.. परब्रह्मोपनिषत् ..
परब्रह्मोपनिषदि वेद्याखण्डसुखाकृति .
परिव्राजकहृद्गेयं परितस्त्रैपदं भजे ..
ॐ भद्रं कर्णेभिः शृणुयाम देवाः .. भद्रं पश्येमाक्षभिर्यजत्राः ..
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः .. व्यशेम देवहितं यदायुः ..
स्वस्ति न इन्द्रो वृद्धश्रवाः .. स्वस्ति नः पूषा विश्ववेदाः ..
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः .. स्वस्ति नो बृहस्पतिर्दधातु ..
ॐ शान्तिः शान्तिः शान्तिः ..
हरिः ॐ .. अथ हैनं महाशालः शौनकोऽङ्गिरसं भगवन्तं पिप्पलादं
विधिवदुपसन्नः पप्रच्छ दिव्ये ब्रह्मपुरे के संप्रतिष्ठिता भवन्ति . कथं
सृज्यन्ते . नित्यात्मन एष महिमा . विभज्य एष महिमा विभुः . क एषः .
तस्मै स होवाच . एतत्सत्यं यत्प्रब्रवीमि ब्रह्मविद्यां वरिष्ठां देवेभ्यः
प्राणेभ्यः . परब्रह्मपुरे विरजं निष्कलं शुभमक्षरं विरजं विभाति .
स नियच्छति मधुकरः श्वेव विकर्मकः . अकर्मा स्वामीव स्थितः . कर्मतरः
कर्षकवत्फलमनुभवति . कर्ममर्मज्ञाता कर्म करोति . कर्ममर्म ज्ञात्वा
कर्म कुर्यात् . को जालं विक्षिपेदेको नैनमपकर्षत्यपकर्षति . प्राणदेवा-
श्चत्वारः . ताः सर्वा नाड्यः सुषुप्तश्येनाकाशवत् . यथा श्येनः
खमाश्रित्य याति स्वमालयं कुलायम् . एवं सुषुप्तं ब्रूत . अयं च परश्च
स सर्वत्र हिरण्मये परे कोशे . अमृता ह्येषा नाडी त्रयं संचरति . तस्य
त्रिपादं ब्रह्म . एषात्रेष्य ततोऽनुतिष्ठति . अन्यत्र ब्रूत . अयं च परं च
सर्वत्र हिरण्मये कोशे .
यथैष देवदत्तो यष्ट्या च ताड्यमानो नैवैति .
एवमिष्टापूर्तकर्मशुभाशुभैर्न लिप्यते . यथा
कुमारको निष्काम आनन्दमभियाति . तथैष देवः
स्वप्न आनन्दमभियाति वेद एव परं ज्योतिः . ज्योतिषामा
ज्योतिरानन्दयत्येवमेव . तत्परं यच्चित्तं परमात्मान-
मानन्दयति . शुभ्रवर्णमाजायतेश्वरात् . भूयस्तेनैव
मार्गेण स्वप्नस्थानं नियच्छति . जलूकाभाववद्यथा-
काममाजायतेश्वरात् . तावतात्मानमानन्दयति . परसन्धि
यदपरसन्धीति . तत्परं नापरं त्यजति . तदैव कपालष्टकं
सन्धाय य एष स्तन इवावलम्बते सेन्द्रयोनिः स वेदयोनिरिति .
अत्र जाग्रति . शुभाशुभातिरिक्तः शुभाशुभैरपि कर्मभिर्न लिप्यते .
य एष देवोऽन्यदेवास्य संप्रसादोऽन्तर्याम्यसङ्गचिद्रूपः
पुरुषः . प्रणवहंसः परं ब्रह्म . न प्राणहंसः . प्रणवो
जीवः . आद्या देवता निवेदयति . य एवं वेद . तत्कथं निवेदयते .
जीवस्य ब्रह्मत्वमापादयति . सत्त्वमथास्य पुरुषस्यान्तः
शिखोपवीतत्वं ब्राह्मणस्य . मुमुक्षोरन्तः शिखोपवीतधारणम् .
बहिर्लक्ष्यमाणशिखायज्ञोपवीतधारणं कर्मिणो गृहस्थस्य .
अन्तरुपवीतलक्षणं तु बहिस्तन्तुवदव्यक्तमन्तस्तत्त्वमेलनम् .
न सन्नासन्न सदसद्भिन्नाभिन्नं न चोभयम् . न सभागं
न निर्भागं न चाप्युभयरूपकम् ..
ब्रह्मात्मैकत्वविज्ञानं हेयं मिथ्यत्वकारणादिति .
पञ्चपाद्ब्रह्मणो न किंचन . चतुष्पादन्तर्वर्तिनोऽन्त-
र्जीवब्रह्मणश्चत्वारि स्थानानि . नाभिहृदयकण्ठमूर्धसु
जाग्रत्स्वप्नसुषुप्तितुरीयावस्थाः . आहवनीयगार्हपत्य-
दक्षिणसभ्याग्निषु . जागरिते ब्रह्मा स्वप्ने विष्णुः
सुषुप्तौ रुद्रस्तुरीयमक्षरं चिन्मयम् . तस्माच्चतुरवस्था .
चतुरङ्गुलवेष्टनमिव षण्णवतितत्त्वानि तन्तुवद्विभज्य तदा
हितं त्रिगुणीकृत्य द्वात्रिंशत्तत्त्वनिष्कर्षमापाद्य
ज्ञानपूतं त्रिगुणस्वरूपं त्रिमूर्तित्वं पृथग्विज्ञाय
नवब्रह्माख्यनवगुणोपेतं ज्ञात्वा नवमानमितस्त्रिगुणीकृत्य
सूर्येन्द्वग्निकलास्वरूपत्वेनैकीकृत्याद्यन्तरेकत्वमपि मध्ये
त्रिरावृत्य ब्रह्मविष्णुमहेश्वरत्वमनुसंधायाद्यन्तमेकीकृत्य
चिद्ग्रन्थावद्वैतग्रन्थिं कृत्वा नाभ्यादिब्रह्मबिलप्रमाणं
पृथक् पृथक् सप्तविंशतितत्त्वसंबन्धं त्रिगुणोपेतं
त्रिमूर्तिलक्षणलक्षितमप्येकत्वमापाद्य वामांसादिदक्षिणकण्ठ्यन्तं
विभाव्याद्यन्तग्रहसंमेलनमेकं ज्ञात्वा मूलमेकं सत्यं
मृण्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् .
हंसेति वर्णद्वयेनान्तः शिखोपवीतित्वं निश्चित्य ब्राह्मणत्वं ब्रह्मध्यानार्हत्वं
यतित्वमलक्षितान्तःशिखोपवीतित्वमेवं बहिर्लक्षितकर्मशिखा ज्ञानोपवीतं
गृहस्थस्याभासब्रह्मणत्वस्य केशसमूहशिखाप्रत्यक्षकार्पासतन्तु-
कृतोपवीतत्वं चतुर्गुणीकृत्य चतुर्विंशतितत्त्वापादनतन्तुकृत्त्वं
नवतत्त्वमेकमेव .. परंब्रह्म तत्प्रतिसरयोग्यत्वाद्बहुमार्गप्रवृत्तिं
कल्पयन्ति . सर्वेषां ब्रह्मादीनां देवर्षीणां मनुष्याणां मूर्तिरेका .
ब्रह्मैकमेव . ब्राह्मणत्वमेकमेव . वर्णाश्रमाचारविशेषाः पृथक्पृथक्
शिखावर्णाश्रमिणामेककैव . अपवर्गस्य यतेः शिखायज्ञोपवीतमूलं
प्रणवमेकमेव वदन्ति . हंसः शिखा . प्रणव उपवीतम् . नादः संधानम् .
एष धर्मो नेतरो धर्मः . तत्कथमिति . प्रणवहंसो नादस्त्रिवृत्सूत्रं
स्वहृदि चैतन्ये तिष्ठति त्रिविधं ब्रह्म . तद्विद्धि प्रापञ्चिकशिखोपवीतं त्यजेत् .
सशिखं वपनं कृत्वा बहिःसूत्रं त्यजेद्बुधः .
यदक्षरं परंब्रह्म तत्सूत्रमिति धारयेत् .. १..
पुनर्जन्मनिवृत्यर्थं मोक्षस्याहर्निशं स्मरेत् .
सूचनात्सूत्रमित्युक्तं सूत्रं नाम परं पदम् .. २..
तत्सूत्रं विदितं येन स मुमुक्षुः स भिक्षुकः .
स वेदवित्सदाचारः स विप्रः पङ्क्तिपावनः .. ३..
येन सर्वमिदं प्रोतं सूत्रे मणिगणा इव .
तत्सूत्रं धारयेद्योगी योगविद्ब्राह्मणो यतिः .. ४..
बहिःसूत्रं त्यजेद्विप्रो योगविज्ञानतत्परः .
ब्रह्मभावमिदं सूत्रं धारयेद्यः स मुक्तिभाक् .. ५..
नाशुचित्वं न चोच्छिष्टं तस्य सूत्रस्य धारणात् .
सूत्रमन्तर्गतं येषां ज्ञानयज्ञोपवीतिनाम् .. ६..
ये तु सूत्रविदो लोके ते च यज्ञोपवीतिनः .
ज्ञानशिखिनो ज्ञाननिष्ठा ज्ञानयज्ञोपवीतिनः .
ज्ञानमेव परं तेषां पवित्रं ज्ञानमीरितम् .. ७..
अग्नेरिव शिखा नान्या यस्य ज्ञानमयी शिखा .
स शिखीत्युच्यते विद्वान्नेतरे केशधारिणः .. ८..
कर्मण्यधिकृतः ये तु वैदिके लौकिकेऽपि वा .
ब्राह्मणाभासमात्रेण जीवन्ते कुक्षिपूरकाः .
व्रजन्ते निरयं ते तु पुनर्जन्मनि जन्मनि .. ९..
वामांसदक्षकण्ठ्यन्तं ब्रह्मसूत्रं तु सव्यतः .
अन्तर्बहिरिवात्यर्थं तत्त्वतन्तुसमन्वितम् .. १०..
नाभ्यादिब्रह्मरन्ध्रान्तप्रमाणं धारयेत्सुधीः .
तेभिर्धार्यमिदं सूत्रं क्रियाङ्गं तन्तुनिर्मितम् .. ११..
शिखा ज्ञानमयी यस्य उपवीतं च तन्मयम् .
ब्राह्मण्यं सकलं तस्य नेतरेषां तु किंचन .. १२..
इदं यज्ञोपवीतं तु परमं यत्परायणम् .
विद्वान्यज्ञोपवीती संधारयेद्यः स मुक्तिभाक् .. १३..
बहिरन्तश्चोपवीती विप्रः संन्यस्तुमर्हति .
एकयज्ञोपवीती तु नैव संन्यस्तुमर्हति .. १४..
तस्मात्सर्वप्रयत्नेन मोक्षापेक्षी भवेद्यतिः .
बहिःसूत्रं परित्यज्य स्वान्तःसूत्रं तु धारयेत् .. १५..
बहिःप्रपञ्चशिखोपवीतित्वमनादृत्य प्रणवहंसशिखोपवीतित्वमवलम्ब्य
मोक्षसाधनं कुर्यादित्याह भगवाञ्छौनक इत्युपनिषत् ..
ॐ भद्रं कर्णेभिः शृणुयाम देवाः .. भद्रं पश्येमाक्षभिर्यजत्राः ..
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः .. व्यशेम देवहितं यदायुः ..
स्वस्ति न इन्द्रो वृद्धश्रवाः .. स्वस्ति नः पूषा विश्ववेदाः ..
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः .. स्वस्ति नो बृहस्पतिर्दधातु ..
ॐ शान्तिः शान्तिः शान्तिः .. हरिः ॐ तत्सत् ..
इति परब्रह्मोपनिषत्समाप्ता..
Encoded by Sunder Hattangadi (sunderh@hotmail.com)
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com