||पञ्चिकरणं ||
ॐ
श्रीमच्छंकराचार्यविरचितम् पञ्चीकरणम्
ॐ पञ्चीकृतंपञ्चमहाभूतानि तत्कार्यं
च सर्वं विराडित्युच्यते |
एतत्स्थुलशरिरमात्मनः |
ईन्द्रियैरर्थोपलब्धिर्जागरितम् |
तदुभयाभिमान्यात्मा विश्वः |
एतत् त्रयमकारः ||१||
अपञ्चीकृतपञ्चमहाभूतानि पञ्चतन्मात्रणि
तत्कार्यं च पञ्च प्राणाः दशेन्द्रियाणि
मनोबुद्धिश्चेति सप्तदशकं लिंजम् भौतिकं
हिरण्यगर्भ इत्युच्यते |
एतत्सूक्ष्मशरिरमात्मनः ||२||
करणेषूपसंहृतेषु जागरितसंस्कारजः प्रत्ययः
सविषयः स्वप्न इत्युच्यते |
यदुभयाभिमान्यात्मा तैजसः |
एतत् त्रयमुकारः ||३||
शरीरद्वयकारणमात्माज्ञानं
साभासमव्याकृतमित्युच्यते |
एतत् कारणशरीरमात्मनः |
तच्च न सन्नासन्नापि सदसन्न भिन्नं नाभिन्नं
नापि भिन्नाभिन्नं कुतश्चित्
न निरवयवं न सावयवं
नोभयं किंतु
केवलब्रह्मात्मैकत्वज्ञानापनोद्यम् ||४||
सर्वप्रकारज्ञानोपसंहारे बुद्धेः
कारणात्मनाऽवस्थानं सुषुप्तिः |
तदुभयामिमान्यात्मा प्राज्ञः |
एतत् त्रयम् मकारः ||५||
अकार उकारे उकारो मकारे मकार ओंकारे
ओंकारोऽहम्येव |
अहमात्मा साक्षी केवलश्चिन्मात्रस्वरूपः
नाज्ञानं नापि तत्कार्यं किंतु
नित्यशुद्धबुद्धमुक्तसत्यस्भावं
परमानन्दाद्वयं प्रत्यग्भूतचैतन्यं ब्रह्मै
वाहमस्मीत्यभेदेनावस्थानं समाधिः ||६||
तत्त्वमसि ब्रह्महमस्मि प्रज्ञानमानन्दं ब्रह्म
अयमात्मा ब्रह्म इत्यादिश्रुतिभ्यः ||७||
इति पञ्चीकरणं भवति ||
इति श्रीशङ्कराचार्यविरचितं पञ्चीकरणम् ||
पञ्चीकरणवार्त्तिकम्
श्रीसुरेश्वराचार्यकृत
ओंकारः सर्ववेदानां सारस्तत्त्वप्रकाशकः |
तेन चित्तसमाधानं मुमुक्षूणां प्रकाश्यते ||१||
आसीदेकं परं ब्रह्म नित्यमुक्तमवीक्रियम् |
तत्स्वमायासमावेशाद् बीजमव्याकृतात्मकम् ||२||
तस्मादाकाशमुत्पन्नं शब्दतन्मात्ररूपकम् |
स्पर्शात्मकस्ततो वायुस्तेजोरूपात्मकं ततः ||३||
आपो रसात्मिकास्तस्मात्ताभ्यो गन्धात्मिका महि |
शब्दैकगुणमाकाशं शब्दस्पर्शगुणो मरूत् ||४||
शब्दस्पर्शरूपगुणैस्त्रिगुणं तेज उच्यते |
शब्दस्पर्शरूपरसगुणैरापश्चतुर्गुणाः ||५||
शब्दस्पर्शरूपरसगन्धैः पञ्चगुणा मही |
तेभ्यः समभवत्सूत्रं भूतं सर्वात्मकं महत् ||६||
ततः स्थूलानि भूतानि पञ्च तेभ्यो विराडभूत् |
पञ्चीकृतानि भूतानि स्थूलानीत्युच्यते बुधैः ||७||
पृथिव्यादीनि भूतानि प्रत्येकं विभजेद् द्विधा |
एकैकं भागमादाय चतुर्धा विभजेत्पुनः ||८||
एकैकं भागमेकस्मिन् भूते संवेशयेत्क्रमात् |
ततश्चाकाशभूतस्य भागाः पञ्च भवन्ति हि ||९||
वाय्वादिभागाश्च्त्वारो वाय्वादिष्वेवमादिशेत् |
पञ्चीकरणमेतत्स्यादित्यहुस्तत्त्ववेदिनः ||१०||
पञ्चकृतानि भूतानि तत्कार्यं च विराड् भवेत् |
स्थूलं शरीरमेतत्स्यादशरीरस्य चात्मनः ||११||
अधिदैवतमध्यात्ममधिभूतमिति त्रिधा |
एकं ब्रह्म विभागेन भ्रमाद्माति न तत्त्वत्तः ||१२||
इन्द्रियैरर्थविज्ञानं देवतानुग्रहान्तिवतैः |
शब्दादिविषयं ज्ञानं तज्जागरितमुच्यते ||१३||
श्रोत्रमध्यात्ममित्युक्तं श्रोतव्यं शब्दलक्षणम् |
अधिभूतं तदित्युक्तं दिशस्तत्राधिदैवतम् ||१४||
त्वगध्यात्ममिति प्रोक्तं स्प्रष्टव्यं स्पर्शलक्षणम्
अधिभूतं तदित्युक्तं वायुस्तत्रधिदैवतम् ||१५||
चक्षुरध्यात्ममित्युक्तं द्रष्टव्यं रूपलक्षणम् |
अधिभूतं तदित्युक्तमादित्योऽत्राधिदैवतम् ||१६||
जिह्वाऽध्यात्मं तयाऽस्वाद्यमाधिभूतं रसात्मकम् |
वरूणो देवता तत्र जिह्वायामधिदैवतम् ||१७||
ध्राणमध्यात्ममित्युक्तं ध्रातव्यं गन्धलक्षणम् |
अधिभूतं तदित्युक्तं पृथिव्यत्राधिदैवतम् ||१८||
वागध्यात्ममिति प्रोक्तं वक्त्वयं शब्दलक्षणम् |
अधिभूतं तदित्युक्तमग्निस्तत्राधिदैवतम् ||१९||
हस्तावध्यात्ममित्युक्तमादातव्यं च यद्मवेत् |
अधिभूतं तदित्य्युक्तमिन्द्रस्तत्राधिदैचतम् ||२०||
पादावध्यात्ममित्युक्तं गन्तव्यं तत्र यद्मवेत् |
अधिभूतं तदित्युक्तं विष्णुस्तत्राधिदैवतम् ||२१||
पायुरिन्द्रियमध्यात्मं विसर्गस्तत्र यो भवेत् |
अधिभूतं तदित्युक्तम्ं मृत्युस्तत्राधिदैवतम् ||२२||
उपस्थेन्द्रियमध्यात्मं स्त्र्याद्यानन्दस्य कारणम्
अदिभूतं तदित्युक्तमधिदैवं प्रजापतिः ||२३||
मनोऽध्यात्ममिति प्रोक्तं मन्तव्यं तत्र यद्मवेत् |
अधिभूतं तदित्युक्तं चन्द्रस्तत्राधिदैवतम् ||२४||
बुद्धिरध्यात्ममित्युक्तं बोद्धव्यं तत्र यद्मवेत् |
अधिभूतं तदित्युक्तमधिदैवं बृहस्पतिः ||२५||
अहंकारस्तथाऽध्यात्ममहंकर्तव्यमेव च |
अधिभूतं तदित्युक्तं रूद्रस्तत्राधिदैवतम् ||२६||
चितमध्यात्ममित्युक्तं चेतव्यं तत्र यद्मवेत् |
अधिभूतं तदित्युक्तं क्षेत्रज्ञोऽत्राअधिदैवतम् ||२७||
तमोऽध्यात्ममत्मिति प्रोक्तं विकारस्तत्र यो भवेत् |
अधिभूतं तदित्युक्तमीश्वरोऽत्राधिदैवतम् ||२८||
बाह्यान्तःकरणैरेवं देवतानुग्रहान्वितैः |
स्वं स्वं च विष्यज्ञानं तज्जागरितमुच्यते ||२९
येयं जागरितावस्था शरीरं करणाश्रयम् |
यस्तयोरभिमानी स्यद्विश्व इत्यभिधीयते ||३०||
विश्वं वैराजरूपेण पश्येद्मेदनिवृत्तये |
ज्ञानेन्द्रियाणि पञ्चैव पञ्च कर्मेन्द्रियाणि च ||३१||
श्रोत्रत्वङ्नयनघ्राणजिह्वा धीन्द्रियपञ्चकम् |
वाक्पाणिपादपायूपस्थाः कर्मेन्द्रियपञ्चकम् ||३२||
मनोबुद्धिरहंकारश्चित्तं चेति चतुष्टयम् |
संकल्पारव्यं मनोरूपं बुद्धिर्निश्चयरूपिणी ||३३||
अभिमानाअत्मकस्तद्वदहंकारः प्रकीर्तितः |
अनुसंधानरूपम्ं च चित्तमित्यभिधीयते ||३४||
प्राणोऽपानस्तथा व्यान उदानारव्यस्तथैव च |
समानश्चेति पञ्चैताः किर्तिताः प्रणवृत्तयः ||३५||
खवाव्यग्न्यम्बुक्षितयो भूतसूक्ष्माणि पञ्च च |
अविद्याकामकर्माणि लिङ्गं पुयेष्टकं विदुः ||३६||
एतत्सूक्ष्मशरीरं स्यान्मायिकं प्रात्यगात्मनः |
करणोपरमे जाग्रत्संकारोत्थं प्रबोधवत् ||३७||
ग्राह्यग्राहकरूपेण स्फुरणं स्वप्न उच्यते |
अभिमानी तयोर्यस्तु तैजसः परिकीर्तितः ||३८||
हिरण्यगर्भरूपेण तैजसं चिन्तयेद् बुधः |
चैतन्याभासखचितं शरीरद्वयकारणम् ||३९||
आत्माज्ञानं तदव्यक्तमव्याकृतमितीर्यते |
न सन्नासन्न सदसद्मिन्नाभिन्नं न चात्मनः ||४०||
न सभागं न निर्भागं न चाप्युभयरूपकम् |
ब्रह्मात्मैकत्वविज्ञानहेयं मिथ्यात्वकारणात् ||४१||
ज्ञानानामुपसंहारो बुद्वेः करणतास्थितिः |
वटबीजे वटस्येव सुषुप्तिरभिधीयते ||४२||
अभिमानी तयोर्यस्तु प्राज्ञ इत्यभिधीयते |
जगत्कारणरूपेण प्राज्ञात्मानं विचिन्तयेत् ||४३||
विश्वतैजससौषुप्त विराट् सूत्राक्षरात्मभिः |
विभिन्नमिव संमोहादेकं तत्त्वं चिदात्मकम् ||४४||
विश्वादिकत्रयं यस्माद्वैराजादित्रयात्मकम् |
एकत्वेनैव संपश्येदन्याभावप्रसिद्धये ||४५||
ॐकारमात्रमखिलं विश्वप्राज्ञादिलक्षणम् |
वाच्यवाचकताभेदाद्मे देनानुपलाब्धितः ||४६||
अकारमात्रं विश्वः स्यादुकारस्तैजसः स्मृतः |
प्राज्ञो मकार इत्येवं परिपश्येत्क्रमेण तु ||४७||
समाधिकालात्प्रगेवं विचिन्त्यातिप्रयत्नतः |
स्थूलसूक्ष्मक्रमात्सर्वं चिदात्मनि विलापयेत् ||४८||
अकारं पुरूषं विश्वमुकारे प्रविलापयेत् |
उकारं तैजसं सूक्ष्मं मकारे प्रविलापयेत् ||४९||
मकारं करणं प्राज्ञं चिदात्मनि विलापयेत् |
चिदात्माऽहं नित्यशुद्धबुद्धमुक्तसदद्वयः ||५०||
परमानन्दसंदोहवासुदेवोऽहमोमिति |
ज्ञात्वा विवेचकं चित्तं तत्साक्षिणि विलापयेत् ||५१||
चिदात्मनि विलीनं चेत्तच्चित्तं नैव चालयेत् |
पूर्णबोधात्मनाऽसीत पूर्णाचलसमुद्रवत् ||५२||
एवं समाहितो योगी श्रद्धभक्तिसमन्वितः |
जितेन्द्रियो जितक्रोधः पश्येदात्मानमद्वयम् ||५३||
आदिमध्यावसानेषु दुःखं सर्वमिदं यतः |
तस्मात्सर्वं परित्यज्य तत्त्वनिष्ठो भवेत्सदा ||५४||
यः पश्येत्सर्वगं शान्तमानन्दात्मानमद्वयम् |
न तेन किंचिदाप्तत्यं ज्ञातव्यं वावशिष्यते ||५५||
कृतकृत्यो भवेद्विद्वाञ्जीवन्मुक्तो भवेत्सदा |
आत्मन्येवारूढभावो जगदेतन्न वीक्षते ||५६||
कदाचिदव्यवहारे तु द्वैतं यद्यपि पश्यति |
बोधात्मव्यतिरेकेण न पश्यति चिदन्वयात् ||५७||
किन्तु पश्यति मिथयैव दिङ् मोहेन्दुविभागवत् |
प्रतिभासः शरीरस्य तदाऽप्रारब्धसंक्षयात् ||५८||
तस्य तावदेव चिरमित्यादि श्रुतिरब्रवीत् |
प्रारब्धस्यानुवृत्तिस्तु मुक्तस्याभासमात्रतः ||५९||
सर्वदा मुक्त एव स्याज्ज्ञाततत्त्वः पुमानसौ |
प्रारब्धभोगशेषस्य संक्षये तदनन्तरम् ||६०||
अविद्यातिमिरातीतं सर्वाभासविवर्जितम् |
चितन्यममलं शुद्धं मनोवाचामगोचरम् ||६१||
वाच्यवाचकनिर्मुक्तं हेयोपादेयवर्जितम् |
प्रज्ञानघनमानन्दं वैष्णवं पदमश्नुते ||६२||
इदं प्रकरणं यत्नाज्ज्ञातव्यं भगवत्तमैः |
अमानित्वादिनियमैर्गुरूभक्तिप्रसादतह् ||६३||
इमां विद्यां प्रयत्नेन योगी संध्यासु सर्वदा |
समभ्यसेदिहामुत्रभोगानासक्तधीः सुधीः ||६४||
इति श्रीमत्सुरेश्वराचार्यविरचितं पञ्चीकरणवार्त्तिकं संपूर्णम् ||
Encoded and proofread by Dhrup Chand
Proofread by Sunder Hattangadi and David Lyttle
%@@1
% File name : paJNchi.itx
%--------------------------------------------
% Text title : pa~nchIkaraNam
%
% Author : shrImachchha.nkarAchArya
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Description/comments :
% Transliterated by : Dhrup Chand
% Proofread by : Dhrup Chand, Sunder Hattangadi and David Lyttle dhlyttle@hotmail.com
% Translation by :
% Latest update : April 30, 2009
% Send corrections to : sanskrit@cheerful.com
%
% Special Instructions:
% i1h.hdr,ijag.inc,itrans.sty,multicol.sty,iarticle.sty
% Transliteration scheme: ITRANS 5.2
% Site access :
% http://sanskritdocuments.org
% http://sanskrit.gde.to/
%-----------------------------------------------------
% The text is to be used for personal studies and research only.
% Any use for commercial purpose is prohibited as a 'gentleman's'
% agreement.
% @@2
%
% Commands upto engtitle are
% needed for devanaagarii output and formatting.
%--------------------------------------------------------
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Some help is available at Notes
on Viewing and Creating Devanagari Documents with Unicode Support.
Some of the Unicode fonts for Devanagari are linked at http://devanaagarii.net and for
Sanskrit Transliteration/Diacritics are available at IndUni
Fonts.
Questions, comments? Write to sanskrit@cheerful.com .