.. श्रीमन्त्रराजपद स्तोत्रम् ..
पाञ्चरात्र आगमीय अहिर्बुध्न्य संहितात्
श्री मन्त्र राज पद स्तोत्रम्
श्री ईश्वर उवाच -
वृत्तोत्फुल्लविशालाक्षं विपक्षक्षयदीक्षितम् |
निनादत्रस्तविश्वाण्डं विष्णुमूग्रं नमाम्यहम् || १||
सर्वैरवध्यतां प्राप्तं सबलौघं दितेः सुतम् |
नखाग्रैः शकलीचक्रे यस्तं वीरं नमाम्यहम् || २||
पदावष्टब्धपातालं मूर्धाविष्टत्रिविष्टपम् |
भुजप्रविष्टाष्टदिशं महाविष्णुं नमाम्यहम् || ३||
ज्योतींष्यर्केन्दुनक्षत्रज्वलनादीन्यनुक्रमात् |
ज्वलन्ति तेजसा यस्य तं ज्वलन्तं नमाम्यहम् || ४||
सर्वेन्द्रियैरपि विना सर्वं सर्वत्र सर्वदा |
यो जानाति नमाम्याद्यं तमहं सर्वतोमुखम् || ५||
नरवत् सिंहवच्चैव यस्य रूपं महात्मनः |
महासटं महादंष्ट्रं तं नृसिंहं नमाम्यहम् || ६||
यन्नामस्मरणाद् भीताः भूतवेतालराक्षसाः |
रोगाद्याश्च प्रणश्यन्ति भीषणं तं नमाम्यहम् || ७||
सर्वोऽपि यं समाश्रित्य सकलं भद्रमश्नुते |
श्रिया च भद्रया जुष्टो यस्तं भद्रं नमाम्यहम् || ८||
साक्षात् स्वकाले संप्राप्तं मृत्युं शत्रुगणान्वितम् |
भक्तानां नाशयेद् यस्तु मृत्युमृत्युं नमाम्यहम् || ९||
नमस्कारात्मकं यस्मै विधायाऽऽत्मनिवेदनम् |
त्यक्तदुःखोऽकिलान् कामान् अश्नन्तं तं नमाम्यहम् || १०||
दासभूताः स्वतः सर्वे ह्यात्मानः परमात्मनः |
अतोऽहमपि ते दासः इति मत्वा नमाम्यहम् || ११||
फलश्रुतिः
शङ्करेणादरात् प्रोक्तं पदानां तत्त्वनिर्णयम् |
त्रिसन्ध्यं यः पठेत् तस्य श्रीर्विद्याऽऽयुश्च वर्धते ||
Encoded by Vijayaraghavan Bashyam
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com