.88.7-1सार्धं तेन प्रतीचीं दिशमतिजविना स्यन्दनेनाभियातो
Nar10.88.7-2लोकालोकं व्यतीतस्तिमिरभरमथो चक्रधाम्ना निरुन्धन् |
Nar10.88.7-3चक्रांशुक्लिष्टदृष्टिं स्थितमथ विजयं पश्य पश्येति वारां
Nar10.88.7-4पारे त्वं प्राददशः किमपि हि तमसां दूरदूरं पदं ते ||
Nar10.88.8-1तत्रासीनं भुजङ्गाधिपशयनतले दिव्यभूषायुधाद्यै-
Nar10.88.8-2रावीतं पीतचेलं प्रतिनवजलदश्यामलं श्रीमदङ्गम् |
Nar10.88.8-3मूर्तीनामीशितारं परमिह तिसृणामेकमर्थं श्रुतीनां
Nar10.88.8-4त्वामेव त्वं परात्मन्!प्रियसखसहितो नेमिथ क्षेमरूपम् ||
Nar10.88.9-1युवां मामेवद्वावधिकविवृतान्तर्हिततया
Nar10.88.9-2विभिन्नौ सुन्द्रष्टुं स्वयमहमहार्षं द्विजसुतान् |
Nar10.88.9-3नयेतं द्रागेनानिति खलु वितीर्णान्पुनरमून्
Nar10.88.9-4द्विजायादायादाः प्रणुतमहिमा पाण्डुजनुषा ||
Nar10.88.10-1एवं नानाविहारैर्जगदभिरमयन्वृष्णिवंशं प्रपुष्ण-
Nar10.88.10-2न्नीजानो यज्ञभैदैरतुलविहृतिभिः प्रीणयन्नेणनेत्राः |
Nar10.88.10-3भूभारक्षेपदम्भात्पदकमलजुषां मोक्षणायावतीर्णः
Nar10.88.10-4पूर्णं ब्रह्मैव साक्षाद्यदुषु मनुजतारूषितस्त्वं व्यलासीः ||
Nar10.88.11-1प्रायेण द्वारवत्यामवृतदयि तदी नारदस्त्वद्रसार्द्रस्-
Nar10.88.11-2तस्माल्लेभे कदाचित्खलु सुकृतनिधिस्त्वत्पिता तत्त्वबोधम् |
Nar10.88.11-3भक्तानामग्रयायी स च खलु मतिमानुद्धवस्त्वत्त एव
Nar10.88.11-4प्राप्तो विज्ञानसारं स किल जनहितायाधुनास्ते वदर्याम् ||
Nar10.88.12-1सोऽयं कृष्णावतारो जयति तव विभो!यत्र सौहार्दभीति-
Nar10.88.12-2स्नेहद्वेषानुरागप्रभृतिभिरतुलैरश्रमैर्योगभेदैः |
Nar10.88.12-3आर्तिं तीर्वा समस्ताममृतपदमगुः सर्वतः सर्वलोकाः
Nar10.88.12-4स त्वं विश्वार्तिशान्त्यै पवनपुरपते!भक्तिपूर्त्यै च भूयाः ||
Nar10.89.1-1रमाजाने!जाने यदिह तव भक्तेषु विभवो
Nar10.89.1-2न सम्पद्यः सद्यस्तदिह मदकृत्त्वादशमिनाम् |
Nar10.89.1-3प्रशान्तिं कृत्वैव प्रदिशसि ततः काममखिलं
Nar10.89.1-4प्रशान्तेषु क्षिप्रं न खलु भवदीये च्युतिकथा ||
Nar10.89.2-1सद्यःप्रसादरुषितान्विधिशङ्करादीन्
Nar10.89.2-2कचिद्विभो!निजगुणानुगुणं भजन्तः |
Nar10.89.2-3भ्रष्टा भवन्ति बत कष्टमदीर्घदृष्ट्या
Nar10.89.2-4स्पष्टं वृकासर उदाहरणं किलास्मिन् ||
Nar10.89.3-1शकुनिजः स हि नारदमेकदा त्वरिततोष्षमपृच्छदधीश्वरम् |
Nar10.89.3-2स च दिदेश गिरीशमुपासितुं न तु भवन्तमबन्धुमसाधुषु ||
Nar10.89.4-1तपस्तप्त्व् घोरं स खलु कुपितः सप्तमदिने
Nar10.89.4-2शिरश्छित्त्वा सद्यः पुरहरमुपस्थाप्य पुरतः |
Nar10.89.4-3अतिक्षुद्रं रौद्रं शिरसि करदानेन निधनं
Nar10.89.4-4जगन्नाथाद्वव्रे भवति विमुखानां क्व शुभधूः ||
Nar10.89.5-1मोक्तारं बन्धमुक्तो हरिणपतिरिव प्राद्रवत्सोऽथ रुद्रं
Nar10.89.5-2दैत्याद्भीत्या स्म देवो दिशि दिशि वलते पृष्ठतो दत्तदृष्टिः |
Nar10.89.5-3तूष्णीके सर्वलोके तव पदमधिरोक्ष्यन्तमुद्वीक्ष्य शर्वं
Nar10.89.5-4दूरादेवाग्रतस्त्वं पटुवटुवपुषा तस्थिषे दानवाय ||
Nar10.89.6-1भद्रं ते शाकुनेय!भ्रमसि किमधुना त्वं पिशाचस्य वाचा
Nar10.89.6-2सन्देहश्चेन्मदुक्तौ तव किमु न करोष्यङ्गुलीमङ्ग!मौलौ |
Nar10.89.6-3इत्थं त्वद्वाक्यमूढः शिरसि कृतकरः सोऽपतच्छिन्नपातं
Nar10.89.6-4भ्रंशो ह्येवं परोपासितुरपि च गतिः शूलिनोऽपि त्वमेव ||
Nar10.89.7-1भृगुं किल सरस्वतीनिकटवासिनस्तापसा-
Nar10.89.7-2स्त्रिमुर्तिषु समादिशन्नधिकसत्त्वतां वेदितुम् |
Nar10.89.7-3अयं पुनरनादरादुदितरुद्धरोषे विधौ
Nar10.89.7-4हरेऽपि च जिहिंसिषौ गिरिजया धृते त्वामगात् ||
Nar10.89.8-1सुप्तं रमाङ्कभुवि पङ्कजलोचनं त्वां
Nar10.89.8-2विप्रे विनिघ्नति पदेन मुदोत्थितस्त्वम् |
Nar10.89.8-3सर्वं क्षमस्व मुनिवर्य!भवेत्सदा मे
Nar10.89.8-4त्वत्पादचिह्नमिह भूषणमित्यवादीः ||
Nar10.89.9-1निश्चित्य ते च सुदृढं त्वयि बद्धभावाः
Nar10.89.9-2सारस्वता मुनिवरा दधिरे विमोक्षम् |
Nar10.89.9-3त्वामेवमच्युत!पुनश्च्युतिदोषहीनं
Nar10.89.9-4सत्त्वोच्चयैकतनुमेव वयं भजामः ||
Nar10.89.10-1जगत्सृष्ट्यादौ त्वां निगमनिवहैर्वन्दिभिरिव
Nar10.89.10-2स्तुतं विष्णो!सच्चित्परमरसनिर्द्वैतवपुषम् |
Nar10.89.10-3परात्मानं भूमन्!पशुपविनताभाग्यनिवहं
Nar10.89.10-4परीतपश्रान्त्यै पवनपुरवासिन्!परिभजे ||
Nar10.90.1-1वृकभृगुसुनिमोहिन्यम्बरीषादिवृत्ते-
Nar10.90.1-2ष्वयि तव हि महत्त्वं सर्वशर्वादिजैत्रम् |
Nar10.90.1-3स्थितमिह परमात्मन्!निष्कलार्वागभिन्नं
Nar10.90.1-4किमपि यदवभातं तद्धि रूपं तवैव ||
Nar10.90.2-1मूर्तित्रयेश्वरसदाशिवपञ्चकं यत्
Nar10.90.2-2प्राहुः परात्मवपुरेव सदाशिवोऽस्मिन् |
Nar10.90.2-3तत्रेश्वरस्तु स विकुण्ठपदस्त्वमेव
Nar10.90.2-4त्रित्वं पुनर्भजसि सत्यपदे त्रिभागे ||
Nar10.90.3-1तत्रापि सात्त्विकतनुं तव विष्णुमाहुर्-
Nar10.90.3-2धाता तु सत्त्वविरलो रजसैव पूर्णः |
Nar10.90.3-3सत्त्त्वोत्कटत्वमपि चास्ति तमोविकार-
Nar10.90.3-4चेष्टादिकं च तव शङ्करनाम्नि मूर्तौ ||
Nar10.90.4-1तं च त्रिमूर्त्यतिगतं पुरपूरुषं त्वां
Nar10.90.4-2शर्वात्मनापि खलु सर्वमयत्वहेतोः |
Nar10.90.4-3शंसन्त्युपासनाविधौ तदपि स्वतस्तु
Nar10.90.4-4त्वद्रूपमित्यतिदृढं बहु नः प्रमाणम् ||
Nar10.90.5-1श्रीशङ्करोऽपि भगवान्सकलेषु तावत्
Nar10.90.5-2त्वामेव मानयति यो न हि पक्षपाती |
Nar10.90.5-3त्वन्निष्ठमेव स हि नामसहस्रकादि
Nar10.90.5-4व्याख्यद्भवत्स्तुतिपरश्च गतिं गतोऽन्ते ||
Nar10.90.6-1मूर्तित्रयातिगमुवाच च मन्त्रशास्त्रस्-
Nar10.90.6-2यादौ कलायसुषमं सकलेश्वरं त्वाम् |
Nar10.90.6-3ध्यानं च निष्कलमसौ प्रणवे खलूक्त्वा
Nar10.90.6-4त्वामेव तत्र सकलं निजगाद नान्यम् ||
Nar10.90.7-1समस्तसारे च पुराणसंग्रहे विसंशयं त्वन्महिमैव वर्ण्यते |
Nar10.90.7-2त्रिमूर्तियुक्सत्यपदत्रिभागतः परं पदं ते कथितं न शूलिनः ||
Nar10.90.8-1यद्ब्राह्मकल्प इह भागवतद्वितीय-
Nar10.90.8-2स्कन्धोदितं वपुरनावृतमीश!धात्रे |
Nar10.90.8-3तस्यैव नाम हरिशर्वमुखं जगाद
Nar10.90.8-4श्रीमाधवं शिवपरोऽपि पुराणसारे ||
Nar10.90.9-1ये स्वप्रकृत्यनुगुणा गिरिशं भजन्ते
Nar10.90.9-2तेषां फलं हि दृढयैव तदीयभक्त्या |
Nar10.90.9-3व्यासो हि तेन कृतवानधिकारिहेतोः
Nar10.90.9-4स्कान्दादिकेषु तव हानिवचोऽर्थवादैः ||
Nar10.90.10-1भूतार्थकीर्तिरनुवादविरुद्धवादौ
Nar10.90.10-2त्रेधार्थवादगतयः खलु रोचनार्थाः |
Nar10.90.10-3स्कान्दादिकेषु बहवोऽत्र विरुद्धवादास्-
Nar10.90.10-4त्वत्तामसत्वपरिभूत्युपशिक्षणाद्याः ||
Nar10.90.11-1यत्किञ्चिदप्यविदुषापि विभो!मयोक्तं
Nar10.90.11-2तन्मन्त्रशास्त्रवचनाद्यभिदृष्टमेव |
Nar10.90.11-3व्यासोक्तिसारमयभागवतोपगीत!
Nar10.90.11-4क्लेशान्विधूय कुरु भक्तिभरं परात्मन्!||
Nar11.91.1-1श्रीकृष्ण!त्वत्पदोपासनमभयतमं बद्धमिथ्यार्थदृष्टेर्-
Nar11.91.1-2मर्त्यस्यार्तस्य मन्ये व्यपसरति भयं येन सर्वात्मैव |
Nar11.91.1-3यत्तावत्त्वत्प्रणीतानिह भजनविधीनास्थितो मोहमार्गे
Nar11.91.1-4धावन्नप्यावृताक्षः स्खलति न कुहचिद्देवदेवाखिलात्मन्!||
Nar11.91.2-1भूमन्!कायेन वाचा मुहुरपि मनसा त्वद्बलप्रेरितात्मा
Nar11.91.2-2यद्यत्कुर्वे समस्तं तदिह परतरे त्वय्यसावर्पयामि |
Nar11.91.2-3जात्यापीह श्वपाकस्त्वयि निहितमनः कर्मवागिन्द्रियार्थ-
Nar11.91.2-4प्राणो विश्वं पुनीते न तु विमुखमनास्त्वत्पदाद्विप्रवर्यः ||
Nar11.91.3-1भीतिर्नाम द्वितीयाद्भवति ननु मनःकल्पितं च द्वितीयं
Nar11.91.3-2तेनैक्याभ्यासशीलो हृदयमिह यथाशक्ति बुद्ध्या निरुन्ध्याम् |
Nar11.91.3-3मायाविद्धे तु तस्मिन्पुनरपि न तथा भाति मायाधिनाथं
Nar11.91.3-4तत्त्वां भक्त्या महत्या सततमनुभजन्नीश!भीतिं विजह्याम् ||
Nar11.91.4-1भक्तेरुत्पत्तिवृद्धी तव चरणजुषं सङ्गमेनैव पुंसा-
Nar11.91.4-2मासाद्ये पुण्यभाजां श्रिय इव जगति श्रीमतां सङ्गमेन |
Nar11.91.4-3तत्सङ्गो देव!भूयान्मम खलु सततं तन्मुखादुन्मिषद्धिस्-
Nar11.91.4-4त्वन्माहात्म्यप्रकारैर्भवति च सुदृढा भक्तिरुद्धूतपापा ||
Nar11.91.5-1श्रेयोमार्गेषु भक्तावधिकबहुमतिर्जन्मकर्माणि भूयो
Nar11.91.5-2गायन्क्षेमाणि नामान्यपि तदुभयतः प्रद्रुतं प्रद्रुतात्मा |
Nar11.91.5-3उद्यद्धासः कदाचित्कुहाचिदपि रुदन्क्वापि गर्जन्प्रगाय-
Nar11.91.5-4न्नुन्मादीव प्रनृत्यन्नयि कुरु करुणां लोकबाह्यश्चरेयम् ||
Nar11.91.6-1भूतान्येतानि भूतात्मकमपि सकलं पक्षिमत्स्यान्मृगादीन्
Nar11.91.6-2मर्त्यान्मित्राणि शत्रूनपि यमितमतिस्त्वन्मयान्यानमानि |
Nar11.91.6-3त्वत्सेवायां हि सिध्येन्मम तव कृपया भक्तिदार्ढ्यं विरागस्-
Nar11.91.6-4त्वत्तत्त्वस्यावबोधोऽपि च भुवनपते!यत्नभेदं विनैव ||
Nar11.91.7-1नो मुह्यन्क्षुत्तृडाद्यैर्भवसरणिभवैस्त्वन्निलीनाशयत्वा-
Nar11.91.7-2च्चिन्तासातत्यशाली निमिषलवमपि त्वत्पदादप्रकम्पः |
Nar11.91.7-3इष्टानिष्टेषु तुष्टिव्यसनविरहितो मायिकत्वावबोधा-
Nar11.91.7-4ज्ज्योत्स्नाभिस्त्वन्नखेन्दोरधिकशिशिरितेनात्मना सञ्चरेयम् ||
Nar11.91.8-1भूतेष्वेषु त्वदैक्यस्मृतिसमधिगतौ नाधिकारोऽधुना चेत्
Nar11.91.8-2त्वत्प्रेम त्वत्कमैत्री जडमतिषु कृपा द्विट्सु भूयादुपेक्षा |
Nar11.91.8-3आर्चायां वा समर्चाकुतुकमुरुतरश्रद्धया वर्धतां मे
Nar11.91.8-4त्वत्संसेवी तथापि द्रुतमुपलभते भक्तलोकोत्तमत्वम् ||
Nar11.91.9-1आवृत्य त्वत्स्वरूपं क्षितिजलमरुदाद्यात्मना विक्षिपन्ती
Nar11.91.9-2जीवीन्भूयिष्ठकर्मावलिविवशगतीन्दुःखजाले क्षिपन्ती |
Nar11.91.9-3त्वन्माया माभिभून्मामयि भुवनपते!कल्पते तत्प्रशान्त्यै
Nar11.91.9-4त्वत्पादे भक्तिरेवेत्यवददयि विभो!सिद्धयोगी प्रबुद्धः ||
Nar11.91.10-1दुःखान्यालोक्य जन्तुष्वलमुदितविवेकोऽहमाचार्यवर्या-
Nar11.91.10-2ल्लब्ध्वा त्वद्रूपतत्त्वं गुणचरितकथाद्युद्भक्तिभूमा |
Nar11.91.10-3मायामेनां तरित्वा परमसुखमये त्वत्पदे मोदिताहे
Nar11.91.10-4तस्यायं पूर्वरङ्गः पवनपुरपते!नाशयाशेषरोगान् ||
Nar11.92.1-1वैदैः सर्वाणि कर्माण्यफलपरतया वर्णितानीति बुद्ध्वा
Nar11.92.1-2तानि त्वय्यर्पितान्येव हि समनुचरन्यानि नैष्कर्म्यमीश!|
Nar11.92.1-3मा भूद्वेदैर्निषिद्धे कुहचिदपि मनःकर्मवाचाः प्रवृत्तिर्-
Nar11.92.1-4दुर्वर्जं चेदवाप्तं तदपि खलु भवत्यर्पये चित्प्रकाशे ||
Nar11.92.2-1यस्त्वन्यः कर्मयोमस्तव भजनमयस्तत्र चाभीष्टमूर्तिं
Nar11.92.2-2हृद्यां सत्त्वैकरूपां दृषदि हृदि मृदि क्वापि वा भावयित्वा |
Nar11.92.2-3पुष्पैर्मन्धैर्निवेद्यैरपि च विरचितैः शक्तितो भक्तिपूतैर्-
Nar11.92.2-4नित्यं वर्यां सपर्यां विदधदयि विभो!त्वत्प्रसादं भजेयम् ||
Nar11.92.3-1स्त्रीशूद्रास्त्वत्कथादिश्रवणविरहिता आसतां ते दयार्हास्-
Nar11.92.3-2त्वत्पादासन्नयातान्द्विजकुलजनुषो हन्त शोचाम्यशान्तान् |
Nar11.92.3-3वृत्त्यर्थं ते यजन्तो बहुकथितमपि त्वामनाकर्णयन्तो
Nar11.92.3-4दृप्ता विद्याभिजात्यैः किमु न विदधते तादृशः मा कृथा माम् ||
Nar11.92.4-1पपोऽयं कृष्ण!रामेत्यभिलपति निजं गूहितुं दिश्चारित्रं
Nar11.92.4-2निर्लज्जस्यास्य वाचा बहुतरकथनीयानि मे विघ्नितानि |
Nar11.92.4-3भ्राता मे वन्ध्यशीलो भजति किल सदा विष्णुमित्थं बुधांस्ते
Nar11.92.4-4निन्दन्त्युच्चैर्हसन्ति त्वयि निहितरतींस्तादृशं मा कृथा माम् ||
Nar11.92.5-1श्वेतच्छायं कृते त्वां मुनिवरवपुषं प्रीणयन्ते तपोभि-
Nar11.92.5-2स्त्रेतायां स्रुक्स्रुवाद्यङ्कितमरुणतनुं यज्ञरूपं यजन्ते |
Nar11.92.5-3सेवन्ते तन्त्रमार्गैर्विलसदरिगदं द्वापरे श्यामलाङ्गं
Nar11.92.5-4नीलं सङ्कीर्तनाद्यैरिह कलिसमये मानुषास्त्वां भजन्ते ||
Nar11.92.6-1सोऽयं कालेयकालो जयति मुररिपो!यत्र सङ्कीर्तनाद्यैर्-
Nar11.92.6-2निर्यत्नैरेव मार्गैरखिलद!नचिरात्त्वत्प्रसादं भजन्ते |
Nar11.92.6-3जातास्त्रेताकृतादावपि हि किल कलौ सम्भवं कामयन्ते
Nar11.92.6-4दैवात्तत्रैव जातान्विषयविषरसैर्मा विभो!वञ्चयास्त्मान् ||
Nar11.92.7-1भक्तास्तावत्कलौ स्पुर्द्रमिलभुवि ततो भूरिशस्तत्र चोच्चैः
Nar11.92.7-2कावेरीं ताम्रपर्णीमन्किल कृतमालां च पुण्यां प्रतीचीम् |
Nar11.92.7-3हा मामप्येतदन्तर्भवमपि च विभो!किञ्चिदञ्चिद्रसं त्व-
Nar11.92.7-4य्याशापाशैर्निबध्य भ्रमय न मगवन्!पूरय त्वन्निषेवाम् ||
Nar11.92.8-1दृष्ट्वा धर्मद्रुहं तं कलिमपकरुणं प्राङ्महीक्षित्परीक्षि-
Nar11.92.8-2द्धन्तुं व्याकृष्टखड्गोऽपि न विनिहतवान्सारवेदी मुणांशात् |
Nar11.92.8-3त्वत्सेवाद्याशु सिध्येदसदिह न तथा त्वत्परे चैष भीरुर्-
Nar11.92.8-4यत्तु प्रागेव रोगादिभिरपहरते तत्र हा शिक्षयैनम् ||
Nar11.92.9-1गङ्गा गीता च गायत्र्यपि च तुलसिका गोपिकाचन्दनं तत्
Nar11.92.9-2सालग्रामाभिपूजा परपुरुष!तथैकादशी नामवर्णाः |
Nar11.92.9-3एतान्यष्टाप्ययत्नान्ययि कलिसमये त्वत्प्रसादप्रवृद्ध्या
Nar11.92.9-4क्षिप्रं मुक्तिप्रदानीत्यभिदधुरृषयस्तेषु मां सज्जयेथाः ||
Nar11.92.10-1देवर्षीणां पित्णामपि न पुनरृणी किङ्गरो वा स भूमन्!
Nar11.92.10-2योऽसौ सर्वात्मना त्वां शरणमुपगतः सर्वकृत्यानि हित्वा |
Nar11.92.10-3तस्योत्पन्नं विकर्माप्यखिलमपनुदस्येव चित्तस्थितस्त्वं
Nar11.92.10-4तन्मे पपोत्थतापान्पवनपुरपते!रुन्दि भक्तिं प्रणीयाः ||
Nar11.93.1-1बन्धुस्नेहं विजह्यां तव हि करुणया त्वय्युपावेशितात्मा
Nar11.93.1-2सर्वं त्वक्त्वा चरेयं सकलमपि जगद्वीक्ष्य मायाविलासम् |
Nar11.93.1-3नानात्वाद्भृआन्तिजन्यात्सति खलु गुणदोषावबोधे विधिर्वा
Nar11.93.1-4व्यासेधो वा कथं तौ त्वयि निहितमतेर्वीतवैषम्यबुद्धेः ||
Nar11.93.2-1क्षुत्तृष्णालोपमात्रे सततकृतधियो जन्तघः सन्त्यनन्ता-
Nar11.93.2-2स्तेभ्यो विज्ञानवत्त्वात्पुरुष इह वरस्तज्जनिर्दुर्लभैव |
Nar11.93.2-3तत्राप्यात्मात्मनः स्यात्सुहृदपि च रिपुर्यस्त्वयि न्यस्तचेता-
Nar11.93.2-4स्तापोच्छित्तेरुपाथं स्मरति स हि सुहृत्स्वात्मवैरी ततोऽन्यः ||
Nar11.93.3-1त्वत्कारुण्ये प्रवृत्ते क इव न हि गुरुर्लोकवृत्तेऽपि भूमन्!
Nar11.93.3-2सर्वाक्रान्तापि भूमिर्न हि चलति ततः सत्क्षमां शिक्षयेयम् |
Nar11.93.3-3गृह्णीयामीश!तत्तद्विषयपरिचतेऽप्यप्रसक्तिं समीराद्
Nar11.93.3-4व्याप्तत्वं चात्मनो मे गगनगुरुवशाद्भातु निर्लेपता च ||
Nar11.93.4-1स्वच्छः स्यां पावनोऽहं मधुर उदकवद्वह्निवन्मा स्म गृह्णां
Nar11.93.4-2सर्वान्नीनोऽपि दोषं तरुषु तमिव मां सर्वभूतेष्ववेयाम् |
Nar11.93.4-3पुष्टिर्नष्टिः कलानांं शशिन इव तनोर्नात्मनोऽस्तीति विद्यां
Nar11.93.4-4तोयादिव्यस्तमार्तण्डवदपि च तनुष्वेकतां त्वत्प्रसादात् ||
Nar11.93.5-1स्नेहाद्व्याधास्तपुत्रप्रणयमृतकपोतीयितो मा स्म भूवं
Nar11.93.5-2प्राप्तं प्राश्नन्सहेय क्षुधमपि शयुवत्सिन्धुवत्स्यामगाधः |
Nar11.93.5-3मा पप्तं योषिदादौ शिखिनि शलभवद्भृङ्गवत्सारभागी
Nar11.93.5-4भूयासं किन्तु तद्वद्धनचयनवशान्माहमीश!प्रनेशम् ||
Nar11.93.6-1मा बध्यासं तरुण्या गज इव वशया नार्जयेयं धनौघं
Nar11.93.6-2हर्तान्यस्तं हि माध्वीहर इव मृगवन्मा गुहं ग्राम्यगीतैः |
Nar11.93.6-3नात्यासज्जेय भोज्ये झष इव बडिशे पिङ्गलावन्निराशः
Nar11.93.6-4सुप्यां भर्तव्ययोगात्कुरर इव विभो!सामिषोऽन्यैर्न हन्यै ||
Nar11.93.7-1वर्तेय त्यक्तमानः सुखमतिशिशुवन्निस्सहायश्चरेयं
Nar11.93.7-2कन्याया एकशेषो वलय इव विभो!वर्जितान्योन्यघोषः |
Nar11.93.7-3त्वच्चित्तो नावबुध्यै परमिषुकृदिव क्ष्माभृदायानघोषं
Nar11.93.7-4गेहेष्वन्यप्रणीतेष्वहिरिव निवसान्युन्दुरोर्मन्दिरेषु ||
Nar11.93.8-1त्वय्येव त्वत्कृतं त्वं क्षपयसि जगदित्यूर्णनाभात्प्रतीयां
Nar11.93.8-2त्वच्चिन्ता त्वत्स्वरूपं कुरुत इति दृढं शिक्षेये पेशकारात् |
Nar11.93.8-3विड्भस्मात्मा च देहि भवति गुरुवरो यो विवेकं विरक्तिं
Nar11.93.8-4धत्ते सञ्चिन्त्यमानो मम तु बहुरुजापीडितोऽयं विशेषात् ||
Nar11.93.9-1ही ही मे देहमोहं त्यज पवनपुराधीश!यत्प्रेमहेतोर्-
Nar11.93.9-2गेहे चित्ते कलत्रादिषु च विवाशितास्त्वत्पदं विस्मरन्ति |
Nar11.93.9-3सोऽयं वह्नेः शुनो वा परमिह परतः साम्प्रतः चाक्षिकर्ण-
Nar11.93.9-4त्वग्जिह्वाद्या विकर्षन्त्यवशमत इतः कोऽपि न त्वत्पदाब्जे ||
Nar11.93.10-1दुर्वारो देहमोहो यदि पुनरधुना तर्हि निश्शेषरोगान्
Nar11.93.10-2हृत्वा भक्तिं द्रधिष्ठां कुरु तव पदपङ्केरुहे पङ्कजाक्ष!|
Nar11.93.10-3नूनः नानाभवान्ते समधिगतमिमं मुक्तिदं विप्रदेहं
Nar11.93.10-4क्षुद्रे हा हन्त मा मा क्षिप विषयरसे पाहि मां मारुतेश!||
Nar11.94.1-1नानात्वस्थौल्यकार्श्यादि तु गुणजवपुस्सङ्गतोऽध्यासितं ते
Nar11.94.1-2वह्नेर्दारुप्रभेदेष्विव महदणुतादीप्तताशान्ततादि ||
Nar11.94.2-1आचार्याख्याधरस्थारणिसमनुमिलच्छिष्यरूपोत्तरारे-
Nar11.94.2-2ण्यावेधोद्भासितेन स्फुटतरपरिबोधाग्निना दह्यमाने |
Nar11.94.2-3कर्मालीवासनातत्कृततनुभुवनभ्रान्तिकान्तारपूरे
Nar11.94.2-4दाह्याभावने विद्याशिखिनि च विरते त्वन्मयी खल्ववस्था ||
Nar11.94.3-1एवं त्वत्प्राप्तितोऽन्यो नहि खलु निखिलक्लेशहानेरुपायो
Nar11.94.3-2नैकान्तात्यन्तिकास्ते कृषिवदगदषाड्गुण्यषट्कर्मयोगाः |
Nar11.94.3-3दुर्वैकल्यैरकल्या अपि निगमपथास्तत्फलान्यप्यवाप्ता
Nar11.94.3-4मत्तास्त्वां विस्मरन्तः प्रसजति पतने यान्त्यनन्तान्विषादान् ||
Nar11.94.4-1त्वल्लोकादन्यलोकः क्व नु भयरहितो यत्परार्धद्वयान्ते
Nar11.94.4-2त्वद्भीतः सप्यलोकेऽपि न सुखवसतिः पद्मभूः पद्मनाभः!|
Nar11.94.4-3एवम्भावे त्वधर्मार्जितबहुतमसां का कथा नारकाणां
Nar11.94.4-4तन्मे त्वं छिन्धि बन्धं वरद!कृपणबन्धो!कृपापूरसिन्धो!||
Nar11.94.5-1याथार्थ्यात्त्वन्मस्यैव हि मम न विभो!वस्तुतो बन्धमोक्षौ
Nar11.94.5-2मायाविद्यातनुभ्यां तव तु विरचितौ स्वप्नबोधोपमौ तौ |
Nar11.94.5-3बद्धे जीवद्विमुक्तिं गतवति च भिदा तावती तावेदेको
Nar11.94.5-4भुङ्क्ते देहद्रुमस्थो विषयफलरसान्नापरो निर्व्यथात्मा ||
Nar11.94.6-1जीवन्मुक्तत्वमेवंविधमिति वचसा किं फलं दूरदूरे
Nar11.94.6-2तन्नामाशुद्धबुद्धेर्न च लघु मनसः शोधनं भक्तितोऽन्यत् |
Nar11.94.6-3तन्मे विष्णो!कृषीष्ठास्त्वयि कृतसकलप्रार्पणं भक्तिभारं
Nar11.94.6-4येन स्यां मङ्क्षु किञ्चिद्गुरुवचनमिलत्त्वत्प्रबोधस्त्वदात्मा ||
Nar11.94.7-1शब्दब्रह्मण्यपीह प्रयतितमनसस्त्वां न जानन्ति केचित्
Nar11.94.7-2कष्टं वन्ध्यश्रमास्ते चिरतरमिह गां बिभ्रते निष्प्रसूतिम् |
Nar11.94.7-3यस्याः विश्वाभिरामाः सकलमलाहरा दिव्यलीलावताराः
Nar11.94.7-4सच्चित्सान्द्रं च रूपं तव न निगदितं तां न वाचं भ्रियासम् ||
Nar11.94.8-1यो यावान्यादृशो वा त्वमिति किमपि नैवावगच्छामि भूम-
Nar11.94.8-2न्नेवञ्चानन्यभावस्त्वदनुभजनमेवाद्रिये चैद्यवैरिन्!|
Nar11.94.8-3त्वल्लिङ्गानां त्वदङ्घ्रिप्रियजनसदसां दर्शनस्पर्शनादिर्-
Nar11.94.8-4भयान्मे त्वत्प्रपूजानतिनुतिगुणकर्मानुकीर्त्यादरोऽपि ||
Nar11.94.9-1यद्यल्लभ्येत तत्तत्तव समुपहृतं देव!दासोऽस्मि तेऽहं
Nar11.94.9-2त्वद्गेहोन्मार्जनाद्यं भवतु मम मुहुः कर्म निर्मायमेव |
Nar11.94.9-3सूर्याग्निब्राह्मणात्मादिसु लसितचतुर्बाहुमाराधये त्वां
Nar11.94.9-4त्वत्प्रेमार्द्रत्वरूपो मम सततमभिष्यन्दतां भक्तियोगः ||
Nar11.94.10-1एक्यं ते दानोहिमव्रतनियमतपस्साङ्ख्ययोगैर्दुरापं
Nar11.94.10-2त्वत्सङ्गेनैव गोप्यः किल सुकृतितमाः प्रापुरानन्दसान्द्रम् |
Nar11.94.10-3भक्तेष्वन्येषु भूयस्स्वपि बहुमनुषे भक्तिमेव त्वमासां
Nar11.94.10-4तन्मे त्वद्भक्तिमेव द्रढय हर गदान्कृष्ण!वातालयेश!||
Nar11.95.1-1आदौ हैरण्यगभीं तनुमविकलजीवात्मिकामास्थितस्त्वं
Nar11.95.1-2जीवत्वं प्राप्य मायागुणगणखचितो वर्तसे विश्वयोने!|
Nar11.95.1-3तत्रोद्वृद्धेन सत्त्वेन तु गणयुगलं भक्तिभावं गतेन-
Nar11.95.1-4च्छित्वा सत्त्वं च हित्वा पुनरनुपहितो वर्तिताहे त्वमेव ||
Nar11.95.2-1सत्त्वोन्मेषात्कदाचित्खलु विषयरसे दोषबोधेऽपि भूमन्!
Nar11.95.2-2भूयोऽप्येषु प्रवृत्तिः सतमसि रजसि प्रोद्धते दुर्निवारा |
Nar11.95.2-3चित्तं तावद्गुणाश्च ग्रथितमिह मिथस्तानि सर्वाणि रोद्धुं
Nar11.95.2-4तुर्ये त्वय्येकभक्तिः शरणमिति भवान्हंसारूपी न्यगादीत् ||
Nar11.95.3-1सन्ति श्रेयांसि भूयांस्यपि रुचिभिदया कर्मिणां निर्मितानि
Nar11.95.3-2क्षुद्रानन्दाश्च सान्ता बहुविधगतयः कृष्ण!तेभ्यो भवेयुः |
Nar11.95.3-3त्वं चाचख्याथ सख्ये ननु महिततमां श्रेयसां भक्तिमेकां
Nar11.95.3-4त्वद्भक्त्यानन्दतुल्यः खलु विषयजुषां सम्मदः केन वा स्यात् ||
Nar11.95.4-1त्वद्भक्त्या तुष्टबुद्धेः सुखमिह चरतो विच्युताशस्य चाशाः
Nar11.95.4-2सर्वाः स्युः सौख्यमय्यः सलिलकुहरगस्येव तोयैकमय्यः |
Nar11.95.4-3सोऽयं खल्विन्द्रलोकं कमलजभवनं योगसिद्धीश्च हृद्या
Nar11.95.4-4नाकाङ्क्षत्येतदास्तां स्वयमनुपतिते मोक्षसौख्येऽप्यनीहः ||
Nar11.95.5-1त्वद्भक्तो बाध्यमानोऽपि च विषयरसैरिन्द्रियाशान्तिहेतोर्-
Nar11.95.5-2भक्त्यैवाक्रम्यमाणैः पुनरपि खलु तैर्दुर्बलैर्नाभिजय्यः |
Nar11.95.5-3सप्तार्चिर्दीपितार्चिर्दहति किल यथा भूरिदारुप्रपञ्चं
Nar11.95.5-4त्वद्भक्त्योघे तथैव प्रदहति दुरितं दुर्मदः क्वेन्द्रियाणाम् ||
Nar11.95.6-1चित्तार्द्रीभाववमुच्चैर्वपुषि च पुलकं हर्षबाष्यं च हित्वा
Nar11.95.6-2चित्तं शुध्येत्कथं वा किमु बहुतपसा विद्यया वीतभक्तेः |
Nar11.95.6-3त्वद्गाथास्वादसिद्धाञ्जनसततमरीमृज्यमानोऽयमात्मा
Nar11.95.6-4चक्षुर्वत्तत्त्वसूक्ष्मं भजति न तु तथाभ्यस्तया तर्ककोट्या ||
Nar11.95.7-1ध्यानं ते शीलयेयं समतनुसुखबद्धासनो नासिकाग्र-
Nar11.95.7-2न्यस्ताक्षः पूरकाद्यैर्जितपवनपथश्चित्तपद्मं त्ववाञ्चम् |
Nar11.95.7-3ऊर्ध्वाग्रं भवयित्वा रविविधुशिखिनः संविचिन्त्योपरिष्टात्
Nar11.95.7-4तत्रस्थं भावये त्वां सजलजलधरश्यामलं कोमलाङ्गम् ||
Nar11.95.8-1आनीलश्लक्ष्णकेशं ज्वलितमकरसत्कुण्डलं मन्दहास-
Nar11.95.8-2स्यन्दार्द्रं कौस्तुभश्रीपरिगतवनमालोरुहाराभिरामम् |
Nar11.95.8-3श्रीवत्साङ्कं सुबाहुं मृदुलसदुदरं काञ्चनच्छायचेलं
Nar11.95.8-4चारुस्निग्धोरुमम्भोरुहललितपदं भावयेयं भवन्तम् ||
Nar11.95.9-1सर्वाङ्गेष्वङ्ग!रङ्गत्कुतुकमतिमुहुर्धारयन्नीश!चित्तं
Nar11.95.9-2तत्राप्येकत्र युञ्जे वदनसरसिजे सुन्दरे मन्दहासे |
Nar11.95.9-3तत्रालीनं तु चेतः परमसुखचिदद्वैतरूपे वितन्व-
Nar11.95.9-4न्नन्यन्नो चिन्तयेयं मुहुरिति समुपारूढयोगो भवेयम् ||
Nar11.95.10-1इत्थं त्वद्ध्यानयोगे सति पुनरणिमाद्यष्टसंसिद्धयस्ता
Nar11.95.10-2दूरश्रुत्यादयोऽपि ह्यहमहमिकया सम्पतेयुर्मुरारे!|
Nar11.95.10-3त्वत्सम्प्राप्तौ विलम्बावहमखिमिदं नाद्रिये कामयेऽहं
Nar11.95.10-4त्वामेवानन्दपूर्णं पवनपुरपते!पाहि मां सर्वतापात् ||
Nar11.96.1-1त्वं हि ब्रह्मैव साक्षात्परमुरुमहिमन्नक्षराणामकार-
Nar11.96.1-2स्तारो मन्त्रेषु राज्ञां मनुरसि मुनिषु त्वं भृगुर्नारदोऽपि |
Nar11.96.1-3प्रह्लादो दानवानां पशुषु च सुरभिः पक्षिणां वैनतेयो
Nar11.96.1-4नागानामस्यनन्तः सुरसरिदपि च स्रोतसां विश्वमूर्ते!||
Nar11.96.2-1ब्रह्मण्यानां बलिस्त्वं क्रतुषु च जपयज्ञोऽसो वीरेषु पार्थो
Nar11.96.2-2भक्तानामुद्धवस्त्वं बलमसि बलिनां धाम तेजस्विनां त्वम् |
Nar11.96.2-3नास्त्यन्तस्त्वद्विभूतेर्विकसदतिशयं वस्तु सर्वं त्वमेव
Nar11.96.2-4त्वं जीवस्त्वं प्रधानं यदिह भवदृते तन्न किञ्चित्प्रपञ्चे ||
Nar11.96.3-1धर्मं वर्णाश्रमाणां श्रुतिपथविहितं त्वत्परत्वेन भक्त्या
Nar11.96.3-2कुर्वन्तोऽन्तर्विरागे विकसति शनकैः सन्त्यजन्तो लभन्ते |
Nar11.96.3-3सत्तास्फूर्तिप्रियत्वात्मकमखिलपदार्थेषु भिन्नेष्वभिन्नं
Nar11.96.3-4निर्मूलं विश्वमूलं परममहमिति त्वद्विबोधं विशुद्धम् ||
Nar11.96.4-1ज्ञानं कर्मापि भक्तिस्त्रितयमिह भवत्प्रापकं तत्र तावद्
Nar11.96.4-2निर्विण्णानामशेषे विषय इह भवेद्ज्ञानयोगेऽधिकारः |
Nar11.96.4-3सक्तानां कर्मयोगस्त्वयि हि विनिहितो ये तु नात्यन्तसक्ता
Nar11.96.4-4नाप्यत्यन्तं विरक्तास्त्वयि च धृतरसा भक्तियोगो ह्यमीषाम् ||
Nar11.96.5-1ज्ञानं त्वद्भक्ततां वा लघु सुकृतवशान्मर्त्यलोके लभन्ते
Nar11.96.5-2तस्मात्तत्रैव जन्म स्पृहयति भगवन्!नाकगो नारको वा |
Nar11.96.5-3आविष्टं मां तु दैवाद्भवजलनिधिपोतायिते मर्त्यदेहे
Nar11.96.5-4त्वं कृत्वा कर्णधारं गुरुमनुगुणवातायितस्तारयेथाः ||
Nar11.96.6-1अव्यक्तं मार्गयन्तः श्रुतिभिरपि नयैः केवलज्ञानलुब्धाः
Nar11.96.6-2क्लिश्यन्तेऽतीव सिद्धिं बहुतरजनुषामन्त एवाप्नुवन्ति |
Nar11.96.6-3दुरस्थः कर्मयोगोऽपि च परमफले नन्वयं भक्तियोग-
Nar11.96.6-4स्त्वामूलादेव हृद्यस्त्वरितमयि!भवत्प्रापको वर्धतां मे ||
Nar11.96.7-1ज्ञानायैवातियत्नं मुनिरपवदते ब्रह्मतत्त्वं तु शृण्वन्
Nar11.96.7-2गाढं त्वत्पादभक्तिं शरणमयति यस्तस्य मुक्तिः कराग्रे |
Nar11.96.7-3त्वद्ध्यानेऽपीह तुल्या पुनरसुकरता चित्तचाञ्चल्यहेतो-
Nar11.96.7-4रभ्यासादाशु शक्यं वशयितुं त्वत्कृपाचारुताभ्याम् ||
Nar11.96.8-1निर्विण्णः कर्ममार्गे खलु विषमतमे त्वत्कथादौ च गाढं
Nar11.96.8-2जातश्रद्धोऽपि कामानयि भुवनपते!नैव शक्नोमि हातुम् |
Nar11.96.8-3तद्भूयो निश्चयेन त्वयि निहितमना दोषबुद्ध्या भजंस्तान्
Nar11.96.8-4पुष्णीयां भक्तिमेव त्वयि हृदयगते मङ्क्षु नङ्क्ष्यन्ति सङ्गाः ||
Nar11.96.9-1कश्चित्क्लेशार्जितार्थक्षयविमलमतिर्नुद्यमानो जनौधैः
Nar11.96.9-2प्रागेवं प्राहि विप्रो न खलु मम जनः कालकर्मग्रहा वा |
Nar11.96.9-3चेतो मे दुःखहेतुस्तदिह गुणगणं भावयत्सर्वकारी-
Nar11.96.9-4त्युक्त्वा शान्तो गतस्त्वां मम च कुरु विभो!तादृशीं चित्तशान्तिम् ||
Nar11.96.10-1एलः प्रागुर्वशीं प्रत्यतिविवशमनाः सेवमानश्चिरं तां
Nar11.96.10-2गाढं निर्विद्य भूयो युवतिसुखमिदं क्षुद्रमेवेति गायन् |
Nar11.96.10-3त्वद्भक्तिं प्राप्य पूर्णः सुखतरमचरत्तद्वदुद्धूय सङ्गं
Nar11.96.10-4भक्तोत्तंसं क्रिया मां पवनपुरपते!हन्त मे रुन्धिरोगान् ||
Nar11.97.1-1त्रैगुण्याद्भिन्नरूपं भवति हि भुवने हीनमध्योत्तमं य-
Nar11.97.1-2ज्ञानं श्रद्धा च कर्ता वसतिरपि सुखं कर्म चाहारभेदाः |
Nar11.97.1-3त्वत्क्षेत्रत्वन्निषेवादि तु यदिह पुनस्त्वत्परं तत्तु सर्वं
Nar11.97.1-4प्राहुर्नैर्गुण्यनिष्ठं तदनुभजनतो मङ्क्षु सिद्धो भवेयम् ||
Nar11.97.2-1त्वय्येव न्यस्तचित्तः सुखमयि विचरन्सर्वचेष्टास्त्वदर्थं
Nar11.97.2-2त्वद्भक्तैः सेव्यमानानपि चरितचरानाश्रयन्पुंण्यदेशान् |
Nar11.97.2-3दस्यौ विप्रे गृहादिष्वपि च सममतिर्मुच्यमानावमान-
Nar11.97.2-4स्पर्धासूयादिदोषः सततमखिलभूतेषु सम्पूजये त्वाम् ||
Nar11.97.3-1त्वद्भावो यावदेषु स्फुरति न विशदं तावदेवं ह्युपास्तिं
Nar11.97.3-2कुर्वन्नैकात्म्यबोधे झटिति विकसति त्वन्मयोऽहं चरेयम् |
Nar11.97.3-3त्वद्धर्मस्यास्य तावत्किमपि न भगवन्!प्रस्तुतस्य प्रणाश-
Nar11.97.3-4स्तस्मात्सर्वात्मनैव प्रदिश मम विभो!भक्तिमार्गं मनोझम् ||
Nar11.97.4-1तं चैनं भक्तियोगं द्रढयितुमयि!मे साध्यमारोग्यमायुर्-
Nar11.97.4-2दिष्ट्या तत्रापि सेव्यं तव चरणमहो भेषजायेव दुग्धम् |
Nar11.97.4-3मार्कण्डेयो हि पूर्वं गणकनिगदितद्वादशाब्दायुरुच्चैः
Nar11.97.4-4सेवित्वा वत्सरं त्वां तव भटनिवहैर्द्रावयामास मृत्युम् ||
Nar12.97.5-1मार्कण्डेयश्चिरायुः स खलु पुनरपि त्वत्परः पुष्पभद्रा-
Nar12.97.5-2तीरे निन्ये तपस्यन्नतुलसुखरतिः षट्तु मन्वन्तराणि |
Nar12.97.5-3देवेन्द्रः सप्तमस्तं सुरयुवतिमरुन्मन्मथैर्मोहयिष्यन्
Nar12.97.5-4योगोष्मप्लुष्यमाणैर्न तु पुनरशकत्त्वज्जनं निर्जयेत्कः ||
Nar12.97.6-1प्रीत्या नारायणाख्यस्त्वमथ नरसखः प्राप्तवानस्य पार्श्वं
Nar12.97.6-2तुष्ट्या तोष्टूयमानः स तु विविधवरैर्लोभितो नानुमेने |
Nar12.97.6-3द्रष्टुं मायां त्वदीयां किल पुनरवृणोद्भक्तितृप्तान्तरात्मा
Nar12.97.6-4मायादुःखानभिज्ञस्तदपि मृगयते नूनमाश्चर्यहेतोः ||
Nar12.97.7-1याते त्वय्याशु वाताकुलजलदगलत्तोतपूर्णातिघूर्ण-
Nar12.97.7-2त्सप्तार्णोराशिमग्ने जगति स तु जले सम्भ्रमन्वर्षकोटीः |
Nar12.97.7-3दीनः प्रैक्षिष्ट दूरे वटदलशयनं कञ्चिदाश्चर्यबालं
Nar12.97.7-4त्वामेव श्यामलाङ्गं वदनसरसिजन्यस्तपादाङ्गुलीकम् ||
Nar12.97.8-1दृष्ट्वा त्वां हृष्टरोमा त्वरितमभिगतः स्प्रष्टुकामो मुनीन्द्रः
Nar12.97.8-2श्वासेनान्तर्निविष्टः पुनरिह सकलं दृष्टवान्विष्टपौघम् |
Nar12.97.8-3भूयोऽपि श्वासवातैर्बहिरनुपतितो वीक्षितस्त्वत्कटाक्षैर्-
Nar12.97.8-4मोदादाश्लेष्टुकामस्त्वयि पिहिततनौ स्वाश्रमे प्राग्वदासीत् ||
Nar12.97.9-1गौर्या सार्धं तदग्रे पुरभिदथ गतस्त्वत्प्रियप्रेक्षणार्थी
Nar12.97.9-2सिद्धानेवास्य दत्त्वा स्वयमयमजरामृत्युतादीन्गतोऽभूत् |
Nar12.97.9-3एवं त्वत्सेवयैव स्मररिपुरपि स प्रीयते येन तस्मा-
Nar12.97.9-4न्मूर्तित्रय्यात्मकस्त्वं ननु सकलनियन्तेति सुव्यक्तमासीत् ||
Nar12.97.10-1त्र्यंशेऽस्मिन्सत्यलोके विधिहरिपुरभिन्मन्दिराण्यूर्ध्वमूर्ध्वं
Nar12.97.10-2तेभ्योऽप्यूर्ध्वं तु मायाविकृतिविरहितो भाति वैकुण्ठलोकः |
Nar12.97.10-3तत्र त्वं कारणाम्भस्यपि पशुपकुले शुद्धसत्त्वैकरूपी
Nar12.97.10-4सच्चिद्ब्रह्माद्वयात्मा पवनपुरपते!पाहि मां सर्वरोगात् ||
Nar12.98.1-1यस्मिन्नेतद्विभातं यत इदमभवद्येन चेदं य एतद्
Nar12.98.1-2योऽस्मादुत्तीर्णरूपः खलु सकलमिदं भासितं यस्य भासा |
Nar12.98.1-3यो वाचां दूरदूरे पुनरपि मनसां यस्य देवा नुनीन्द्रा
Nar12.98.1-4नो विद्युस्तत्त्वरूपं किमु पुनरपरे कृष्ण!तस्मै नमस्ते ||
Nar12.98.2-1जन्माथो कर्म नाम स्फुटमिह गुणदोषादिकं वा न यस्मिन्
Nar12.98.2-2लोकानामूतेय यः स्वयमनुभजते तानि मायानुसारी |
Nar12.98.2-3बिब्रच्छक्तीररूपोऽपि च बहुतररूपोऽवभात्यद्धुतात्मा
Nar12.98.2-4तस्मै कैवल्यधाम्ने पररसपरिपूर्णाय विष्णो!नमस्ते ||
Nar12.98.3-1नो तिर्यञ्चं न मर्त्यं न च सुरमसुरं न स्त्रियं नो पुमांसं
Nar12.98.3-2न द्रव्यं कर्म जातिं गुणमपि सदसद्वापि ते रूपमाहुः |
Nar12.98.3-3शिष्टं यत्स्यान्निषेधे सति निगमशतैर्लक्षणावृत्तितस्तत्
Nar12.98.3-4कृच्छेणावेद्यमानं परमसुखमयं भाति तस्मै नमस्ते ||
Nar12.98.4-1मायायां बिम्बितस्त्वं सृजसि महदहङ्कारतन्मात्रभेदैर्-
Nar12.98.4-2भूतग्रामेन्द्रियाद्यैरपि सकलजगत्स्वप्नसङ्कल्पकल्पम् |
Nar12.98.4-3भूयः संहृत्य सर्वं कमठ इव पदान्यात्मना कालशक्त्या
Nar12.98.4-4गम्भीरे जायमाने तमसि वितिमिरो भासि तस्मै नमस्ते ||
Nar12.98.5-1शब्दब्रह्मेति कर्मेत्यणुरिति भगवन्!काल इत्यालपन्ति
Nar12.98.5-2त्वामेकं विश्वहेतुं सकलमयतया सर्वथा कल्प्यमानम् |
Nar12.98.5-3वेदान्तैर्यत्तु गीतं पुरुषपरचिदात्माभिधं तत्तु तत्त्वं
Nar12.98.5-4प्रेक्षामात्रेण मूलप्रकृतिविकृतिकृत्कृष्ण!तस्मै नमस्ते ||
Nar12.98.6-1सत्त्वेनासत्तया वा न च खलु सदसत्त्वेन निर्वाच्यरूपा
Nar12.98.6-2धत्ते यासावविद्या गुणफणिमतिवद्विश्वदृश्यावभासम् |
Nar12.98.6-3विद्यात्वं सैव याता श्रुतिवचनलवैर्यत्कृपास्यन्दलाभे
Nar12.98.6-4संसारारण्यसद्यस्त्रुटनपरशुतामेति तस्मै नमस्ते ||
Nar12.98.7-1भूषासु स्वर्णवद्वा जगति घटशरावादिके मृत्तिकावत्
Nar12.98.7-2तत्त्वे सञ्चिन्त्यमाने स्फुरति तदधुनाप्यद्वितीयं वपुस्ते |
Nar12.98.7-3स्वप्नद्रष्टुः प्रबोधे तिमिरलयविधौ जीर्णरज्जोश्च यद्वद्
Nar12.98.7-4विद्यालाभे तथैव स्फुटमपि विकसेत्कृष्ण!तस्मै नमस्ते ||
Nar12.98.8-1यद्भीत्योदेति सूर्यो दहति च दहनो वाति वायुस्तथान्ये
Nar12.98.8-2यद्भीताः पद्मजाद्याः पुनरुचितबलीनाहरन्तेऽनुकालम् |
Nar12.98.8-3येनैवारोपिताः प्राङ्निजपदमपि ते च्यावितारश्च पश्चात्
Nar12.98.8-4तस्मै विश्वं नियन्त्रे वयमपि भवते कृष्ण!कुर्मः प्रणामम् ||
Nar12.98.9-1त्रैलोक्यं भावयन्तं त्रिगुणमयमिदं त्र्यक्षरस्यैकवाच्यं
Nar12.98.9-2त्रीशानामैक्यरूपं त्रिभिरपि निगमैर्गीयमानस्वरूपम् |
Nar12.98.9-3तिस्रोऽवस्था विदन्तं त्रियुगजनिजुषं त्रिक्रमक्रान्तविश्वं
Nar12.98.9-4त्रैकाल्ये भेदहीनं त्रिभिरहमनिशं योगभेदैर्भजे त्वाम् ||
Nar12.98.10-1सत्यं शुद्धं विबुद्धं जयति तव वपुर्नित्यमुक्तं निरीहं
Nar12.98.10-2निर्द्वन्द्वं निर्विकारं निखिलगुणगणव्यञ्जनाधारभूतम् |
Nar12.98.10-3निर्मूलं निर्मलं तन्निरवधिमहिमोल्लासि निर्लीनमन्तर्-
Nar12.98.10-4निस्सङ्गानां मुनीनां निरुपमपरमानन्दसान्द्रप्रकाशम् ||
Nar12.98.11-1दुर्वारं द्वादशारं त्रिशतपरिमिलत्षष्टिपर्वाभिवीतं
Nar12.98.11-2संभृआम्यत्क्रूरवेगं क्षणमनु जगदाच्छिद्य सन्धावमानम् |
Nar12.98.11-3चक्रं ते कालरूपं व्यथयतु न तु मां त्वत्पदैकावलम्बं
Nar12.98.11-4विष्णो!कारुण्यसिन्धो!पवनपुरपते!पाहि सर्वामयौघात् ||
Nar12.99.1-1विष्णोर्वीर्याणि को वा कथयतु धरणेः कश्च रेणून्मिमीते
Nar12.99.1-2यस्यैवाङ्घ्रित्रयेण त्रिजगदभिमितं मोदते पूर्णसम्पत् |
Nar12.99.1-3योऽसौ विश्वानि धत्ते प्रियमिह परमं धाम तस्याभियायां
Nar12.99.1-4तद्भक्ता यत्र माद्यन्त्यमृतरसमरन्दस्य यत्र प्रवाहः ||
Nar12.99.2-1आद्यायाशेषकर्त्रे प्रतिनिमिषनवीनाय भर्त्रे विभूतेर्-
Nar12.99.2-2भक्तात्मा विष्णवे यः प्रादिशति हविरादीनि यज्ञार्चनादौ |
Nar12.99.2-3कृष्णाद्यं जन्म वा महदिह महतो वर्णयेत्सोऽयमेव
Nar12.99.2-4प्रीतः पूर्णो यशोभिस्त्वरितमभिसरेत्प्राप्यमन्ते पदं तत् ||
Nar12.99.3-1हे स्तोतारः!कवीन्द्रास्तमिह खलु यथा चेतयध्वे तथैव
Nar12.99.3-2व्यक्तं वेदस्य सारं प्रणुवत जननोपात्तलीलाकथाभिः |
Nar12.99.3-3जानन्तश्चास्य नामान्यखिलसुखकराणीति सङ्कीर्तयध्वं
Nar12.99.3-4हे विष्णो!कीर्तनाद्यैस्तव खलु महतस्तत्त्वबोधं भजेयम् ||
Nar12.99.4-1विष्णोः कर्माणि सम्पश्यत मनसि सदा यैः स धर्मानबध्नाद्
Nar12.99.4-2यानीन्द्रस्यैष भृत्यः प्रियसख इव च व्यातनोत्क्षेमकारी |
Nar12.99.4-3वीक्षन्ते योगसिद्धाः परपदमनिशं पस्य सम्यक्प्रकाशं
Nar12.99.4-4विप्रेन्द्रा जागरूकाः कृतबहुनुतयो यच्च निर्भासयन्ते ||
Nar12.99.5-1नो जातो जायमानोऽपि च समधिगतस्त्वन्महिम्नोऽवसानं
Nar12.99.5-2देव!श्रेयांसि विद्वान्प्रतिमुहुरपि ते नाम शंसामि विष्णो!|
Nar12.99.5-3तं त्वां संस्तौमि नानाविधनुतिवचनैरस्य लोकत्रयस्या-
Nar12.99.5-4प्यूर्ध्वं विभ्राजमाने विरचितवसतिं तत्र वैकुण्ठलोके ||
Nar12.99.6-1आपः सृष्ट्यादिजन्याः प्रथममयि विभो!गर्भदेशे दधुस्त्वां
Nar12.99.6-2यत्र त्वय्येव जीवा जलशयन!हरे!सङ्गता एक्यमापन् |
Nar12.99.6-3तस्याजस्य प्रभो!ते विनिहितमभवत्पद्ममेकं हि नाभौ
Nar12.99.6-4दिक्पत्रं यत्किलाहुः कनकधरणिभृत्कर्णिकं लोकरूपम् ||
Nar12.99.7-1हे लोका विष्णुरेतद्भवनमजनयत्तन्न जानीथ यूयं
Nar12.99.7-2युष्माकं ह्यन्तरस्थं किमपि तदपरं विद्यते विष्णुरूपम् |
Nar12.99.7-3नीहारप्रख्यमायापरिवृतमनसो मोहिता नामरूपैः
Nar12.99.7-4प्राणप्रीत्यैकतृप्ताश्चरथ मखपरा हन्त नेच्छा मुकुन्दे ||
Nar12.99.8-1मूर्ध्नामक्षणां पदानां वहसि खलु सहस्राणि सम्पूर्य विश्वं
Nar12.99.8-2तत्प्रोत्क्रम्यापि तिष्ठन्परिमितविवरे भासि चित्तान्तरेऽपि |
Nar12.99.8-3भूतं भव्यं च सर्वं परपुरुष!भवान्किञ्च देहेन्द्रियादि-
Nar12.99.8-4ष्वाविष्टो ह्युद्गतत्वादमृतसुखरसं चानुभुङ्क्षे त्वमेव ||
Nar12.99.9-1यत्तु त्रैलोक्यरूपं दधदपि च ततोनिर्गतानन्तशुद्ध-
Nar12.99.9-2ज्ञानात्मा वर्तसे त्वं तव खलु महिमा सोऽपि तावान्किमन्यत् |
Nar12.99.9-3स्तोकस्ते भाग एवाखिलभुवनतया दृश्यते त्र्यंशकल्पं
Nar12.99.9-4भूयिष्ठं सान्द्रमोदात्मकमुपरि ततो भाति तस्मै नमस्ते ||
Nar12.99.10-1अव्यक्तं ते स्वरूपं दुरधिगमतमं तत्तु शुद्धैकसत्त्वं
Nar12.99.10-2व्यक्तं चाप्येतदेव स्फुटममृतरसाम्भोधिकल्लोलतुल्यम् |
Nar12.99.10-3सर्वोत्कृष्टामभीष्टां तदिह गुणरमेनैव चित्तं हरन्तीं
Nar12.99.10-4मूर्तिं ते संश्रयेऽहं पवनपुरपते!पाहि मां कृष्ण!रोगात् ||
Nar12.100.1-1अग्रे पश्यामि तेजो निबिडतरकलायावलीलोभनीयं
Nar12.100.1-2पीयूषाप्लावितोऽहं तदनु तदुदरे दिव्यकैशोरवेषम् |
Nar12.100.1-3तारुण्यारम्भरम्यं परमसुखरसास्वादरोमाञ्चिताङ्गै-
Nar12.100.1-4रावीतं नारदाद्यैविलसदुपनिषत्सुन्दरीमण्डलैश्च ||
Nar12.100.2-1नीलाभं कुञ्चिताग्रं घनममलतरं संयतं चारुभङ्ग्या
Nar12.100.2-2रत्नोत्तंसाभिरामं वलयितमुदयच्चन्द्रकैः पिञ्छजालैः |
Nar12.100.2-3मन्दारस्रङ्निवीतं तव पृथुकबरीभारमालोकयेऽहं
Nar12.100.2-4स्निग्धश्चेतोर्ध्वपुण्ड्रामपि च सुललितां फालबालेन्दुवीथीम् ||
Nar12.100.3-1हृद्यं पूर्णानुकम्पार्णवमृदुलहरीचञ्चलभ्रूविलासै-
Nar12.100.3-2रानीलस्निग्धपक्ष्मावलिपरिलसितं नेत्रयुग्मं विभो!ते |
Nar12.100.3-3सान्द्रच्छायं विशालारुणकमलदलाकारमामुग्धतारं
Nar12.100.3-4कारुण्यालोकलीलाशिशिरितभुवनं क्षिप्यतां मय्यनाथे ||
Nar12.100.4-1उत्तुङ्गोल्लासिनासं हरिमणिमुकुरप्रोल्लसद्गण्डपाली-
Nar12.100.4-2व्यालोलत्य्कर्णपाशाञ्चितमकरमणीकुण्डलद्वन्द्वदीप्रम् |
Nar12.100.4-3उन्मीलद्दन्तपङ्क्तिस्फुरदरुणतरच्छायबिम्बाधरान्तः-
Nar12.100.4-4प्रीतिप्रस्यन्दिमन्दस्मितशिशिरतरं वक्त्रमुद्भासतां मे ||
Nar12.100.5-1बाहुद्वन्द्वेन रत्नोज्ज्वलवलयभृता शोणपाणिप्रवाले-
Nar12.100.5-2नोपात्तां वेणुनालीं प्रसृतनखमयूखाङ्गुलीसङ्गशाराम् |
Nar12.100.5-3कृत्वा वक्त्रारविन्द्रे सुमधुरविकसद्रागमुद्भाव्यमानैः
Nar12.100.5-4शब्दब्रह्मामृतैस्त्वं शिशिरितभुवनैः सिञ्च मे कर्णवीथीम् ||
Nar12.100.6-1उत्सर्पत्कौस्तुभश्रूततिभिररुणितं कोमलं कण्ठदेशं
Nar12.100.6-2वक्षः श्रीवत्सरम्यं तरलतरसमुद्दीप्रहारप्रतानम् |
Nar12.100.6-3नानावर्णप्रसूनावलिकिसलयिनीं वन्यमालां विलोल-
Nar12.100.6-4ल्लोलम्बां लम्बमानामुरसि तव तथा भावये रत्नमालाम् ||
Nar12.100.7-1अङ्गे पञ्चाङ्करागैरतिशयविकसत्सौरभाकृष्टलोकं
Nar12.100.7-2लीनानेकत्रिलोकीविततिमपि कृशां बिभ्रतं मध्यवल्लीम् |
Nar12.100.7-3शक्राश्मन्यस्ततप्तोज्ज्वलकनकनिभं पीतचेलं दधानं
Nar12.100.7-4ध्यायामि दीप्तरश्मिस्फुटमणिरशनाकिङ्गिणीमण्डितं त्वाम् ||
Nar12.100.8-1ऊरू चारू तवोरू घनमसृणरुचौ चित्तचोरौ रमाया
Nar12.100.8-2विश्वक्षोभं विशङ्क्य ध्रुवमनिशमुभौ पीतचेलावृताङ्गौ |
Nar12.100.8-3आनम्राणां पुरस्तान्न्यसनधृतसमस्तार्थपालीसमुद्ग-
Nar12.100.8-4च्छायां जानुद्वियं च क्रमपृथुलमनोज्ञे च जङ्घे निषेवे ||
Nar12.100.9-1मञ्जीरं मञ्जुनादैरिव पदभजनं श्रेय इत्यालपन्तं
Nar12.100.9-2पादाग्रं भ्रान्तिमज्जत्प्रणतजनमनोमन्दरोद्धारकूर्मम् |
Nar12.100.9-3उत्तुङ्गाताम्रराजन्नखरहिमकरज्योत्स्नया चाश्रितानां
Nar12.100.9-4सन्तापध्वान्तहत्त्रीं ततिमनुकलये मङ्गलामङ्गुलीनाम् ||
Nar12.100.10-1योगीन्द्राणां त्वदङ्गेष्वधिकसुमधुरं मुक्तिभाजां निवासो
Nar12.100.10-2भक्तानां कामवर्षद्युतरुकिसलयं नाथ!ते पादमूलम् |
Nar12.100.10-3नित्यं चित्तस्थितं मे पवनपुरपते!कृष्ण!कारुण्यसिन्धो!
Nar12.100.10-4हृत्वा निःशेषतापान्प्रदिशतु परमानन्दसन्दोहलक्ष्मीम् ||
Nar12.100.11-1अज्ञात्वा ते महत्त्वं यदिह निगदितं विश्वनाथ!क्षमेथाः
Nar12.100.11-2स्तोत्रं चैतत्सहस्रोत्तरमधिकतरं त्वत्प्र्सादाय भूयात् |
Nar12.100.11-3द्वेधा नारायणीयं श्रुतिषु च जनुषा स्तुत्यतावर्णनेन
Nar12.100.11-4स्फीतं लीलावतारैरिदमिह कुरुतामायुरारोग्यसौख्यम्
Reference system:
Narskanda(1-12).dashaka (continous!).verse-line pada
Original availability from http://www.cuni.cz/ffiu/pandanus/search.html
Converted to REE format at
http://www.sub.uni-goettingen.de/ebene\__1/fiindolo/gretil.htm
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com