.. परमहंसपरिव्राजकोपनिषत् ..
पारिव्राज्यधर्मवन्तो यज्ज्ञानाद्ब्रह्मतां ययुः .
तद्ब्रह्म प्रणवैकार्थं तुर्यतुर्यं हरिं भजे ..
ॐ भद्रं कर्णेभिः शृणुयाम देवाः .. भद्रं पश्येमाक्षभिर्यजत्राः ..
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः .. व्यशेम देवहितं यदायुः ..
स्वस्ति न इन्द्रो वृद्धश्रवाः .. स्वस्ति नः पूषा विश्ववेदाः ..
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः .. स्वस्ति नो बृहस्पतिर्दधातु ..
ॐ शान्तिः शान्तिः शान्तिः ..
हरिः ॐ अथ पितामहः स्वपितरमादिनारायणमुपसमेत्य
प्रणम्य पप्रच्छ भगवंस्त्वन्मुखाद्वर्णाश्रमधर्मक्रमं
सर्वं श्रुतं विदितमवगतम् . इदानीं परमहंसपरिव्राजकलक्षणं
विदितुमिच्छामि कः परिव्रजनाधिकारी कीदृशं परिव्राजकलक्षणं
कः परमहंसः परिव्राजकत्वं कथं तत्सर्वं मे ब्रूहीति .
स होवाच भगवानादिनारायणः . सद्गुरुसमीपे सकलविद्यापरिश्रमज्ञो
भूत्वा विद्वान्सर्वमैहिकामुष्मिकसुखश्रमं ज्ञात्वैषणात्रय-
वासनात्रयममत्वाहङ्कारादिकं वमनान्नमिव हेयमधिगम्य
मोक्षमार्गैकसाधनो ब्रह्मचर्यं समाप्य गृही भवेत् .
ग्रामाच्छ्रोत्रियागारादग्निमाहृत्य स्वविध्युक्तक्रमेण
पूर्ववदग्निमाजिघ्रेत् . यद्यातुरो वाग्निं न विन्देदप्सु जुहुयात् .
आपो वै सर्वा देवताः सर्वाभ्यो देवताभ्यो जुहोमि स्वाहेति
हुत्वोधृत्य प्राश्नीयात् साज्यं हविरनामयम् .
एष विधिर्वीराध्वाने वाऽनाशके वा संप्रवेशे वाग्निप्रवेशे
वा महाप्रस्थाने वा . यद्यातुरः स्यान्मनसा वाचा संन्यसेदेष
पन्थाः . स्वस्थक्रमेणैव चेदात्मश्राद्धं विरजाहोमं
कृत्वाग्निमात्मन्यारोप्य लौकिकवैदिकसामर्थ्यं स्वचतुर्दश-
करणप्रवृत्तिं च पुत्रे समारोप्य तदभावे शिष्ये वा तदभावे
स्वात्मन्येव वा ब्रह्मात्वं यज्ञस्त्वमित्यभिमन्त्र्य ब्रह्मभावनया
ध्यात्वा सावित्रीप्रवेशपूर्वकमप्सु सर्वविद्यार्थस्वरूपां ब्राह्मण्याधारां
वेदमातरं क्रमाद्व्याहृतिषु त्रिषु प्रविलाप्य व्याहृतित्रयमकारोकारमकारेषु
प्रविलाप्य तत्सावधानेनापः प्राश्य प्रणवेन शिखामुत्कृष्य यज्ञोपवीतं
छित्त्वा वस्त्रमपि भूमौ वाप्सु वा विसृज्य ॐ भूः स्वाहा ॐ भुवः स्वाहा
ॐ सुवः स्वाहेत्यनेन जातरूपधरो भूत्वा स्वं रूपं ध्यायन्पुनः पृथक्
प्रणवव्याहृतिपूर्वकं मनसा वचसापि संन्यस्तं मया संन्यस्तं
मया संन्यस्तं मयेति मन्द्रमध्यमतारध्वनिभिस्त्रिवारं त्रिगुणीकृत-
प्रेषोच्चारणं कृत्वा प्रणवैकध्यानपरायणः सन्नभयं सर्वभूतेभ्यो
मत्तः स्वाहेत्यूर्ध्वबाहुर्भूत्वा ब्रह्माहमस्मीति तत्त्वमस्यादिवाक्यार्थ-
स्वरूपानुसन्धानं कुर्वन्नुदीचिं दिशं गच्छेत् .
जातरूपधरश्चरेत् . एष संन्यासः . तदधिकारी
न भवेद्यदि गृहस्थप्रार्थनापूर्वकमभयं सर्वभूतेभ्यो
मत्तः सर्वं प्रवर्तते सखा मा गोपायौजः सखा योऽसीन्द्रस्य
वज्रोऽसि वार्त्रघ्नः शर्म मे भव यत्पापं तन्निवारयेत्यनेन
मन्त्रेण प्रणवपूर्वकं सलक्षणं वैणवं दण्डं कटिसूत्रं
कौपीनं कमण्डलुं विवर्णवस्त्रमेकं परिगृह्य सद्गुरुमुपगम्य
नत्वा गुरुमुखात्तत्त्वमसीति महावाक्यं प्रणवपूर्वकमुपलभ्याथ
जीर्णवल्कलाजिनं धृत्वाथ जलावतरणमूर्ध्वगमनमेकभिक्षां
परित्यज्य त्रिकालस्नानमाचरन्वेदान्तश्रवणपूर्वकं प्रणवानुष्ठानं
कुर्वन्ब्रह्ममार्गे सम्यक् संपन्नः स्वाभिमतमात्मनि गोपयित्वा
निर्ममोऽध्यात्मनिष्ठः कामक्रोधलोभमोहमदमात्सर्यदम्भ-
दर्पाह्ङ्कारासूयागर्वेच्छाद्वेषहर्षामर्षममत्वादींश्च
हित्वा ज्ञानवैराग्ययुक्तो वित्तस्त्रीपराङ्मुखः शुद्धमानसः
सर्वोपनिषदर्थमालोच्य ब्रह्मचर्यापरिग्रहाहिंसासत्यं यत्नेन
रक्षञ्जितेन्द्रियो बहिरन्तःस्नेहवर्जितः शरीरसंधारणार्थं वा त्रिषु
वर्णेष्वभिशस्तपतितवर्जितेषु पशुरद्रोही भैक्षमाणो ब्रह्मभूयाय भवति .
सर्वेषु कालेषु लाभालाभौ समौ कृत्वा परपात्रमाधूकरे-
णान्नमश्नन्मेदोवृद्धिमकुर्वन्कृशीभूत्वा ब्रह्माहमस्मीति
भावयन्गुर्वर्थं ग्राममुपेत्य ध्रुवशीलोऽष्टौ मास्येकाकी
चरेद्वावेवाचरेत् . यदालंबुद्धिर्भवेत्तदा कुटीचको वा बहूदको
वा हंसो वा परमहंसो वा तत्तन्मन्त्रपूर्वकं कटिसूत्रं कौपीनं
दण्डं कमण्डलुं सर्वमप्सु विसृज्याथ जातरूपधरश्चरेत् .
ग्राम एकरात्रं तीर्थे त्रिरात्रं पतने पञ्चरात्रं क्षेत्रे सप्तरात्र-
मनिकेतः स्थिरमतिरनग्निसेवी निर्विकारो नियमानियममुत्सृज्य
प्राणसंधारणार्थमयमेव लाभालाभौ समौ कृत्वा गोवृत्त्या
भैक्ष्यमाचरन्नुदकस्थलकमण्डलुरबाधकरहस्यस्थलवासो
न पुनर्लाभालाभरतः शुभाशुभकर्मनिर्मूलनपरः सर्वत्र
भूतलशयनः क्षौरकर्मपरित्यक्तो युक्तचातुर्मास्यव्रतनियमः
शुक्लध्यानपरायणोऽर्थस्त्रीपुरपराङ्मुखोऽनुन्मत्तोओऽप्युन्मत्तव-
दाचरन्नव्यक्तलिङ्गोऽव्यक्ताचारो दिवानक्तसमत्वेनास्वप्नः
स्वरूपानुसन्धानब्रह्मप्रणवध्यानमार्गेणावहितः संन्यासेन
देहत्यागं करोति स परमहंसपरिव्राजको भवति . भगवन् ब्रह्मप्रणवः
कीदृश इति ब्रह्मा पृच्छति . स होवाच नारायणः . ब्रह्मप्रणवः
षोडशमात्रात्मकः सोऽवस्थाचतुष्टयचतुष्टयगोचरः .
जाग्रदवस्थायां जाग्रदादिचरस्रोऽवस्थाः स्वप्ने स्वप्नादिचतस्रोऽवस्थाः
सुषुप्तौ सुषुप्त्यादिचतस्रोऽवस्थास्तुरीये तुरीयादिचतस्रोऽवस्था भवन्तीति .
जाग्रदवस्थायां विश्वस्य चातुर्विध्यं विश्वविश्वो विश्वतैजसो विश्वप्राज्ञो
विश्वतुरीय इति . स्वप्नावस्थायां तैजसस्य चातुर्विध्यं तैजसविश्वस्तैजस-
तैजसस्तैजसप्राज्ञस्तैजसतुरीय इति . सुषुप्त्यवस्थायां प्राज्ञस्य चातुर्विध्यं
प्राज्ञविश्वः प्राज्ञतैजसः प्राज्ञप्राज्ञः प्राज्ञतुरीय इति.
तुरीयावस्थायां तुरीयस्य चातुर्विध्यं तुरीयविश्वस्तुरीयतैजस-
स्तुरीयप्राज्ञस्तुरीयतुरीय इति . ते क्रमेण षोडशमात्रारूढाः
अकारे जाग्रद्विश्व उकारे जाग्रत्तैजसो मकारे जाग्रत्प्राज्ञ
अर्धमात्रायां जाग्रत्तुरीयो बिन्दौ स्वप्नविश्वोनादे स्वप्नतैजसः
कलायां स्वप्नप्राज्ञः कलातीते स्वप्नतुरीयः शान्तौ सुषुप्तविश्वः
शान्त्यतीते सुषुप्ततैजस उन्मन्यां सुषुप्तप्राज्ञो मनोन्मन्यां
सुषुप्ततुरीयः तुर्यां तुरीयविश्वोमध्यमायां तुरीयतैजसः पश्यन्त्यां
तुरीयप्राज्ञः परायां तुरीयतुरीयः . जाग्रन्मात्राचतुष्टयमकारांशं
स्वप्नमात्राचतुष्टयमुकारांशं सुषुप्तिमात्राचतुष्टयं
मकारांशं तुरीयमात्राचतुष्टयमर्धमात्रांशम् .
अयमेव ब्रह्मप्रणवः . स परमहंसतुरीयातीतावधूतैरुपास्यः .
तेनैव ब्रह्म प्रकाशते तेन विदेहमुक्तिः . भगवन् कथमयज्ञोपवीत्यशिखी
सर्वकर्मपरित्यक्तः कथं ब्रह्मनिष्ठापरः कथं ब्राह्मण इति ब्रह्मा
पृच्छति . स होवाच विष्णुर्भोभोऽर्भक यस्यास्त्यद्वैतमात्मज्ञानं
तदेव यज्ञोपवीतम् . तस्य ध्यननिष्ठैव शिखा . तत्कर्म स पवित्रम् .
स सर्वकर्मकृत् . स ब्राह्मणः . स ब्रह्मनिष्ठापरः . स देवः . स ऋषिः .
स तपस्वी . स श्रेष्ठः . स एव सर्वज्येष्ठः . स एव जगद्गुरुः . स एवाहं विद्धि .
लोके परमहंसपरिव्राजको दुर्लभतरो यद्येकोऽस्ति . स एव नित्यपूतः . स एव
वेदपुरुषो महापुरुषो यस्तच्चित्तं मय्येवावतिष्ठते . अहं च तस्मिन्नेवावस्थितः .
स एव नित्यतृप्तः . स शीतोष्णसुखदुःखमानावमानवर्जितः . स निन्दामर्ष-
सहिष्णुः . स षडूर्मिवर्जितः . षड्भावविकारशून्यः . स ज्येष्ठाज्येष्ठ-
व्यवधानरहितः . स स्वव्यतिरेकेण नान्यद्रष्टा . आशांबरो ननमस्कारो
नस्वाहाकारो नस्वधाकारश्च नविसर्जनपरो निन्दास्तुतिव्यतिरिक्तो नमन्त्रतन्त्रोपासको
देवान्तरध्यानशून्यो लक्ष्यालक्ष्यनिवर्तकः सर्वोपरतः ससच्चिदानन्दाद्वयचिद्घनः
संपूर्णानन्दैकबोधो ब्रह्मैवाहमस्मीत्यनवरतं ब्रह्मप्रणवानुसंधानेन यः
कृतकृत्यो भवति स ह परमहंसपरिव्राडित्युपनिषत् .. हरिः ॐ तत्सत् .
ॐ भद्रं कर्णेभिः शृणुयाम देवाः .. भद्रं पश्येमाक्षभिर्यजत्राः ..
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः .. व्यशेम देवहितं यदायुः ..
स्वस्ति न इन्द्रो वृद्धश्रवाः .. स्वस्ति नः पूषा विश्ववेदाः ..
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः .. स्वस्ति नो बृहस्पतिर्दधातु ..
ॐ शान्तिः शान्तिः शान्तिः ..
इति परमहंसपरिव्राजकोपनिषत्समाप्ता ..
Encoded by Sunder Hattangadi (sunderh@hotmail.com)
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com