.. पञ्चब्रह्मोपनिषत् ..
ब्रह्मादिपञ्चब्रह्माणो यत्र विश्रान्तिमाप्नुयुः .
तदखण्डसुखाकारं रामचन्द्रपदं भजे ..
ॐ सह नाववतु .. सह नौ भुनक्तु .. सह वीर्यं करवावहै ..
तेजस्विनावधीतमस्तु मा विद्विषावहै ..
ॐ शान्तिः शान्तिः शान्तिः ..
हरिः ॐ ..
अथ पैप्पलादो भगवान्भो किमादौ किं जातमिति . सद्यो जातमिति .
किं भगव इति . अघोर इति . किं भगव इति . वामदेव इति .
किं वा पुनरिमे भगव इति . तत्पुरुष इति . किं वा पुनरिमे भगव इति .
सर्वेषां दिव्यानां प्रेरयिता ईशान इति . ईशानो भूतभव्यस्य
सर्वेषां देवयोगिनाम् . कति वर्णाः . कति भेदाः . कति शक्तयः .
यत्सर्वं तद्गुह्यम् . तस्मै नमो महादेवाय महारुद्राय प्रोवाच
तस्मै भगवान्महेशः .
गोप्याद्गोप्यतरं लोके यद्यस्ति श्रुणु शाकल .
सद्यो जातं मही पूषा रमा ब्रह्मः त्रिवृत्स्वरः .. १..
ऋग्वेदो गार्हपत्यं च मन्त्राः सप्तस्वरास्तथा .
वर्णं पीतं क्रिया शक्तिः सर्वाभीष्टफलप्रदम् .. २..
अघोरं सलिलं चन्द्रं गौरी वेद द्वितीयकम् .
नीर्दाभं स्वरं सान्द्रं दक्षिणाग्निरुदाहृतम् .. ३..
पञ्चाशद्वर्णसंयुक्तं स्थितिरिच्छक्रियान्वितम् .
शक्तिरक्षणसंयुक्तं सर्वाघौघविनाशनम् .. ४..
सर्वदुष्टप्रशमनं सर्वैश्वर्यफलप्रदम् .
वामदेव महाबोधदायकं पावनात्मकम् .. ५..
विद्यालोकसमायुक्तं भानुकोटिसमप्रभम् .
प्रसन्नं सामवेदाख्यं नानाष्टकसमन्वितम् .. ६..
धीरस्वरमधीनं चावहनीयमनुत्तमम् .
ज्ञानसंहारसंयुक्तं शक्तिद्वयसमन्वितम् .. ७..
वर्णं शुक्लं तमोमिश्रं पूर्णबोधकरं स्वयम् .
धामत्रयनियन्तारं धामत्रयसमन्वितम् .. ८..
सर्वसौभाग्यदं नॄणां सर्वकर्मफलप्रदम् .
अष्टाक्षरसमायुक्तमष्टपत्रान्तरस्थितम् .. ९..
यत्तत्पुरुषं प्रोक्तं वायुमण्डलसंवृतम् .
पञ्चाग्निना समायुक्तं मन्त्रशक्तिनियामकम् .. १०..
पञ्चाशत्स्वरवर्णाख्यमथर्ववेदस्वरूपकम् .
कोटिकोटिगणाध्यक्षं ब्रह्माण्डाखण्डविग्रहम् .. ११..
वर्णं रक्तं कामदं च सर्वाधिव्याधिभेषजम् .
सृष्टिस्थितिलयादीनां कारणं सर्वशक्तिधृक् .. १२..
अवस्थात्रितयातीतं तुरीयं ब्रह्मसंज्ञितम् .
ब्रह्मविष्ण्वादिभिः सेव्यं सर्वेषां जनकं परम् .. १३..
ईशानं परमं विद्यात्प्रेरकं बुद्धिसाक्षिणम् .
आकाशात्मकमव्यक्तमोङ्कारस्वरभूषितम् .. १४..
सर्वदेवमयं शान्तं शान्त्यतीतं स्वराद्बहिः .
अकारादिस्वराध्यक्षमाकाशमयविग्रहम् .. १५..
पञ्चकृत्यनियन्तारं पञ्चब्रह्मात्मकं बृहत् .
पञ्चब्रह्मोपसंहारं कृत्वा स्वात्मनि संस्थितः .. १६..
स्वमायावैभवान्सर्वान्संहृत्य स्वात्मनि स्थितः .
पञ्चब्रह्मात्मकातीतो भासते स्वस्वतेजसा .. १७..
आदावन्ते च मध्ये च भाससे नान्यहेतुना .
मायया मोहिताः शम्भोर्महादेवं जगद्गुरुम् .. १८..
न जानन्ति सुराः सर्वे सर्वकारणकारणम् .
न सन्दृशे तिष्ठति रूपमस्य परात्परं पुरुषं विश्वधाम .. १९..
येन प्रकाशते विश्वं यत्रैव प्रविलीयते .
तद्ब्रह्म परमं शान्तं तद्ब्रह्मास्मि परमं पदम् .. २०..
पञ्चब्रह्म परं विद्यात्सद्योजातादिपूर्वकम् .
दृश्यते श्रूयते यच्च पञ्चब्रह्मात्मकं स्वयम् .. २१..
पञ्चधा वर्तमानं तं ब्रह्मकार्यमिति स्मृतम् .
ब्रह्मकार्यमिति ज्ञात्वा ईशानं प्रतिपद्यते .. २२..
पञ्चब्रह्मात्मकं सर्वं स्वात्मनि प्रविलाप्य च .
सोऽहमस्मीति जानीयाद्विद्वान्ब्रह्माऽमृतो भवेत् .. २३..
इत्येतद्ब्रह्म जानीयाद्यः स मुक्तो न संशयः .
पञ्चाक्षरमयं शम्भुं परब्रह्मस्वरूपिणम् .. २४..
नकारादियकारान्तं ज्ञात्वा पञ्चाक्षरं जपेत् .
सर्वं पञ्चात्मकं विद्यात्पञ्चब्रह्मात्मतत्त्वतः .. २५..
पञ्चब्रह्मात्मिकीं विद्यां योऽधीते भक्तिभावितः .
स पञ्चात्मकतामेत्य भासते पञ्चधा स्वयम् .. २६..
एवमुक्त्वा महादेवो गालवस्य महात्मनः .
कृपां चकार तत्रैव स्वान्तर्धिमगमत्स्वयम् .. २७..
यस्य श्रवणमात्रेणाश्रुतमेव श्रुतं भवेत् .
अमतं च मतं ज्ञातमविज्ञातं च शाकल .. २८..
एकेनैव तु पिण्डेन मृत्तिकायाश्च गौतम .
विज्ञातं मृण्मयं सर्वं मृदभिन्नं हि कायकम् .. २९..
एकेन लोहमणिना सर्वं लोहमयं यथा .
विज्ञातं स्यादथैकेन नखानां कृन्तनेन च .. ३०..
सर्वं कार्ष्णायसं ज्ञातं तदभिन्नं स्वभावतः .
कारणाभिन्नरूपेण कार्यं कारणमेव हि .. ३१..
तद्रूपेण सदा सत्यं भेदेनोक्तिर्मृषा खलु .
तच्च कारणमेकं हि न भिन्नं नोभयात्मकम् .. ३२..
भेदः सर्वत्र मिथ्यैव धर्मादेरनिरूपणात् .
अतश्च कारणं नित्यमेकमेवाद्वयं खलु .. ३३..
अत्र कारणमद्वैतं शुद्धचैतन्यमेव हि .
अस्मिन्ब्रह्मपुरे वेश्म दहरं यदिदं मुने .. ३४..
पुण्डरीकं तु तन्मध्ये आकाशो दहरोऽस्ति तत् .
स शिवः सच्चिदानन्दः सोऽन्वेष्टव्यो मुमुक्षिभिः .. ३५..
अयं हृदि स्थितः साक्षी सर्वेषामविशेषतः .
तेनायं हृदयं प्रोक्तः शिवः संसारमोचकः .. ३६..
इत्युपनिषत् ..
ॐ सह नाववतु .. सह नौ भुनक्तु .. सह वीर्यं करवावहै ..
तेजस्विनावधीतमस्तु मा विद्विषावहै ..
ॐ शान्तिः शान्तिः शान्तिः ..
इति पञ्चब्रह्मोपनिषत्समाप्ता ..
Encoded by Sunder Hattangadi (sunderh@hotmail.com)
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com