.. परमहंस ..
परमहंसोपनिषत्
ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः .
स्थिरैरङ्गैस्तुष्टुवंसस्तनूभिर्व्यशेम देवहितं यदायुः .
स्वस्ति न इन्द्रो वृद्धश्रवः स्वस्ति नः पूषा विश्ववेदाः .
स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु .
ॐ शान्तिः शान्तिः शान्तिः.
हरिः ॐ ..
अथ योगिनं परमहंसनं कोऽयं मार्नस्तेषं का स्थितिरिति नारदो
भगवन्तमुपगत्योवाच . तं भगवानाः . योऽयं परमहंसमार्गो
लोके दुर्लभतरो न तु बाहुल्यो यद्येको भवति स एव नित्यपूतस्थः
स एव वेदपुरुष इति विदुषो मन्यन्ते महापुरुषो यच्चित्तं
तत्सर्वदा मय्येवावतिष्टते तस्मादहं च तस्मिन्नेवावस्थीयते .
असौ स्वपुत्रमित्रकलत्रबन्व्वादीञ्शिखायज्ञोपवीते
स्वाध्यायं च सर्वकर्माणि
संन्यस्यायं ब्रह्माण्डं च हित्वा कौपीनं दण्डमाच्छादनं च
स्वशरीरोपभोगार्थाय च लोकस्योपकारार्थाय च परिग्रहेत्तच्च न
मुख्योऽस्ति कोऽयं मुख्य इति चेदयं मुख्यः .. १..
न दण्डं न शिखं न यज्ञोपवीतं न चाच्छादनं चरति परमहंसः .
न शितं न चोष्णं न सुखं न दुःखं न मानावमाने च षडूर्मिवर्जं
निन्दागर्वमत्सरदम्मदर्पेच्छाद्वेषसुखदुःखकामकोधलोभमोहहर्षसु
उयाहंकारादींश्च हित्वा स्ववपुः कुणपमिव दृष्यते
यतस्तद्वपुरपध्वस्तं संशयविपरीतमिथ्याज्ञानानां यो हेतुस्तेन
नित्यनिवृत्तस्तन्नित्यबोधस्तत्स्वयमेवावस्थितिस्तं
शन्तमचलमद्वयानन्दविज्ञानघन एवास्मि .
तदेव मम परम्धाम तदेव शिखा च तदेवोपवीत च .
परमात्मात्मनोरेकत्वज्ञानेन तयोर्भेद एव विभग्नः सा सध्या .. २..
सर्वान्कामान्परित्यज्य अद्वैते परमस्थितिः .
ज्ञानदण्डो धृतो येन एकदण्डो स उच्यते ..
काष्ठदण्डो धृतो येन सर्वाशि ज्ञानवर्जितः .
स याति नरकान्धोरान्महारौरवसंज्ञकान् ..
इदमन्तरं ज्ञात्वा स परमहंसः .. ३..
आशाम्बरो न नमर्कारो न स्वधाकारो न निन्दा न स्तुतिर्यादृच्छिको
भवेद्भिक्षुर्नाऽऽवाहनं न विसर्जनं न मन्त्रं न ध्यानं
नोपासनं च न लक्ष्यं नाकक्ष्यं न पृथग्नापृथगहं
न न त्वं न सर्व चानिकेतस्थितिरेव भिक्षुः सौवर्णादीनं
नैव परिग्नहेन्न लोकं नावलोकं चाऽऽबाधकं क इति
चेद्बाधकोऽस्त्येव यस्माद्भिक्षुर्हिरण्यं रसेन दृष्टं
च स ब्रह्महा भवेत् .
यस्माद्भिक्षुर्हिरण्यं रसेन ग्राह्यं च स आत्महा भवेत् .
तस्माद्भिक्षुर्हिरण्यं रसेन न दृष्टं च न
स्पृष्टं च न ग्राह्यं च . सर्वे कामा मनोगता
व्यावर्तन्ते . दुःखे नोद्विग्नः सुखे न स्पृहा त्यागो रागे सर्वत्र
शुभाशुभयोरनभिस्नेहो न द्वेष्टि न मोदं च . सर्वेषामिन्द्रियाणां
गतिरुपरमते य आत्मन्येवावस्थीयते
यत्पूर्णानन्दैकबोधस्तदब्रह्माहमस्मीति
कृतकृत्यो भवति कृतकृत्यो भवति .. ४..
ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः .
स्थिरैरङ्गैस्तुष्टुवंसस्तनूभिर्व्यशेम देवहितं यदायुः .
स्वस्ति न इन्द्रो वृद्धश्रवः स्वस्ति नः पूषा विश्ववेदाः .
स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु .
ॐ शान्तिः शान्तिः शान्तिः.
हरिः ॐ ..
इति श्रीपरमहंसोपनिषत्समाप्ता ..
Paramaha\dmsa Upani\dsadtransliterated by: Anshuman Pandey [\emphapandey@u.washington.edu]16 April 1996
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com