.. फलदीपिका ..
प्रथमोऽध्यायः
राशि भेद
शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् .
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये
सन्दर्शनं वितनुते पितृदेवनॄणां
मासाब्दवासरदलैरथ उर्ध्वगं यत् |
सव्यं क्वचित् क्वचिदुपैत्यपसव्यमेकं
ज्योतिः परं दिशतु वस्त्वमितां श्रियं नः || १||
वाग्देवीं कुलदेवतां मम गुरून् कालतयज्ञानदान्
सूर्यदींश्च नवग्राहन् गणपातिं बक्त्या प्रणम्येश्वरम् |
संक्षिप्यात्रिपराशरादिकथितान् मन्त्रेश्वरो दैवविद्
वक्ष्येऽहं फलदीपिकां सुविमलां ज्योतिर्विदां प्रीत्ये || २||
पदाभाद्यैर्यन्त्रैर्जननसमयोऽत्र प्रथमतो
विशेषाद्विज्ञेयः सह विघटिकाभित्तवत तदा |
गतैदृ क्तुल्यत्वं गणितकरणैः केचरर्गातिं
विदित्वा तद्भावं बलमपि फलं नैः कथयतु || ३||
शिरोवक्त्रोरोहृज्जठरकटिवस्तिप्रजनन-
स्थलान्यूरूजान्वोर्युगलमिति जंघे पदयुगम् |
विलनात्कालाङ्गान्यलिझषकुलीरान्तिममिदं
भसन्धिविख्याता सकलभवनान्तानपि परे || ४||
अरण्ये केदारे शयनभवने स्वभगलिले
गिरी पाथ सस्यान्वितमुवि विशां घोरिन सुविरे |
जनाधीशस्थाने सजलविपिने धाम्नि विचरत्
कुलाले कीलाले वसतिरुदिता मेषभवनात् || ५||
भौमः शुक्रबुधेन्दुसूर्यशशिजाः शुक्रारजीवार्कजाः
मन्दो देवगुरुः क्रमेण कथिता मेषादिराशीश्वराः |
सूर्यादुच्चगृहाः क्रियो वृषमृगस्त्रीकार्कमीनास्तुला
दिक्त्र्यंशैर्मनुयुक्तिथीषुभनकांशैस्तेऽस्तनीचाः क्रमात् || ६||
सिम्होक्षाजवधूहयाङ्गवणिजः कुंभस्त्रिकोणा रवेः
ज्ञेन्द्वोस्तूच्चलवान्नखोड्विनशरैर्दिग्भूतकृत्यंशकैः |
चापाद्यर्धवधूनृयुस्घटतुला मर्त्याश्च कीटोऽलिभं
त्वाप्याः कर्कमृगापरार्धशफराः शेष्हश्चतुष्पादकाः || ७||
गोकर्क्यश्व्यजनक्रभान्यथ नृयुङ्मीनौ परे राश्यस्ते
पृष्ठोधयकोदयाः समिथुनाः पृहोदयाश्चैन्दवाः |
सौराः शेषगृहाः क्रमेण कथिता रात्रिद्युसंज्ञाः त्रमा-
दूध्वार्धःसमवक्रभाति तु पुनस्तीक्ष्णांशुमुक्ताद् गृहात् || ८||
मेषादाह चरं स्थिराख्यमुभयं द्वारं बहिर्गर्भभं
धातुर्मूलमितीह जीव उदितं क्रूरं च सौम्यं विदुः |
मेषाद्याः कथितास्त्रिकोणसहिताः प्रागादिनाथाः क्रमा-
दोजर्क्षं समभं पुमांश्च युवतिर्वामाङ्गमस्तादिकम् || ९||
लग्नं होरा कल्यदेहोदयाख्यं रूपं शिर्षं वर्तमानं च जन्म |
वित्तं विद्या स्वान्नपानाति भुक्तिं दक्षाक्ष्यास्यं पत्रिका वाक्कुटुम्बम् || १०||
दुश्चिक्योरो दक्षकर्णं च सेनां धैर्यं शौर्यं विक्रमं भ्रात्रं च
गेहं क्षेत्रं मातुल भागिनेयं बन्धुं मित्रं वाहनं मातरं च || ११||
राज्यं गोमहिषसुगन्धवस्त्रभूषाः पातालं हिबुकसुखाम्बुसेतुनद्यः |
राजाङ्कं सचिवकरात्मधीभविष्यज्जानासून् सुतजटरश्रुतिस्मृतीश्च || १२||
ऋणास्त्रचोरक्षतरोगशत्रून् ज्ञात्याजिदुष्कृत्याघभीत्यवज्ञाः |
जामित्रचित्तोत्थमदास्तकामान् द्यूनाध्वलोकान् पतिमार्गभार्याः || १३||
माङ्गल्यरन्ध्रमलिनाधिपराभवायुः
क्लेशापवादमरणाशुचिविघ्नदासान् |
आचार्यदैवतपितॄन् शुभपूर्वभाग्य-
पूजातपःसुकृतपौत्रजपार्यवंशान् || १४||
व्यापारास्पदमानकर्मजयसत्कीर्तिं क्रतुं जीवनं
व्योमाचारगुणप्रवृत्तिगमनान्याज्ञां च मेषूरणम् |
लाभायागमनाप्तिसिद्धिविभवान् प्राप्तिं भवं श्लाध्यतां
ज्येष्ठभ्रातरमन्यकर्णसरसान् सन्तोषमाकर्णनम् || १५||
दुःखांघ्रिवामनयनक्षयसूचकान्त्य-
दरिद्र्यपापशयनव्ययरिःफबन्धान् |
भावाह्व्या निगदिताः क्रमशोऽथ लीन-
स्थानं त्रिषड्व्ययपराभवराशिनाम् || १६||
दुःस्थानमष्टमरिपुव्ययभावमाहुऊ सुस्थानमन्यभवनं शुभदं प्रदिष्टम् |
प्राहुर्विलग्नदशसप्तचतुर्थभानि केन्द्रं हि कण्तकचतुष्टयनामयुक्तम् || १७||
पणकरमिति केन्द्रादूर्ध्वमापोक्लिमन्तत्-
परमथ चतुरस्त्रं नैधनं बन्धुभं च |
अथ समुपचयानि व्योमशौर्यरिलाभा
नवमसुतभयुग्मं स्यात् त्रिकोणं प्रशस्तम् || १८||
द्वितीयोऽध्यायः
ग्रह भेद
ताम्रं स्वर्णं पितृशुभफलं चात्मसौख्यप्रतापं
धैर्यं शौर्यं समितिविजयं राजसेवं प्रकाशम् |
शौवं कार्यं वनगिरिगतिं होमकार्यप्रवृत्तिं
देवस्थानं कथयतु बुधस्तैक्ष्ण्यमुत्साहमर्कात् || १||
मातुः स्वस्ति मनःप्रसादमुदधिस्नानं सितं चामरं
छत्रं सुव्यजनं फलानि मृदुलं पुष्पाणि सस्यं कृषिम् |
कीर्तिं मौक्तिककांस्यरौप्यमधुरक्षीरादिवस्त्राम्बुगो-
योषाप्तिं सुखभोजनं तनुसुखं रूपं वदेच्चन्द्रतः || २||
सत्त्वं भूफलनं सहोदरगुणं क्रौर्यं रणं साहसं
विद्वेषं च महानसाग्निकज्ञात्यस्त्रचोरान्रिपून् |
उत्साहं परकामिनीरतिमसत्योक्तिं महोजाद्वदे-
द्वीर्यं चित्तसमुन्नतिं च कलुषं सेनाधिपत्यं क्षतम् || ३||
पान्डित्यं सुवचः कलातिपुणतां विद्वत्स्तुतिं मातुलं
वाक्चातुर्यमुपासनादिपटुतां विद्यासु युक्तिं मतिम् |
यज्ञं वैष्णवकर्म सत्यवचनं शुक्तिं विहारस्थलं
शिल्पं बान्धवयौवराज्यसुहृदस्तद्भागिनेयं बुधात् || ४||
ज्ञानं सद्गुणमात्मजं च सचिवं स्वावारमाचार्यकं
माहात्म्यं श्रुतिशास्त्रधीस्मृतिमतिं सर्वोन्नार्तं सद्गतिम् |
देवब्राह्मणभक्तिमध्वरतपःश्रद्धाश्च कोशस्थलं
वैदुष्यं विजितेन्द्रियं धवसुखं संमानमीड्याद्दयाम् || ५||
संपद्वाहनवस्त्रभूषणनिधिद्रव्याणि तौर्यत्रिकं
भार्यसौख्यसुगन्धपुष्पमदनव्यापारशय्यालयाण् |
श्रीमत्त्वं कवितासुखं बहुवधूसङ्गं विलासं मदं
साचिव्यं सरसोक्तिमाह भृगुजाद्वाहकर्मोत्सवम् || ६||
आयुष्यं मरणं भयं पतिततां दुःखावमानामयान्
दारिद्रयं भृतकापवादकलुषाण्याशौचनिन्द्यापदः |
स्थैर्यं नीचजनाश्रयं च महिषं तन्द्रीमृणं चायसं
दासत्वं कृषिसाधनं रविसुतात्कारागृहं बन्धनं || ७||
पित्तास्थिसारोऽल्पकचश्च रक्तश्यामाकृतिः स्यान्मधुपिङ्गलाक्षः |
कौसुभ्भवासाश्चतुरस्रदेहः शूरः प्रचण्डः पृथुबाहुरर्कः || ८||
स्थूलो युवा च स्थविरः सितः कान्तेक्षणश्चासितसूक्ष्ममूर्धजः |
रक्तैकसारो मृदुवाक् सितांशुको गौरः शशी वातकफात्मको मृदुः || ९||
मध्ये कृशः कुञ्चितदीप्तकेशः क्रूरेक्षणः पैत्तिक उग्रबुद्धिः |
रक्ताम्बरो रक्ततनुर्महीजश्चण्डोऽत्युदारस्तरुणोऽतिमज्जः || १०||
दूर्वलताश्यामतनुस्त्रिधातुमिश्रः सिरावान्मधुरोक्तियुक्तः |
रक्तायताक्षो हरितंशुकस्त्वक्सारो बुधो हास्यरुचिः समङ्गः || ११||
पीतद्युतिः पिङ्गकचेक्षणः स्यात् पीनोन्नतोराश्च बृहच्छरीरः |
कफात्मकः श्रेष्ठमतिः सुरेड्यः सिंहाब्जनादश्च वसुप्रधानः || १२||
चित्राम्बराकुञ्चितकृष्णकेशः स्थूलाङ्गदेश्च कफानिलात्मा |
दूर्वङ्कुराभः कमनो विशालनेत्रो भृगुः साधितशुक्लवृद्धिः || १३||
पङ्गुनिम्नविलोचनः कृशतनुदरीर्घः सीरालोअऽलसः
कृष्णाङ्गः पवनात्मकोऽतिपिशुनः स्नाय्वात्मको निर्घृणः |
मूर्खः स्थूलनखद्विजः परुषरोमाङ्गोऽशुचिस्तामसो
रौद्रः क्रोधपरो जरापरिणतः कृष्णाम्बरो भास्करिः || १४||
शौवं धाम बहिःप्रकाशकमरुद्देशो रवेः पूर्वदिक्
दुर्गास्थनचधूलौषधिमधुस्थानं विधोर्वायुदिक् |
चोरम्लिच्छकृशानुयुद्धभुवि दिग्याम्या कुजस्योदिता
विद्वद्विष्णुसभाविहारगणकस्थानान्युदीचीं विदुः || १५||
कोशाश्वत्थसुरद्विजातिनिलयस्त्वैशानदिग्गीष्पते-
वेर्श्यावीथ्यवरोघनृत्तशयनस्थानं भृगिरग्निदिक् |
नीचश्रेण्यशुचिस्थलं वरुणदिक्छास्तुः शनेरालयो
वल्मीकाहितमोबिलान्यहिशिखिस्थानानि दिग्रक्षसः || १६||
शैवो भिषङ्नृपतिरध्वरकृत्प्रधानी
व्याध्रो मृगो दिनपतेः किल चक्रवाकः
शास्ताङ्गनारजकर्कषकतोयगाः स्यु-
रिन्दोः शशश्च हरिणश्च बकश्चकोरः || १७||
भौमो महानसगतायुधभृत्सुवर्ण-
काराजकुक्कुटशिवाकपिगृध्रचोराः |
गोपज्ञशिल्पगणकोत्त मविष्णुदासा-
स्तार्क्ष्यः किकी दिवीशुकौ शशिजो बडालः || १८||
दैवज्ञमन्त्रिगुरुविप्रयतीशमुख्याः
पारावतः सुरगुरोस्तुरगश्च हंसः |
गानी धनी विटवणिङ्नटतन्तुवाय-
वेश्यामयूरमहिषाश्च भृगोः शुको गौः || १९||
तैलक्रयी भृतकनीचकिरातकाय-
स्काराश्च दन्तिकरटाश्च पिकाः शनेः स्युः |
बौद्धहितुण्डिकखराजवृकोष्ट्रसर्प-
ध्वान्तादयो मशकमत्कुणकृम्युलूकाः || २०||
सौम्यः समोऽर्कजसितावहितौ खरांशो-
रिन्दोहितौ रविबुधावपरे समाः स्युः |
भौमस्य मन्दभृगुजौ तु समौ रिपुर्ज्ञः
सौम्यस्य शीतगुररिः सुहृदौ सितार्कौ || २१||
सूरेद्विषौ कविबुधौ रविजः समः स्या-
न्मध्यौ कवेर्गुरुकुजौ सुहृदौ शनिज्ञौ |
जीवः समः सितविदौ रविजस्य मित्रे
ज्ञेया अनुक्तखचरास्तु तदन्यथा स्युः || २२||
आन्योन्यं त्रिसुखस्वखान्त्यभवगास्तत्कालमित्राण्यमी
टन्नैसर्गिकमप्यवेक्ष्य कथयेत्तस्यातिमित्राहितान् |
शौर्याज्ञे रविजो गुरुर्गुरुसुतौ भौमश्चतुर्थाश्टमौ
पुर्णं पश्यति सप्तमं च सकलास्तेष्वंध्रिवृद्ध्या क्रमात् || २३||
सूर्यादेरयनं क्षणो दिनमृतुर्मासश्च पक्षः शर-
द्विप्रौ शुक्रगुरू रविक्षितिसुतौ चन्द्रो बुधोऽन्त्यः शनिः |
प्राहुः सत्त्वरजस्तमांसि शशिगुर्वर्काः कविज्ञौ परे
ग्रीष्मादर्ककुजौ शशी शशिसुतो जीवः शनिर्भार्गवः || २४||
ताताम्बे रविभार्गवौ दिवि निशि प्राभाकरीन्दू स्मृतौ
तद्व्यस्तेन पितृव्यमातृभगिनीसंज्ञौ तदा तत्क्रमात् |
वामाक्षिन्दुरिनोऽन्यदक्षि कथितो भौमः कनिष्ठानुजो
जीवो ज्येष्ठसहोदरः शशिसुतो दत्तात्मजः सम्ज्ञितः || २५||
देहो देही हिमरुचिरिनस्त्विन्द्रियाष्यारपूर्वा
आदित्यद्विड्गुलिकशिखिनस्तस्य पीडाकराः स्युः |
गन्धः सौम्यो भृगुजशशिनौ द्वौ रसौ सूर्यभौमौ
रूपौ शब्दो गुरुरथ परे स्पर्शसंज्ञाः प्रदिष्टाः || २६||
क्षीणेन्द्वर्ककुजाहिकेतुरविजाः पापाः सपापश्च वित्
क्लीवाः केतुबुधार्कजाः शशितमःशुक्राः स्त्रियोऽन्ये नराः |
रुद्राम्बागुहविष्णुधातृकमलाकालाह्यजा देवताः
सूर्यादग्निजलाग्निभूमिखपयोवाय्वात्मकाः स्युर्ग्रहाः || २७||
गोधूमं तण्डुलं वै तिलचणककुलुत्थाढकश्याममुद्गा
निष्पावा माष अर्केन्द्वसितगुरुशिखिक्रूरविद्भृग्वहीनाम् |
भोगीनार्क्यारजीवज्ञशशिशिखिसितेष्वम्बराख्यं कलिङ्गं
सौराष्ट्रावन्तिसिन्धून्सुमगधयवनान्पर्वतान्कीकटांश्च || २८||
माणिक्यं तरणेः सुधार्यममलं मुक्ताफलं शीतगो-
र्माहेयस्य च विद्रुमं मरकतं सौम्यस्य गारुत्मतम् |
देवेड्यस्य च पुष्परागमसुरामात्यस्य वज्रं शने-
र्नीलं निर्मलमन्ययोश्च गदिते गोमेधवैदूर्यके || २९||
ताम्रं कांस्यं धातुताम्रं त्रपु स्यात् स्वर्णं रौप्यं चायसं भास्करादेः |
वस्त्रं तत्तद्वर्णयुक्तं विशेषाज्जीर्णं मन्दस्याग्निदगधं कुजस्य || ३०||
भानोः कटुर्भूमिसुतस्य तिक्तं लावण्यमिन्दोरथ चन्द्रजस्य |
मिश्रीकृतं यन्मधुरं गुरोस्तु शुक्रस्य चाम्लं च शनेः कषायः || ३१||
भास्वग्दीष्पतिचन्द्रजक्षितिभुवां स्याद्दक्षिणे लाञ्छनं
शेषाणामितरत्र तिग्मकिरणात्कटयां शिरःपृष्ठयोः |
कक्षेऽसे वदने च सविथचरणे चिह्नं वयांस्यर्कतो
नेमे नाथ तटं नखं नग सनि ज्ञानाड्य नग्नाटनम् || ३२||
नीलद्युतिर्दीर्घतनुः कुवर्णः पामी सपाषण्डमतः सहिक्कः |
असत्यवादी कपटी च राहुः कुष्ठी परान्निन्दति बुद्धीनः || ३३||
रक्तोग्रदृष्टिविषवाग्रदेहः सशस्त्रः पतितश्च केतुः |
धूम्रद्युतिर्धूमप एव नित्यं व्रणाङ्किताङ्गश्च कृशो नृशम्सः || ३४||
सीसं च जीर्णवसनं तमसस्तु केतो-
र्मृद्भाजनं विविधचित्रपटं प्रदिष्टम् |
मित्राणि विच्छनिसितास्तास्तमसोर्द्व्योस्तु
भौमः समो निगदितो रिपवश्च शेषाः || ३५||
मूढोऽपि नीचरिपुगोऽष्टमषड्व्ययस्थो
दुःस्थः स्मृतो भवति सुस्थ इतीतरः स्यात् |
चन्द्रेव्ययायतनुषट्सुतकामसंस्थे
तोयाभिवृद्धिमिह शंसति वृद्धिकार्ये || ३६||
अन्तः सारसमुन्नतद्रुररुणो वल्ली सितेन्दू स्मॄतौ
गुल्मः केतुरहिश्च कण्टकनगौ भौमार्कजौ कीर्तितौ |
वागीशः सफलोऽफलः शशिसुतः क्षीरप्रसूनद्रुमौ
शुकेन्दू विधुरोषधिः शनिरसारागश्च सालद्रुमः || ३७||
तृतीयोऽध्यायः
वर्ग- विभाग
क्षेत्रत्रिभागनवभागदशांशहोरात्रिंशंशसप्तलवषष्टिलवाः कलांशाः |
ते द्वादशांशसहिता दशवर्गसंज्ञा वर्गोत्तमो निजनिजे भवने नवांशः ||
दशांशषष्ट्यंशकलांशहीनास्ते सप्तवर्गाश्च विसप्तमांशाः
षड्वर्गसंज्ञास्त्वथ राशिभावतुल्यं नवांशस्य फलं हि केचित् || २||
क्षेत्रेषु पूर्णमुदितं फलमन्यवर्गे-
ष्वर्द्धं कलादशमषष्टिलवेषु पादम् |
बालः कुमारतरुणौ प्रवया मृतः षड्
भागः क्रमाद्युजि विपर्ययमित्यवस्थाः || ३||
क्षेत्रस्यार्द्धं हि होरा त्वयुजि रविसुधांश्वोः समे व्यस्तमेतद्
द्रेष्काणेशास्त्रिभागैस्तनुसुतशुभपा द्वादशांशस्तु लग्नात् |
भौमार्कीड्यज्ञशुक्राः शिशुजसमलवा ह्योजभे युग्मभे तद्-
व्यस्तं त्रिंशांशनाथाः क्रियमकरतुलाः कर्कटाद्या नवांशाः || ४||
यज्ञं रत्न जनं धनं नय पटं रूपं शुकं चिटिना
नागं योग खगं बलं भग शिला धूलिर्नवं प्रस्वनम् |
लाभं विश्व दिवं रम धमं षष्ट्यंशकाश्चौजभे
क्रूराख्याः समभे विपर्ययमिदं शेषास्तु सौम्याह्वयाः || ५||
स्वात् सप्तांशदशांशकौ तु विषमे तु कामाच्छुभात्
स्वादीशाश्च कलांशपा विधिहरीशार्कः समर्क्षेऽन्यथा |
ख्यातैः कोणयुतैस्त्रिकोणभवनस्वर्क्षोच्चकेन्द्रोत्तमै-
र्वर्गाः सप्त दश त्रयोदशमिता वर्गाः प्रदिष्टाः परैः || ६||
वर्गान्योजयतु त्रयोदश सुहृत्स्वर्क्षोच्चभेषु क्रमाद्-
द्विस्त्रिः पञ्च चतुर्नाद्रिवसुषट्संख्यासु वर्गैक्यतः |
प्राहुश्चोत्तमपारिजातकथितौ सिंहासनं गोपुरं
चेत्यय्रावतदेवलोकसुरलोकांशांश्च पारावतम् || ७||
आर्यनिल्पगुणार्थसौख्यविभवान्यः पारिजातांशकः
स्वाचारं विनयान्वितं निपुणं यद्युत्तमांशे स्थितः |
खेतो गोपुरभागगः शुभमतिं स्वक्षेत्रगो मन्दिरं
यः सिंहासनगो नृपेन्द्रदयितं भूपालपुल्यं नरम् || ८||
श्रेष्ठाश्वद्विपवाहनादि विभवं पारावताधिष्ठितः
सत्कीर्तिं यदि देवलोकसहितो भूमण्डलाधीश्वरम् |
वन्द्यं भूपतिभिः सुरेन्द्रसदृशं त्वैरावतांशास्थितः
सद्भाग्यं धनधान्यपुत्रसहितं भूपं विदध्याद् ग्रहः || ९||
यद्वर्गेष्वखिलेषु मृत्युरबलेष्वत्राथ वक्ष्ये क्रमा-
न्नाशं दुःखमनर्थतां च विसुखं बन्धुप्रियं तद्वरम् |
भूपेष्टं धनिनं नृपं नृपवरं वर्गे बलिष्ठेऽखिले
वधिष्णुं सुखिनं नृपं गदमृती बालाद्यवस्थाफलम् || १०||
षड्वर्गेषु शुभग्रहाधिकगुणैः श्रीमांश्चिरं जीवति
क्रूरांशे बहुले विलग्नभवने दीनोऽल्पजीवः शठः |
तन्नाथा बलिनो नृपोऽस्त्यथ नवांशेशो दृगाणेश्वरो
लग्नेशः क्रमशः सुखी नृपसमः क्षोणिपतिर्भग्यवान् || ११||
ओजे क्रूरेऽर्कहोरां गतवति बलवान् क्रूरवृत्तिर्धनाढ्यो
युग्मे चान्द्रींशुभेषु द्युतिविनयवचोहृद्यसौभाग्ययुक्तः |
व्यस्तं व्यस्तेऽत्र मिश्रे समफलमुदितं लग्नचन्द्रौ बलिष्ठौ
तन्नाथौ द्वौ च तद्वद्यदि भवति चिरंजीव्यदुःखी यशस्वी || १२||
सिंहाजाश्वितुलानृयुग्मभवनेष्वन्त्या हयाजादिमाः
मध्यौ स्त्रीयमयोरिहायुधभृतः पाशोलिमध्यो भवेत् |
नक्राद्यो निगलो मृगेन्द्रघटयोराद्यो वणिङ्मःध्यमो
गृध्रास्यो वृषभान्तिमश्च विहगः कर्क्यादि कोलाननम् || १३||
कौर्प्यद्यः कर्कटान्त्यो भूषचरममहिश्चाजगोमध्यसिंहा-
द्यल्यन्त्यं स्याच्चतुष्पादिह फलमधनक्रूरनिन्द्या दरिद्राः |
द्वन्द्वर्क्षे स्युर्दृगाणैरधमसमशुभान्यस्थिरे चोत्क्रमेण
प्राहुस्तज्ज्ञाः स्थिरर्क्षेष्वशुभशुभसमान्येव लग्ने फलानि || १४||
द्रेक्काणेशे स्ववर्गे शुभखगसहिते स्वोच्चमित्रर्क्षगे वा
तद्व त्रिंशांशनाथे बलवति यदि चेद् द्वादशांशाधिपे वा
होरानाथे तथा चेन्निखिलगुणगणो नित्यशुद्धप्रवीणो
दीर्घायुः स्याद्दयावान् सुतधनसहितः कीर्तिमान्राजभोगः || १५||
मान्दिस्थराशिपतिसङ्गतसुत्रिकोणं
तस्यांशराशिपतिसंयुतमंशकोणम् |
लग्नं वदन्ति गुलिकांशकराशिकोणं
तद्वद्विधौ बलयुते शशिनैव विद्यात् || १६||
कुर्यादात्मसुहृद्दृगाणगशशी कल्याणरूपं गुणं
श्रेयांस्युत्तमवर्गजस्त्वपरगस्तन्नाथजातान् गुणान् |
स्वत्रिंशांशगता ग्रहा विदधते तत्कारकत्वोदितं
तत्रैकोऽपि सुहृद्ग्रहेक्षितयुतः स्वोच्चेऽर्थयुक्तं नृपम् || १७||
स्वोच्चे प्रदीप्तः सुखितस्त्रिकोणे स्वस्थः स्वगेहे मुदितः सुहृभे |
शान्तस्तु सौम्यग्रहवर्गयुक्तः शक्तो मतोऽसौ स्फुटरशिमजालः || १८||
ग्रहाभिभूतः स निपीडितः स्यात् खलस्तु पापग्रहवर्गयातः |
सुदुःखितः शत्रुगृहे ग्रहेन्द्रो नीचेऽतिभीतो विकलोऽस्तयातः || १९||
पूर्णं प्रदीप्ता विकलास्तु शून्यं मध्येऽनुपाताच्च शुभं क्रमेण |
अनुक्रमेणाशुभमेव कुर्युर्नामानुरूपाणि फलानि तेषाम् || २०||
चतुर्थोऽध्यायः
ग्रह बल
वीर्यं शड्विधमाह कालजबलं चेअबलं स्वोच्चजं
दिग्विर्यं त्वयनोद्भवं दिविषदां स्थानोद्भवं च क्रमात् |
निश्यारेन्दुसिताः परे दिवि सदा ज्ञः शुक्लपक्षे शुभाः
कृष्णेऽन्ये च निजाब्दमासदिनहोरास्वङ्ध्रिवृधद्ध्या क्रमात् || १||
राकाचन्द्रस्य चेआबलमुदगयते भास्वतो वक्रगानां
युद्धे चोदक्स्थितानां स्फुटबहुलरुचां स्वोच्चवीर्यं स्वतुङ्गे |
दिग्वीर्यं खेऽर्कभौमौ सुहृदि शशिसितौ विद्गुरू लग्नगौ
चेन्मन्देऽस्ते याम्यमार्गे बुधशनिशशिनोऽन्येऽयनाख्ये परस्मिन् || २||
स्वोच्चस्वर्क्षसुहृद्गृहेषु बलिनः षट्सु स्ववर्गेषु वा
प्रोक्तं स्थानबलं चतुअयमुखात्पूर्णार्द्धपादाः क्रमात् |
मध्याद्यन्तकषण्डमर्त्यवनिताः खेटा बलिआः क्रमात्
मन्दारज्ञगुरूशनोब्जरवयो नैजे बले वर्द्धनाः || ३||
वक्रं गतो रुचिररश्मिमसमहपूर्णो
नीचारिभांशसहितोऽपि भवेत्स खेटः |
वीर्यानिवतस्तुहिनरश्मिरिवोच्चमित्र-
स्वक्षेत्रगोऽपि विबलो हतदीधितिश्चेत् || ४||
तुङ्गस्था बलिनोऽखिलाश्च शशिनः श्लाघ्यं हि पक्षोद्भवं
भानोर्दिग्बलमाह वक्रगमने तराग्रहाणां बलम् |
कर्क्युक्षाजघटालिगोहिरबलान्त्योक्षाश्विपाश्चात्यगः
केतुस्तत्परिवेषधन्वसु बली चेन्द्वर्कयोगो निशि || ५||
रूपं मानुषभेऽलिभेऽङ्ध्रेरपरेष्वर्द्धं बलं स्यात्तनोः
तुल्यं स्वामिबलेन चोपचयगे नाथेऽतिवीर्योत्कटम् |
स्वामीड्यज्ञयुतेक्षिते कवियुते चान्यैरयुक्तेक्षिते
शर्वर्यांन्निशि राशयोऽहनि परे वीर्यान्विताः कीर्तीताः || ६||
स्वोच्चे पूर्णं स्वत्रिकोणे त्रिपादं स्वक्षेत्रऽर्द्धं मित्रभे पाद्दमव |
द्विट्क्षेत्रेऽल्पं नीचगेऽस्तं गतेऽपि क्षेत्रं वीर्यं निष्फलं स्याद् ग्रहानाम् || ७||
केन्द्रे ग्रहाणामुदितं बलं यत्सुखे भवस्यस्तगृहे विलग्ने |
उपर्युपर्युक्तपदक्रमेण बलाभिवृद्धि हि विकल्पयन्ति || ८||
श्रेष्ठेति सा सप्तमदृष्टिरेव सर्वत्र वाच्या न तथाऽन्यदृष्टिः |
योगादिषु न्यूनफलप्रदेति विशेषदृष्टिर्न तु कैश्चिदुक्ता || ९||
नैसर्गिगं शत्रुसुहृत्त्वमेव भवेत्प्रमाणं फलकारि सम्यक् |
तात्कालिकं कार्यवशेन वाच्यं तच्छत्रुमित्रत्वमनित्यमेव || १०||
निःशेषदोषहरणे शुभवर्द्धने च
वीर्यं गुरोरधिकमस्त्यखिलग्रहेभ्यः |
तद्वीर्यपाददलशक्तिभृतौ ज्ञशुक्रौ
चान्द्रं बलं तु निखिलग्रहवीर्यबीजम् || ११||
चन्द्रक्रियादि
जन्मर्क्षविघती नीतैर्ज्ञानाङ्गैर्ननयैर्भजेत् |
लब्धाश्चन्द्रक्रियावस्थावेलाख्याम्स्तन्फलं क्रमात् || १२||
चन्द्रक्रिया फल
स्थानाद्भ्रास्तप्स्वी परयुवतिरतो द्यूतकृद्धस्तिमुख्या-
रूढः सिंहासनस्थो नरपतिररिहा दण्डनेता गुणी च |
निष्प्रानश्छिन्नमूर्द्धा क्षतकरचरणो बन्धनस्थो विनष्टो
राजा वेदानधीते स्वपिति सुचरितः संस्मृतो धर्मकर्ता || १३||
सद्वंश्यो निधिसंगतः श्रुतकुलो व्याख्यापरः शत्रुहा
रोगी शत्रुजितः स्वदेशचलितो भृत्यो विनष्टार्थकः |
अस्थानी च सुमन्त्रकः परमहीभर्ता सभार्यो गज-
त्रस्तः संयुगभीतिमानतिभयो लीनोन्नदाताग्निगः || १४||
क्षुद्बाधासहितोऽन्नमत्ति विचरन्मांसानोऽस्त्रक्षतः
सोद्वाहो धृतकन्दुको विहरति द्यूतैर्नृपो दुःखितः |
शयास्थो रिपुसेवितश्च ससुहृद्योगी च भार्यान्वितो
मिष्टाही च पयः पिबन् सुकृतकृत् स्वस्थस्तथास्ते सुखम् || १५||
चन्द्र- अवस्था फल
आत्मस्थानात्प्रवासो महितनृपहितो दासता प्राणहानि-
र्भूपालत्वं स्ववंशोचितगुणनिरतो रोग आस्थानवत्त्वम् |
भीतिः क्षुद्बाधितत्वं युवतिपरिणयो स्म्यशय्यानुषाक्ति
मृर्ष्टाशित्वं च गीता इति नियमवशात्सद्भिरिन्दोरवस्था || १६||
चन्द्रवेला- फल
मूर्द्धमयो मुदितता यजनं सुखस्थो
नेत्रमयः सुखितता वनिताविहरः |
उग्रज्वरः कनकभूषणमश्रुमोक्षः
क्ष्वेला नं निधुवनं जठरस्य रोगः || १७||
क्रीडा जले हसनचित्रविलेखने च
क्रोडश्च नृत्तकरणं घृतभुक्तिनिद्रे |
दानक्रिया दशनरुक् कलहः प्रयाण-
मुन्मत्तता च सलिलाप्लवनं विरोधः || १८||
स्वोच्छास्नानं क्षुद्भयं शास्त्रलाभं स्वैर गोष्ठी योधनं पुन्यकर्म |
पापा चारः क्रूरकर्मा प्रहर्षं प्राज्ञैरेवं चन्द्रवेला प्रदिष्टा || १९||
जातके च मुहूर्ते च प्रश्ने चन्द्रक्रियादयः |
सम्यक् फलप्रदास्तस्माद्विशेषेण विचिन्तयेत् || २०||
ओअक्षोद्भवं हिमकरस्य विशेष्शमाहुः
स्थानोद्भवं तु बलमप्यधिक्रं परेषां |
तत्संप्रयुक्तमितरैरधिकाधिकं स्या-
दन्यानि तेन सदृशानि बहूनि ते स्युः || २१||
बलपिंड
सार्द्धानि षशतीक्ष्णकरो बलीयान् चन्द्रस्तु षशपञ्च वसुन्धराजः
सप्तेन्दुसूनो रविवद्गुरोस्तु सार्द्धानि पञ्चाथ सितो बली स्यात् || २२||
मन्दस्तु पञ्चैव हि षड्बलानां संयोग एवापरथान्यथा स्युः |
एवं ग्रहाणां स्वबलाबलानि विचिन्त्य सम्यक्कथयेत्फलानि || २३||
लग्नादिकानामधिपस्य पिण्डे रूपान्विते तद्बलपिण्डमाहुः |
गृहस्य यस्यां दिशादिग्बलं स्यात्तद्भाववीर्य सहितस्य दृष्ट्या || २४||
पंचमोऽध्याय
कर्माजीव प्रकरण
अर्थाप्ती कथयेद्विलग्नशशिनोः प्राबल्यतः खेचरेः
कर्मस्थैः पातृमातृशात्रवसुहृद्ब्र्हात्रादिभः स्त्रीधनात् |
भृत्याद्वा दिननाथलग्नशशिनां मध्ये बलीयांस्ततः
कर्मेशस्थनवाम्शराशिपवशाद्वृत्तिं जगुस्तद्विदः || १||
फलद्रुमैर्मन्त्रजपश्च शाठ्याद्द्यूतानृतैः कंबलभेषजाद्यैः
द्यातुक्रियाद्वा क्षितिपालपूज्याज्जीवत्यसौ पङ्कजवल्लभांशे || २||
जलोद्भवानां क्रयविक्रयेण कृषिक्रियागोमहिषीसमुत्थैः |
तीर्थाटनाद्वा वनिताश्रयाद्वा निशाकरांशे वसनक्रयाद्वा || ३||
भौमांशके धातुरणप्रहारैर्महानसाद्भूमिवशात्सुवर्णात् |
परोपतापायुधसाहसैर्वा म्लेच्छाश्रयात्सूचकचोरवृत्या || ४||
काव्यागमैर्लेखकलिप्युपायैर्ज्योतिर्गणज्ञानवशाद्बुधांशे |
परार्थवेदाध्ययनाज्जपाच्च पुरोहितव्याजवशात्प्रवृत्तिः || ५||
जीवांशके भूसुरदेवतानां समाश्रयाद्भूमिपतिप्रसादात् |
पुराणशास्त्रागमनीतिमार्गाद्धर्मोपदेशेन कुसीदवृत्या || ६||
स्त्रीसंश्रयाद्गोमहिषीगजाश्वैस्तौर्यत्रिकैर्वा रजतैश्च गन्धैः |
क्षीराद्यलङ्कारपटीपटद्यैः शुक्रांशकेऽमात्यगुणैः कवित्वात् || ७||
शन्यंशके मूलफलैः श्रमेण प्रेष्यैः खलैनीर्चधनैः कुधान्यैः |
भारोद्वहात्कुत्सिरमार्गवृत्या शिल्पादिभिर्दारुमयैर्वधाद्यैः || ८||
अंशेशे बलवत्ययत्नसंप्राप्तिं बलोनेशपे
स्वल्पं प्रोक्तफलं भवेदुदयतः कर्मर्क्षदेशे फलम् |
अंशस्योक्तदिशं वदेत्पतियुते दृष्टे स्वदेशे फलं
सत्यन्यैः परदेशजं तदधिपस्यांशे स्वदेशे स्थिरे || ९||
षष्टोऽध्यायः
योगाध्याय
रुचकभद्रकहंसकमालवाः सशशका इति पञ्च च कीर्तिताः |
स्वभवनोच्चगतेषु चतुष्टये क्षितिसुतादिषु तान् क्रमशो वदेत् || १||
दीर्घास्यो बहुसाहसाप्तविभवः शूरोऽरिहन्ता बली
गार्विष्टो रुचके प्रतीतगुणवान् सनापतिर्जित्वरः |
आयुष्मान् सकुशाग्रबुद्धिरमलो विद्वज्जनश्लाधितो
भूपो भद्रकयोगजोऽतिविभवश्चास्थानकोलाहलः || २||
हंसे सद्भिरभ्रष्टुतः क्षितिपतिः शङ्खब्जमत्स्याङ्कुशै-
श्चिह्नैः पादकराङ्कितः शुभवपुर्मृष्टान्नभुग्धार्मकः |
पुष्टाङ्गो धृतिमान्धनी सुतवधूभाग्यान्वितो वर्धनो
मालव्ये सुखभुक्सुवाहनयशा विद्वान्प्रसन्नेन्द्रियः || ३||
शस्तः सर्वजनैः सुभृत्यबलवान् ग्रामाधिपो वा नृपो
दुर्वृत्तः शशयोगजोऽन्यवनितावित्तः सौख्यवान् |
लग्नेन्द्वोरपि योगपञ्चकमिदं सान्त्राज्यसिद्धिप्रदं
तेष्वेकादिषु भाग्यवान् नृपसमो राजा नृपेन्द्रोऽधिकः || ४||
विधोस्तु सुनफानफाधुरुधुराः स्वरिःफोभय-
स्थितैर्वंरविभिर्ग्रहैरितरथा तु केमद्रुमः |
हिमत्विषि चतुष्टये ग्रहयुतेऽथ केमद्रुमो
न हीति कथितोऽथवा हिमकराद्ग्रहैः केन्द्रगैः || ५||
स्वयमाधिगतवित्तः पार्थिवस्तत्समो वा
भवति हि सुनफायां धीधनख्यातिमांश्च |
प्रभुरगदशरीरः शीलवान् ख्यातकीर्ति-
र्विषयसुखसुवेषो निर्वृतश्चानफायाम् || ६||
उत्पन्नभोगसुखभाग्धनवाहनाढ्य-
स्त्यागान्वितो धुरुधुराप्रभवः सभृत्यः |
केमद्रुमे मलिनदुःखितनीचनिःस्वाः
प्रेष्याः खलाश्च नृपतेरपि वंशजाताः || ७||
हित्वेन्दुं शुभशुभसिवेवास्युभयचर्याख्याः स्वरिःफोभय-
स्थानस्थैः सवितुः शुभैः स्युरशुभैस्ते पपसंज्ञाः स्मृताः |
सत्पार्श्वे शुभकर्तरीत्युदयभे पापेस्तु पापाह्वयो
लग्नाद्वित्तगतैः शुभैस्तु सुशुभो योगो न पापेक्षितैः || ८||
जातः स्यात् सुभगः सुखी गुणनिधिर्धीरो नृपो धार्मिको
विख्यातः सकलप्रियोऽतिशुभगो दाता महीशप्रियः |
चार्वङ्गः प्रियवाक्प्रपञ्चरसिको वाग्मी यशस्वी धनी
विद्यादत्र सुवेसिवास्युभयचर्यख्येषु पादक्रमात् || ९||
अन्यायाज्जननिन्दको हतरुचिर्हीनप्रियो दुर्जनो-
मायावी परनिन्दकः खलयुतो दुर्वृत्तशास्त्राधिकः |
लोके स्यादपकीर्तिदुःखितमना विद्यार्थभाग्यैश्च्युतो
जातश्चाशुभवेसिवास्युभयचर्यख्येषु पादक्रमात् || १०||
जैवातृको विभयरोगरिपुः उखी स्या-
दाढ्यः श्रिया च शुभकर्तरियोग जातः |
निःस्वोऽशुचिर्विसुखदारसुतोऽङ्गहीनः
स्यात्पापकर्तरिभवोऽचिरमायुरेति || ११||
आचारवान् धर्मम्तिः प्रसन्नः
सौभाग्यवान् पार्थिवमाननीयः |
मृदुस्वभावः स्मितभाषणश्च
धनी भवेच्चामलयोगजातः || १२||
सुशुभे शुभकर्तर्यां वेस्यादौ सुनभादिवत् |
शुभैः क्रमात्फलं ज्ञेयं विपरीतंअसद्ग्रहैः || १३||
ओजेष्वर्केन्दुलग्नान्यजनि दिवि पुमंश्चेन्महाभाग्ययोगः
स्त्रीणान्तद्व्यत्ययेस्याच्छशिनि सुरगुरोः केन्द्रगे केसरीति |
जीवन्त्याष्टरिसंस्थे शशिनि तु शकटः केन्द्रगे नास्ति लग्ना-
च्चन्द्रे केन्द्रादिगेऽर्कादधमसमवरिष्ठाख्ययोगाः प्रसिद्धः || १४||
महाभग्ये जातः सकलनयनानन्दजनको
वदान्यो विख्यातः क्षितिपतिरशीत्यायुरमलः |
वधूनां योगेऽस्मिन् सति धनसुमाङ्गल्यसहिता
चिरं पुत्रैः पौत्रैः शुभमुपगता सा सुचरिता || १५||
केसरीव रिपुवर्गतिहन्ता प्रौढवाक् सदसि राजसवृत्तः |
दीर्घजीव्यतियशाः पटिबुद्धिस्तेजसा जयति केसरियोगे || १६||
क्वचित्क्वचिद्भाग्यपरिच्युतः सन्पुनः पुनः सर्वमुपैति भाग्यम् |
लोकेऽप्रसिद्धोऽपरिहार्यमन्तः शल्यं प्रपन्नः शकटेऽतिःउखी || १७||
कष्टमध्यमवराह्वययोगे द्रव्यवाहनयशः सुखसंपत् |
ज्ञानधीविनय नैपुणविद्यात्यागभोगजफलान्यपि तद्वत् || १८||
चन्द्राद्वा वसुमांस्तथोपचयगैर्लग्नात्समस्तैः शुभै-
श्चन्द्राव्द्योम्न्य्मलाह्वयः शुभकगैर्योगो विलग्नादपि |
जन्मेशे सहिते विलग्नपतिना केन्द्रेऽधिमित्रर्क्षगे
लग्नं पश्यति कश्चिदत्र बलवान्य्योगो भवेत्पुष्कलः || १९||
तिष्ठेयुः स्वगृहे सदा वसुमति द्रव्याण्यनल्पान्यपि
क्ष्मेशः स्यादमले धनी सुतयशः संपद्युतो नीतिमान् |
श्रीमान् पुष्कलयोगजो नृपवरैः संमानितो विश्रुतः
स्वाकल्पाम्बरभूषितः शुभवचाः सर्वोत्तमः स्यात्प्रभुः || २०||
सर्वे पञ्चसु षट्सु सप्तसु शुभा मालाश्च पङ्क्त्या स्थिता
यद्येवं मृतिषद्व्ययादिषुगृहेष्वत्राशुभाख्याः स्मृताः |
स्वर्क्षोच्चे यदि कोणकण्टकयुतौ भाग्येशशुक्रावुभौ
लक्ष्म्याख्योऽथ तथाविधे हिमकरे गौरीति जिवेक्षिते || २१||
जनाधिकारी क्षितिपालशस्तो भोगी प्रदाता परकार्यकर्ता |
बन्धुप्रियः सत्सुतदारयुक्तोंधिरः सुमालाह्वययोगजातः || २२||
कुमार्गयुक्तोऽशुभमालिकाख्ये दुःखी परेषां वधकृत् कृतघ्नः |
स्यात्कातरो भूसुरभक्तिहोनो लोकाभिशप्तः कलहप्रियः स्यात् || २३||
नित्यं मङ्गलशील्या वनितया क्रीडत्यरोगी धनी
तेजस्वी स्वजनान् सुरक्षति महालक्ष्मीप्रसादालयः |
श्रेष्ठान्दोलिकया प्रयाति तुरगस्तम्बेरमध्यासितो
लोकानन्दकरो महीपतिवरो दाता च लक्ष्मीभवः || २४||
सुन्दरगात्रः श्लाघितगोत्रः पार्थिवमित्रः सद्गुणपुत्रः |
पङ्खजवक्त्रः संस्तुतर्जत्रो राजति गौरीयोगसमुत्थः || २५||
शुक्रवाक्पतिसुधाकरात्मजैः केन्द्रकोणसहितैर्द्वितीयगैः |
स्वोच्चमित्रभवनेषु वाक्पतौ वीर्यगे सति सरस्वतीरिता || २६||
धीम न्नाटकगद्यपद्यगणनालण्कारशास्त्रेष्वयं
निष्णातः कविताप्रबन्धरचनाशास्त्रार्थपारंगतः |
कीर्त्याकान्तजगत्त्रयोऽतिधनिको दारात्मजैरन्वितः
स्यात् सारस्वतयोगजो नृपवरैः संपूजितो भाग्यवान् || २७||
लग्नाधीश्वरभास्करामृतकराः केन्द्रत्रिकोणाश्रिताः
स्वोच्चस्वर्क्षसुहृद्गृहानुपगताः श्रीकण्ठयोगो भवेत् |
तद्वद्भार्गवभाग्यनाथशशिजाः श्रीनाथयोगस्तथा
वागीशात्मपसूर्यजा यादि तदा वैरिञ्चियोगस्ततः || २८||
रुद्राक्षाभरणो विभूतिधवलच्छायो महात्मा शिवं
ध्यायत्यात्मनि सन्ततं सुनियमः शैवव्रते दीछितः
साधूनामुपकारकः परमतेष्वेव नसूयो भवेत्
तेजस्वी शिवपूजया प्रमुदितः श्रीकण्ठयोगोद्भवः || २९||
लक्ष्मीवान् सरसोक्तिचाटुनिपुणो नारायणाङ्काण्कितः
तन्नामाङ्कितहृद्यपद्यमनिशं संकीर्तयन् सज्जनेः |
तद्भक्तापचितौ प्रसन्नवदनः सत्पुत्रदारान्वितः
सर्वेषं नयनप्रियोऽतिसुभगः श्रीनाथयोगोद्भवः || ३०||
ब्रह्म्ज्ञानपरायणो बहुमतिर्वेदप्रधानो गुणी
हृष्टो वैदिकमार्गतो न चलति प्रख्यातशिष्यव्रजः |
सौम्योक्तिर्बहुवित्तदारतनयः सद्भ्रह्मतेजोज्वलन्दी-
र्घयुर्क्जितेन्द्रियो नतनृपो वैरिञ्चियोगोद्भवः || ३१||
अन्योन्यं भवनस्थयोर्विहगयोर्लग्नादिरिह्फान्तकं
भावाधीश्वर्योः क्रमेण कथिताः षट्षष्टियोगा जनैः |
त्रिशद्दैन्यमुदीरितं व्ययरिपुच्छिद्रादिनाथोत्थिता-
स्त्वष्टौ शौर्यपतेः खला निगदिताः शेषा महाख्याः स्मृताः || ३२||
मूर्खः स्यादपवादको दुरितकृन्नित्यं सपत्नार्दितः
क्रूरोक्तिः किलदैन्यजश्चलमतिर्विच्छिन्नकार्योद्यमः |
उद्वृत्तश्च खले कदाचिदखिलं भाग्यं लभेताखिलं
सौम्योक्त्तिश्च कदाचिदेवमशुभं दारिद्र्यदुःखदिकम् || ३३||
श्रीकटक्षनिलयः प्रभुराढ्यश्चित्रवस्त्रकनकाभरणश्च |
पर्थिवाप्तबहुमानरसमाज्ञो यानवित्तसुतवांश्च महाख्ये || ३४||
लग्नाधिपाप्तभपतिस्थितराशिनाथः
स्वोच्चस्वभेशु यदि कोणचतुष्टयस्थः
योगःस कहल इति प्रथितोऽथत्तद्वत्
लग्नाधिपाप्तभप्तिर्यदि पर्वताख्यः || ३५||
वार्द्धिष्णुरार्यः सुमतिः प्रसन्नः क्षेमङ्करः काहलजो नृमान्यः |
स्थिरार्यसौख्यः स्थिरकार्यकर्त्ता क्षितीश्वरः पर्वतयोगजातः || ३६||
धर्मकर्मभवनाधिपती द्वौ संयुतौ महितभावगतौ |
राजयोग इति तद्वदिह स्यात् केन्द्रकोणयुतिर्यति शङ्खः || ३७||
भेरीशङ्खप्रणाद्रैर्धृतमृदुपटिकाजातवृत्ततपत्रो
हस्त्यश्वान्दोलिकाद्यैः सह मगधकुतप्रस्तुतिर्भूमिपालः |
नानारूपोहारस्फुरितकरयुतैः प्रार्थितः सज्जनैः स्याद्राजा
स्याक्छङ्खयोगे बहुवरवनिताभोगसम्पत्तिपूर्णः || ३८||
संख्यायोगाः सप्तसप्तर्क्षसंस्थैरेकापायाद्वल्लकीदामपाशम् |
केदाराख्यः शूलयोगो युगं च गोलश्चान्यान् पूर्वमुक्तान्विहाय || ३९||
वीणायोगे नृत्तगीतप्रियोऽर्थी दाम्नि त्यागीभूतिश्चोपकारी |
पाशे भोगी सार्थसच्छीलबन्धुः केदाराख्ये श्रीकृषिक्षेत्रेयुक्तः || ४०||
शूले हिंस्त्रः क्रोधशीलो दरिद्रः पाषण्डी स्याद् द्रव्यहीनो युगाख्ये |
निस्वः पापी म्लेच्छयुक्तः कुशिल्पी गोले जातश्चालसोऽल्पायुरेव || ४१||
सौम्यैरिन्दोर्द्यूनषड्रन्ध्रसंस्थैस्तद्वल्लग्नात्संस्थितैर्वाधियोगः |
नेता मन्त्री भूपतिः स्यात्क्रमेण ख्यातः श्रिमान्दीर्घजीवी मनस्वी || ४२||
अधियोगभवो नरेश्वंरः स्थिरसंपद्बहुबन्धुपोषकः |
अमुना रिपवः पराजिताह्चिरमायुर्लभते प्रसिद्धताम् || ४३||
भावैः सौम्ययुतेक्षितैस्तदधिपैः सुस्थानगैर्भास्वरैः
स्वोच्चस्वर्क्षगतैर्विलग्नभवनाद्योगाः क्रमाद्द्वादश |
संज्ञाश्चामरधेनुशौर्यजलधिच्छत्रास्त्रक मासुरा-
भाग्यख्यातिसुपारिजातमुसलास्तज्ज्ञैर्यथा कीर्तिताः || ४४||
प्रत्यहं व्रजति वृदिमुदग्रं शुक्लचन्द्र इव शोभनशीलः |
कीर्तिमान् जनपतिश्चिरजीवी श्रीनिधिर्भवति चामरजातः || ४५||
सान्नपान्नविभवोऽखिलविद्या पुष्कलोधिककुटुम्बविभूतिः |
हेमरत्नधनधान्यसंरिद्धो राजराज इव राजति धेनौ || ४६||
कीर्तिमद्भिरनुजैरभिष्टुतो लालितो महितविक्रमयुक्तः
शौर्यजो भवति राम इवासौ राजकार्यनिरतोऽतियशस्वी || ४७||
गोसंपद्धनधान्य्शोभिसदनं बन्धुप्रपुर्णं वर-
स्त्रीरत्नाम्बरभुषणानि महितस्थानं च सर्वोत्तमम् |
प्राप्नोत्यम्बुहियोगजः स्थिरसुखो हस्त्यश्वयानादिगो
राजेड्यो द्विजदेवकार्यनिरतः कूपप्रपाकृत्पथि || ४८||
सुसंसारसौभाग्यसन्तानलक्ष्मी निवासो यशस्वी शुभाषी मनीषी |
अमात्यो महीशस्य पूज्यो धनाढ्यः स्फुरत्तीक्ष्णबुद्धिर्भवेच्छत्रयोगे || ४९||
शत्रून् बलिष्ठान् बलवन्निगृह्य क्रूरप्रव्त्त्या सहितोऽभिमानी |
व्रणङ्कितङ्गश्च विवादकारी स्यादस्त्रयोगे दृढगात्रयुक्तः || ५०||
परदारपराङ्मुखो भवेद्वरदारात्मजबन्धुसंश्रितः |
जनकादधिकः शुभैर्गुणैर्महनीयां श्रियमेति कामजः || ५१||
हन्त्यन्यकार्यं पिशुनः स्वकार्यपरो दरिद्रश्च दुराग्रही स्यात् |
स्वयम्कृतानर्थपरंपरार्तः कुकर्मकृच्चासुरयोगजातः || ५२||
चञ्चच्चामरवाद्यघोषनिबिडामान्दोलिकां शाश्वती
लक्ष्मी प्राप्य महाजनैः कृतनतिः स्याद्धर्ममर्गे स्थितः |
प्रीणात्येष पितॄन् सुरान्द्विजगणांस्तत्तत्प्रियैः पूजनैः
स्वाचारः स्वकुलोद्वहः सुहृदयः स्याद्भाग्ययोगोद्भवः || ५३||
सत्क्रियां सकललोकसंमतामाचरन्नवति सज्जन्नान्नृपः |
पुत्रमित्रधनदारभाग्यवान् ख्यातिजो भवति लोकविश्रुतः || ५४||
नित्यमङ्गलयुतः पृथिवीशः संचितार्थनिचयः सुकुटुम्बी |
सत्कथाश्रवणभक्त्रभिज्ञो पारिजातजननः शिवतातिः || ५५||
कृच्छ्रलब्धधनवान् पिरभूतो लोलसंपदुचितव्ययशीलः |
स्वर्गमेव लभऽन्तेत्यदशायां जाल्मको मुसलजश्चपलश्च || ५६||
दुःस्थैर्भावगृहेश्वरैरशुभसंयुक्तेक्षितैर्वा क्रमा-
द्भावैः स्युस्त्ववयोगनिःस्वमृतयः प्रोक्ताः कुहूः पामरः |
हर्षो दुष्कृतिरित्यथापि सरलो निर्भाग्यदुर्योगकौ
योगा द्वादश ते दरिद्र विमले प्रोक्ताविपश्चिज्जनैः || ५७||
अप्रसिद्धिरतिदुःसहदैन्यं स्वल्पमायुरवमानमसद्भिः |
संयुतः कुचरितः कुतनुः स्याच्चञ्चलस्थितिरिहाप्यवयोगे || ५८||
सुवचन्यशून्यो विफलकुटुम्बः कुजनसमाजः कुदशनचक्षुः |
मतिसुतविद्या विभवविहिनो रिपुहृतवित्तः प्रभवति निःस्वे || ५९||
अरिपरिभूतः सहजविहीनो मनसिविलज्जो हतबलवित्तः |
अनुचितकर्मश्रमपरिखिन्नो विकृतिगुणः स्यादिति मृतियोगे || ६०||
मातृवाहनसुहृत्सुखभूषबन्धुर्भिविरहितः स्थितिशून्यः |
स्थानमाश्रितमनेन हनं स्यात् कुस्त्रियामभिरतः कुहुयोगे || ६१||
दुःखजीव्यनृतवागविवेकी वञ्चको मृतसुतोऽप्यनपत्यः |
नास्तिकोऽल्पकुजनं भजतेऽसौ घस्मरो भवति पामरयोगे || ६२||
सुखभोगभाग्यदृढगात्रसंयुतो निहताहितो भवति पापभीरुकः
प्रथितप्रधानजनवल्लभो धनद्युतिमित्रकीर्तिसुतवांश्चै हर्षजः || ६३||
स्वपत्नीवियोगं परस्त्रीरतीच्छा दुरालोकमध्वानसंचारवृतिः |
प्रमेहादिगुह्यार्तिमुर्वीशपीडां वदेद्दुष्कृतौ बन्धुधिक्कारशोकम् || ६४||
दीर्घयुष्मान् दृढमतिरभयः श्रीमान्विद्यासुतधनसहितः |
सिद्धारम्भो जितरिपुरमलो विख्याताख्यः प्रभवति सरले || ६५||
पित्रार्जितक्षेत्रेगृहादिनाशकृत् साधून् गुरून्निन्दति धर्मवर्जितः |
प्रत्मातिजीर्णम्बरधृच्च दुर्गतो निर्भाग्ययोगे बहुदुःखभाजनम् || ६६||
शरीरप्रयासैः कृतं कर्म यत्तत् व्रजेन्निष्फलत्वं लघुत्वं जनेषु |
जनद्रोहकारी स्वकुर्क्षिभरिः स्यात् अजस्रं प्रवासी च दुर्योगजातः || ६७||
ऋणग्रस्त उग्रो दरिद्राग्रगण्यो भवेत्कर्णरोगी च सौभात्रहीनः |
अकार्यप्रवृत्तो रसाभासवादी परप्रेष्यकः स्याद्दरिद्राख्ययोगे || ६८||
किञ्चिद्व्ययो भूरिधनाभिवृद्धिं प्रयात्ययं सर्वजनानुकूल्यम् |
सुखी स्वतन्त्रो महनीयवृत्ति गुर्णैः प्रतीतो विमलोद्भवः स्यात् || ६९||
छिद्रारिव्ययनायकाः प्रबलगाःकेन्द्रन्त्रिकोणाश्रिताः
लग्नव्योमचतुर्थभाग्यपतयः षड्रन्ध्ररिःफस्थिताः
निर्वीर्या विगतप्रभा याद तदा दुर्योग एव स्मृत-
स्तद्व्यस्ते सति योगवान्धनपतिर्भूपः सुखी धार्मिकः || ७०||
सप्तमोऽध्यायः
राजयोग
त्र्याद्यैह् खेटैः स्वोच्चगैः केन्द्रसंस्तहिः स्वर्क्षस्थैर्वा भूपतिः स्यात्प्रसिद्धिः |
पञ्चाद्यैस्तैरन्यवंशप्रसूतोऽप्युर्वीनाथो वारणाश्वन्घयुक्तः || १||
भूपः स्युर्नृपवंशजास्तु यदि दुर्योगे न जातास्तथा
ह्यन्तार्धिर्नहि चेत्कराद्दिनकराज्जानाः स्फुरन्त्येव ते |
त्र्याद्यैः केन्द्रगतैः स्वभोच्चसहितैर्भूपोद्भवाः पार्थिवाः
मर्त्यस्त्वन्यकुलोद्भवाः क्षितिपतेस्तुल्याः कदाचिन्नृपाः || २||
यद्येकोऽपि विराजितंशुनिकरः सुस्थानगो वक्रगो
नीचस्थोऽपि करोति भूपसदृशं द्वौ व त्रयो वा ग्रहाः |
एवं चेज्जनयन्ति भूपतिनमी शस्तांशराशिस्थिता
स्तद्वच्चेद्वहवो नृपं समकुटच्छत्रोल्लसच्चामरम् || ३||
द्वौ वा त्र्याद्या दिग्बलयुक्ता यदिजातः
क्ष्माभृद्वंशे भूमिपतिः स्याज्जयशीलः |
हित्वा मन्दं पञ्चखगा दिग्बलयुक्ता-
श्चत्वारो वा भूपतिरन्यान्वयजोऽपि || ४||
गणोत्तमे लग्ननवांशकोद्गमे निशाकरश्चापि गणोत्तमेऽपि वा |
चतुर्ग्रहैश्चन्द्रविर्वनितैस्तदा निरीक्षितः स्यादधमोद्भवो नृपः || ५||
विलग्नेशः केन्द्रे यदि तपसि वर्गोत्तमगतः
स्वतुङ्गे स्वर्क्षे वा गुरुपतिरपि स्याद्यदि तथा |
गजस्खन्धे कार्तस्वरकृतविमानेऽतिसुषमे |
सुखासीनं भूपं जनयति लसच्चामरयुगम् || ६||
निषादमपि पार्थिवं जनयतीन्दुरुच्चस्वभव-
स्थितग्रहनिरीक्षितो धवलकाम्तिजाल्लोज्ज्वलः |
विहाय तनुभं कलास्फुरितपूर्णकान्तिः शशी
चतुष्टयगतो नृपं जनयति द्विपाश्वान्वितम् || ७||
अश्विन्यामुदयगतो भृगुर्ग्रहेन्द्रै
र्दृष्टश्चेज्जनयति भूपतिं जितारिम् |
नीचार्योर्गृहमहपहाय वित्तसंस्थो
लग्नेशः सह कविना बही च भूपम् || ८||
भौमश्चेदजहरिचापलग्नसंस्थः
पृथ्वीशं कलयति मित्रखेटदृष्टः |
कर्मेशो नवमगतश्च भाग्यनाथो
मध्यस्थो भवति नृपो जनैः प्रशस्तः || ९||
चापार्द्धे भगवान् सहस्रकिरणस्तत्रैव ताराधिपो
लग्ने भानुसुतेऽतिवीर्यसहितः स्वोच्चे च भूनन्दनः |
यद्येवं भवति क्षितेरधिपतिः संश्रुत्य दूरं भयात्
त्रस्ता एव नमन्ति तस्य रिपवो दग्धाः प्रतापाग्निना || १०||
सुधामृणालोपमविम्बशोभितः शशी नवांशे नलिनीप्रियस्य
यदि क्षितीशो बहुहस्तिपूर्णः शुभाश्च केन्द्रेषु न पापयुक्ताः || ११||
नीचारिवर्गरहितैर्विहगैस्त्रिभिस्तु
स्वांशोपगैर्बलयुतैः शुभदृष्टिजुष्टैः |
गोक्षीरशङ्खधवलोमृगलाञ्ष्छनश्च
स्याद्यस्य जन्मनि स भूमिपतिर्जितारिः || १२||
कुमुदगहनबन्धुं श्रेष्ठमंशं प्रपन्नं
यदि बलसमुपेतः पश्यति व्योमचारी |
उदयभवनसंस्थः पापसंज्ञो न चैवं
भवति मनुजनाथः सर्वभौमः सुदेहः || १३||
जिवो बुधो भृगुसुतोऽथ निशाकरो वा
धर्मे विशुद्धतनवः स्फुटरश्मिजालाः |
मित्रैर्निरीक्षितयुता यदि सूतिकाले
कुर्वन्ति देवसदृशं नृपातिं महान्तम् || १४||
शुक्रेड्यौ सवितुः शिशुस्तिमियुगे स्वोच्चे च पूर्णः शशी
दृष्टस्तीब्रविलोचनेन दिनकृन्मेषोदयेऽसौ नृपः |
सेनायाश्चलनेन रेणुपटलैर्यस्य प्रविष्टे रवा-
वस्तभ्रान्तिसमाकुला कमलिनी संकोचमागच्छति || १५||
नीचारिस्थैर्भवभवनगैः पष्ठदुश्चिक्यगैर्वा
सौम्यैः स्वोच्चं परमुपगतैर्निर्मलैः केन्द्रगैर्वा |
आज्ञां यते शिशिरकिरणे कर्कटस्थे विशाया
मेकच्छत्रं त्रिभुवनमिदं यस्य स क्षत्रियेशः || १६||
वर्गोत्तमे हिमकरः सकलः स्थितोऽंशे
कुर्यान्महीपतिमपूर्वयशोऽभिरामम् |
यस्याश्वबृन्दखुरघातरजोऽभिभूतो
भानु प्रभातशशिनोऽनुकरोति रूपम् || १७||
केन्द्रगौ यदि च जीवशशाङ्कौ
यस्य जन्मनि च भार्गवदृष्टौ |
भूपतिर्भवति सोऽतुलकीर्ति
नीचगो यदि न कश्चिदिह स्यात् || १८||
जलचरराशिनवांशक इन्दुस्तनुभवने शुभदस्वकवर्गे |
अशुभकरः खलु कण्टकहीनो भवति नृपो बहुवारणनाथः || १९||
शुक्रो जीवनिरीक्षितो वितनुते भूपोद्भवं भूपतिं
देवेड्यो मृगभं विहाय तनुयो मत्तेभयुक्तं नृपम् |
केन्द्रे जन्मपतिर्बलाधिकयुतः कुर्यद्धरित्रीर्पतिं
दृष्टे वाक्पतिना बुधे दधति पृथ्वीशाश्च तच्छासनम् || २०||
एकोप्युच्चक्षेत्रगो मित्रदृष्टः
कूर्यद्भूपं मित्रयोगाद्भनाढ्यम् |
स्वंशे सूर्ये स्वर्क्षगश्चन्द्रमा-
श्चेदेशाधीशं साश्वनागं विधत्ते || २१||
मीने पूर्णज्योतिषि मित्रग्रहदृष्टे चन्द्रे
लोकानन्दकरः स्यान्नृपमुख्यः |
पूर्णज्योतिः स्वोच्चगतश्चेत्तुहिनांशु-
स्त्यागाधिक्यं सञ्जनशस्तं जगदीशम् || २२||
चन्द्रेऽधिमित्रांशगते सुदृष्टे शुक्रेण लक्ष्मीसहितो नृपः स्याः |
तथा स्थिते वासवमन्त्रिदृष्टे पूर्नां धरित्रीं परिपालयेत्सः || २३||
पापास्त्रिशत्रुभवगा यदि जन्मनाथा-
ल्लग्नाद्धने कुजबुधौ हिबुकेऽर्कशुक्रौ |
कर्मायलग्नसहिताः कुजमन्दजीवा-
स्तज्ज्ञा वदन्ति चतुरस्त्विह राजयोगान् || २४||
लाभेशधर्मेशधनेश्वराणामेकोऽपि चन्द्रग्रहकेन्द्रवर्ती |
स्वपुत्रलाभाधिपतिर्गुरुश्चेदखण्डसाम्राज्यपतित्वमेति || २५||
नीचभंग राजयोग
नीचस्थितो जन्मनि योग्रहः स्यात्त्द्राशिनाथोऽपि तदुच्चनाथः |
स चन्द्रलग्नाद्यदि केन्द्रवर्ती राजा भवेद्धार्मिकचक्रवर्ती || २६||
यद्येको नीचगतत्तद्राश्यधिपस्तदूच्चपः केन्द्रे |
यस्य स तु चक्रवर्ती समस्तभूपालवन्द्यांध्रिः || २७||
यस्मिन्ग्रशौ वर्तते खेचरस्तद्राशीशेन प्रेक्षितश्चेत्स खेटः |
क्षोणीपालं कीर्तिमन्तं विदध्यात् सुस्थानश्चेत्किंपुनः पार्थिवेन्द्रः || २८||
नीचे तिष्ठति यस्तदाश्रिगृहाधीशो विलग्नाद्यदा
चन्द्राद्वा यदि नीचगस्य विहगस्योच्चर्क्षनाथोऽथव |
केन्द्रे तिष्ठति चेत्प्रपूर्णविभवः स्याच्चक्रवर्ती नृपो
धर्मिष्ठोऽन्यमहीशवन्दितपदस्तेजोयशोभाग्यवान् || २९||
नीचे यस्तस्य नीचोच्चभेशौ द्वावेक एव वा
केन्द्रस्थश्चेच्चक्रवर्ती भूपः स्याद्भुपवन्दितः || ३०||
अष्टमोऽध्यायः
भावाश्रय फल
लग्नेऽर्केऽल्पकचः क्रियालसतमः क्रोधी प्रचण्डोन्नतो
मानी लोचनरूक्षचः कृशतनुः शूरोऽक्षमो निर्घृणः |
स्फोटाक्षः शशिभे क्रिये सतिमिरः सिंहे निशान्धः पुमन्
दरिद्र्योपहतो विनष्टतनयो जांतस्तुलायं भवेत् || १||
विगतविद्या विनयवित्तं स्खलितवाचं धनगतः
सबलशौर्य श्रियमुदारं स्वजनशत्रुं सहजगः |
जनयतीमं सुहृदि सूर्यो विसुखबन्धुक्षितिसुहृद्
भवनसुक्तं नृपतिसेवा जनकसंपद्व्ययकरम् || २||
सुखधनायुस्तनयहीनं सुमतिमात्मन्यटविगं
प्रथितमुर्वीपतिमरिस्थः सुगुणसंपद्विजयगम् |
नृपविरुद्धं कुतनुमस्तेऽध्वगमदारं ह्यवमतं
हतधनायुः सुहृदमर्को विगतदृष्टि निधनगः || ३||
विजनकोऽर्के सौतबन्धुस्तपसि देवद्विजमनाः
ससुतयानस्तुतिमतिश्रीबलयशाः खे क्षितिपतिः |
भवगतेऽर्के बहुधनायुर्विगतशोको जनपतिः
पितुरमित्रं विकलनेत्रो विधनपुत्रो व्ययगते || ४||
सिते चन्द्रे लग्ने दृढतनुरदभ्रायुरभयो
बलिष्ठो लक्ष्मीवान् भवति विपरीतं क्षयगते |
धनाढयोऽन्तर्वाणिर्विषयसुखवान् वाचि विकलः
सहोत्ये सभ्रातृप्रमदबलशौर्योऽतिकृपणः || ५||
सुखी भोगी त्यागी सुहृदि ससुहृद्वाहनयशाः
सुपुत्रो मेधावी मृदुगतिरमात्यः सुतगते |
क्षतेऽल्पायुश्चन्द्रेऽमतिरुदररोगी परिभवी
स्मरे दृष्टेः सौम्यो वरयुवतिकान्तोऽतिसुभगः || ६||
मृतौ रोग्यल्पायुस्तपसि शुभधर्मात्मसुतवान्
जयी सिद्दारम्भो नभसि शुभकृत्सत्प्रियकरः |
मनस्वी बह्वायुर्धनतनयभृत्यैः सह भवे
व्यये द्वेष्यो दुह्खी शशिनि परिभूतोऽलसतमः || ७||
क्षततनुरतिक्रूरोऽल्पायुस्तनौ धनसाहसी
वचसि विमुखो निर्विद्यार्थः कुजे कुजनाश्रितः |
सुगुणधनवाञ्छूरोऽधृष्यः सुखी व्यनुजोऽनुजे
सुहृदि विसुहृन्मतृक्षोणीसुखालयवाहनः || ८||
विसुखतनयोऽनर्थप्रायः सुते पिशुनोऽल्पधीः
प्रबलमदनः श्रीमान् ख्यातो रिपौ विजयी नृपः |
अनुचितकरो रोगार्तोऽस्तेध्वगो नृतदारवान्
कुतनुरधनोऽल्पायुश्छिद्रे कुजे जननिन्दितः || ९||
नृपसुहृदपि द्वेष्योऽतातः शुभ जनघतको
नभसि नृपति क्रूरो दाता प्रधानजनस्तुतः |
धनसुखयुतोऽशोकः शूरो भवे सुशीलः कुजे
नयनविकृतः क्रूरोऽदारो व्यये पिशुनोऽधमः || १०||
दीर्घयुर्जन्मनि ज्ञे मधुरचतुरवाक् सर्वशास्त्रार्थबोधः
स्याद्बुद्ध्योपार्जितस्वः कविरमलवचा वाचि मिष्टान्नभोक्ता
शौर्ये शूरः समायुः सुसहजसहिनः सश्रमो दैन्ययुक्तः
संख्यावण् चाटुवाक्यः सुहृदि सुक्रसुहृत्क्षेत्रधान्यार्थभोगी || ११||
विद्यासौख्यप्रतापः प्रचुरसुतयुतो मान्त्रिकः पञ्चमस्थे
जातक्रोधो विवादिर्द्वीषि रिपुबलहन्तालसो निष्ठुरोक्तिः |
प्राज्ञोऽस्ते चारुवेषः ससकलमहिमा याति भार्यां सवित्तां
विख्याताख्यश्चिरायुः कुलभृदधिपतिर्ज्ञेऽष्टम दण्दनेता || १२||
विद्यार्थाचारधर्मैः सह तपसि बुधे स्यात्प्रवीणोऽतिवाग्मी
सिद्धारम्भः सुविद्याबलमतिसुखसत्कर्मसत्यान्वितः खे |
बह्वायुः सत्यसन्धो विपुलधनसुखी लाभगे भृत्ययुक्तो
दीनो विद्याविहीनः परिभव सहितोऽन्त्ये नृशंसोऽलसश्च || १३||
शोभावान् सुकृती चिरायुरभयो लग्ने सुरौ सात्मजो
वाग्मी भोजनसारवांश्च सुमुखो विते धनी कोविदः
सावज्ञः कृपणः प्रतीतसहजः शौर्येऽघकृद्दुष्टधी-
र्बन्धौ मतृसुहृत्परिच्छदसुतस्त्रीसौख्यधान्यान्वितः || १४||
पुत्रैः क्लेशयुतो महीशसचिवो धीमान् सुतस्थे गुरौ
षष्ठे स्यादलसोऽरिहा परिभवी मन्त्राभिचारे पदुः |
सत्पत्नीसुतवान्मदेऽतिसुभगस्तातादुदारोऽधिको
दीनो जीवति सेवया कलुषभग्दीर्घयुरिज्येऽष्टमे || १५||
ख्यातः सन् सचिवः शुभेऽर्थसुतवान् स्याद्धर्मकार्योत्सुकः
स्वाचारः सुयशा नभस्यतिधनी जिवे महीशप्रियः |
आयस्थे धनिकोऽभयोऽल्पतनयो जैवातृको यानगो
द्वेष्यो धिक्कृतवाग्व्यये वितनयः साधोऽलसः सेवकः || १६||
तनौ सुतनुदृक्प्रियं सुखिनमेव दीर्घयुषं
करोति कविरर्थगः कविमनेकवित्तान्वितम् |
विदारसुखसम्पदं कृपणमप्रियं विक्रमे
सुवाहनसुमन्दिराभरण वस्त्रगन्धं सुखे || १७||
अखण्डितधनं नृपं सुमतिमात्मजे सात्मजं
विशत्रुमधनं क्षेते युवतिदूषितं विक्लवं |
सुभार्यमसतीरतं नृतकलत्रमाढ्यं मदे
चिरायुषमिलाधिपं धनिनमष्टमे संस्थितः || १८||
सदारसुहृदात्मजं क्षितिपलब्धभाग्यं शुभे
नभस्यतियशः सुहृत्सुखितवृत्तियुक्तं प्रभुम्
धनाढ्यमितराङ्गनारतमनेकसौख्या भवे
भृगुर्जनयति व्यये सरतिसौख्यवित्तद्युतिम् || १९||
स्वोच्चे स्वकीयभवने क्षितिपालतुल्यो
लग्नेऽर्कजे भवति देशपुराधिनाथः |
शेषेषु दुखपरिपीडित एव बाल्ये
दारिद्र्यदुःखवशगो मलिनोऽलसश्च || २०||
विमुखमधनमर्थेऽन्यायवन्तं च पश्चा
दितरजनपदस्थं यानभोगार्थयुक्तम् |
विपुलमतिमुदारं दारसौख्यं च शौर्ये
जनयति रविपुत्रश्चालसं विक्लवं च || २१||
दुःखी स्याद्गृहयानमातृवियुतो बाल्ये सरुग्बन्धुभे
भ्रान्तो ज्ञानसुतार्थहर्षरहितो धीस्थे शटो दुर्मतिः |
बह्वाशी द्रविणान्वितो रिपुहतो धृष्टश्च मानी रिपो
कामस्थे रविजे कुदारनिरतो निःस्बोऽध्वगो विह्वलः || २२||
श्रवैश्चरे मृतिस्थिते मलीमसोऽशंसोऽवसुः |
करालधीर्बुभुक्षितः सुहृञ्जनवमानितः || २३||
भाग्यार्थत्मजतातधर्मरहितो मन्दे शुभे दुर्जनो
मन्त्री वा नृपतिर्धनी कृषिपरः शूरः प्रसिद्धोऽम्बरे
बह्वायुः स्थिरसंपदायसहितः शूरो विरोगो धनी
निर्लज्जार्थसुतो व्ययेऽङ्गविकलो मूर्खो रिपूत्सारितः || २४||
लग्नेऽहावचिरायुरर्थबलावानूर्ध्वङ्गरोगान्वित-
श्छन्नोक्तिर्मुखरुग्घृणी नृपधनी वित्ते सरोषः सुखी |
मानी भ्रातृविरोधको दृढमतिः शौर्ये चिरायुर्धनी
मूर्खो वेश्मनि दुःखकृत्ससुहृदल्पायुः कदाचित्सुखी || २५||
नासोद्यद्वचनोऽसुतः कठिनहृद्राहौ सुते कुक्षिरु-
ग्द्विट्क्रूरग्रहपीडितः सगुदरुपछ्रीमांश्चिरायुः क्षते |
स्त्रीसंगादधनो मदेऽथ विधुरोऽवीर्यः स्वतन्त्रोऽल्पधी-
रन्ध्रेऽल्पायुरशुद्धिकृच्च विकलो वातामयोऽल्पात्मजः || २६||
धर्मस्थे प्रतिकूलवाग्गणपुरग्रामाधिपोऽपुण्यवान्
ख्यातः खेऽल्पसुतोऽन्यकार्यनिरतः सत्कर्महीनोऽभयः |
श्रीमान्नातिसुतश्चिरायुरसुरे लभे सकर्णामयः
प्रच्छन्नाघरतो बहुव्ययकरो रिःफेऽम्बुरुक्पीडितः || २७||
लग्ने कृतघ्नमसुखं पिशुनं विवणं
स्थानच्युतं विकलदेहमसत्समाजम् |
विद्यार्थहीनमधमोक्तियुतं कुदृष्टिं
पातः परान्ननिरतं कुरुते धनस्थः || २८||
आयुर्बलं धनयशा प्रमदान्नसौख्यं
केतौ तृतियभवने सहजप्रणाशम्
भूक्षेत्रयानजननीसुखजन्मभूमि-
नाशं सुखे परगृहस्थितिमेव दत्ते || २९||
पुत्रक्षयं जठररोगपिशाचपीडां
दुर्बुद्धिमात्मनि खलप्रकृतिं च पातः |
औदार्यमुत्तमगुणं दृढतां प्रसिद्धिं
षष्ठे प्रभुत्वमरिमदर्नमिष्टसिद्धिम् || ३०||
द्यूनेऽवमानमसतीरतिमान्त्ररोगं
पातः स्वदारवियुतिं मदधातुहानिम्
स्वल्पायुरिष्टविरहं कलहं च रन्ध्रे
शस्त्रक्षतं सकलकार्यविरोधमेव || ३१||
पापप्रवृत्तमशुभं पितृभाग्यहीनं
दारिद्रयमार्यजनदूषणमाह धर्मे |
सत्कर्मविघ्नमशुचित्वमवद्यकृत्यं
तेजस्विनं नभसि शौर्यमतिप्रसिद्धिम् || ३२||
लाभेऽर्थसंचयमनेकगुणं सुभोगं
सद्द्रव्यसोपकरणं सकलार्थसिद्धिम् |
प्रच्छन्नपापमधमव्ययमर्थनाशं
रिःफे विरुद्धगतिमक्षिरुजं च पातः || ३३||
उदयर्क्षशस्फुटतुल्यांशे निवसन् पूर्णं फलमाधत्ते
शनिवद्राहुः कुजवत्केतुः फलदाता स्यादिह संप्रोक्तः || ३४||
भावसमांशकसंस्था भावफलं पूर्णमेव कलयन्ति |
न्यूनाधिकांशवशतः फलवृद्धिह्लसिता वाच्या || ३५||
नवमोऽध्यायः
राशिफल
वृत्तेक्षणो दुर्बलजानुरुग्रो भीरुर्जले स्याल्लघुभुक् सुकामी |
संचारशीलश्चपलोऽनृतोक्तिव्रर्णाण्किताण्गः क्रियभे प्रजातः || १||
पृथूरुवक्त्रः कृषिकर्मकृत्स्यान्-
मध्यान्तसौख्यः प्रमदाप्रियश्च |
स्यागी क्षमी क्लेससहश्च गोमान्
पृष्ठास्यपश्वेर्ऽण्कयुतो पृषोत्थः || २||
श्यमेक्षणः कुञ्चितमुर्द्धजः स्त्रीक्रीडानुरक्तश्च परेण्गितज्ञः |
उत्तुण्गनासः प्रियगीतनृत्तो वसन् सदान्तः सदने च युग्मे || ३||
स्त्रीनिर्जितः पीनगलः समित्रो बह्वालयस्तुण्गकटिर्धनाढ्यः |
ह्लस्वश्च वक्रो द्रुतगः कुलीरे मेधान्वितस्तोयरतोऽल्पपुत्रः || ४||
पिण्गोक्षणः स्थूलहनुर्विशालवक्त्रोऽभिमानी सपराक्रमः स्यात् |
कुप्यत्यकार्ये वनशैलगामि मातुर्विधेयः स्थिरधीर्मृगेन्द्रे || ५||
स्रस्तांसबाहुः परवित्तगेहैः संपूजते सत्यरतः प्रियोक्तिः |
व्रीडालसाक्षः सुरतप्रियः स्याच्छास्त्रार्थ्विच्चाल्पसुतोऽण्गनायाम् || ६||
चलत्कृशाण्गोऽल्पसुतोऽतोभक्तो देवद्विजानामटनो द्विनामा |
प्रांशुश्च दक्षः क्रयविक्रयेषु धीरोऽदयस्तौलिनि मध्यवादी || ७||
वृत्तोरुजण्ढः पृथुनेत्रवक्षा
रोगी शिशुत्वे गुरुतातहीनः |
क्रूरक्रियो राजकुलाभिमुख्यः
कीटेऽब्जरेखाण्कितपाणिपादः || ८||
दीर्घास्यकण्ठः पृथुकर्णनासः
कर्मोद्यतः कुब्जतनुनृपेष्टः |
प्रागल्भ्यवाक्त्यागयुतोऽरिहन्ता
साम्नैकसाध्योऽश्विभवो बलाधयः || ९||
अधः कृशः सत्त्वयुतो गृहीत-
वाक्योऽलसोऽगम्यजराण्गनेष्टः
धर्मध्वजो भाग्ययुतोऽटनश्च
वातार्दितो नक्रभवो विलज्जः || १०||
प्रच्छन्नपापो घटतुल्यदेहो
विघातदक्षोऽध्वसहोऽल्पवित्तः |
लुब्धः परार्थी क्षयवृद्धियुक्तो
घटोद्भवः स्यात्प्रियगन्धपुष्पः || ११||
भ्रत्यम्बुपानः समचारुदेहः
स्वदारगस्तोयजवित्तभोक्ता |
विद्वान्कृतज्ञोऽभिभवत्यमित्रान्
शुबेक्षणो भाग्ययुतोऽन्त्यराशौ || १२||
राशेः स्वभावाश्रयरूपर्वणान्
ज्ञत्वानुरूपाणि फलानि तस्य |
युक्त्त्या वदेदत्र फलं विलग्ने
यच्चन्द्रलग्नेऽपि तदेव वाच्यम् || १३||
प्रहे सति निजोच्चगे भवति रत्नगर्भधिपो
महीपतिकृतस्तुतिर्महितसंपदामालयः
उदारगुणसंयुतो जयति विक्रमार्को यथा
नये यशसि विक्रमे वितरणे धृतौ कौशले || १४||
स्वमिन्दरगते ग्रहे प्रभुपरिग्रहादार्यतिं
प्रभुत्वमपि वा गृहस्थतिमचञ्चलां प्राप्नुयात् |
नवं भुवनमुर्वराक्षितिमुपैति काले स्वके
जने बहुमातिं पुनः सकलनष्टवस्तून्यपि || १५||
ग्रहः सुहृत्क्षेत्रगतः सुहृद्भिः
कार्यस्य सिर्द्धि नवसौहृदं च |
सत्पुत्रजायाधनधान्यभाग्यं
ददात्ययं सर्वजनानुकूल्यम् || १६||
गते ग्रहे शत्रुगृहं निकृष्टतां
परान्नवृत्ति परमन्दिरस्थितिम् |
अर्किचनत्वं रिपुपीडनं सदा
स्निग्धोऽपि तस्यातिरिपुत्वमाप्नुयात् || १७||
नीचे ग्रहेऽधः पतनं स्ववृत्तेर्दैन्यं दुराचारमृणाप्तिमाहुः |
नीचाश्रयं कीकटदेशवासं मृत्यत्वमध्वानमनर्थकार्यम् || १८||
ग्रहो मौढ्यं प्राप्तो मरणमचिरात् स्त्रीसुतधनैः
प्रहीणत्वं व्यर्थे कलहमपवादं परिभवम् |
समर्क्षस्थः खेतो न कलयति वैशेषिकफलं
सुखम् वा दुःखं या जनयति यथापूर्वमचलम् || १९||
वक्रं गतः स्वोच्चफलं विदध्या
त्सपत्ननीचर्क्षगतोऽपि खेतः |
वर्गोत्तमंशस्थिखेचरोऽपि
स्वक्षेत्रगस्योक्तफलानि तद्वत् || २०||
दशमोऽध्यायः
कलत्र भव
शुभाधिपयुतेक्षिते सुतकलत्रभे लग्नतो
विधोरपि तयोः शुभं त्वितरथान सिद्धिस्तयोः |
सिताव्द्ययसुखाष्टगैः खरखगैरसन्नध्यगे
सितेऽप्यथ शुभेतरेक्षितयुते च जायावधः || १||
दारेशे सुतगे प्रणष्टवनितोऽपुत्रोऽथवा धीश्वरो
द्यूने वा निधनेश्श्वरोऽपि कुरुते पत्नीविनाशं ध्रुवम् |
क्षीणेन्दौ सुतगे व्ययास्ततनुगैः पापैरदारात्मजः
स्त्रीसंगाद्धननाशनं मदगयाः स्वर्भनुभान्वोर्वदेत् || २||
शुक्रे दृश्चकगे मदे मृतवधूः कामे वृषस्थे बुधे
स्त्रीनाशस्त्वथ नीचगे सुरगुरौ द्यूनाधिरुढे तथा |
जामित्रे भुषगे शनौ सति तथा भौमेऽथवा स्त्रीमृति-
श्चन्द्रक्षेत्रगयोर्मदेऽर्किकुजयोः पत्नी सति शोभना || ३||
अस्ते वास्तपतावसद्ग्रहयुते दृष्टेऽप्यसन्मध्यगे
नीचारातिगृहेऽर्ककान्त्यभिहते ब्रूयात्कलत्रच्युतिम् |
कमे वा सुतभाग्ययोर्विकलदारोऽसौ सपापे भृगौ
शुक्रे वा कुजमन्दवर्गसहिते दृष्टे परस्त्रीरतः || ४||
भौमार्क्यस्ते भॄगुजशशिनोर्दाहीनोऽसुतो वा
क्लीबेऽस्ते वा भवति भवगौ द्वौ ग्रहौ स्त्रीद्वयं स्यात् |
द्वन्द्वर्क्षाशे मदपतिसितौ तस्य जायाद्वयं स्यात्
ताम्यां युक्तैर्गगननिलयैर्दारसंख्यां वदन्तु || ५||
स्त्रीसंख्यां मदगैर्ग्रहैर्मृर्तिमसत्खेटैश्च सब्धिः स्थिती
द्यूनेशे सबले शुभे सति वधुः साध्वी सुपुत्रान्विता |
पापोऽपि स्वगृहं गतः शुभकरः पत्न्याश्चकामस्थिता
हित्वा षड्व्ययरन्ध्रपान्मदनगाः सौम्यास्तु सौख्यावहाः || ६||
भार्यानाशस्त्वशुभसहितौ वीक्षितौ वार्थकामौ
तत्र प्राहुस्त्वशुभफलदां क्रूरदृष्टि विशेषात् |
एवं पत्न्या अपि सति मदे चाष्मे वास्ति दोषः
सौम्यैर्दृष्टे सति शुभयुते दंपती भाग्यवन्तौ || ७||
चन्द्रे समन्दे मदगे पुन्रभूः
पतिर्भवेद्वाप्यसुतो विदारः |
नीचारिभस्थैरशुभैर्मदे स्त्री-
पुंसोर्मृतिः स्यान्निधने धने वा || ८||
लग्नात्कलत्रभवने समराशिसंज्ञे
भावाधिपेऽपि च तथैव गतेऽसुरेड्ये |
सूर्याभितप्तरहिते सुतदारनाथे
वीर्यन्विते तु जननं ससुतं कलत्रं || ९||
कुटुम्बदारव्ययराशिनाथा
जीवेक्षिताः कोणचतुष्टयस्थाः |
दारेश्चराद्वित्तकलत्रलाभे
सौम्याः कलत्रं ससुतं सुखाढ्यम् || १०||
लग्नास्तनाथस्थितभांशकोणे
नीचोच्चभे स्त्रीजननं च पत्युः |
चन्द्राष्टवर्गेधिककिन्दुराशौ
कलत्रजन्मेति तथा धवस्य || ११||
कामस्थकामाधिप्भार्गवाना
मृक्षं दिशं शंसति तस्य पत्न्याः |
शुक्रोऽस्तपो वा नतुनाथभांश-
त्रिकोणमायाति तदा विवाहः || १२||
कलत्रसंस्थस्य कलत्रदृष्टे
दर्शागमेवाथ कलत्रपस्य |
यदा विलग्नाधिपतिः प्रयाति
कलत्रभं तत्र कलत्रलाभः || १३||
कलत्रनाथस्थितभांशकेशयोः
सितक्षपानायकयोर्बलीयसः |
दशागमे द्यूनपयुक्तभांशक-
लत्रिकोणगे देवगुरौ करग्रहः || १४||
कलत्रनाथे रिपुनीचसंस्थे
मूढेऽथवा पापनिरीक्षिते वा
कलत्रभे पापयुतेऽथ दृष्टे
कलत्रहानी प्रवदन्ति सन्तः || १५||
एकादशमोऽध्यायः
स्त्री जातक
यद्यट्पुंप्रसवे क्षमं तदखिलं स्त्रीणं प्रिये वा वदेन्-
माङ्गल्यं निधनात् सुतांश्च नवमाल्लग्नात्तनोश्चारुताम् |
भर्तारं शुभगत्वमस्त भवनात्संगं स्तीत्वं सुखात्
सन्तस्तेषु शुभप्रदास्त्वशुभदाः क्रूरास्तदीशं || १||
उदयहिमकरौ द्वौ युग्मगौ सौम्यदृष्टौ
सुतनयपतिभूषासंपदुत्कृष्टशीला |
अशुभसहितदृष्टौ चोजगौ पुंस्वभावा
कुटिलमतिरवश्या भर्तुरुग्रा दरिद्रा || २||
सद्राश्यंशयुते मदे द्युतियशोविद्यार्थवंस्तत्पति-
र्व्यत्यस्ते कुतनुर्जडश्च कितवो निःस्वो वियोगस्तयो |
आग्नेयैर्मदनस्थितैश्च विधवा मिश्चैः पुनर्भूर्भवेत्
क्रूरेष्वायुषि भर्तृहन्त्र्यपि धने सन्तः स्वयं स्त्रीमृतिः || ३||
सुतस्थेऽलिस्त्रीगोहरिषु हिमगौ चाल्पतनया
यमारार्कांशर्क्षे मदनसदने सामयभगा |
सुखे पापैर्युक्ते भवति कुलट मन्दकुजयो-
र्गृहेऽशे लग्नेन्दू भृगुरपि च पुंश्चल्यभिहिता || ४||
शुभक्षेत्रंशेऽस्ते शुभगजघना मङ्गलवती
विधाः सत्संबन्धेऽप्युदयुखयोः साध्वियतिगुणा |
त्रिकोणे सौम्याश्चेत्सुखसुतमंपद्गुणवती
बलोनाः क्रूराश्चेद्यदि भवति वन्ध्या मृतसुना || ५||
चन्द्रे भौमगृहे कुजादिकथितत्रिंशाशकेषु क्रमात्
दुष्टा दास्यसती सुशीलविभवा मायाविनी दूषणी |
शुक्रर्क्षे बहुदूषणान्यपतिग पूज्या सुधीविश्चुता
ज्ञर्क्षे च्छसवती नपुंसकसमा साध्वी गुणाढ्योत्सुका || ६||
स्वच्छन्दा बर्तृघातिन्यतिमहितगुणा शिल्पिनी साधुवृत्ता
चान्द्रे जैवे गुणाढ्या विरतिरतिगुणा ज्ञातशिल्पातिसाध्वी |
मान्दे दास्यन्यसक्ताश्चितपतिरसती निष्प्रजार्थार्कभे स्याद्
दुर्भार्या हिनवृत्ता धरणिपत्तिवधूः पुंविचेष्टान्यसक्ता || ७||
शशिलग्नसमायुक्तैः फलं त्रिंशांशकैरिदम् |
बलाबलविकल्पेन तयोरेवं विचिन्तयेत् || ८||
ज्योष्ठाभ्रातरमन्बिकां च पितरं भर्तुः कनिष्ठं क्रमात्
ज्योष्ठा ह्यासुरशूर्पजाश्च वनिता घ्नन्तीति तज्ज्ञा विदुः |
चित्रार्द्राभुजगस्वराट्च्छतभिषङ् मूलाग्नितिष्योद्भवा
वन्ध्या वा विधवाथवा मृतसुता त्यक्ता प्रियेणाधना || ९||
चन्द्रास्तोदयभाग्यपाः सह शुभैः सुस्थानगा भास्वराः
पूज्या बन्धुषु पुण्यकर्मकुशला सौन्दर्यभाग्यान्विता
भर्तुः प्रीतिकरी सुपुत्रसहिता कल्याणशीला सती
तावद्भाति सुमङ्गली च सुतसुर्यावच्छुभढ्येऽष्टमे || १०||
शीतज्योतिषि योषितोऽनुपचयस्थाने कुजेनेक्षिते
जातं गर्भफलप्रदं खलु रजः स्यादन्यथा निष्फलं |
दृष्टेऽस्मिन् गुरुणा निजोपचयगे कुर्यान्निशेकं पुमान्
अत्याज्ये समये शुभाधिकयुते पर्वादिकालोज्भिते || ११||
द्वादशोऽध्यायः
पुत्रभाव फल
सुस्था विलग्नशशिनोः सुतभेशजीवाः
सुस्थाननाथशुभदृष्टियुते सुतर्क्षे |
लग्नात्मपौ यदियुतौ च मिथः सुदृष्टौ
क्षेत्रे परस्परगतौ यदि पुत्रसिद्धिः || १||
लग्नामरेड्यशशिनां सुतभेषु पापै-
र्युक्तेक्षितेष्वथ शुभैरयुतेक्षितेषु |
पापोभयेषु सुतभेषु सुतेश्चरेषु
दुःस्थानगेषु न भवन्ति सुताः कर्थचित् || २||
पापे स्वर्क्षगते सुते तनयभाक् तस्मिन् सपापे पुनः
पुत्राः स्युर्बहुलाः शुभस्वभवने सोग्रे सुते पुत्रह |
संज्ञां चाल्पसुतर्क्षमित्यलिबृषस्त्रीसिंहहभानां विदुः
तद्राशौ सुतभावगेऽल्पसुतवान् कालान्तरेऽसाविति || ३||
सूर्ये चाल्पसुतर्क्षगे निधनगे मन्दे कुजे लग्नगे
लग्नाष्टव्यय्गैः शनीड्यरुधिरैश्चाल्पात्मजर्क्षे सुते |
चन्द्र लाभगते गुरुस्थितसुतस्थाने सपापे भवे-
ल्लग्नेऽनेकखगानन्विते तनयभाक्कालान्तरे यत्नतः || ४||
सूर्ये नान्युते सुतर्क्षसहिते चन्द्रस्य गेहे स्थिते
भौमे वा भृगुजेऽपि वा सति सुतप्राप्ति द्वितीयस्त्रियाम् |
मन्दे वा बहुपुत्रवाञ्च्छशिनि वा सौम्येऽपि वाल्पात्मजो
देवेड्ये बहुदारिका शशिगृहे तद्वत्सुताधिपेष्ठिते || ५||
सुखास्तदशमस्थितैरशुभकाव्यशीतांशुभिर्-
व्ययाष्टतनयोदयेष्वशुभगेषु वंशक्षयः |
मदे कविविदौ मतौ गुरुरसद्भिरंबुस्थितैः
सुते शशिनि नैधनव्ययतनुस्थपापैरपि || ६||
पापे लग्ने लग्नपे पुत्रसंस्थे
धीशे वीर्ये वेश्मनीन्दावपुत्रः |
ओजर्क्षेशे पुत्रगे सूर्यदृष्टे
चन्द्रे पुत्रक्लेशभाक् स्यादसूनुः || ७||
मान्दं सुतर्क्षे यदि वाऽथबौधं
मान्द्यर्कपुत्रान्वितवीक्षितं चेत् |
दत्तात्मजः स्यादुदयास्तनाथ-
संबन्धहीनो विबलः सुतेशः || ८||
नीचारिपूढोपगते सुतेशे
रिःफारिरन्ध्राधिपसंयुते वा |
सुतस्य नाशः कथितोऽत्र तज्ज्ञैः
शुभैरदृष्टे सुतभे सुतेशे || ९||
सुतनाथजीवकुजभास्करेषु वै
पुरुषंशकेषु च गतेषु कुत्रचित् |
मुनयो वदन्ति बहुपुत्रतं तदा
सुतनाथवीर्यवशतः सुपुत्रताम् || १०||
पुंराश्यंशेऽधीस्वरे पुंग्रहेन्द्रै-
र्युक्ते दृष्टे पुंग्रहे पुंप्रसुतिः |
स्त्रीराश्यांशे स्त्रीग्रहैर्युक्तदृष्टे
स्त्रीणां जन्म स्यात्सुतर्क्षे सुतेशे || ११||
बलयुक्तौ स्वगृहांशेष्वर्कसितावुपचयर्क्षगौ पुंसाम् |
स्त्रीणां वा कुजचन्द्रौ यदा तदा संभवति गर्भः || १२||
अशत्रुनिचारिनवांशकैः सुते
सुतेशयुक्तैरपि तैस्तथाविधैः |
सुतर्क्षगैर्वा गुरुभादिनांशकात्सुते
फलैः पुत्रमितिर्विचिन्त्यते || १३||
जीवेन्दुक्षितिजस्फुटैक्यभवने युग्मे च युग्मांशके
स्त्रीणां क्षेत्रेबलं वदन्ति सुतदं मिश्रे प्रयासात्फलम्
भास्वच्छुक्रगुरुस्फुटैक्यभव नेप्योजांशकेऽप्योजभे
पुंसां बीजबलं सुतप्रदमिमं मिश्रे तु मिश्रं वदेत् || १४||
पञ्चाघ्नाच्छशिनः फुटादिशुहतं भानुस्फुटं शोधये-
न्नीत्वा तत्र तिथिं सिते शुभतिथौ पुत्रोऽस्त्ययत्नादपि |
कृष्णे नास्ति सुतस्तिथेर्बलवशाद्ब्रूयाद्द्वंयोः पक्षयोः
दर्शे च्छिद्रतिथौ च विष्टिकरणे न स्यात् स्थिराख्ये सुतः || १५||
विष्टिः स्थिरं वा करणं यदि स्यात्
कृष्णं जयेत् पौरुषसूक्तमन्त्रैः |
पष्ठ्यां गुहार्धनमत्र कार्यं
यजेच्चतुर्थ्यां किल नागराजं || १६||
रामायणस्य श्रवणं नवम्यं
यद्यष्टमी चेच्छ्रवणव्रतं च |
चतुर्दशी चेद्यादि रुद्रपूजा
स्याद्द्वादशी चेत्समृतमन्नदानम् || १७||
तृप्ति पितॄणामिह पञ्चदश्यां
कृष्ंए दशम्याः परतोऽतियत्नात् |
पक्षत्रिभागेष्वपि नागराजं
स्कन्दं च सेवेत हरी क्रमेण || १८||
पुत्रेशो रिपुनीचगोऽस्तमयगो रिःफाष्टमारिस्थित
स्तद्वत्पुत्रगृहस्थितोऽपि यदि वा दुःस्थानपस्तद्वशात् |
पुत्राभावनिदानमेव कथयेत् तत्खेचराक्रान्तभ-
प्रोक्तैर्दैवतभूरुहैरपि मृगैः सन्तानहेतु वदेत् || १९||
द्रोहाच्छंभुसुपर्णयोर्नहि सुतः शापात्पितॄंआंरवे
रिन्दोर्मतृसुवासिनीभगवतीकोपान्मनोदोषतः |
स्वग्रामस्थितद्वतागुहरिपुज्ञात्युत्थदोषात्कुजे
शापाद्वालकृताद्विलालवधतः श्चीविष्णुकोपादूबुधे || २०||
पारंपर्यसुरप्रियद्विजगुरुद्रोहात्फलाढ्यद्रु म-
च्छेदाद्देवगुरौ तथा सति भृगौ पुष्पद्रुमच्छेदनात् |
साध्वीगोकुलजातदोषवशतो यक्ष्यादिकामेन सा
मन्देऽश्वत्थवधाद्रुषा पितृपतेः प्रेतैः पिशाचादिभिः || २१||
स्वर्भानौ सुतगे सुतेशसहिते सर्पस्य शापात्तथा
केतौ ब्राह्मणशापतश्च गुलिके प्रेतोथशापं वदेत् |
शुक्रेन्दू गुलिकान्वितौ यदि वधूगोहत्तिमाहुः सुते
जीवो वाथ शिखी समान्दिरिह चेद्भूदेवत्या.सुतः || २२||
एवं हि जन्मसमये बहुपूर्वजन्म-
कर्मार्जितं दुरितमस्य वदन्ति तज्ज्ञाः |
तत्तद्ग्रहोक्तजपदानशुभक्रिया-
भिस्तद्दोषशान्तिमिह शंसतु पुत्रसिध्द्यै || २३||
सेतुस्नानं कीर्तनं सत्कथायाः
पूजां शंभोः श्रीपतेः सद्व्रतानि |
दानं श्चाद्धं कर्जनागप्रतिष्टां
कुर्यदेतैः प्राप्नुयात्सन्तर्ति सः || २४||
लग्नास्तपुत्रपतिजीवदशापहारे
पुत्रेक्षकस्य सुतगस्य च पुत्रसिद्धिः
पुत्रेशराशिमथवा यमकण्टकर्क्षं
जीवेगते तनयसिद्धिरथांशभे वा || २५||
लग्नाधीशः पुत्रनाथेन योगं
स्वोच्चे स्वर्क्षेचारगत्या समेति |
पुत्रप्राप्तिः स्यात्तदा लग्ननाथः
पुत्रर्क्षं वा याति धीशाप्तभं वा || २६||
विलग्नकामात्मजनायकानां योगात्समानीय दशां महाख्याम् |
सुतस्थतद्वीक्षकतत्पतीनां दशापहारेषु सुतोद्भवः स्यात् || २७||
सुतपतिगुर्वोरथवा तद्युक्तराश्यंशकाधिपानां वा |
बलसहितस्य दशायामपहारे वा सुतप्राप्तिः || २८||
जीवे तु जीवात्मजनाथभशक-
त्रिकोणगे पुत्रजनिर्भवेन्नृणाम् |
अथान्यशास्त्रेण च जन्मकालतो
निरूपयेत्सन्ततिलक्षणं बुधः || २९||
जन्मनक्षत्रनाथस्य प्रत्ययर्क्षर्धिपस्य च
स्फुटयोगं गते जीवे त्रिकोणे वा सुतोद्भवः || ३०||
निषेकलग्नाद्दिनपस्तृतीये
राशौ यदा चारवशादुपैति |
आधानलग्नादथवा त्रिकोणे रवौ यदा जन्म वदेन्नराणाम् || ३१||
आधानल्ग्नात्सुतभेशजन्म
भाग्येऽपि वा पुण्यवशाच्च वाच्यं |
आधनलग्ने शुभदृष्टियोगे
दीर्घयुरैश्वर्ययुतो नरः स्यात् || ३२||
तत्कालेन्दुद्वादशांशे मेषात्तावति भेऽपि वा |
तस्मात्तावति भे वापि जन्मचन्द्रं वदेद्बुधः || ३३||
प्रश्नात्मजस्वीकरणोपनीतिकन्याप्रदानाभिनवार्तवेषु |
आधानकालेऽपि च जन्मतुल्यं फलं वदेञ्जन्मविलग्नतश्च || ३४||
त्रयोदशोऽध्यायः
आयुर्भाव
जाते कुमारे सति पूर्वमार्यै
रायुर्विचिन्त्यं हि ततः फलानि |
विचारणीया गुणिनि स्थितेतद्
गुणाः समस्थाः खलु लक्षणज्ञैः || १||
केचिद्यथाधानविलग्नमन्ये शीर्षोदयं भूपतनं हि केचित् |
होराविदश्चितनकाययोन्योर्वियोगकालं कथयन्ति लग्नम् || २||
आद्वादशाब्दान्नरयोनिजन्मना-
मायुष्कला निश्चयितुं न शक्यते
मात्रा च पित्रा कृतपापकर्मण
बालग्रहैर्नशमुपैति बालकः || ३||
आद्ये चतुष्के जननीकृताघै-
र्मध्ये च पित्रार्जितपापसङ्धैः |
बालस्तदन्त्यासु चतुःशरत्सु
स्वकीयदोषैः समुपैति नाशम् || ४||
तद्दोषशान्त्यै प्रतिजन्मतार-
माद्वदशाब्दं जपहोमपूर्वम् |
आयुष्करं कर्म विधाय ताता
बालं चिकित्सादिभिरेव तक्षेत् || ५||
आष्टौ बालारिष्टमादौ नराणं
योगारिष्टं प्राहुरावींशति स्यात् |
अल्पं चाद्वात्रिंशतं मध्यमायु-
श्चासप्तत्याः पूर्णमायुः शतान्तम् || ६||
नृणां वर्षशतं ह्यायुस्तास्मींस्त्रेधा विभज्यते |
अल्पं मध्यं दीर्घमायुरित्येतत्सर्वसम्मतम् || ७||
मृत्युः स्याद्दिनमृत्युरुग्विषघटीकालेऽथ तिष्येऽम्बुभे
ताताम्बासुतमातुलान्पदवशात्त्वाष्ट्रे च हन्यात्तथा |
मूलर्क्षे पितृमातृवंशविलयं तस्यान्त्यपादे श्रियां
सार्पे व्यस्तमिदं फलं न शुभसम्बन्धं विलग्नं यदि || ८||
पापाप्तेक्षितराशिसन्धिजनने सद्यो विनाशं ध्रुवं
गण्डान्ते पितृमतृहा शिशुमृतिर्जीवेद्यदि क्ष्मापतिः |
जातः सन्धिचतुष्टयेऽप्यशुभसंयुक्तेक्षिते स्यान्मृति-
र्मृर्त्योभार्गगते च सा साति विधौ केन्द्रोऽष्टमे वा मृतिः || ९||
चान्द्रं रूपं लोकशूरो वरज्ञः
कुड्ये चित्रं भाग्यलोके शुकानाम् |
मेने राज्यं मृत्युभागाः प्रदिष्टा
मेषादिनां वर्णसम्ख्यैहीमांशोः || १०||
दानं धेनो रुद्र रौद्री मुखेन
भाग्या भानुर्गोत्र जाया नखेन |
पुत्री नित्यं मृत्युभागाः क्रमेण
मेषादीनां तेषु जाता गतायुः || ११||
रन्ध्रे केन्द्रेषु पापैरुदयनिधनगैर्वथ लग्नास्तयोर्व
लग्नेऽब्जेवोग्रमध्ये व्ययमृतिरिपुगे दुर्बले शीतभनौ |
क्षीणेन्दौ साशुभे वा तनुमदगुरुधीभाजि रन्ध्रास्तगोग्रै-
मृत्युः स्यादशु केन्द्रे न यदि शुभखगाः सद्युतिर्वीक्षणं वा || १२||
जन्मेशोऽथ विलग्नपो यदिभवेद्दुस्थोऽबलो वत्सरै-
स्तद्राशिप्रमितैश्च मारयति तन्मासैदृर्गाणाधिपः |
अंशेशो दिवसैस्तथा यदि मृतिर्द्वित्र्यादियोगान्बहू-
नालोच्य प्रवदेत्सुताष्टमगतैः पापैररिष्टं शिशोः || १३||
लग्नेन्द्वोस्तदधीसयोरपि मिथो लग्नेशरन्ध्रेशयो-
र्द्रेक्काणास्वनवांशकादपि मिथस्तद्द्वादशांशात्क्रमात् |
आयुर्दीर्घसमाल्पतां चरनगव्द्यांगैश्चरेऽथ स्थिरे
ब्रूयाद्द्वन्द्वचरस्थिरैरुभयभैः स्थास्नुद्विदेहाटनैः || १४||
लग्नाधीशशुभाः क्रमाद्बहुसमाल्पायुंषि केन्द्रादिगाः
रन्ध्रेशोग्रखगास्तथा यदि गता व्यस्तं विदध्युः फलं |
जन्मेशाष्टमनाथयोरुदयपच्छिद्रेशयोर्मैत्रतो
भास्वल्लग्नपयाश्चिरायुरहितेऽल्पायुः समे मध्यमः || १५||
लग्नाधिपो लग्ननवंशनायको
जन्मेश्वरो जन्मनवांशनायकः |
स्वस्वाष्टमेशाद्यदि चेद्बलान्विता
दीर्घयुषः स्युविपरीतमन्यथ || १६||
लग्नेश्वरादतिबली निधनेस्वरोऽसौ
केन्द्रस्थितो निधनरिः फगतिश्च पापैः |
तस्यायुरल्पमथवा यदि मध्यमायु-
रुत्साहसंकटवशात्परमायुरेति || १७||
नरोऽल्पायुयोर्गे प्रथमभगणे नश्यति शने-
र्द्वितीये मध्यायुर्यदि भवति दीर्घयुषि सति |
तृतिये निर्याणं स्फुटजशनिगुर्वर्कहिमगून्
दशां भुक्ति कष्टमपि वदति निश्चित्य सुमतिः || १८||
सपापो लग्नेशो रविहतरुचिर्नीचरिपुगो
यदा दुःस्थानेषु स्थितिमुपगतो गोचरवशात् |
तनौ वा तद्योगो यदि निधनमाहुस्तनुभृतां
नवांशाद्द्रेक्काणाच्छिशिरकरलग्नादपि वदेत् || १९||
शशी तदारूढगृहाधिपश्च
लग्नाधिनाथश्च यदा त्रयोऽमी |
गुणाधिकाः सद्ग्रहदृष्टयुक्त
गुणधिकं तं कथयन्ति कालम् || २०||
लग्नाधिपोऽतिबलवानशुभैरदृष्टः
केन्द्रस्थितः शुभखगैरवलोक्यमानः |
मृत्युं विहाय विदधाति स दीर्घमायुः
सार्द्धं गुणैर्बहुभिरूर्जितराजलक्ष्म्या || २१||
सर्वतिशाय्यतिबलः स्फुरदंशुजालो
लग्ने स्थितः प्रशमयेत् सुरराजमन्त्री
एको बहूनि दुरितानि सुदुस्तराणि
भक्त्या प्रयुक्त्या इव चक्रधरे प्रणमः || २२||
मूर्तेस्त्रिकोणागमकण्टकेषु रवीन्दुजीवर्क्षनवांशसंस्थः |
सुकर्मकृन्नत्यमशेषदोषान्मुष्णाति वद्धिष्णरनुष्णरश्मिः || २३||
केन्द्रत्रिकोणनिधनेषु न यस्य पापा
लग्नाधिपः सुरगुरुश्च चतुष्टयस्थौ |
भुक्त्वा सुखानि विविधानि सुपुण्यकर्मा
जीवेच्च वत्सरशतं स विमुक्तरोगः || २४||
श्चीपत्युदीरितदशाभिरथाष्टवर्गत्-
यत्कालचक्रदशयोडुदशाप्रकारात् |
सम्यक्स्फुटाभिहतया क्रिययाप्तवाक्या-
दायुर्बुधो वदतु भूरिपरीक्षया च || २५||
चतुर्दशोऽध्यायः
रोगनिर्णय
रोगस्य चिन्तामपि रोगभावस्थितैर्ग्रहैर्वा व्ययमृत्युसंस्थैः |
रोगेश्वरेणापि तदन्वितैर्वा द्वित्र्यादिसम्वादवशाद्वदन्तु || १||
पित्तोष्णज्वरतापदेहतपनापस्मारहृत्क्रोडज-
व्याधीन्वक्ति रविर्दृगार्त्यरिभयं त्वग्दोषमस्थिस्त्रुतिम् |
काष्ठाग्न्यस्त्रविषातिदारतनयव्यापच्चतुष्पाद्भयं
चोरक्ष्मापतिधर्मदेवफणभृद्भूतेशभूतं भयम् || २||
निद्रालस्यकफातिसारपिटकाः शीतज्वरं चन्द्रमाः
शृङ्गयब्जाहतिमग्निमान्द्यमरुचिं योषिव्द्यथाकामिलाः |
चेतः शान्तिमसृग्विकारमुदकाद्भितिं च बालग्रहाद्
दुर्गकिन्नरधर्मदेवफणभृद्यक्ष्याश्च भीतिं वदेत् || ३||
तृष्णासृक्कोपपित्तज्वरमनलविषास्त्रातिकुष्टाक्षिरोगान्
गुल्मापस्मारमज्जाविहतिपरुषतापामिकादेहभङ्गान् |
भूपारिस्तेनपीडां सहजसुतसुहृद्वैरियुद्धं विधत्ते
रक्षोगन्धर्वघोरग्रहभयमवनीसूनुरूर्ध्वङ्गरोगम् || ४||
भ्रान्तिं दुर्वचनं दृगामयगलध्राणोत्थरोगं ज्वरं
पित्तश्लेष्मसमीरजं विषमपि त्वग्दोषपाण्ड्वामयान्
दुःस्वप्नं च विचर्चिकाग्निपतने पारुष्यबन्धश्रमान् |
गन्धर्वक्षितिहर्म्यवाहिभिरपि ज्ञो वक्ति पीडां ग्रहैः || ५||
गुल्मान्त्रज्वरशोकमोहकफजान् श्रोत्रार्तिमोहामयान्
देवस्थाननिधिप्रपीडनमहीदेवेशशापोद्भवम् |
रोगं किन्नरयक्षदेफण भृद्विद्याधराद्युद्भवं
जीवः सूचयति स्वयं बुधगुरूत्कृष्टापचारोद्भवम् || ६||
पाण्डुश्लेष्ममरुत्प्रकोपनयनव्यापत्प्रमेहामयान्
गुह्यस्त्यामयमूत्रकृच्छ्रमदनव्यापत्तिशुक्लस्रुतिम् |
दारस्त्रीकृतदेहकान्तिविर्हति शोषामयं योगिनी-
यक्षीमातृगणाद्भयं प्रियसुहृद्भङ्गं सितः सूचयेत् || ७||
वातश्लेष्मविकारपादविहतिं चापत्तितन्द्राश्रमान्
भ्रान्तीं कुक्षिरुगन्तरुष्णभृतकध्वंसं च पार्श्वहतिम् |
भार्यापुत्रविपत्तिमङ्ग्विहर्तिं हृत्तापमर्कत्मजो
वृक्षाश्मक्षतिमाह कश्मलगणैः पीडां पिशाचादिभिः || ८||
स्वर्भानुहृदी तापकुष्ठविमति व्यार्धं विषं कृत्रिमं
पादार्ति च पिशाच पन्नगभयं भार्यातनूजापदम् |
ब्रह्मक्षत्रविरोधशत्रुजभयं केतुस्तु संसूचयेत्
प्रेतोत्थं च भयं विषं च गुलिको देहार्तमाशौचजम् || ९||
मन्दारान्वितवीक्षिते व्ययधने चन्द्रारुणौ चाक्षिरुक्
शौर्याङ्गिरसो यमार सहिता दृष्टा यदि श्रोत्ररुक् |
सोग्रे पञ्चमभे भवेदुदररुग्रन्ध्रारिनाथान्विते
तद्वत्सप्तमनैधने सगुदरुक्छुक्रे च गुह्यामयः || १०||
षष्ठेऽर्केऽप्यथवाष्टमे ज्वरभयं भौमे च केतौ व्रणं
शुक्रे गुह्यरुजं क्षयं सुरगुरौ मन्दे च वातामयम् |
राहौ भौमनिरीक्षिते च पिलकां सेन्दौ शनौ गुल्मजं
क्षीणेन्दौ जलभेषु पापसहिते तत्स्थेऽम्बुरोगं क्षयम् || ११||
जातो गच्छति येन केन मरणं वक्ष्येऽथ तत्कारणं
रन्ध्रस्थैस्तदवेक्षर्कैर्बलवता तस्योक्तरोगैमृतिः |
रन्धर्क्षोक्तरुजाथवा मृतपतिप्राप्तर्क्षदोषेण वा
रन्ध्रेशेन खरत्रिभागपतिना मृत्युं वदेन्निश्चितम् || १२||
ग्रहेण युक्ते निधने तदुक्तरोगैर्मृतिर्वाऽथ तदीक्षकस्य
ग्रहैर्वीमुक्ते निधनेऽथ तस्य राशेः स्वभावोदितदोषजाता || १३||
अग्न्युष्णज्वरपित्तशस्त्रजमिनश्चन्द्रो विषूच्यम्बुरु-
ग्यक्ष्मादि क्षितिजोऽसृजा च दहनक्षुद्राभिचारायुधैः |
पाण्ड्वादि भ्रमजं बुधो गुरुरनायासेन मृत्युं कफात्
स्त्रीसङ्गोत्थरुजं कविस्तु मरुता वा संनिपातैः शनि || १४||
कुष्ठेन वा कृत्रिमभक्षणाद्वा राहुर्वीषाद्वाथ मसूरिकाद्यैः |
कुर्याच्छिखी दुर्मरणं नराणं रिपोर्विरोधादपि कीटकाद्यैः || १५||
लग्नादष्टमराशेः स्वभावदोषोद्भवं वदेन्मृत्युम् |
निधनेशस्य नवांशस्थितराशिनिमित्तदोषजनितं वा || १६||
पैत्त्यज्वरोष्णैर्जठराग्निनाजे
वृषे त्रिदोषैर्दनाच्च शस्त्रात् |
युग्मे तु कालश्चसनोष्णशूलै-
रुन्मादवातारुचिभिः कुलीरे || १७||
मृगज्वरस्फोटजशत्रुजं हरौ
स्त्रियां स्त्रियागुह्यजा प्रपातनात् |
तुलाधरे धीज्वरसंनिपातजं
प्लीहालिपाण्डुग्रहणीरुजालिनि || १८||
वृक्षाम्बुकाष्टायुधजं हयाङ्ग
मृगे तु शूलाचिधीभ्रमाद्यैः |
कुम्भे तु कासज्वरयक्ष्मरोगै-
र्जले विपद्वा जलरोगतोऽन्त्ये || १९||
पापर्क्षयुक्ते निधने सपापे
शस्त्रानलव्याध्रभुजङ्गपीडा |
अन्योन्यदृष्टौ व्द्यशुभौ सकेन्द्रौ
कोपात्प्रभोः शस्त्रविषाग्निजैर्वा || २०||
सौम्यांशके सौम्यगृहेऽथ सौम्य-
सम्बन्धगे वा क्षयभे क्षयेशे |
अक्लेशजातं मरणं नराणां
व्यस्ते तदा क्रूरमृती वदन्ति || २१||
स्वोच्चे स्वमीत्रे सति सौम्यवर्गे
व्ययाधिपे चोर्ध्वगती ससौम्ये |
विपर्ययेऽधोगतिमेव केचित्-
उर्ध्वस्यशीर्षोदयराशिभेदात् || २२||
केलासं रविशीतगू भृगुसुतः स्वर्ग महीजो महीं
वैकुण्ठं शशिजो यमो यमपुरं सद्ब्रह्मलोकं गुरुः |
द्वीपान् भोगिवरः शिखी तु निरयं सम्प्रापयेत् प्राणिनः
सम्बन्धाव्द्ययनायकस्य कथयेत्तत्रान्त्यराश्यंशतः || २३||
धर्मेश्वरेणैव हि पूर्वजन्म
वृत्तं भविष्यज्जननं सुतेशात् |
तदीशजातीं तदधिष्ठितर्क्ष
दिशं हि तत्रैव तदीशदेशम् || २४||
स्वोच्चे तदीशे सति देवभूमी
द्वीपन्तरं नीचरिपुस्थ्नलस्थे |
स्वर्क्षे सुहृद्भे समभे स्थिते वा
सम्प्राप्नुयाद्भारतवर्षमेव || २५||
आर्यवर्तं गीष्पतेः शुयनद्यः
काव्येन्द्वोश्च ज्ञस्य पुण्यस्थलानि |
पङ्गोनीन्द्या म्लेच्छभूस्तीक्ष्णभानोः
सौलारण्यं कीकटं भूमिजस्य || २६||
स्थिरे स्थिरांशाधिगतः सपापः
पृष्ठोदयेऽधोमुखभे च संस्थः |
तदीश्वरो वृक्षलतादिजन्म
स्यादन्यथाजीवयुतः शरीरी || २७||
लग्नेशितुः स्वोच्चसुहृत्स्वगेहान्
तदीश्वरो याति मनुष्यजन्म |
समे मृगाः स्युवीहगाः परस्मिन्
द्रेक्काणरूपैरपि चिन्तनीयम् || २८ ||
ताधेकराशौ जननं स्वदेशे
तौ तुल्यवीर्यौ यदि तुल्यजातौ |
वर्णो गुणस्तस्य खगस्य तुल्यः
संज्ञोदितैरेव वदेत्समस्तम् || २९||
पञ्चदशोऽध्यायः
भावचिन्ता
भावाह् सर्वे शुभपतियुता वीक्षिता वा शुभेशै-
स्तत्तद्भावाः सकलफलदाः पापदृग्योगहीनाः |
पापाः सर्वे भवनपतयश्चेदिहाहुस्तथैव
खेटैः सर्वैः शुभफलमिडं नीचमूढारिहीनैः || १||
तत्तद्भावात् त्रिकोणे स्वसुखमदनभे चास्पदे सौम्ययुक्ते
पापानां दृष्टिहीने भवनपसहिते पापखेटैरयुक्ते
भावानां पुष्टिमाहुः सकलशुभकरीमन्यथा चेत्प्रणाशं |
मिश्रं मिश्रैर्ग्रहेन्द्रैः सकलमपि तथा मुर्तिभावादिकानाम् || २||
नाशस्थानगतो देवाकरकरैर्लुप्तस्तु युद्भावपो
नीचारातिगृहं गतो यदि भवेत्सौम्यैरयुक्तेक्षितः |
तद्भावस्य विनाशनं वितनुते तादृग्वधोऽन्योऽस्ति चेत्
तद्भावोऽपि फलप्रदो न हि शुभश्चेन्नाशमुग्रग्रहः || ३||
लग्नादिभावाद्रिपुरन्ध्ररिःफे पापग्रहास्तद्भवनादिनाशम् |
सौम्यास्तु नात्यन्तफलप्रदाः स्युर्भवादिकानां फलमेवमाहुः || ४||
यद्भावनाथो रिपुरन्ध्ररिःफे दुःस्थानपो यद्भवनस्थितो वा |
तद्भावनाशं कथयन्ति तज्ज्ञाः शुभेक्षितस्तद्भवनस्य सौख्यम् || ५||
भावाधीशे च भाबे सति बलरहिते च ग्रहे कारकाख्ये
पापान्तह्स्थे च पापैररिभिरपि सनेक्षिते नान्यखेटैः |
पापैस्तद्बन्धुमृत्युव्ययभवनगतैस्तत्त्रिकोणस्थितैर्वा
वाच्या तद्भावहानिः स्फुटमिह भवति द्वित्रिसंवादभावात् || ६||
तत्तद्भावपराभवेश्वरखरद्रेष्काणपा दुर्बला
भावार्यष्टमकामगा निजदशायां भावनाशप्रदाः |
पापा भावगृहात् त्रिशत्रुभवगाः केन्द्रत्रिकोणे शुभाः
वीर्यढ्याः खलु भावनाथसुहृदो भावस्य सिद्धिप्रदाः || ७||
राश्तोजन्मविलग्नयोर्धृतिपतिर्भृत्युस्थतद्वीक्षकौ
मन्दः क्रूरदृगाणपो गुलिकपस्तैर्युक्तराश्यंशपा
राहुश्चैष सुदुर्बलः स जननेभावानभीष्टस्थितः
पापालोकितसंयुतो निजदशायां भावनाशावहाः || ८||
भावस्योदयपाश्रितस्य कुशलं यद्भावपेनोदय-
स्वामी तिष्ठति संयुतोऽपि कलयेत्तद्भावजातं फलम् |
दुःस्थाने विपरीतमेतदुदितं भावेश्वरे दुर्बले
दोषोऽतीव भवेद्बलेन सहिते दोषाल्पता जल्पिता || ९||
यद्भावेष्वशुभोऽपि वोदयपतिस्तद्भाववृद्धिं दिशे-
द्दुःस्थानाधिपतिः स चेद्यदि तनोः प्राबल्यमन्यस्य न |
अत्रोदाहरणं कुजे सुतगते सिंहे बुषे वा स्थिते
पुत्राप्तिं शुभवीक्षिते भुटिति तत्प्राप्तिं वदन्त्युत्तमाः || १०||
द्विस्थानाधिपतित्वमस्ति यदि चेन्मुख्यं त्रिकोणर्क्षजं
तस्यार्द्धं स्वगृहेऽथ पूर्वमुभयोर्यत्तदृषादौ वदेत् |
पश्चद्भावमिहापरार्द्धसमये युग्मे गृहे युग्मजं
त्वोजस्थे सति चौजभावजफलं शंसन्ति केचिज्जनाः || ११||
यद्भावेशस्याधिशत्रुग्रहो वा
यो वा खेटो बिन्दुशून्यर्क्षयुक्तः
तत्तत्पाके मूर्तिभावादिकानां
नाशं क्रूयादृऐववित्प्राश्रिकाय || १२||
स्वोच्चे सुहृत्क्षेत्रगतो ग्रहेन्द्रः
षड्भिर्बलैर्मुख्यबलान्वितोऽपि |
सन्धौ स्थितः सन्नफलप्रदः स्यत्
एवं विचिन्त्यात्र वदेद्विपाके || १३||
भावेषु भावस्फुटतुल्भागस्त-
द्भावजं पूर्णफलं विधत्ते |
सन्धौ फलं नास्ति तदन्तराले
चिन्त्योऽनुपातः खलु खेचराणम् || १४||
सूर्यादात्मपितृप्रभावनिविजां शक्तिं श्रियं चिन्तयेत्
चेतोबुद्धिनृपप्रसादजननीसंपत्करश्चन्द्रमाः |
सत्वं रोगगुणानुजावनिरिपुज्ञातीन्धरासूनुना
विद्याबन्धुविवेकमातुलसुहृद्वाक्कर्मकृद्बोधनः || १५||
प्रज्ञावित्तशरीरपुष्टितनयज्ञानानि वागीश्वरात्
पत्नीवाहनभूषणानि मदनव्यापारसौख्यं भृगोः |
आयुर्जीवन्मृत्युकारणविपद्भृत्यांश्च मन्दाद्वदेत्
सर्पेणैव पितामहंतु शिखिना मातामहं चिन्तयेत् || १६||
द्युमणिरमन्त्री भूसुतः सौमसौम्यौ
गुरुरिनतनयारौ भार्गवो भानुपुत्रः |
दिनकरद्विजेजौ जीवभानुज्ञमन्दाः
सुरगुरुरिनसूनुः कारकाः स्युविलग्नात् || १७||
सुहृदरिपरकीयस्वर्क्षतुङ्गस्थितानां
फलमनुपरिचिन्त्यं लग्नदेहादिभावैः |
समुपचयविपत्ती सौम्यपापेषु सत्यः
कथयति विपरीतं रिःफषष्टमेषु || १८||
पापग्रहाः षष्ठमृतिव्ययस्था-
स्तद्भाववृद्धिं कलयन्ति दोषैः |
शुभास्तु तद्भावलयं हि
तस्माच्छत्रवादि भावोत्फलप्रणाशः || १९||
भावस्य यस्यैव फलं विचिन्त्यं
भावं च तं लग्नमिति प्रकल्प्य |
तस्माद्वदेद्द्वादशभावजानि
फलानि तद्रूपधनादिकानि || २०||
एवं हि तत्कारकतो विचिन्त्यं
पितुश्च मातुश्च सहोदरस्य |
तन्मातुलस्यापि सुतस्य पत्यु-
र्भृत्यस्य सूर्यादिखगस्थितर्क्षात् || २१||
सूर्यास्थितर्क्षाज्जनकस्वरूपं
वृद्धिं द्वितीयेन तु तत्प्रकाशम् |
तद्भ्रातरं तस्य गुणं तृतीयात्
तन्मातरं चापि सुखं चतुर्थात् || २२||
बुधिं प्रसादं सुतभाच्च षष्ठा-
त्पीडा पितुर्दोषर्मारं च रोगम् |
कामं मदं तस्य तु सप्तमेन
दुःखं मृतिं मृत्युगृहात्तदयुः || २३||
पुण्यं शुभं तत्पितरं शुभेन
व्यापारमस्यैव हि कर्मभावात् |
लाभं ह्युपान्त्यात् क्षयमन्त्य-
भावाच्चन्द्रादिकानां फलमेवमाहुः || २४||
तत्तद्भावात्कारकादेवमूह्यं
तत्तन्मातृभ्रातृपित्रात्मजाद्यम् |
तस्मिन् भावे कारके भावनाथे
वीर्योपेते तस्य भावस्य सौखम् || २५||
धर्मे सूर्यः शीतगुर्बन्धुभावे
शौर्ये भौमः पञ्चमे देवमन्त्री
कामे शुक्रश्चाष्टमे भानुपुत्रः
कुर्यात्तस्य क्लेशमित्याहुरन्ये || २६||
लग्नेश्वरो यद्भवनेशयुक्तो
यद्भावगस्तस्य फलं ददाति |
भावे तदीशे बलभाजि तेन
भावेन सौख्यं व्यसनं बलोने || २७||
यद्भावप्रभुणा युतो बलवता मुख्याङ्गगो लग्नप-
स्तद्भावानुभवं वितनुते यद्भावगस्तस्य च |
संयुक्तो बलहीनभावपतिना निन्द्याङ्गभाजां फलं
कुर्यात्तद्विपरीतमेवमुदितं सर्वेषु भावेष्वपि || २८||
दुःस्थानपस्तदितरस्वगृहस्थितश्चेत्
स्वक्षेत्रभावफलमेव करोति नान्यति
मन्दो मृगे सुतगृहे यदि पुत्रसिद्धिः
षष्ठाधिपतकृतदोषफलं च नात्र || २९||
राशौ स्थितिर्मिथो योगो दृष्तिः केन्द्रेषु संस्थितः |
त्रिकोणे वा स्थितिः पञ्चप्रकारो बन्ध ईरितः || ३०||
षोडशोऽध्यायः
द्वाद्श भावफल
लग्ननवंशपतुल्यतनुः स्याद्वीर्ययुत्तग्रहतुल्यतनुर्वा
चन्द्रसमेतनवांशपवर्णः कादिविलग्नविभक्तभगात्रः || १||
लग्नेशे केन्द्रकोणे स्फुटकरनिकरे स्वोच्चभे वा स्वभे वा
केन्द्रादन्यत्रसंस्थे निधनभवनपे सौम्ययुक्ते विलग्ने |
दीर्घयुष्मान्धनाढ्यो महितगुणयुतो भूमिपालप्रशस्तो
लक्ष्मीवान् सुन्दराङ्गो दृढतनुरभयो धार्मिकः सत्कुटुम्बी || २
सत्संबन्धयुते कलेवरपतौ सद्ग्रामवासोऽथवा
सत्सङ्गः प्रबलग्रहेण सहिते विख्यातभूपाश्रयः |
स्वोच्चस्थे नृपतिः स्वयं स्वगृहगे तज्जन्मभूमौ स्थितिः
सञ्चारश्चरभे स्थितिः स्थिरगृहे द्वद्वं द्विरूपं फलम् || ३||
विख्यातः किरणोज्वले तनुपतौ सुस्थे सुखी वर्धनो
दुःस्थे दुःख्यसदृक्षनीचभवने वासो निकृष्टस्थले |
स्वस्थो जीवति शक्तिमत्युदयभे वर्द्धिष्णरूर्जस्वलो
निःशक्तौ निहतो विपद्भिरसकृत्खिन्नो भवेदातुरः || ४||
अर्थस्वामिनि मुख्यभावजुषि सत्स्वर्थे कुटुम्बश्रिया
सर्वोत्कृष्टगुणो धनी च सुमुखी स्याद्दूरदर्शी नरः |
सम्बन्धे सवितुर्द्वितीयपतिना लोपकारक्षमाण्
विद्यामर्थमवाप्नुयादथ शनेः क्षुद्राल्पविद्यारतः || ५||
जैवे वैदिकधर्मशास्त्रनिपुणो बौधेऽर्थशस्त्रे पदुः
शृ~गरोक्ति पटुर्भृगोर्हिमरुचेः किञ्चित्कलाविध्भवेत् |
कौजे क्रूरकला पटुश्च पिशुनो राहौ स्थिते लोहलः
केतौ भ्रश्यदलीकवाग्धनगतिः पापैश्च मूढोऽधनः || ६||
बन्धो यदि स्यात्तनुशौर्यनाथगो-
रन्योन्यराशिस्थतयोर्बलाढ्ययोः |
धैर्यं च शौर्यं सहजानुकूलतां
प्राप्नोत्ययं साहसकार्यकर्तृताम् || ७||
शौर्यपे बलिनि सद्ग्रहयुक्ते कारकेऽपि शुभभावमुपेते |
भ्रातृ वृद्धिरथ वीर्यविहीने दुःस्थने भवति सोदरनाशः || ८||
अयुग्मराशौ यदि कारकेशौ
गुर्वर्कभूसूनुनिरीक्षितौ चेत् |
ओजो गृहः स्याददि विक्रमाख्यः
पुंभ्रातरस्त्वंशवशाड्भवेयुः || ९||
दुःस्थाने सुखपे शशिन्यपि सतां योगेक्षणैर्वजिते
पापान्तःस्थितिमत्यसद्ग्रहयुते दृष्टे जनन्या मृतिः
एतौ द्वावपि वीर्यगौ शुभयुतौ दृष्टौ शुभैर्बन्धुगै-
र्मातुः सौख्यकरौ विधोश्च सुखगैः सौम्यैर्वदेत्तत्सुखम् || १०||
लग्नेशे सुखगेऽथवा सुखपतौ लग्ने तयोरीक्षणी
योगे वा शशिनस्तथा यदि करोत्यन्त्यां स्वमातुः क्रियाम् |
अन्योन्यं यदि शत्रुनीचभवने षष्ठाष्ठमे वा तयो
र्मातुर्नोपकरोति नाशसगये बन्धस्तयोर्वा न चेत् || ११||
मात्रृभावोक्तवद्वाच्यं पितृभ्रातृसुतादिषु |
भावकरकभावेशलग्नलग्नेश्वरैर्वदेत् || १२||
सुस्थौ सुखेशभृगुजौ तनुबन्धुयुक्ता
वान्दोलिकां जनपतेश्वरतां विधत्तः |
स्वर्णद्यनर्ध्यमणिभूषणपट्टशय्या-
कामोपभोगकरणानि च गोगजाश्वान् || १३||
दुःस्थे सुखेशे कुजसूर्यक्ते
सुखेऽपि वा जन्मगृहं प्रदग्धम् |
जीर्णं तमोमन्दयुतेऽरियुक्ते
परैर्हृतं गोक्षितिवाहनाद्यम् || १४||
सौम्यर्क्षंशे सौम्ययुक्ते पञ्चमे वा तदीश्वरे |
वैशेषिकांशे सद्भावे धीमान्निष्कपटी भवेत् || १५||
स्थितिः पापानां वा द्विषति बलयुक्तारिपतिना
युतो वा दृष्टो वा यदि रिपुगृहे वा तनुपतिः |
अरीशः केन्द्रे वाऽप्यशुभखगसंवीक्षितयुतो
रिपूणां पीडां द्राग्भृशमपरिहार्यं वितनुते || १६||
षष्ठेश्वरादतिबलिन्युदयाधिनाथे
सौम्यग्रहांशसहिते शुभदृष्टयुक्ते |
सौख्येश्वरेऽपि सबले यदि केन्द्रकोणे-
ष्वारोग्यमाग्यसहितो दृढगात्रयुक्तः || १७||
शत्रुनाथे तु दुःस्थाने नीचमूढारिसंयुते
टस्माद्बलाध्येलग्नेशे शत्रुनाशं रवौ शुभे || १८||
यद्भावेशयुतो वैरिनाथो यद्भावसंश्चितः |
षष्टस्थितो यद्भावेशस्ते भावाःशत्रुतां ययुः || १९||
सत्संबन्धयुते सप्तर्क्षे तदीशे बलान्विते |
पतिपुत्रवती षढ्वी भार्या सर्क्गुणैर्वृता || २०||
केन्द्रादन्यत्र रध्रेशे लग्नेशाद्दुर्बले सति |
नाधिर्न विघ्नो न क्लेशो नृणामायुश्चिरं भवेत् || २१||
धर्मे कुजे वा सूर्य वा दुःस्थे तन्नायके सति |
पापमध्यगते वाऽपि पितुर्मरणमादिशेत् || २२||
दिवा सूर्ये निशा मन्दे सुस्थे शुभनिरीक्षिते |
धर्मेशे बलसंयुक्ते चिरं जीवति तत्पिता || २३||
मन्दारयोः शीतरुचौ च सूर्ये त्रिकोणगे तज्जननीपितृभ्याम् |
त्यत्को भवेच्छक्रपुरोहितेन दृष्टे तनूजोऽस्ति सुखी चिरायुः || २४||
शनिर्भग्याधिपः स्याच्चेच्चरस्थो न शुभेक्षितः |
सूर्ये दुःस्थानगेऽप्यन्यपितरं ह्युपजीवति || २५||
धर्मे तदीशे वा मन्दयुक्ते दृष्टेऽपि वा चरे |
जातो दत्तो भवेन्नूनं व्ययेशे बलशालिनि || २६||
नभसि शुभखगे वा तत्पतौ केन्द्रकोणे
बलिनि निजगृहोच्चे कर्मगे लग्नपि वा |
महितपृथुयशाः स्याद्धर्मकर्मप्रदृत्तः
नृपतिसदृशभाग्यं दीर्घमायुश्च तस्य || २७||
उर्जस्वी जनवल्लभे दशमगे सूर्ये कुजे वा महत्
कार्यं साधयति प्रतापबहुलं खेशश्च सुस्थो यदि |
सव्द्यापारव्तीं क्रियं वितनुते सौम्येषु सच्छलाधितां
कर्मस्थेष्वहिमन्दकेतुषु भवेद्दुषर्मकारी नरः || २८||
लाभेशे यद्भावनाथयुक्ते यद्भावगेऽपि वा |
भावं तदनुरूपस्य वस्तुनो लाभगैरपि || २९||
व्ययस्थितो यद्भावेशो व्ययेशो यत्र तिष्ठति |
तस्य भावस्यानुरूपवस्तुनो नाशमादिशेत् || ३०||
भावेशस्थितभंशकोणमपि वा भावं तु वा लग्नपो
लग्नेशस्थितभांशकोणमुदयं वाऽयाति भावाधिपः |
संयोगेऽपि विलोकनेऽपि च तयोस्तद्भावसिद्धिं तदा
ब्रूयात्कारकयोगतस्तनुपतेर्लग्नाच्च चन्द्रादपि || ३१||
यद्भावेशास्थतर्क्षांशत्रिकोणस्थे गुरुर्यदा |
गोचरे तस्य भावस्य फलप्राप्तिं विनिर्दिशेत् || ३२||
लग्नारिनाथयोगे तु लग्नेशाद्दुर्बले रिपौ |
तदा तद्वशगः शत्रुवीपरितमतोऽन्यथा || ३३||
यद्भावपस्य तनुपस्य भवत्यरित्वा-
त्तत्कालशत्रु वशतोऽरिमृतिस्थितो वा |
स्पर्धां तदा वदतु नेत च गोचरस्थ-
स्तद्वत्सुहृत्वमपि संयुतिमैत्रतश्च || ३४||
लग्नेशयद्भावपयोस्तु योगो
यदा तदा तत्फलसिद्धिकालः |
भावेशवीर्ये शुभमन्यथान्य-
ल्लग्नाच्च चन्द्रादपि चिन्तनीयम् || ३५||
सप्तदशोऽध्यायः
निर्याणप्रकरण
तत्तद्भावादष्टमेशस्थितांशे तत्त्रिकोणगे |
व्ययेशस्थितभंशे वा मन्दे तद्भावनाशनम् || १||
रन्ध्रेशे गुलिको मन्दः खरद्रेक्काणपाऽपि वा |
यत्र तिष्ठति तद्भंशत्रिकोणे रविजे मृतः || २||
उद्यद्दृगाणनाथस्य तथा रन्ध्राधिपस्य च |
रन्ध्रद्रेक्काणपस्यापि भांशकोणे गुरौ मृतिः || ३||
स्वस्फुटद्वादशांशे वा रन्ध्रेशस्थनवांशके |
लग्नेशस्थनवांशे वा तत्त्रिकोणेऽपि वा मृतिः || ४||
रन्ध्रभोर्वा भानोर्वा भानोर्वाभांशकोणं गते विधौ |
मृतिं वदेत्सर्वमेतल्लग्नाच्चद्राच्च चिन्तयेत् || ५||
लग्नेशहीनयमकण्टकभांशकोणं
प्राप्तेऽथवा शनिविहीनहिमांशुभांशम् |
याते गुरौ स्वमरणन्त्वथ राहुहीन-
भूसूनुभांशकगुरौ सहजप्रणाशः || ६||
भानोः कण्टकवर्जितस्य भवनांषे वा त्रिकोणे गुरौ
तातो नश्यति कण्टकोनगुलिकर्क्षंशत्रिकोणे शनौ |
अर्कोनेन्दुगृहंशकोणगगुरौ चन्द्रोनमन्दात्मज-
क्षेत्रेंऽशेऽप्यथवा त्रिकोणगृहगे मन्दे जनन्या मृति || ७||
वदेत्प्रत्यरिनक्षत्रनाथाच्च यमकण्टकम् |
त्यक्त्वा तद्भवने कोणे गुरौ पुत्रविनाशनम् || ८||
लग्नार्कमान्दिस्फुटयोगराशेरधीश्वरो यद्भवनोपगस्तु |
तद्राशिसंस्थे पुरुहूतवन्द्ये तत्कोणगे वा मृतिमेति जातः || ९||
मान्दिस्फुटे भानुसुटं विशोध्य
राश्यंशकोणे रविजे मृतः स्यात् |
धूमादिप~चग्रहयोगराशि-
द्रेक्काणयातेऽर्कमुते च मृत्युः || १०||
विलग्नमन्दिस्फुटयोगभांशं
निर्यणमासं प्रवदन्ति तज्ज्ञाः |
निर्यणचन्द्रो गुलिकेन्दुयोगो
लग्नं विलग्नार्किसुतेन्दुयोगः || ११||
मान्दिस्फुटोदितनवांशगतेऽमरड्ये
तद्द्वादशांशसहिते दिननाथसूनौ |
द्रेक्काणकोणभवने दिनपे च मृत्यु-
र्लग्नेन्दुमान्दियुतभेशगतोदये स्यात् || १२||
गुलिकं रविसूनुं च गुणित्वा नवसंख्यया |
उभयोरैक्यराश्यंशगृहगे रविजे मृतिः || १३||
स्फुटे विलग्ननाथस्य विशोध्य यमकण्टकम् |
तद्राशिनवभागस्थे जीवे मृत्युर्न संशयः || १४||
षष्ठावसानरन्ध्रेशस्फुटैक्यभवनं गते |
तत्त्रिकोणोपगे वाऽपि मन्दे मृत्युभयं नृणाम् || १५||
उद्यद्दृगाणपतिराशिगते सुरेड्ये
तस्य त्रिकोणमपि गच्छति वा विनाशम् |
रन्ध्रत्रिभागपतिमन्दिरगेऽथ मन्दे
प्राप्ते त्रिकोणमथवास्य वदन्ति मृत्युम् || १६||
विलग्नजन्माष्टमराशिनाथयोः
खरत्रिभागेश्वरयोस्तयोरपि |
शशाङ्कमान्द्योरपि दुर्बलांशक-
त्रिकोणगे सूर्यसुते मृतिर्भवेत् || १७||
लग्नाधिपस्थितनवांशकराशितुल्यं
रन्ध्राधिपस्य गृहमापतिते घटेशे |
तस्मिन्वदेन्मरणयोगमनेकशास्त्र-
संक्षुण्णखिन्नमतिभिः परिकीर्तितं तत् || १८||
शशाङ्कसंयुक्तदृगाणपूर्वतः
खरत्रिभागेशगृहं गतेऽपि वा |
त्रिकोणगे वा मरणं शरीरिणां
शशिन्यथ स्यात्तनुरन्ध्ररिःफगे || १९||
निधनेश्वरगतराशौ भानाविन्दौ तु भानुगतराशौ |
निधनाधिपसंयुक्ते नक्षत्रे निर्दिशेन्मरणम् || २०||
यो राशिर्गुर्लिकोपेतः तत्त्रिकोणगते शनौ |
मरणं निशिजातानां दिविजानां तदस्तके || २१||
गुरुराहुस्फुटैक्यस्य राशिं यातो गुरुर्यदा |
तदा तु निधनं विद्यात्तत्त्रिकोणगतोऽथवा || २२||
अष्टमस्य त्रिभागांशपतिस्थितगृहं शनौ |
तदीहनवभागर्क्षं गते वा मरणं भवेत् || २३||
जन्मकाले शनौ यस्य जन्माष्टमपतेरपि |
राशेरंशकराशेर्वा त्रिकोणस्थे शनौ मृतः || २४||
निशीन्दुराशौ चेज्जन्म मान्दिभेऽंशे मृतिः |
दिवार्कभे चेत्तद्द्यूनत्रिकोणे वा शनौ मृतिः || २५||
रन्ध्रेश्वराद्यावति भे मान्दिस्तावति भे ततः |
शनिश्चेन्मरणं ब्रूयादिति सद्गुरुभाषितम् || २६||
जन्मकालीनमृगुजात्कामशत्रु व्यये रवौ |
मरणं निश्चितं ब्रुयादिति सद्गुरुभाषितम् || २७||
तिष्ठन्त्यष्टमरिःफषष्ठपतयो रन्ध्रत्रिभागेश्वरो
मान्दिर्यद्भवनेषु तेष्वपि गृहेष्वार्कीडयसूर्येन्दवः |
सर्वे चारवशात्प्रयान्ति हि यदा मृत्युस्तदा स्यान्नृणां
तेषामंशवशाद्वदन्तु निधनं तत्तत्त्रिकोणेऽपि वा || २८||
अष्टादशोऽध्यायः
द्विग्रहयोग
तिग्मांशुर्जनयत्युषेशसहितो यन्त्राश्मकारं नरं
भौमेनाघरतं बुधेन निपुणं धीकीर्तिसौख्यान्वितम् |
क्रूरं वाक्पतिनान्यकार्यनिरतं शुक्रेण रङ्गायुधैर्-
लब्धस्वं रविजेन धानुकुशलं भाण्डुप्रकारेषु वा || १||
कूट्स्त्र्यासवकुंभपण्यमशिवं मातुः सवक्रः शशी
सज्ञः प्रश्चितवाक्यमर्थनिपुणं सौभाग्यकीर्त्यन्वितम् |
विक्रन्तं कुलमुख्यमस्थिरमतिं चित्तेश्वरं साङ्गिरा
वस्त्राणां ससितः क्रियादिकुशलं सार्किः पुनर्भूसुतम् || २||
मूलादिस्नेहकूटैवहरति वणिग्बाहुयोद्धा ससौम्ये
पुर्यध्यक्षः सजीवे भवति नरपतिः प्राप्तवित्तो द्विजो वा |
गोपो मल्लोऽथ दक्षः परयुवतिरतो द्यूतकृत्सासुरेज्ये
दुःखार्तोऽसत्यसन्धः ससवितृतनये भूमिजे निन्दितश्च || ३||
सौम्ये रङ्गचरो बृहस्पतियुते गीतप्रियो नृत्यविद्
वाग्मी भूगणपः सितेन मृदुना मायापटुर्लम्पटः |
सद्विद्यो धनदारवान् बहुगुणः शुक्रेण उक्ते गुरौ
ज्ञेयः श्मश्चुकरोऽसितेन घटकृज्जातोऽन्नकारोऽपि || ४||
असितसितसमागमेऽल्पचक्षु-
र्युवतिसमाश्चयसम्प्रवृद्धवित्तः |
भवति च लिखिपुस्तकचित्रवेत्ता
कथितफलैः परतो विकल्पनीयाः || ५||
भूपो विद्वान् भूपतिर्भूपतुल्य-
श्चन्द्रे मेषे मोषको निर्धनश्च |
निस्स्वः स्तेनो लोकमान्यो महीशः
स्वाढ्यः प्रेष्यश्चापि दृष्टे कुजाद्यैः || ६||
युग्मस्थेऽयोजीविभूपज्ञधृष्टा-
श्चन्द्रे दृष्टे तन्तुवायोऽधनी च |
स्वर्क्षे योधप्राज्ञसूरिक्षितीशा
लोहाजीवो नेत्ररोगी क्रमेण || ७||
राजा ज्योतिर्विद्धनाढ्यो नरेन्द्रः
सिंहे चन्द्रे नापितः पार्थिवेन्द्रः |
दक्षो भूपः सैन्यपः कन्यकायां
निष्णातः स्याद्भूमिनाथश्च भूपः || ८||
शठो नृपस्तौलिनि रुक्मकार
श्चन्द्रे वणिक् स्यात्पिषुनः खलश्च |
कीटे नृपो युग्मपिता महीशः
स्याद्वस्त्रजीवी विकृताङ्गवित्तः || ९||
धूर्तो हयाङ्गे स्वजनं जनेशं
नरौघमाश्रित्य शठः सदम्भः |
भूपो नरेशः क्षितिपो विपश्चि-
द्धनी दरिद्रो मकरे हिमांशौ || १०||
कुंभेऽन्यदारनिरतः क्षितिपो नरेन्द्रो
वेश्यापतिर्नृवपरो हिमगौ नृमान्यः |
अन्त्येऽघकृत्पटुमतिर्नृपतिश्च विद्वान्
दोषैकदृग्दुरतिकृच्च कुजादिदृष्ते || ११||
चन्द्रमा के विभिन्न नवांशों में होने का आउर उस पर
विविध ग्रहों की दृष्टि का फल
आरक्षको वधरुचिः कुशलश्च युद्धे
भूपोऽर्थवान्कलहकृत्क्षितिजांशसंस्थे |
मूर्खोऽन्पदारनिरतः सुक्विः सितांशे
सत्काव्यकृत्सुखपरोऽन्यकलत्रगश्च || १२||
बौधे हि रङ्गचरचोरकविन्द्रमन्त्रि-
गेयज्ञाशिल्पनिपुणः शहिनि स्थितेऽंशे |
स्वांशेऽल्पगात्रधनलुब्धतपस्विमुख्यः
स्त्रीप्रेश्यकृत्यनिरतश्च निरीक्ष्यमाणे || १३||
सक्रोधो नरपतिसंमतो निधीशः
सिंहांशे प्रभुरसुतोऽतिर्हिंस्रकर्मा |
जीवांशे प्रथितबलो रणोपदेष्टा
हास्यज्ञः सचिवविकामवृद्धशीलः || १४||
अल्पापत्यो दुःखितः सत्यपि स्वे
मानासत्कः कर्मणि स्वेऽनुरक्तः |
दुष्टस्त्रीष्टः कोपनश्चार्किभागे
चन्द्रे भानौ तद्वदिन्द्वादिदृष्टे || १५||
सूर्यादितोऽत्रांशफलं प्रदिष्टं
ज्ञेयं नवांशस्य फलं तदेव |
राशीक्षणे यत्फलमुक्तमिन्दो-
स्तद्द्वादशांशस्य फलं हि वाच्यम् || १६||
वर्गोत्तमस्वपरगेषु शुभं यदुक्तं
तत्पुष्टमध्यलघुताऽशुभमुत्क्रमेण |
वीर्यान्वितोंऽंशकपर्तिनरुणद्धि पूर्वं
राशीक्षणस्य फलमंशफलं ददाति || १७||
एकोनविंशोऽध्यायः
दशाफल
भक्त्या येन नवग्रहा बहुविधैराराधितास्ते चिरं
सन्तुष्ताः फलबोधहेतुमदिशन्सानुग्रहं निर्णयम् |
ख्यातां तेन पराशरेण कथितां संगृह्य होरागमात्
सारं भूरिपरीक्षयातिफलितां वक्ष्ये महाख्यां दशाम् || १||
अग्न्यादितारपत्यो रविचन्द्रभौम-
सर्पमरेण्यशनिचन्द्रजकेतुशुक्राः |
तेने नटः सनिजया चटुधान्यसौम्य-
स्थने नखा निगदिताः शरदस्तु तेषां || २||
तृक्षस्य गम्या घटिका दशाब्द-
निघ्ना नताप्ता स्वदशाब्दसंख्या |
रूपैर्नगैः संगुणयेन्नतेन
हृतास्तु मासा दिवसाः क्रमेण || ३||
रविस्फुटं तज्जनने यदासीत्
तथा विधश्चेत्प्रतिवर्षमर्कः |
आवृत्तयुः सन्ति दशाब्दकानां
भागक्रमात्तदृवसाः प्रकल्प्याः || ४||
दशाफल
भानुः करोति कलहं क्षितिपालकोप-
माकस्मिकं स्वजनरोगपरिभ्रमं च |
अन्योन्यवैरमतिदुःसहचित्तकोपं
गुप्त्यर्थधान्यसुतदारकृशानुपीडाम् || ५||
क्रौर्यध्विभूपैः कलहैर्धनाप्तिं
वनाद्रिसंचारमतिप्रसिद्धिम् |
करोति सुस्थो विजयं दिनेश-
स्तैक्ष्ण्यं सदोद्योगरतिं सुखं च || ६||
मनःप्रसादं प्रकरोति चन्द्रः
सर्वार्थसिद्धिं सुखभोजनं च |
स्त्रीपुत्रभूषाम्बररत्नसिद्धीं
गोक्षेत्रेलाभं द्विजपूजनं च || ७||
बलेन सर्वं शशिनस्तु वाच्यं
पूर्वे दशाहे फलमत्र मध्यम् |
मध्ये दशहे परिपूर्णवीर्यं
तृतीयेभागेऽल्पफलं क्रमेण || ८||
भौमस्य स्वदशाफलानि हुतभुग्भूपाहवाद्यैर्धनं
भैषज्यानृतवञ्चनैश्च विविधैः क्रौर्यैर्धनस्यागमः |
पित्तासृग्ज्वरबाधितश्च सततं नीचाङ्गनासेवनं
विद्वेषः सुतदारबन्धुगुरुभिः कष्टोऽन्यभाग्ये रतः || ९||
सौम्यः करोति सुहृदागममात्मसौख्यं
विद्वत्प्रशंसितयशश्च गुरुप्रसादम् |
प्रागल्भ्यमुक्तिविषयेऽपि परोपकारं
जायात्मजादिसुहृदां कुशलं महत्त्वम् || १०||
धर्मक्रियाप्तिममरेन्द्रगुरुर्विधत्ते
संतानसिद्धिमवनीपतिपूजनं च |
श्लाघ्यत्वमुन्नतजनेषु गजाश्वयान-
प्राप्तिं वधूसुतसुहृद्युतिमिष्टसिद्धिम् || ११||
क्रीडासुखोपकरणानि सुवाहनाप्तिं
गोरत्मभूषणनिधिप्रमदाप्रमोदम् |
ज्ञनक्रियां सलिलयानमुपैति शौक्रयां
कल्याणकर्मबहुमानमिलाधिनाथात् || १२||
पाकेऽर्कजस्यनिजदारसुतातिरोगान्-
वातोत्तरान्कृषिविनाशमसत्प्रलापम् |
कुस्त्रीरतिं परिजनैर्वियुतिं प्रवास
माकस्मिकं स्वजनभूमिसुखार्थनाशम् || १३||
कुर्यार्दहिः क्षितिपचोरविषाग्नोशस्त्र-
भीर्तिं सुतार्तिसतिविभ्रमबन्धुनाशम् |
नीचावमाननमतिक्रमतोऽपवादं
स्थानच्युतिं पदहातिं कृतकार्यहानिम् || १४||
विधुंतुदे शुभान्विते प्रशस्तभावसंयुते
दशा शुभप्रदा तदा महीपतुल्यभूतिदा |
अभीष्टकार्यसिद्धयो गृहे सुखस्थितिर्भवे-
दचञ्चलार्थसंचयाः क्षितौ प्रसिद्धकीर्तयः || १५||
पथोनमीनालिगतस्य राहो-
र्दशाविपाके महितं च सौख्यम् |
देशाधिप्त्यं नरवाहनाप्ति-
र्दशावसाने सकलस्य नाशः || १६||
केतोर्दशायामरिचोरभूपैः
पीडा च शस्त्रक्षतमुष्णरोगः |
मिथ्यापवादः कुलदूषितत्वं
वह्नेर्भयं प्रोषणमात्मदेशात् || १७||
अथ तरणिदशायां क्रौर्यभूपालयुद्धै-
र्धनमनलचतुष्पात्पीडनं नेत्रतापः |
उदरदशनरोगः पुत्रदारार्तिरुच्चै-
र्गुरुजनविरहः स्याद्भृत्यनाशोऽर्थहानिः || १८||
शिशिरकरदशायां मन्त्रदेवद्विजोर्वी-
पतिजनितविभूतिः स्त्रीधनक्षेत्रसिद्धिः |
कुसुमवसनभूषागन्धनानारसाप्ति-
भर्वति खलविरोधः स्वक्षयो वातरोगः || १९||
क्षितितनयदशायां क्षेत्रवैरक्षितिश-
प्रतिजनितविभूतिः स्यात्पशुक्षेत्रलाभः |
सहजतनयवैरं दुर्जनस्त्रीषुसक्ति-
दर्हनरुधिरपित्तव्याधिरर्थोपहानिः || २०||
असुरवरदशायां दुःस्वभावोऽथवा स्या-
दतिगहनगदार्तिः सूनुनार्योर्विनाशः |
विषभयमरिपीडावीक्षणोद्धर्वाङ्गीरोगः
सुहृदि कृषविरोधो भूपतेर्द्वेषलाभः || २१||
अमरगुरुदशायामम्बराद्यर्थसिद्धिः
परिजनपरिवारप्रौढिरत्यर्थमानः |
सुतधनसुहृदाप्तिः साधुवादाप्तपूजा
भवति गुरुवियोगः कर्णरोगः कफार्तिः || २२||
रवितनयदशायां राष्टपीडाप्रहार-
प्रतिजनितविभूतिः प्रेष्यवृद्धाङ्गनाप्तिः |
पशुमहिषवृषाप्तिः पुत्रदारप्रपीडा
पवनकफगुदार्तिः पादहस्ताङ्गतापः || २३||
शशितनयदशायां शश्वदाचार्यसिद्धि-
र्द्विजजनितधनाप्तिः क्षेत्रेगोवाजिलाभः |
मनवरसुरपूजा वित्तसंधातसिद्धिः
प्रभवति मरुदुष्णश्लेष्मरोगप्रपीडा || २४||
शिखिजनितदशायां शोकमोहोऽङ्गनाभिः
प्रभुजनपरिपीडा वित्तनाशोऽपराधः |
प्रभवति तनुभाजां स्वीयदेशा-
दृशनचरणरोगः श्लेष्मन्तापनं च || २५||
भृगुतनयदशायामङ्गनारत्नवस्त्र-
द्यतिमिधिधनभूषावाजिशय्यासनाप्तिः |
क्रयकृषिजलयानप्राप्तवित्तागमो वा
भवति गुरुवियोगो बान्धवातिर्मनोरुक् || २६||
विंशोऽध्यायः
अन्तर्दशाफल
भावेश्वरेण प्रबलेन येन यद्यत्फलं हीनबलेन येन |
यदानुभोक्तव्यमनन्यसम्यक्संसूचयिष्यत्यथ संग्रहेण || १||
लग्ने बलिष्ठे जगति प्रभुत्वं सुखस्थिति देहबलं सुवर्चः |
उपर्युपर्यभ्युदयाभिवृद्धिं प्राप्नोति बालेन्दुवदेष जातः || २||
पाकेऽर्थनाथस्य कुटुम्बसिद्धिं
सत्पुत्रिकाप्तिं सुखभोजनं च |
प्राप्नोति वाग्जीविकया धनानि
वक्ता सदुक्तिं सदसि प्रशस्ताम् || ३||
शौर्ये सवीर्ये सहजानुकूल्यं
सण्तोषवातश्रिवणं च शौर्यं |
सेनापतित्वं लभतेऽभिमानं
जनाश्रयं सद्गुणभाजनत्वम् || ४||
बन्धूपकारं कृषकर्मसिद्धिं स्त्रीसङ्घमं वाहनलाभमेति |
क्षेत्रं गृहं नूतनुमर्थसिद्धिं स्थानंप्रशस्तं च सुखेश्दाये || ५||
पुत्रप्राप्तिं बन्धुविलासं नृपतीनां
साचिव्यं वा धीशदशायां बहुमानम् |
प्राज्यैर्भोज्यैर्मृष्टमिहाश्नाति ददाति
श्रेयस्कार्यं सज्जनशस्तं स विदध्यात् || ६||
रिपून्निहन्ति साहसैररीश्वरस्य वत्सरे |
अरोगतानुदारतामधृष्यतामतिश्रियम् || ७||
सम्पाद्य वस्त्राभरणानि शय्यां
प्रीतो रमण्या रमतेऽतिवीर्यः |
करोति कल्याणमहोत्सवादीन्
सन्तोषयात्रां च मदेशदाये || ८||
ऋणविमोचनमुच्छ्रतिमात्मनः
कलहकृत्यनिवृत्तिमुपैति सः |
महिषपश्वजभृत्यजनागमं
वयसि रन्ध्रपतेर्बलशालिनः || ९||
स्त्रीपुत्रपौत्रैः सहबन्धुवर्गै-
र्भाग्यंश्रियं चानुभवत्यजस्त्रम् |
श्रेयांसि कार्याण्यवनीशपूजां
भाग्येशदाये विजदेवभक्तिम् || १०||
यत्कार्यमारब्धमुपैत्यनेन
तस्यैव सिद्धिं सुखजीवनं च |
कीर्तिं प्रतिष्ठां कुशलप्रवृत्तिं
मानोन्नतिं कर्मपतेर्दशायाम् || ११||
एश्वर्यमव्याहतमिष्टबन्धु-
समागमं भृत्यजनांश्च दासान् |
संसारसौभाग्यमहोदयं च
लभेत लाभाधिपतेर्दाशायाम् || १२||
व्ययेशितुर्वयस्यतिव्ययं करोति सज्जने |
अघौघनाशिनीं शुभक्रियां महीशमान्यताम् || १३||
वक्रगस्य निजतुङ्गसुहृत्-
सुस्थानगस्य दशाफलमेवम् |
शत्रुनीचगृहमौढ्यषडन्त्य-
छिद्रगस्य तु फलान्यपि वक्ष्ये || १४||
दुःस्थेलग्नपतौ निरोधनमुपैत्यज्ञातवासं भयं
व्याध्याधीनपरक्रियाभिगमनं स्थानच्युतिं चापदम् |
जाड्यं संसदि वाक्कुटुम्बचलनं दुष्पत्रिकां दृग्रुजं
वाग्दोषं द्रविणव्ययं नृपभयं दुःस्थे द्वितीयाधिपे || १५||
दुश्चिक्याधिपतौ सहोदरमृतिं कार्ये दुरालोचना-
मन्तःशत्रु निपीडनं परिभवं तद्गर्वभङ्ग वदेत् |
मातृक्लेशमरिष्टमिष्ठसुहृदां क्षेत्रगृहोपप्लुतिं
पश्वश्वादिविनाशनं जलभयं पातालनाथेऽबले || १६||
वीर्योने प्रतिभापतौ सुतमृतिर्बुद्धिभ्रमं पञ्चना-
मध्वानं ह्युदरामयं नरपतेः कोपं स्वशक्तिक्षयम् |
चोराद्भीतिमनर्थतां च दमनं रोगान् बहून्दुष्कृतिं
भृत्यत्वं लभतेऽवमानमयशः षष्ठेशदाये व्रणम् || १७||
जामातुर्व्यसनं कलत्रविरहं स्त्रीहेत्वनर्थागमं
द्यूनेशे विबलिन्यसत्यभिरतिं गुह्यामयं चाटनम् |
रन्ध्रेशायुषि शोकमोहमदमात्सर्यादिमूर्च्छोच्छ्रितिं
दारिद्र्यं भ्रमणं वदेदपयशोव्याधीनवज्ञां मृतिम् || १८||
पूर्वोपासितदेवकोपमशुभं जायातनूजापदं
दौष्कृत्यं स्वगुरोः पितुश्च निधनं दैन्यं शुभे दुर्बले |
यद्यत्कर्म करोति तत्तदफलं स्यान्मानभङ्गो नभो-
भावे दुर्गुणतां प्रवासमशुभं दुर्वृत्तमापन्नताम् || १९||
श्रवणमशुभवाचां भ्रतृकष्टं सुतातिं
भवपवयसि दैन्यं वञ्चनं कर्णरोगम् |
बहुरुजमपमानं बन्धनं सर्वसम्पत्-
क्षयमपरशशीवाऽयाति रिःफेशदाये || २०||
मंज्ञायां यदगाच्च कारकविधिश्लोकेषु यज्जल्पितं
कर्माजीवनिरूपितं फलमिदं यद्रोगचिरताविधौ |
यद्यस्योक्षणयोगसंभवफलं भावेशयोगोद्भवं
भावेशैरपि भावगैरपि फलं वाच्यं दशायामिह || २१||
वर्गोत्तमांशस्थदशा शुभप्रदा
मिश्रैव सा चास्तमिते च नीचगे |
मृत्युव्ययारीशदशापहारयो-
स्तत्र स्थितस्याप्यशुभं फलं भवेत् || २२||
क्रूरग्रहस्यैव दशापहारे
त्रिपञ्चसप्तर्क्षपतेविपाके |
तथैव जन्माष्टमनाथभुक्तौ
चोरारिपीडां लभतेऽतिदुःखम् || २३||
शनेश्चतुर्थी च गुरोस्तु षष्ठी
दशा कुजाह्योर्यदि प~चमी सा |
कष्ट भवेद्राश्यवसानभाग-
स्थितस्य दुःस्थानपतेस्तथैव || २४||
उर्ध्वास्यतुङ्गभवनस्थितभूमिजस्य
कर्मायगस्य हि दशा विदधाति राज्यम् |
जित्वा रिपून्विपुलवाहनसैन्ययुक्तां
राज्यश्रियं वितनुतेऽधिकमन्नदानम् || २५||
स्वोच्चस्थितो भृगुसुतो व्ययकर्मगो वा
लाभेऽपि वाऽस्तरहितो न च पापयुक्तः |
तस्याब्दपाकसमये बहुरत्नपूर्णो
धीमान्विशालविभवो जयति प्रशस्तः || २६||
नीचारिषष्ठव्ययसंश्रिता हि
शुभाः प्रयच्छन्त्यशुभानि सर्वे |
शुभेतरास्त्वेषु गताः प्रयच्छ-
न्त्यमोघदुःखानि दशासु तेषम् || २७||
दशेशत्रोररिगेहभाजो
लग्नेशशत्रोरपि वाऽथ भुक्तौ |
शत्रोर्भयं स्थानलयः तदास्य
स्निग्धोपि शत्रुत्वमुपैति नूनम् || २८||
यद्भावगः पाकपतिर्दशेशात्-
तद्भावजातानि फलानि कुर्यात् |
विपक्षरिःफाष्टमभावगश्चेद्-
दुःखं विदध्यादितरत्र सौख्यम् || २९||
स्वोच्चत्रिकोणस्वहितारिनीचे
पूर्णं त्रिपादार्द्धपदाल्पशून्यम् |
क्रमाच्छुभं चेदशुभं विलोमाट्
मूढे ग्रहे नीचसमं फलं स्यात् || ३०||
मन्दमान्द्यगुखरेशरन्ध्रपाः-
तन्नवांशपतयोऽपि ये ग्रहाः |
तेषु दुर्बलदशा मृतिप्रदा
कष्टभे चरति सूर्यनन्दने || ३१||
मृतीशनाथस्थितभांशकेशयोः
खरत्रिभागेश्वरयोर्बलीयसः |
दशागमे मृत्युयुक्तभांशक-
त्रिकोणगे देवगुरौ तनुक्षयः || ३२||
चतुष्टयस्था गुरुजन्मलग्नपा
भवन्ति मध्ये वयसः सुखप्रदाः |
क्रमेण पृष्ठोभयमस्तकोदय-
स्थितोऽन्त्यमध्यप्रथमेषु पाकदः || ३३||
यद्भावगो गोचरतो विलग्नात्-
दशेश्वरः स्वोच्चसुहृद्गृहस्थः |
तद्भावपुष्टिं कुरुते तदानीं
बलान्वितश्चेज्जननेऽपि तस्य || ३४||
बलोनितो जन्मनि पाकनाथो
मौढ्यं स्वनीचं रिपुमन्दिरं वा |
प्राप्तश्च यद्भावमुपैति चारात्-
तद्भावनाशं कुरुते तदानीम् || ३५||
दशेशस्य तुङ्गे सुहृद्भे दशेशात्
त्रिषत्कर्मलाभत्रिकोणास्तभेषु |
यदा चारगत्या समायाति चन्द्रः
हुभं संविधत्तेऽन्यथा चेदरिष्टम् || ३६||
पाकप्रभुर्गोचरतः स्वनीचं
मौढ्यं यदायाति विपक्षभं वा |
कष्टं विदध्यात्स्वगृहं स्वतुङ्गं
वक्रं गतः सौख्यफलं तदानीम् || ३७||
पाकेशस्य शुभप्रदस्य भवनं तुङ्गं प्रपन्ने यदा
सूर्ये तत्फलसिद्धिमेति गुरुणाप्येवं फलं चिन्तयेत् |
नीचं कष्टफलप्रदस्य च दशानाथस्य वैरिस्थलं
प्राप्ते भास्वति गोचरेण लभते तस्यैव कष्टं फलम् || ३८||
येन ग्रहेण सहितो भुजगाधिनाथ-
स्तत्खेटजातगुणदोषफलानि कुर्यात् |
सर्पान्वितः स तु खगः शुभदोऽपि कष्टं
दुःखं दशान्त्यसमये कुरुते विशेषात् || ३९||
द्वावर्थकामाविह मारकाख्यौ
तदीश्वरस्तत्र गतो बलाढ्यः |
हन्ति स्वपाके निधनेश्वरो वा
व्ययेश्वरो वऽप्यतिदुर्बलश्चेत् || ४०||
केन्द्रेशस्य सतोऽसतो.शुभशुभौ कुर्याद्दशा कोणपाः
सर्वे शोभनदास्त्रिवैरिभवपा यद्यप्यनर्थप्रदाः |
रन्ध्रेशोऽपि विलग्नपो यदि शुभं कुर्याद्रविर्वा शशी
यद्येवं शुभदः पराशरमतं तत्तद्दशायां फलम् || ४१||
कोणाधीशः केन्द्रगः केन्द्रपो वा
कोणस्थश्चेद् द्वौ च योगप्रदौ स्तः |
द्वावप्येतौ भुक्तिकाले दशाया-
मन्योन्यं तौ योगदौ सोपकारौ || ४२||
न दिशेयुर्ग्रहाः सर्वे स्वदशासु स्वभुक्तिषु |
भवाशुभफलं नॄणामात्मभावानुरूपतः || ४३||
आत्मसम्बन्धिनो ये च ये ये निजसर्धामिणः |
तेषामन्तर्दास्वेव दिशन्ति स्वदशाफलम् || ४४||
केन्द्रत्रिकोणनेतारौ दोषयुक्तावपि स्वयम् |
सम्बन्धुमात्राद्बलिनौ भवेतां योगकारको || ४५||
त्रिकोणाधिपयोर्मध्ये सम्बन्धो येन केनचित् |
केन्द्रनाथस्य बलिनो भवेद्यदि स योगकृत् || ४६||
केन्द्रत्रिकोणाधिपयोरैक्ये तौ योगकारकौ |
अन्यत्रिकोणपतिना संबन्धो यदि किं पुनः || ४७||
योगकारकसम्बन्धात्पापिनोऽपि ग्रहाः स्वतः |
तत्तद्भुक्त्यानुसारेण दिशेयुर्यौगिकं फलम् || ४८||
स्वदशायां त्रिकोणेशो शुक्तौ केन्द्रपतेः शुभम् |
दिशेत्सोऽपि तथा नो चेदसंबन्धेऽपि पापकृत् || ४९||
केन्द्राधिपत्यदोषस्तु बलवान् गुरुशुक्रयोः |
मारकत्वेऽपि च तयोर्मारकस्थानसंस्थितिः || ५०||
बुधस्तदनु चंद्रोऽपि भवेत्त्दनु तद्विधः |
पापाश्चेत्केन्द्रपतयः शुभदाश्चोत्तरोत्तरम् || ५१||
यदि केन्द्रे त्रिकोणे वा निवसेतां तमोग्रहौ |
नाथेनान्यतरस्यैव संबन्धाद्योगकारकौ || ५२||
तमोग्रहौ शुभारूढौऽसंबद्धौ येन केनचित् |
अन्तर्दशानुरूपेण भवेतां योगकारकौ || ५३||
आरम्भो राजयोगस्य भवेन्मारकभुक्तिषु |
प्रथयन्ति तमारभ्य क्रमशः पापभुक्तयः || ५४||
रन्ध्रस्थरन्ध्रेक्षकरन्ध्रनाथ-
रन्ध्रत्रिभागाधिपमान्दिभेशाः |
दुःखप्रदास्तेष्वपि दुर्बलो यः
स नाशकारी स्वदशापहारे || ५५||
भ्रष्ठस्य तुङ्गादवरोहिसंज्ञा
मध्या भवेत्सा सुहृदुच्चभागे |
आरोहिणी निम्नपरिच्युतस्य
नीचारिभांशेष्वधमा भवेत्सा || ५६||
शस्तगृहे शस्तांशे नीचे रिपुभेऽस्तसंस्थिते वाऽपि |
तस्य दशा मिश्रफला दशापरार्धे फलप्रदा ज्ञेया || ५७||
तत्तद्भावात्व्ययथस्य तद्भावव्ययपस्य च |
वीर्यहीनस्य खेटस्य पाके मृत्युमवाप्नुयात् || ५८||
दशापतिर्लग्नगतो यदि स्यात्
त्रिषट्दशैकादशगश्च लग्नात् |
तत्सप्तवर्गेऽप्यथ तत्सुहृद्वा
लग्ने शुभो वा शुभदा दशा स्यात् || ५९||
यावन्ति वर्षणि दशा च सा स्यात्-
चारक्रमात्तत्र दशापतिः सः |
यत्र स्थितस्तद्भवनाद्विधोस्तु
स्थितेः प्रकल्प्यं सदसत्फलं हि || ६०||
दशाधिनाथस्य सुहृद्गृहस्थ-
स्तदुच्चगो वाऽथ दशाधिनाथात् |
स्मरत्रिकोणोपचयोपगश्च
ददाति चन्द्रः खलु सत्फलानि || ६१||
उक्तेषु राशिषु गतस्य विधोः स राशिः
स्याज्जन्मकालभवमूर्तिधनादिभावः |
तत्तद्विवृधिकृदसौ कथितो नराणां
तद्भावहानिकृदथेतरराशिसंस्थः || ६२||
सारावलीमुडुदशां च वराहहोरा-
मालोक्य जातकफलं प्रवदेन्नराणाम् |
प्रश्नोदयग्रहवशादथ वा स्वजन्म-
राश्यादिना वदतु नास्त्यनयोर्विशेषः || ६३||
एकविंशोऽध्यायः
प्रत्यन्तर्दशाफल
अपहारविभागलक्षणं तत्पंक्तिं क्रमशः स्फुटं प्रवचिम् |
यदुदीरितमत्र तत्समस्तं कथयेत्स्वदशान्तरान्तरादौ || १||
पाकेशाब्दहता दशेश्वरसमा नेत्राङ्कभक्ताः समाः
शिष्ट रूपहता नराङ्कविहृता मासा नगैर्वासराः |
छिद्रादिष्वपि चैवमेव कलयेत्पाकक्रमाच्चेद्दशा-
नाथाद्या पुनरन्तरान्तरदशास्तत्पाकनाथक्रमाः || २||
सूर्य
महीश्वरादुपलभतेऽधिकं यशो
वनाचलस्थलवसतिं धनागमम् |
ज्वरोष्णरुग्जनकवियोगजं भयं
निजां दशां प्रविशति नीक्षणदीधितौ || ३||
रिपुक्षयो व्यसनशमो धनागमः
कृषिक्रिया गृहकरणं सुहृद्युतिः
क्षयानलप्रतिहतिरकर्दायकं
शशी यदा हरति जलोद्भवा रुजः || ४ ||
रुजागमः पदविरहोऽरिपीडनं
वर्णोद्भवः स्वकुलजनैर्वरोधिता
महीभृतो भवति भयं धनच्युति
यर्दा कुजो हरति तद्ऽर्कर्वत्सरम् || ५ ||
रिपूदयो धनहृतिरापदुद्गमो
विषाद्भयं विषयविमूढता पुनः
शिरोदृशोरधिकरुगेव देहिनाम्
अहौ भवेधिमकरायुरन्तरो || ६||
रिपुक्षयो विविधधनाप्तिरन्वहं
सुरार्चनं द्विजगुरुबन्धुपूजनम् |
श्रवःश्रमो भवति च यक्ष्मरोगिता
सुराचिंते प्रविशति गोपशति गोपतेर्दशाम् || ७||
धनाहतिः सुतविरहः स्त्रिया रुजो
गुरुव्ययः सपदि परिच्छदच्युतिः |
मलिष्ठता भवति कफप्रपीदनं
शनैश्चरे सवितृदशान्तरं गते || ८||
विचन्चिका पिटकसकुष्ठकामिला
विशर्धनं जठरकटिप्रपीडनम् |
महीक्षयः त्रिगदभयं भवेत्तदा
विधोः सुते चरति रवेरथाब्दकम् || ९||
सुहृव्द्ययुः स्वजनकुटुम्बविग्रहो
रिपोर्भयं धनहरणं पदच्युतिः |
गुरोर्गदश्चरणशिरोरुगुच्चकैः
शिखी यदा विशति दशां विवस्वतः || १०||
शिरोरुजा जठरगुदातिंपीडनं
कृषिक्रिया गृहधनधन्यविच्युतिः |
सुतस्त्रियोरसुखमतीव देहिनां
भृगोः सुते चरति रवेरथाब्दकम् || ११||
चन्द्र- विचार
स्त्रीप्रजाप्तिरमलांशुकागमो
भूसुरोत्तमसमागमो भवेत् |
मातुरिष्टफलमङ्गनासुखं
स्वां दशां विशति शीतदीधितौ || १२||
पित्तवह्निरुधिरोद्भवा रुजः
क्लेशदुःखरिपुचोरपीडनम् |
वित्तमानविहतिर्भवेत्कुजे
शीतदीधितिदशान्तरं गते || १३||
तीव्रदोषरिपुवृद्धिबन्धुरुङ् मारुताशनिभयातिरुद्भवेत् |
अन्नपानजनितज्वरोदयाश्चन्द्रवत्सरविहारके ह्यहौ || १४||
दानधर्मनिरतिः सुखोदयो वस्त्रभूषणसुहृत्समागमः |
राजसत्कृतिरतीव जायते कैरवप्रियवयोहरे गुरऊ || १५||
नैकरोगविहतिः सुहृत्सुत-
स्त्रीरुजा व्यसनसंभवो महान् |
प्राणहानिरथवा भवेच्छनौ
मारबन्धुवयसो गतेऽन्तरम् || १६||
सर्वदा धनगजाश्वगोकुल-
प्राप्तिराभरणसौख्यसम्पदः |
चित्तबोध इति जायते विधो-
रायुषि प्रवेशति प्रबोधने || १७
चित्तहानिरपि सपदश्च्युति-
र्बन्धुहानिरपि तोयजं भयम् |
दासभृत्यहतिरस्ति देहिनां
केतुके हरति चान्द्रमब्दकम् || १८||
तोययानवसुभूषणाङ्गनाविक्रयक्रयकृषिक्रियादयः |
पुत्रमित्रपशुधान्यसंयुतिश्चन्द्रदायहरणोन्मुखे भृगौ || १९||
राजमाननमतीव शूरता रोगशान्तिररिपक्षविच्युतिः |
पित्तवातरुगिने गते तदा स्याच्छशाङ्कपरिवत्सरान्तरम् || २०||
मंगल की महादशा में विविध अन्तर्दशों का फल
पित्तोष्णरुग्व्रणभयं सहजैवियोगः
क्षेत्रप्रवादजनितार्थविभूतिसिद्धिः |
ज्ञात्यग्निशत्रुनृपचोरजनैविरोधो
धात्रीसुतो हरति चेच्छरदं स्वकीयाम् || २१||
शस्त्राग्निचोररिपुभूपभयं विषातिः
शुक्ष्यक्षिशीर्षजगदो गुरुबन्धुहानिः |
प्राणव्ययोऽथ यदिवा विपुलापदो वा
वक्रायुरन्तरगते भुजगाधिनाथे || २२||
द्विजविबुधसमर्चा तिर्थपुण्यानुसेवा
सततमतिथिपूजा पुत्रमित्रादिवृद्धिः |
श्रवणरुगतिमात्रं श्लेष्मरोगोद्भवो वा
भवतिकुजदशान्तः संगते वागधीशे || २३||
उपर्युपरिविनाशः स्वात्मजस्त्रीगुरूणा-
मगणितविपदन्तर्दुःखमर्थोपहानिः |
वसुहरणमरिभ्यो भीतिरुष्णानिलाग्नि-
र्भवति कुजदशायामर्कजे सम्प्रयाते || २४||
अरिभयमुरुचोरोपद्रवोऽथार्थहानिः
पशुगजतुरगाणां विप्लवोऽमित्रयोगः |
नृपकृतपरिपीडा शूद्रवैरोद्भवो वा
विशति शशितनूजे विष्वधात्रीसुतायुः || २५||
अशनिभयमकस्मादग्निशस्त्रप्रपीडा
विगमनमथ देहाद्वित्तनाशोऽथवा स्यात् |
अपगमनमसुभ्यो योषितो वा विनाशः
प्रविशति यदि केतुः क्रूरनेत्रायुरन्तम् || २६||
युधि जनितविमानं विप्रवासः स्वदेशा-
द्वसुहृतिरपि चोरैर्वमनेत्रोपरोधः |
परिजनपरिहानिर्जायते मानवाना-
मपहरति यदायुर्भौमिजं भार्गवेन्द्रः || २७||
नृपकृतपरिपूजा यद्धलब्धप्रभावः
परिजनधनधान्यश्रीमदन्तःपुरं च |
अतिविलसितकृत्तः साहसादाप्तलक्ष्मी-
स्तिमिरभिदि कुजायुर्दायसंहारिणीति || २८||
विविधधनसुताप्तिविप्रयोगोऽरिवर्गै-
र्वसनशयनभूषारत्नसम्पत्प्रसूतिः |
भवति गुरुजनातिर्गुल्मपित्तप्रपीडा
धरणितनयवर्षं शीतगौ सम्प्रयाते || २९||
राहु की महादशा में विविध अन्तर्दशों का फल
विषाम्बुरुग्दुष्टभुजङ्गदर्शनं
पराबलासंयुतिरिष्टविच्युतिः |
अरिष्टवाग्दुष्टजनव्यथा
भवेद्विधुंतुदेनापहृते स्ववत्सरे || ३०||
सुखोपनीतिः सुरविप्रपूजनं
विरोगता वामदृशां समागमः |
सुपुण्यशास्त्रर्थविचारसम्भवः
सुरारिदायान्तगे बृहस्पतौ || ३१||
समीरपित्तप्रगदक्षतिस्तनौ
तनूजयोषित्सहजैश्च विग्रहः |
स्वभृत्यनाशश्च पदच्युतिर्भवेत्-
दितिप्रजायुः प्रविस्शत्यथार्कजे || ३२||
सुतस्वसिद्धिः सुहृदां समागमो
मनोविनिन्द्यत्वमतीव जायते |
पटुक्रियाभूषणकौशलादयो
भुजङ्गसंवत्सरहारिणीन्दुजे || ३३||
ज्वराग्निशस्त्रारिभयं शिरोरुजा
शरीरकम्पः स्वसुहृद्गुरुव्यथा |
विषव्रणातिः कलहः सुहृज्जनै-
रहीन्द्रदायान्तरगे शिखाधरे || ३४||
कलत्रलब्धिः शयनोपचारता
तुरङ्गमातङ्गमहीसमागमः |
कफानिलाप्तिः स्वजनैविरोधिता
भवेद्भुजङ्गायुरपाहृतौ भृगोः || ३५||
अरिव्यथा स्यादतिपीडनं
दृशोविंषाग्निशस्त्राहतिरापदुद्गमः |
वधूसुतातिर्नृपतेर्महद्भयं
भुजङ्गवर्षे तिमिरारिणा हृते || ३६||
वधूविनाशः कलहो मनोरुजा
कृषिक्रयावित्तपशुप्रजाक्षयः |
सुहृद्विपत्तिः सलिलाद्भयं भवे-
द्विधौ दशाभक्तरि देवविद्विधः || ३७||
नृपाग्निचोरास्त्रभयं शरीरिणां
शरीरनाशो यदि वा महारुजः |
पदभ्रमो हृन्नयनप्रपीडनं
यदात्र सर्पयुषि संचरेत्कुजः || ३८||
बृहस्पति की महादशा में विविध अन्तर्दशों का फल
सौभाग्यकान्तितबहुमानगुणोदयः
स्यात्सत्पुत्रसिद्धिरवनीपतिपूजनं च |
आचार्यसाधुजनसंयुतिरिष्टसिद्धिः
सवत्सरं हरति देवगुरौ स्वकीयम् || ३९||
वेश्याङ्गनामदकृदासवदोषसङ्ग
उत्कर्षसौख्यसकुटुम्बपशुप्रपीडा |
अर्थव्ययोरुभयमक्षिजरुक्सुताति
जैवीं दशां विशति दैनकरे नराणाम् || ४०||
स्त्रीद्यूतमद्यजमहाव्यसनं त्रिदोषैः
केचिद्वदन्त्यपि च केवलमङ्गलाप्तिः |
देवद्विजार्चनसुतार्थसुखप्रयोगै-
र्गीवर्णपूजितदशां हरतीन्दुसूतौ || ४१||
शस्त्रव्रणं भवति भृत्यजनैविरोध-
श्चित्तव्यथा तनययोषिदुपद्रवश्च |
प्रणच्युतिर्गुरुसुहृज्जनविप्रयोगः
सौरेड्यमायुरपहृत्य ददाति केतुः || ४२||
नानाविधार्थपशुधान्यपरिच्छदस्त्री-
पुत्रान्नपानशयनाम्बरभूषणाप्तिः |
देवद्विजार्चनमुपासनतत्परत्व-
मायुर्यदा हरति जैवमथासुरेड्यः || ४३||
शत्रोर्जयः क्षितिपमाननकीर्तिलाभः
स्याच्चण्डता नरतुरङ्गमवाहनाप्तिः |
श्रेण्यग्रहारपुरराष्ट्रसमस्तसंपद
दुच्चैरुचथ्यसहजायुरपाहृतेऽर्के || ४४||
योषिद्बहुत्वमरिनाशनमर्थलाभः
कृष्यर्थवस्तुपरमोन्नतकीर्तिलाभः |
दवद्विजार्चनपरत्वमतीव पुंसां
संजायते गुरुदशाहृति शर्वरीशे || ४५||
बन्धूपतोषणमरिव्रजतोऽर्थलाभः
सुक्षेत्रसत्कृतिरिह प्रथितप्रभावः
इर्षद्गुरूपहतिरीक्षणसुक्षतिर्वा
क्षित्यात्मजे हरति वत्सरमार्यजातम् || ४६||
बन्धूपतप्तिरुरुमानसरुग्गदार्ति-
श्चोराद्भयं गुरुगदो जठरोद्भवो वा |
राजेन्द्रपीडनमरिव्यसनं स्वनाशः
सम्पद्यते हरति सूरिदशां सुरारौ || ४७||
शनि को महादशा में विविध अन्तर्दशों का फल
कृषिवृद्धभृत्यमहिषाभ्युदयः
पवनामयो वृषलजातिधनम् |
स्थविराङ्गनाप्तिरलसत्वमघो
निजवत्सरान्तरगते रविजे || ४८||
सुभगत्वमस्ति सुखित वनिता
नृपलालनं विजयमित्रयुतिः
त्रिगदोद्भवः सहजपुत्ररुजा
शनिदायहारिणि शशाङ्कसुते || ४९||
मरुदग्निपीडनमरिव्यसनं
सुतदारविग्रमतिः सततम् |
अशुभावलोकनमहेश्च भयं
मृदुवत्सरं हरति केतुपतौ || ५०||
सुहृदङ्गनातनयसौख्ययुतः
कृषितोययानजनितार्थचयः |
शुभकीर्तिरुद्भवति देहभृतां
यमदायहारिणि भृगोस्तनये || ५१||
मरणं तु वा रिपुभयं सततं
गुरुवर्गरुग्जठरनेत्ररुजा |
धनधान्यविच्युतिरिह प्रभवेत्-
रविजायुराविशति तीव्रकरे || ५२||
वनिताहतिर्मरणमेव नृणां
सुहृदां विपत्तिरथ रोगभयम् |
जलवातजं भयमतीव भवेत्-
रविजायुराविशति रात्रिकरे || ५३||
स्वपदच्युतिः स्वजनविग्रहरुक्-
ज्वरवाह्नशस्त्रविशभिरथ वा |
अरिवृद्धिरान्तररुगक्षिभयं
रविजायुराविशति भुमिसुते || ५४||
अप्मार्गयानमसुभिविरहस्तु
अथ वा प्रमेहगुरुगुल्मभयम् |
ज्वररुक्क्षतिः सततमेव नृणा-
मसितान्तरं विशति भोगिपतौ || ५५||
अमरार्चनद्विजगणाभिरुचि-
र्गृहपुत्रदारविहतिस्तु भवेत् |
धनधान्यवृद्धिरधिका हि नृणां
गतवत्यथार्किवयसीन्द्रगुरौ || ५६||
बुध की महादशा में विविध अन्तर्दशों का फल
धर्मार्गनिरतिर्विवपश्चितां
सङ्गमो विमलधीर्घनं द्विजात् |
विद्यया बहुयशः सुखं सदा
चन्द्रजे हरति वत्सरं स्वकम् || ५७||
दुःखशोककलहाकुलात्मता
गात्रकम्पनममित्रसंयुतिः |
क्षेत्रयान्विप्युतिर्यदा भवेत्-
सोममसूनुशरदं गतः शिखी || ५८||
देवविप्रगुरुपूजनक्रिया दानधर्मपरतासमागमः |
वस्त्रभूषणसुहृद्युतिर्भवेद्बोधनायुषि समागते सिते || ५९||
हेमविद्रुमतुरङ्गवारणप्रावृतं भवनमन्नपानयुक् |
भूपतेरपि च पूजनं भवेद्भानुमालिनि बुधाब्दकं गते || ६०||
मस्तकव्यसनमक्षिपीडनं कुष्ठदद्रुबहुकण्ठपीडनम् |
प्राणसंशययुतिर्नृणां भवेज्ज्ञायुषं व्रजति शीतदीघितौ || ६१||
अग्निभीतिरपि नेत्रजा रुजा चोरजं भयमतीव दुःखिता |
स्थानहानिरथ वातरोगिता ज्ञायुषं हरति मेदिनीसुते || ६२||
मानहानिरथवाश्रयच्युतिः स्वक्षयोऽग्निविषतोयजं भयम् |
मस्तकाक्षिजठरप्रपीडनं शीतरश्मिजदशां गतेऽसुरे || ६३||
व्याधिशत्रुभयविच्युतिर्भवे-
द्ब्रह्मसिद्धिरवनीशसत्कृतिः |
धर्मसिद्धितपसां समुद्ग्रमो
देवमन्त्रिणि विदो दशां गते || ६४||
अर्थधर्मपरिलुप्तिरुच्चकैः
सर्वकार्यविफलत्वमङ्गिनाम् |
श्लेष्मवातजनिता रुगुद्भवे-
द्वोधनायुषि समागतेऽसिते || ६५||
केतु की महादशा में विविध अन्तर्दशों का फल
रिपुजनकलहं सुहृद्विरोधं
त्वशुभचः श्रवणं ज्वराङ्गदाहम् |
गमनपरधाम्नि वित्तनाशं
शिखिनि लभेत् दशां गते स्वकीयाम् || ६६||
द्विजवरकलहः स्त्रिया विरोधः
स्वकुलजनैरपि कन्यकाप्रसूतिः |
परिभवजननं परोपतापो
भवति सिते शिखिवत्सरान्तराले || ६७||
गुरुजनमरणं ज्वर्तारः
स्वजनविरोधविदेशयानलभः |
नृपकृतकलहः कफानिलाति-
र्विशति रवौ शिखिवत्सरान्तरालम् || ६८||
सुलभबहुधनं तथैव हानिः
सुतविरहो बहुदुःखभाक्प्रसूतिः |
परिजनयुवतिप्रजाप्रलाभः
शशिनि यदा शिखिदायमभ्युपेते || ६९||
स्वकुलजकलहं स्वबन्धुनाशं
भयमपि पन्नगजं वदन्ति चोरात्
हुतवहभयशत्रुपीडनं च
व्रजतिकुजे ध्वजनामखेचरायुः || ७०||
अरिकृतकलहं नृपाग्निचौरै-
र्भयमपि पन्नगजं वदन्ति तज्ज्ञाः |
खलजनवचनं दुरिष्टचेष्टा
समसि गतेऽत्र शिखीन्द्रदायमाहुः || ७१||
सुतवरजननं सुरेन्द्रपूजा
धरणिधनाप्तिरुपायनार्थसिद्धिः |
धनचयजननं महीशमानो
भवति गतेऽत्र गुरौ शिखीन्द्रदायम् || ७२||
परिजनविहतिं परोपतापं
रिपुजनविग्रहमङ्गभङ्गतां च |
धनपदविर्युतिं तथाहुरार्या
गतवति सूर्यसुते शिखाधरायुः || ७३||
सुतवर्जननं प्रभुप्रशस्तिः
क्षितिधनसिद्धिररीश्वरप्रपीडा |
पशुकृषीविहतिर्भवेत्तु पुंसां
विशति बुधे शिखिवत्सरान्तरालम् || ७४||
शुक्र की महादशा में विविध अन्तर्दशों का फल
वसनभूषणवाहचन्दना-
द्यनुभवः प्रमदासुखसम्पदः |
द्युतियुतिः क्षितिपाद्धनलब्धयो
भृगुसुते स्वदशां प्रविशत्यपि || ७५||
नयनकुक्षिकपोलगदोद्भवः
क्षितिभृतो भयमस्ति शरीरिणाम् |
गुरुकुलोद्भवबान्धवपीडनं
भृगुसुतायुषि भानुमति स्थिते || ७६||
नखशिरोरदनक्षतिरुच्चकैः
पवनपित्तरुगर्थविनाशनम् |
ग्रहणिगुल्मकयक्ष्मकपीडनं
सितवयोहृति तत्र हिमल्विषि || ७७||
रुधिरपित्तगदातिसमाश्रयः
कनकताम्रचयावनिसंग्रहः |
सुवतिदूषणमुद्यमविच्युति-
र्वृषभवल्लभवत्सरगे कुजे || ७८||
निधिभवः सुतलब्धिरभीष्तवाक्
स्वजनपूजनमप्यरिबन्धनम् |
दहनचोरविषोद्भवपीडनं
तुलधरेश्वरवत्सरगेऽसुरे || ७९||
विविधधर्मसुरेशनमस्क्रिया
भवति चात्मजवामदृगागमः |
विविधराज्यसुखं च शरीरिणां
कविदशाहृति कार्मुकनायके || ८०||
नगरयोधनृपोद्भवपूजनं
प्रवरयोषिदवाप्तिरथास्ति वा |
विविधवित्तपरिच्छदसंयुति-
दितिपूजितदायगते शनौ || ८१||
तनयसौख्यमागमसम्पदां
निचयलब्धिरतिप्रभुता यशः |
पवनपित्तकफातिररिच्युतिर्-
दनुजमन्त्रिदशाहृति चन्द्रजे || ८२||
सुतसुखादिबहिः स्थितिरग्निजं
भयमतीव विनाशनमङ्गरुक् |
अपि च वारवधूजनसंयुतिः
शिखिनि यात्यलमौशनसीम् दशाम् || ८३||
दशापहारेषु फलं यदुक्तं
वर्णाधिकारानुगुणं वदन्तु |
छिद्रेषु सूक्ष्मेष्वपि तत्फलाप्तिः
छायाङ्कवार्तश्रवणानि वा स्युः || ८४||
द्वाविंशोऽध्यायः
कालचक्र दशा
दस्रादितः पादवशेन मेषान्न्-
मीनाम्शकान्तं क्रमशोऽपसव्यम् |
कीटाद्धयान्तं गणयेच्च सव्य-
मार्गेण पादक्रमशोऽजतारात् || १||
एवं भूयाच्चापसव्यं च सव्यं
भानि त्रीणि त्रीणि विद्यात्क्रमेण |
तद्राशीशप्रोक्तवर्षैर्दशास्य
देवं प्राहुः कालचक्रे महान्तः || २||
मनुः परः सनिर्धनिर्नृपस्तपो वने क्रमात् |
दिवाकरदिवत्सराः शुभाशुभाप्तिहेतवः || ३||
दसःअपहारादिककालचक्रे
वाक्यानि दस्रादिपदादिजानि |
दक्ष्यामि वर्णैर्नवभिर्भमानै
राशीशवर्षैः परमायुरत्र || ४||
पौरं गावो मित सन्दिग्धं
नक्षत्रेन्दुः स तु भूशूलम् |
रूपेत्रक्षन्निधयोरङ्गे
वाणी चस्थं दधि नक्षत्रम् || ५||
दासत्वेशो गौरीपुत्रं
क्षन्निधिकारो गोभूशेषम् |
सौदधिनक्षत्रेहासन्तो
भौमगुरुः पुत्राक्षोनाधिः || ६||
वाक्यान्येतान्यश्वियाम्यर्क्षयोर्या-
न्यश्विन्याद्यन्यग्निभस्यापसव्ये |
सव्येऽजेन्द्वोर्वक्ष्यमाणेषु वाक्ये-
ष्विन्दोर्वक्यान्येव रौद्रस्य भूयः || ७||
धेनुः क्षेत्रे पुरगो शंभु-
स्तासां जत्रु क्षन्निधि दासी |
चर्माभोगी रायधिनाक्ष-
स्त्रीपौराङ्गी शिवतीर्थाब्जे || ८||
त्रक्षनिधिर्दा सूचिशंभो
सौरयधी नक्षत्रं पारम् |
गोशिवतीर्थे दात्रिक्ष्न्नो
धीहसितांशुभोर्गी रम्या || ९||
नक्षत्रपादैष्यघटी समुत्था
पूर्वा दशा तत्पतिवर्षजाता |
पूर्वोक्तपादक्रमशोऽत्र विद्यात्-
केषांचिदेवं मतमाहुरार्या || १०||
दस्रादिपादप्रभृतीनि भानां
वाक्यानि यान्यक्षरपंक्तिजानि |
तेषां क्रमेणैव दशा प्रकल्प्या
वाक्यक्रमं साध्विति केचिदाहुः || ११||
वाक्यक्रमे कर्क्यलिमीनसन्धौ
मण्डूकगत्यश्वरप्लुतिश्च |
सिंहावलोकस्त्रिविधा तदानीं
दशान्तरं दुःखफलप्रदं स्यात् || १२||
तद्वाक्यवर्णक्रमशोपहार-
वर्षाहते तत्परमायुराप्ते |
तदा दशायामपहारवर्ष-
संख्याश्च मासान्दिवसान्वदेयुः || १३||
वाक्येषु यावच्छरदां प्रमाणं
वदन्ति तावत्परमायुरत्र |
मेषादनीकं मदनं गजेन
तुन्दः पुनश्चैवमुदीरितं तत् || १४||
उत्पन्न आधान आउर क्षेम महादशा
महादशासु यत्फलं प्रकीर्तितं मया पुरा |
तदेव योजयेद् बुधो दशासु चैवमादिषु || १५||
जन्मर्क्षात्परतस्तु पञ्चमभवाऽथोत्पन्नसंज्ञा दशा
स्यादाधानदशाऽप्यतोऽष्टमभवात् क्षेमान्महाख्या दशा |
आसामेव दशावसानसमये मृत्युप्रदा स्यान्नृणां
स्वल्पानल्पसमायुषां त्रिवधपञ्चर्क्षेशदायान्तिमे || १६||
निसर्गदशा
एकं द्वे नव विंशतिर्धृतिकृतिः पञ्चाशदेषां क्रमात्
चन्द्रारेन्दुजशुक्रजीवदिनकृद्दैवाकरीणां समाः |
स्वै स्वैः पुष्टफला निसर्गजनितैः पक्तिर्दशाया क्रमा-
दन्ते लग्नदशा हुभेति यवना नेच्छन्ति केचित्तथा || १७||
अंशदशा
लिप्तीकृत्य भजेद्र्ग्रहं खखजिनैस्तच्छिष्टमायुष्कला
आशाखाश्विहृताब्दमदिवसाः सत्योदितेऽम्शायुषी |
वक्रिण्युच्चगते त्रिसङ्गुणमिदं स्वांशत्रिभागोत्तमे
द्विघ्नं नीचगतेऽर्धमप्यथ दलं मौढ्ये सितार्की विना || १८||
सर्वार्द्धत्रिकृतेषुषण्मितलवह्लासोऽसतामुत्क्रमा-
द्रिःफात्सत्सु दलं तदा हरति बल्येको बहुष्वेकभे |
त्र्यंशोनं रिपुभे विना क्षितिसुतं सत्योपदेशे दशा
लग्नस्यांशसमा बलिन्युदयभेऽस्यात्रापि तुल्यापि च || १९||
तस्योपदेशो वरमत्र किन्तु
कुर्वन्त्ययोग्यं बहुवर्गणभिः |
आचार्यकं त्वत्र बहुघ्नतायाम्
एको तु यद्भुरि तदेव कार्यम् || २०||
पिण्डायुर्दशा
धेयं शूर शके श्रियं स्मय परे निद्राः समा भास्करात्
पिण्डाख्ययुषि पूर्वच्च हरणं सर्व विदध्यादिह |
लग्ने पापिनि भं विनोदयलवैर्निघ्नं नताङ्गैर्हृतं
त्याज्यं सौम्यनिरीक्षितेऽर्धमृणमत्रायुष्यभिज्ञा विदुः || २१||
लग्नदशामंशसमां बलवत्यंशे वदन्ति पैण्डाख्ये |
बलयुक्तं यदि लग्नं राशिसमैवात्र नांशोत्वा || २२||
हरणं नीचेऽर्द्धमृणं स्यात्पूर्णं प्रोक्तवर्षमुच्चगृहे |
पैण्डादौ व्द्यन्तरगे प्राज्ञैस्त्रैराशिकं चिन्त्यम् || २३||
पैण्डाख्यमायुर्ब्रुर्वते प्रधानं
मणित्थचाणक्यमयादयश्च |
एतन्न साध्वित्यवदद्भदन्तो
वराहसूर्यस्य तथैव वाक्यम् || २४||
सूर्यादिकानां स्वमतेन जीव-
शर्म स्वरांशं परमायुषोऽत्र |
अस्यापि सर्व हरणं विधेयं
पूर्वोक्तिवल्लग्नदशामपीह || २५||
नॄणां द्वादशवत्सरा दशहता ह्यायुःप्रमाणं परै-
राख्यातं परमं शनेस्त्रिभगणं यावत्परैरीरितम् |
कैश्चिच्चन्द्रसहस्रदर्शनमिह प्रोक्तं कलौ किन्तु यत्
वेदोक्तं शरदः शतं हि परमायुर्दायमाचक्ष्महे || २६||
लग्नादित्येन्दुकानामधिकबलवतः स्याद्दशादौ ततोऽन्या
तत्केन्द्रादिस्थितानामिह बहुषु पुनर्वीर्यतो वीर्यसाम्ये |
बह्वायुर्वर्षदातुः प्रथममिनवशाच्चोदितस्याब्दसाम्ये
वीर्यं किन्त्वत्र सन्धिग्रहविवरहतं भावसन्ध्यन्तराप्तम् || २७||
अंशोद्भवं लग्नबलात्प्रसाध्य-
मायुश्च पिण्डोद्भवमर्कवीर्यात् |
नैसर्गिकं चन्द्रबलात्प्रसाध्यं
ब्रूमस्रयाणामपि वीर्यसाम्ये || २८||
तेषां त्रयाणामिह संयुतिस्तु
त्रिभिर्हृता सैव दशा प्रकल्प्या |
वीर्ये द्वयोरैक्यदलं तयोः स्यात्
चेज्जीवशर्मायुरमी बलोनाः || २९||
कालचक्रदशा ज्ञेया चन्द्रांशेशे बलान्विते |
सदा नक्षत्रमार्गेण दशा बलवती स्मृता || ३०||
समाः षष्टिद्विघ्ना मनुजकरिणां पञ्च च निशा
हयानां द्वत्रिंशत्खरकरभयोः पञ्चककृतिः |
विरूपा साप्यायुर्वृषमहिषयोद्वदिश शुनां
स्मृतं छागादीनां दशकसहिताः षट् च परमम् || ३१||
ये धर्मकर्मनिरता विजितेन्द्रिया ये
ये पथ्यभोजनजुषो द्विजदेवभक्ताः |
लोके नरा दधति ये कुलशीललिलां
तेषामिदं कथितमायुरुदारधीभिः || ३२||
त्रयोविंशोऽध्यायः
प्रष्टकवर्ग
गोचरग्रहवशान्मनुजानां यच्छुभाशुभफलाम्युपलब्ध्यै |
अष्टवर्ग इति यो महदुक्तस्तत्प्रसाधनमिहाभिदधेऽहम् || १||
आलिख्य सम्यग्भुवि राशिचक्रं ग्रहस्थितिं तज्जननप्रवृत्तम् |
तत्तद्ग्रहर्क्षात्क्रमशोऽष्तवर्गं प्रोक्तं करोत्यक्षविधानमत्र || २||
पुत्रीवंसाहिधनिकेऽर्ककुजार्कजेभ्यो
मुक्ताव्वके सुरगुरोर्भृगुजात्तथाश्रीः |
ज्ञाद्गोमतीधनपरा रविरिष्टदोब्जात्-
गीतोन्नयेप्युदयभाल्लघुतान्नपात्रे || ३||
गीतासौ जनके रवेः कलितसान्निष्के तुषारद्युतेः
भौमाछ्रीगुणिते धनस्य युगवन्मासाब्दनित्ये बुधात् |
नीवात्कौरवसज्जनस्य भृगुजाद्गूढात्मसिद्धाज्ञया
मन्दाद्वाणचये तनीर्गतिनये चन्द्रः शुभो गोचरे || ४||
तीक्ष्णांशोर्गणितानके शिशिरगोर्लाक्षाय भूमेः सुतात्
पुत्रीवासजनाय चन्द्रतनयाद्गोमेतके गीष्पतेः |
तन्नाकारि सितात्तदा कुरुशनेः कोवासदाधेनुको
लग्नात्स्वात्कलितं नयेत् क्षितिसुतः क्षेमप्रदो गोचरे || ५||
सौम्याद्योगशतं धनैः कुरुरवेर्मोषाधिकश्रीर्गुरोः
तेजो यत्र यमारयोः पुरवसन्दिग्धेनये भार्गवात् |
पुत्रो गर्भमहान्धके परभृतां दानाय लग्नात्सुधा-
मूर्तेः प्रावृषि जानकी शशिसुतस्त्वत्र स्थितश्चेच्छुभः || ६||
मार्तान्डात्करलाभसज्जधनिके चन्द्राद्रुमेसालिके
भौमात्किं प्रभुसूदनाय कुरवः शिक्षाधनाढ्ये बुधात् |
पुत्री गर्भसदानके सुरगुरोः स्वल्लक्ष्मिचन्द्रे शनेः
श्रीमन्तो धनिकाः सितात्करिविशेषे सिद्धिनित्यं तनोः || ७||
जात्यां श्रीस्तु रवेर्विधोः पुरगवामन्दोल्लिपुत्रे तनोः
पौरे लाभमदालिके कुरुलवं मोहे धनेढ्ये भृगोः |
लोभस्ताल्लिपरे कुजाद्रविसुतान्गर्भं महाब्धौ नये
ज्ञालक्ष्मीचुल्लके गुरोर्मदधताढ्योऽसौ भृगुः सौख्यदः || ८||
रवेर्यात्रावीथीजनय शशिनो लक्षय शनेः
गुणेस्तुत्यो भौमाद्गणितनिकरोऽसौ शुभकरः |
शताकारे जीवात्तदधनपरे ज्ञादुदयभात्
कलाभूतानम्ये भृगुज चयखे सूर्यतनयः || ९||
इति निगदितमिष्टं नेष्टमन्यद्विशेषा-
दलिकफलविपाकं जन्मिनां तत्र दद्युः |
उपचयगृहमित्रस्वोच्चगैः पुष्टमिष्टं
त्वपचयगृहनीचारातिगैर्नेष्टसम्पत् || १०||
कृवाष्टवर्ग द्युसदां क्रियादि-
ष्वक्षैर्विंहीने मृतिरेकबिन्दोः |
नाशो व्ययो भीतिभयार्थनारी-
श्रीराज्यसिद्धिः क्रमशः फलानि || ११||
तत्तद्ग्रहाधिष्ठितसर्वराशीं-
स्तत्संज्ञितं लग्नमिति प्रकल्प्य |
तेभ्यः फलान्यष्टविधान्यभूवं-
स्तत्तद्गृहाद्भा ववशाद्वदन्तु || १२||
तत्तद्ग्रहर्क्षाशकतुल्यभांश
स्थिता ग्रहाश्चारवशादिदानीम् |
तथैव तद्भावसमुत्थितानि
फलानि कुर्वन्ति शुभाशुभानि || १३||
कृतेऽष्तवर्गे सति कारकर्क्षात्-
यद्भावमुक्ताङ्कमुपैति खेटः |
तद्भावपुष्टिं सशुभोऽशुभो वा
करोत्यनुक्ते विपरीतमेव || १४||
एकत्र भावे बहवो यदानी-
मुक्ताङ्कगाश्चारवशाद्व्रजन्ति |
पुष्णन्ति तद्भावफलानि सम्यक्
तत्कारकात्तत्तनृपूर्वभावे || १५||
बिन्दौ स्थिते तत्फलसिद्धिकाल
विनिर्णयाय प्रहितेऽष्टवर्गे |
भान्यष्टधा तत्र विभज्य कक्षा
क्रमेण तेषां फलमाहुरन्ये || १६||
प्रस्ताराष्टकवर्गः
आलिख्य चक्रं नव पूर्वरेखा
याम्योत्तरस्था दश च त्रिरेखाः |
प्रस्तारकं षण्णवतिप्रकोष्ठं
पङ्क्त्यष्टकं चाष्टकवर्गजं स्यात् || १७||
होराशशीबोधनशुक्रसूर्य-
भौमामरेन्द्राचिंतभानुपुत्राः |
याम्यादिपङ्क्त्यष्टकराशिनाथाः
क्रमेण तत्बिन्दुफलप्रदाः स्युः || १८||
राश्य्ष्टभागप्रथमांशकाले
शनिर्द्वितीये त्य् गुरुः फलाय |
कक्षाक्रमेणैवमिहान्त्यभाग-
काले विलग्नं फलदं प्रदिष्टम् || १९||
सर्वग्रहाणां प्रहितेऽष्टवर्गे
तत्कालराशिस्थितबिन्दुयोगे |
अष्टाक्षसंख्याधिकविन्दवश्वेत्
शुभं तदुने व्यसनं क्रमेण || २०||
यावन्तस्तुहिनरुचेः शुभाङ्कसंस्था
यावन्तः शुभभवने हिमद्युतेर्वा |
इत्थं तद्विदितमिहाधिके च तेभ्यः
स्वस्त्यूने विपदिति सूचितं परेषाम् || २१||
कर्तुः स्वजन्मसमयावसथग्रहाणां
कृत्वाष्टवर्गकथिताक्षविधानमत्र |
बह्वक्षयोगवशतः शुभराशिमास-
भावग्रहस्थितिषु कर्मशुभं विदध्यात् || २२||
पापोऽपि स्वगृहस्थश्चेद्भाववृद्धिं करोत्यलम्|
नीचारातिगृहस्थश्चेत्कुर्याद्भावक्षयं ध्रुवम् || २३||
स्वोच्चस्थोऽपि शुभो भावहानिं दुःस्थानपो यदि |
सुस्थानपश्चेत् स्वोच्चस्थः पापी भावानुकूल्यकृत् || २४||
चतुर्विंशोऽध्यायः
प्रष्टकवर्गफल
अर्कस्थितस्य नवमो राशिः पितृगृहः स्मृतः
तद्राशिफलसंख्याभिर्वर्द्धयेच्क्षोध्यपिण्डकम् || १||
सप्तविंशहृताल्लब्धं नक्षत्रं याति भानुजे |
तस्मिन् काले पितृक्लेशो भवेष्यति न संशयः || २||
तत्त्रिकोणगते वाऽपि पितृतुल्यस्य वा मृतः |
संयोगः शोध्यशिषाणां शोध्यपिण्ड इति स्मृतः || ३||
लग्नात्सुखेश्वरांशेशदशायां च पितृक्षयः |
सुखनाथदशायां वा पितृतुल्यमृतिं वदेत् || ४||
संशोध्य पिण्डं सूर्यस्य रन्ध्रमानेन वर्द्धयेत् |
द्वादशेन हताच्छेषराशिं याते दिवाकरे || ५||
तत्त्रिकोणगते वाऽपि मरणं तस्य निर्दिशेत् |
एवं ग्रहाणां सर्वेषां चिन्तयेन्मतिमान्नरः || ६||
चन्द्रात्सुखफलैः पिन्डं हत्वा सारावशेषितम् |
शनौ याते मातृहानिः त्रिकोणर्क्षगतेऽपि वा || ७||
चन्द्रात्सुखाष्टमेशंशत्रिकोणे विदेसाधिपे |
मातुविंयोगं तन्मासे निर्दिश्लेल्लग्नतः पितुः || ८||
भौमात्तृत्तीयराशिस्थफलैभ्रातृगणं वदेत् |
बुधात्सुखफलैर्बन्धुगणं वा मातुलस्य च || ९||
गुरुस्थितसुतस्थाने यावतां विद्यते फलम् |
शत्रुनीचग्रहं स्यक्त्वा शेषास्तस्यात्मजाः स्मृताः || १०||
गुरोरष्टकवर्गे तु शोध्यशिष्टफलानि वै |
क्रूरराशिफलं त्यक्त्वा शेषास्तस्यात्मजाः स्मृताः || ११||
फलाधिकं भृगोर्यत्र तत्र भार्याजनिर्यदि |
तस्यां वंशाभिवृद्धिः स्यादल्पे क्षीणार्थसंततिः || १२||
शोध्यपिण्डं शनेर्लग्नाद्धत्वा रन्ध्रफलैः सुखैः |
हृत्वावशेषभं याते मन्दे जीवेऽपि वा मृतिः || १३||
लग्नादिमन्दान्तफलैक्यसंख्या-
वर्षे विपत्तिस्तु तथार्कपुत्रात् |
यावद्विलग्गान्तफलानि तस्मिन्-
नाशो हि तद्योगसमानवर्षे || १४||
अष्टमस्त्थफलैर्लग्नात्पिण्डं हत्वा सुखैर्भजेत् |
फलमायुविजानीयात्प्राग्वद्वेलां तु कल्पयेत्
त्रिकोण शोधन
त्रिकोणेषु तु यन्न्यूनं तत्तुल्यं त्रिषु शोधयेत् |
एकस्मिन् भवने शून्ये तत्रिकोणं न शोधयेत् || १६||
भवनद्वयशून्ये तु शोधयेदन्यमन्दिरम् |
समत्वे सर्वगेहेषु सर्वं संशोधयेत्तदा || १७||
एकाधिपत्य शोधन
त्रिकोणशोधनां कृत्वा प्रश्चदैकाहिपत्यकम् |
क्षेत्रेद्वये फलानि स्युस्तदा संशोधयेत्सुधीः || १८||
ग्रहयुक्ते फलैर्हीने ग्रहाभावे फलाधिके |
ऊनेन सदृशन्त्वस्मिन् शोधयेद्ग्रहवर्जिते || १९||
फलाधिके ग्रहैर्युक्ते चान्यस्मिन् सर्वम्त्सृजेत् |
सग्रहाग्रहतुल्यत्वे सर्वं संशोध्यमग्रहात् || २०||
उभाभ्यां ग्रहहीनाभ्यांसमत्वे सकलं त्यजेत् |
उभयोर्ग्रहसंयुक्ते न संशोध्यं कदाचन || २१||
एकस्मिन् भवने शून्ये न संशोध्यं कदाचन |
द्वावग्रहौ चेद्यन्नयूनं तत्तुल्यं शोधयेद्द्वयोः || २२||
शोध्यावशिष्टं संस्थाप्य राशिमानेन वर्द्धयेत् |
ग्रहयुक्तेऽपि तद्राशौ ग्रहमानेन वर्द्धयेत् || २३||
राशि गुणक आउर ग्रह गुणक
गोसिंहौ दशगुणितौ वसुभिर्मिथुनालिभे |
वणिङ्मेषौ च मुनिभिः कन्यकामकरे शरैः || २४||
शेषाः स्वमानगुणिताः कर्किचापघटीभुषाः |
एते राशिगुणाः प्रोक्ताः पृथग्ग्रहगुणाः पृथक् || २५||
जीवारशुक्रसौम्यानां दशवसुमप्तेन्द्रियैः क्रमाद्गुणिता |
बुधसंख्या शेषाणां राशिगुणाद्ग्रहगुणः पृथक्कार्यः || २६||
एवं गुनित्वा संयोज्य सप्तभिर्गुणयेत्पुनः |
सप्तविंशहृतालब्धवर्षाण्यत्र भवन्ति हि || २७||
द्वादशाद्गुणयेल्लब्धा मासाहर्घतिकाः क्रमात् |
सप्तविंशति वर्शाणि मण्डलं शोधयेत्पुनः || २८||
अन्योऽन्यमर्द्धहरणं ग्रहयुक्ते तु कारयेत् |
नीचेऽर्द्धमस्तगेऽप्यर्द्धहरणं तेषु कारयेत् || २९||
शत्रुक्षेत्रे त्रिभागोनं दृश्यार्द्धहरणं तथा |
त्र्यंशोनहरणं भङ्गे सूर्येन्द्वोः पातसंश्रयात् || ३०||
बहुत्वे हरणे प्राप्ते कारयेद्वलवत्तरम् |
पश्चात्तान् सकलान् कृत्वा वराङ्गेण विवर्द्धयेत् || ३१||
मातङ्गलब्धं शुद्धायुर्भवतीति न संशयः |
पूर्ववद्दिनमासाब्दान् कृत्वा तस्य दशा भवेत् || ३२||
एवं ग्रहानां सर्वेषं दशां कुर्यात् पृथक् पृथक् |
अष्टवर्गदशामार्गः सर्वेषामुत्तमोत्तमः || ३३||
बलो बलिष्तो लवणागमोसुरो
रागी मुररिः शिखरीन्द्रगाथया
भौमो गणेन्द्रो लघुभावतासुरो
गोकर्णरक्ता तु पुरणर्मथिली || ३४||
रुद्रः परं गह्वरंभैरवस्थली
रागी वली भास्वरगीर्भगाचलाः |
गिरौ विवस्वान्बलवद्विवक्षया
शुली मम प्रीतिकरोऽत्र तीर्थकृत् || ३५||
सर्वकर्मफलोपेतमष्टवर्गकमुच्यते |
अन्यथा बलविज्ञानं दुर्ज्ञेयं गुणदोषजम् || ३६||
त्रिंशाधिकफला ये स्यू राशयस्ते शुभप्रदाः |
पञ्चविंशात्परं मध्यं कष्टं तस्मादधः फलम् || ३७||
मध्यात्फलाधिकं लाभे लाभात् क्षीणतरे व्यये |
यस्य व्ययाधिके लग्ने भोगवानर्थवान् भवेत् || ३८||
मूर्त्यादि व्ययभावान्तं दृष्ट्वा भावफलानि वै |
अधिके शोभनं विद्याद्धीने दोषं विनिर्दिशेत् || ३९||
षष्ठाष्ठमव्ययांस्त्यक्त्वा शेषेष्वेव परकल्पयेत् |
श्रेष्ठराशिषु सर्वाणि शुभकार्याणि कारयेत् || ४०||
लग्नात्प्रभृति मन्दान्तमेकीकृत्य फलानि वै |
सप्तभिर्गुणयेत्पश्चात्सप्तविंशहृतात्फलम् || ४१||
तत्समानगते वर्षे दुःखं वा रोगमाप्नुयात् |
एवं मन्दानि लग्नान्तं भौमराह्वोस्तथा फलम् || ४२||
शुभग्रहाणां संयोगसमानाब्दे शुभं भवेत् |
पुत्रवित्तसुखादीनि लभते नात्र संशयः || ४३||
संग्रहेण मया प्रोक्तमष्टवर्गफलं त्विह |
तज्ज्ञैर्विस्तरतः प्रोक्तमन्यत्र पटुबुद्धिभिः || ४४||
पंचविंशोऽध्यायः
गुलिकादि उपग्रह
नमामि मान्दिं यमकण्टकाख्य-
मर्द्धप्रहारं भुवि कालसंज्ञम् |
धूमव्यतीपातपरिध्यभिख्यान्-
उपग्रहानिन्द्रधनुश्च केतून् || १||
चरं रुद्रदास्यं घटं नित्यतानं
खनिर्मान्दनाढ्यः कार्यौ
अहर्मानवृद्धिक्षयौ तत्र कार्यौ
निशायां तु वारेश्चरात्पञ्चमाद्याः || २||
दिव्या घटी नित्यतनुः खनीनां
चन्द्रे रुरुः स्याद्यमकण्टकस्य |
अर्द्धप्रहारस्य भटो नटेन
स्तनौ खनी चन्द्रखरौ जयज्ञः || ३||
कालस्य फेनं तनुरुद्रदिव्यं
वन्द्यो नटस्तैरनुसूर्यवारात्
एषां समं मान्दिवदेव तत्त
न्नाड्या स्फुट लग्नवदत्र साध्यम् || ४||
धूमो वेदगृहैस्त्रयोदशभिरप्यंशैः समेते रवौ
स्यात्तस्मिन् व्यतिपातको विगलिते चक्रादथास्मि न्युते |
षड्भिभैः परिवेश इन्द्रधनुरित्यस्मिंश्च्युते मण्डला-
दत्यष्टयंशयुतेऽत्र केतुरथ तत्रैकर्क्षयुक्तो रविः || ५||
भावाध्याये पूर्वमेव मया प्रोक्तं समुच्चयम् |
मुक्तानां यत्तदेवात्र वाच्यं भावफलं दृढम् || ६||
तथापि गुलिकादिनां विशेषोऽत्र निगद्यते |
पूर्वाचार्यैयर्दाख्यातं तत्संगृह्य मयोदितम् || ७||
चोरः क्रूरो विनयरहितो वेदशास्त्रार्थहीनो
नातिस्थूलो नयनविकृतो नातिधीर्नार्तिपुत्रः |
नाल्पाहारी सुखविरहितो लम्पटो नातिजीवी
शूरो न स्यादपि जडमतिः कोपनो मान्दिलग्ने || ८||
न चाटुवाक्यं कलहायमानो
न वित्तधान्यं परदेशवासी |
न वाङ्न सूक्ष्मार्थविवादवाक्यो
दिनेशपौत्रे धनराशिसंस्थे || ९||
विरहगर्वमदादिगुणैर्युतः
प्रचुरकोपधनार्जनसंभ्रमः |
विंगतशोकभयश्च विसोदरः
सहजधामनि मन्दयुतो यदा || १०||
सुहृदि शनिसुते स्याद्बन्धुयानार्थहीन-
श्चलमतिरवबुद्धिस्त्वल्पजीवी च पुत्रे |
बहुरिपुगणहन्ता भूतविद्याविनोदी
रिपुगतगुलिके सच्छेष्ठपुत्रः सशूरः || ११||
कलत्रसंस्थे गुलिके कलही वहुभार्यकः |
लोकद्वेषी कृतघ्नश्च स्वल्पज्ञः स्वल्पकोपनः || १२||
विकलनयनवक्त्रो ह्वस्वदेहोऽष्टमस्थे
गुरुसुतवियुतोऽभूद्धर्मसंस्थेऽर्कपौत्रे
न शुभफलदकर्मा कर्मसंस्थे विदानः
सुखसुतमतितेजः कान्तिमांल्लाभसंस्थे || १३||
विषयविरहितो दीनो बहुव्ययः स्याव्द्यये गुलिकसंस्थे |
गुलिकत्रिकोणभे वा जन्म क्रूयान्नवंशे वा || १४||
रवियुक्ते पितृहन्ता मातृक्लेशी निशापसंयुक्ते |
भ्रातृवियोगः सकुजे बुधयुक्ते मन्दजे च सोन्मादी || १५||
गुरुयुक्ते पाषण्दी शुक्रयुते नीचकामिनीसङ्गः |
शनियुक्ते शनिपुत्रे कुष्ठव्यार्ध्यदिंतश्च सोऽपल्पायुः || १६||
विषरोगी राहुयुते शिखियुक्ते वह्निपीदितो मान्दौ |
गुलिकस्त्याज्ययुतश्वेत्तस्मिञ्जातो नृपोऽपि भिक्षाशी || १७||
गुलिकस्य तु संयोगे दोषान्सर्वत्र निर्दिशेत् |
यमकण्टकसंयोगे सर्वत्र कथयेच्छभम् || १८||
दोशप्रदाने गुलिको बलीयान्
शुभप्रदाने यमकण्टकः स्यात् |
अन्ये च सर्वे व्यसनप्रदाने
मान्द्युक्तवीर्यर्द्धिबलान्विताः स्युः || १९||
शनिवद्गुलिके प्रोक्तं गुरुवद्यमकण्टके |
अर्धप्रहारे बुधवत्फलं काले तु राहुवत् || २०||
कालस्तु राहुर्गुलिकस्तु मृत्यु-
र्जीवातुकः स्याद्यमकण्टकोपि |
अर्द्धप्रहारः शुभदः शुभाङ्क-
युक्तोऽन्यथा चेदशुभं विदध्यात् || २१||
आत्मादयोऽधिपैर्युक्ता धुंआदिग्रहसंयुत्तः
ते भावा नाशतां यान्ति वदतीति पराशरः || २२||
धूमे सन्ततमुष्णं स्यादग्निभीतिर्मनोव्यथा |
व्यतीपाते मृगभयं चतुष्पान्मरणं तु वा || २३||
परिवेषे जले भीरुर्जलरोगश्च बन्धनम् |
इन्द्रचापे शिलाघातः क्षतं शस्त्रैरपि च्युतिः || २४||
केतौ पतनघाताद्यं कार्यनाशोऽशनेर्भयम् |
एते यद्भावसहितास्तद्दशायां फलं वदेत् || २५||
अल्पायुः कुमुखः पराक्रमगुणो दुःखी च नष्टात्मजः
प्रत्यर्थिक्षुभितो विशीर्णमदनो दुर्मर्गिमृत्युं गतं |
धर्मादिप्रतिक्रूलताटनरुचिलार्भान्वितो दोषवा-
नित्येवं क्रमशो विलग्नभवनात्केतोः फलं कीर्तयेत् || २६||
अप्रकाशाः सचरन्ति धूमाद्याः पंच खेचराः |
क्वचित्कदाचिद्दृश्यन्ते लोकोपद्रवहेतवे || २७||
धूमस्तु धूमपटलः पुच्छर्क्षमिति केचन |
उल्कापातो व्यतीपातः परिवेषस्तु दृश्यते || २८||
लोके प्रसिद्धं यद्दृष्टं सदेवेन्द्रधनुः स्मृतम् |
केतुश्च धूमकेतुः स्याल्लोकोपद्रवकारकः || २९||
गुलिकभवननाथे केन्द्रगे वा त्रिकोणे
बलिनि निजगृहस्थे स्वोच्चमित्रस्थिते वा |
रथगजतुरगाणां नायको मारतुल्यो
महितपृथुयशास्स्यान्मेदिनीमङ्डलेन्द्रः || ३०||
षड्विंशोऽध्यायः
गोचरफल
सर्वेषु लग्नेष्वपि सत्सु चन्द्र-
लग्नं प्रधानं खलु गोचरेषु |
तस्मात्तदृक्षादपि वर्तमान्-
ग्रहेन्द्रचारैः कथयेत्फलानि || १||
सूर्यः षट्त्रिदशस्थितस्त्रिदशषट्सप्ताद्यगश्चन्द्रमाः
जीवस्त्वस्ततपोद्विपंचमगतो वक्रार्कजौ षट्त्रिगौ |
सौम्यः षट्स्वचतुर्दशाष्टमगतः सर्वेऽप्युपान्तस्थिताः
शुक्रः खास्तरिपून्विहाय शुभदस्तिग्मांशुवद्भोगिनौ || २||
लाभविक्रमखशत्रषु स्थितः
शोभनो निगदितो दिवाकरः |
खेचरैः सुततपोजलान्त्यगैः
व्यार्किभिर्यदि न विद्ध्यते तदा || ३||
द्यूनजन्मरिपुलाभखत्रिगः
चन्द्रमाः शुभफलप्रदः सदा |
स्वात्मजान्त्यमृतिबन्धुधर्मगै
विध्द्यते न विबुधैर्यदि ग्रहैह् || ४||
विक्रमायरिपुगः कुजः शुभः
स्यात्तदान्त्यसुतधर्मगैः खगैः |
चेन्न विद्ध इनसूनुरप्यसौ
किन्तु धर्मधृणना न विध्द्यते || ५||
स्वाम्बुशत्रुमृतिखायगः शुभो
ज्ञस्तदा न खलु विध्द्यते सदा |
स्वाल्मजत्रितप आद्यनैधन
प्राप्तिगैविबुधुभिर्यदि ग्रहैः || ६||
स्वायधर्मतनयास्तसंस्थितो नाकनायकपुरोहितः शुभः |
रिःफरन्ध्रखजलत्रिगैर्यदा विध्द्यते गगनचारिभिर्न हि || ७||
आसुताष्टमतपोव्ययायगो विद्ध आस्फुजिदशोभनः स्मृतः |
नैधनास्ततनुकर्मधर्मधीलाभवरिसहजस्थखेचरैः || ८||
जन्मन्यायासदाता क्षपयति विभवान् क्रोधरोगाध्वदाता
वित्तभ्रंशं द्वितीये दिशति न सुखदो पञ्चनामाग्रहं च |
स्थानप्राप्तिं तृतीये धननिचयमुदाकल्यकृच्चारिहन्ता
रोगाण् दत्ते चतुर्थे जनयति च मुहुः स्रग्धराभोगविघ्नम् || ९||
वित्तक्षोभं सुतस्थो वितरति बहुशो रोगमोहादिदाता
षष्ठेऽर्को हन्ति रोगान् क्षपयति च रिपूञ्छोकमोहान्प्रमाष्टिं |
आध्वानं सप्तमस्थो जठरगुदभयं दैन्यभावं च तस्मै
रुक्त्रासावष्टमस्थः कलयति कलहं राजभीतिं च तापम् || १०||
आपद्दैन्यं तपसि विरहं चित्तचेष्टानिरोधं
प्राप्तोन्युग्रां दशमगृहगे कर्मसिद्धिं दिनेशे |
स्थानं मानं विभवमपि चैकादशे रोगनाशं
क्लेशं वित्तक्षयमपि सुहृद्वैरमन्त्ये ज्वरं च || ११||
क्रमेण भाग्योदयमर्थहातिं जयं श्लोकमरोगतां च |
सुखान्यनिष्टं गदमिष्टसिद्धिं मोदं व्ययं च प्रददाति चन्द्रः || १२||
अन्तः शोकं स्वजनविरहं रक्तपित्तोष्णरोगं
लग्ने वित्ते भयमपि गिरां दोषमर्थक्षयं च |
धैरे भौमो जनयति जयं स्वर्णभूषंप्रमोदं
स्थानभ्रंशं रुजमुदरजां बन्धुदुःखं चतुर्थे || १३||
ज्वरमनुचितचिन्तां पुत्रहेतुव्यथां वा
कलयति कलहंस्वैः पञ्चमे भूमिपुत्रः |
रिपुकलहनिवृत्तिं रोगशान्तिं च षष्ठे
विजयमथ धनाप्तिं सर्वकार्यानुकूल्यम् || १४||
कलत्रकलहाक्षिरुग्जठररोगकृत्सप्तमे
ज्वरक्षतजरूक्षितो विगतवित्तमानोऽष्टमे |
कुजे नवमसंस्थिते परिभवोऽर्थनाशादिभि-
विलम्बितगतिर्भवत्यबलदेहधातुक्षयैः || १५||
दुश्चेष्टा वा कर्मविघ्नः श्रमः खे
द्रव्यारोग्यक्षेत्रवृद्धिश्च लाभे |
भौमः खेटो गोचरे द्वादशस्थो
द्रव्यच्छेदस्ताप उष्णामयाद्यैः || १६||
वित्तक्षयं श्रियमरातिभयं धनाप्तिं
भार्याप्तनूजकलहं यिजयं विरोधम् |
पुत्रार्थलाभमथ विघ्नमशेषसौख्यं
पुष्टिं पराभवभयं प्रकरोति चान्द्रिः || १७||
जीवे जन्मनि देशनिर्गमनमप्यर्थच्युतिं शत्रुतां
प्राप्नोति द्रविणं कुटुम्बसुखमप्यर्थे स्ववाचां फलम् |
दुश्चिक्ये स्थितिनाशमिष्टवियुतिं कार्यान्तरायं रुजं
दुःखैर्बन्धुजनोद्भवैश्च हिबुके दैन्यं चतुष्पाद्भयम् || १८||
पुत्रोत्पत्तिमुपैति सज्जनयुतिं राजामुकूल्यं सुते
षष्ठे मन्त्रिणि पीडयन्ति रिपवः स्वज्ञातयो व्याधयः |
यात्रां शोभनहेतवे वनितया सौख्यं सुताप्तिं स्मरे
मार्गक्लेशमरिष्टमष्टमगते नष्टं धनैः कष्टताम् || १९||
भाग्ये जीवे सर्वसौभाग्यसिद्धिः
कर्मण्यर्थास्थनपुत्रादिपिडा
लाभे पुत्रस्थानमानदिलाभो
रिःफे दुःखं साध्वसं द्रव्यहेतोः || २०||
अखिलविषयभोगं वित्तसिद्धिं विभूतिं
सुखसुहृदभिवृद्धिं पुत्रलब्धिं विपत्तिम् |
दिशति युवतिपीडां सम्पदं वा सुखाप्तिं
कलहमभयमर्थप्राप्तिमिन्द्रारिमन्त्री || २१||
रोगाशौचक्रियाप्तिं धनसुतविहतिं स्थानभृत्यार्थलाभं
स्त्रीबन्ध्वर्थप्रणाशं द्रविणसुतमतिप्रच्युतिं सर्वसौख्यम् |
स्त्रीरोगाध्वावभीतिं स्वसुतपशुसुहृद्बित्तनाशामयातिं
जन्मादेरष्टमान्तं दिशति पदवशेनार्कसूनुः क्रमेण || २२||
दारिध्रं धर्मविघ्नं पितृसमविलयं नित्यदुःखं शुभस्थे
दुर्व्यापारप्रवृत्तिं कलयति दशमे मानभङ्गं रुजं वा |
सौख्यान्येकादशस्थो बहुविधविभवप्राप्तिमुत्कृष्टकीर्तिं
विश्रान्ति व्यर्थकार्याद्विसुहृतिमरिभिः स्त्रीसुतव्याधिमन्त्ये || २३||
देहक्षयं वित्तविनाशसौख्ये
दुःखार्थनाशौ सुखनाशमृत्यून् |
हानिं च लाभं सुभगं व्ययं च
कुर्यत्तमो जन्मगृहात्क्रमेण || २४||
क्षितितनयपतङ्गौ राशिपूर्वत्रिभागे
सुरपतिगुरुशुक्रौ राशिमध्यत्रिभागे|
तुहिनकिरणमन्दौ राशिपाश्चात्यभागे
शशितनयभुजङ्गौ पाकदौ सार्वकालम् || २५||
नक्षत्रगोचरम्
रेखाह् सप्तसमालिखेदुपरिगास्तिर्यक्तथैव क्रमा-
दीशादग्निभमादितोऽपि गणयेदादित्यभस्यावधि |
वेधा जन्मादिने मृतिर्भयमथाधानाख्यनक्षत्रके
कर्मण्यर्थविनाशं खलु रविर्दद्यात्सपापो मृतिम् || २६||
एवं विद्धे खचरैः क्रररन्यैर्मरणम् |
सौम्यैर्विद्धे न मृतिविद्यादेवं सकलं || २७||
आधनकर्मर्क्षविपन्निजर्क्षे
वैनाशिके प्रत्यरभे वधाख्ये
पापग्रहो मृत्युभयं विदध्या
द्वेधेतथा कार्यहरः शुभाख्ये || २८||
आदित्यसङ्क्रान्तिदिने ग्रहाणं
प्रवेशने वा ग्रहणे च युद्धे |
उल्कानिपाते च तथाद्भुते च
जन्मत्रयं स्यान्मरणादिदुःखम् || २९||
असत्फलः सौम्यनिरीक्षितो यः
शुभप्रदश्चाप्यशुभेक्षितश्च |
द्वौ निष्फलौ द्वावपि खेचरेन्द्रौ
यः शत्रुणा स्वेन विलोकितश्च || ३०||
अनिष्टभावस्थितखेचरेन्द्रः
स्वोच्चस्वगेहोपगतो यदि स्यात् |
न दोषकृच्चोत्तमभावगश्चेत्
पूर्णं फलं यच्छति गोचरेषु || ३१||
ग्रहेश्वरारुते शुभगोचरस्था
नीचारिमौढ्यं समुपाश्रिताश्रेत् |
ते निष्फलाः किन्त्वशुभाङ्कसंस्थाः
कष्टं फलं संविदधत्यनल्पम् || ३२||
द्वादशाष्टमजन्मस्थाः शन्यर्काङ्गारका गुरुः |
कुर्वन्ति प्राणसन्देहं स्थानभ्रंशं धनक्षयम् || ३३||
चद्राष्टमे च धरणीतनयः कलत्रे
राहुः शुभे कविररौ च गुरुस्तृतीये |
अर्कः सुतेऽर्किरुदये च बुधश्चतुर्थे
मानार्थहानिमरणानि वदेद्विशेषात् || ३४||
अङ्गग्रहाः
वक्त्रे क्ष्मा मूर्घ्नि चत्वार्युरसि च चतुरः सव्यहस्ते चतुष्कं
पादे षड्वामहस्ते चतुरथ नयने द्वौ च गुह्ये द्वयं च |
भानुर्नाशं विभुतिं विजयमथ धनं निर्धनं देहपीडां
लाभं मृत्युं च चक्रे जनयति विविधान् जन्मभाद्देहसंस्थः || ३५||
शीतांशोर्वदने द्वयोरतिभयं क्षेमंशिरस्यम्बुधौ
पृष्ठे शत्रुजयं द्वयोर्नयनयोर्नेत्रे धनं जन्मभात् |
पञ्चस्वात्मसुखं हृदि त्रिषु करे वामे विरोधं क्रमात्
पादौ षट्सु विदेशतां जनयति त्रिष्वर्थलाभं करे || ३६||
वक्त्रे द्वे मरणं करोत्यवनिजः षट् पादयोविग्रहं
क्रोडे त्रीणि जयं चतुर्विधनतां वामे करे मस्तके |
द्वे लाभं चतुराननेऽधिकभयं क्षेमंकरे दक्षिणे
वार्द्धिर्द्वे नयने विदेशगमनं चक्रे स्वजन्मर्क्षतः || ३७||
मूघ्निं त्रीणि मुखे त्रयं च करयोः षट् पञ्च कुक्षौ तथा
लिङ्गे द्वे द्विचतुष्टयं चरणयोः प्राप्तेऽमरेन्द्राचिंतः |
शोकं लाभमनर्थमर्थनिचयं नाशं प्रतिष्ठां तथा
दद्यादात्मदिनात्तथैव भृगुजस्तद्वद्बुधोऽपि क्रमात् || ३८||
भूवेदवह्निगुणवेदशराग्नेत्र-
दस्त्रं च वक्त्रकरपादपदेषु हस्ते |
कुक्षौ च मूर्घ्नि नयनद्वयपृष्ठोभागे
न्यस्य क्रमेण शनिसंयुतभान्निजर्क्षात् || ३९||
दुःखं च सौख्यं गमनं च नाशं
लाभं स्वभोगं सुखसौख्यमृत्यून् |
वक्त्रक्रमादाह फलानि मन्द-
स्यैवं तमःखेचरयोर्वदन्तु || ४०||
यत्राष्टवर्गेऽधिकबिन्दवः स्यु-
स्तत्र स्थितो गोचरतो ग्रहेन्द्रः |
तद्वत्फलं प्राह शुभं व्ययारि-
रन्ध्रस्थितो वाऽपि शुभं विद्धत्ते || ४१||
रवेद्वदिशनक्षत्रं भूसुतस्य तृतीयकम् |
गुरोः षट्तारकं चैव शनेरष्टमतारकम् || ४२||
एतेषां च पुरोलत्ता पृष्ठोलत्तः प्रकीर्त्तिताः |
शुक्रस्य पञ्चमं तारं चन्द्रजस्य तु सप्तमम् || ४३||
राहोस्तु नवम चैव द्वाविंशं भं हिमद्युतेः |
ग्रहस्थितर्क्षाद्गणयेल्लत्तायां जन्मभे व्यथा || ४४||
रवेः सर्वार्थहानिः स्यात्तमसोर्दुःखमुच्यते |
मरणं जीवलत्तायां बन्धुनाशो भयावहः || ४५||
शुक्रस्य कलहो भ्रंश अनर्थः शशिजस्य तु |
चन्द्रस्य तु महाहानिर्लत्तामात्रफलं भवेत् || ४६||
सर्वत्र लत्तासाङ्कर्ये द्विगुणत्रिगुणादिकम् |
वदेद्दोषफलं नॄणां ग्रहाल्लत्ताधिकक्रमात् || ४७||
सर्वतो भद्र चक्रोक्त शुभवेधाः शुभावहाः |
पापवेधा दुःखतरा गोचरेताश्च चित्तयेत् || ४८||
सप्तविंशोऽध्यायः
प्रव्रज्या योग
ग्रहैश्चतुर्भिः सहिते खनोथे
त्रिकोणगैः केन्द्रगतैस्तु मुक्तः |
लग्ने गृहान्ते सति सौम्यभागे
केन्द्रे गुरौ कोणगते च मुक्तः || १||
एकर्क्षसंस्थैश्चतुरादिकैस्तु
ग्रहैर्वदेत्तत्र बलान्वितेन |
प्रव्रज्यकां तत्र वदन्ति केचित्
कर्मेशतुल्यां सहिते खनाथे || २||
शशी दृगाणे रविजस्य संस्थितः
कुजार्किदृष्टः प्रकरोति तापसम् |
कुजांशके वा रविजेन दृष्तो
नवांशतुल्यां कथयन्ति तां पुनः || ३||
जन्माधिपः सूर्यसुतेन दृष्टः
शेषैरदृष्तः पुरुषस्य सूतौ |
आत्मीयदीक्षां कुरुते ह्यवश्यं
पूर्वोक्तमत्रापि विचारणीयम् || ४||
योगीशं दीक्षित वा कलयति तरणिस्तीर्थपान्थं हिमांशु-
र्दुर्मन्त्रज्ञं च बौधाश्र्यमवनीसुतो ज्ञो मतान्यप्रविष्टम् |
वेदान्तज्ञानिनं वा यतिवरममरेड्यो भृगुलिङ्गवृत्त
व्रात्य शैलूषवृत्तिं शनिरिह पतितं वाऽथ पाषण्डिनं वा || ५||
अतिशयबलयुक्तः शीतगुः शुक्लपक्षे
बलविरहितमेन प्रेक्षते लग्ननाथः |
यदि भवति तपस्वी दुःखितः शोकतप्तो
धनजनपरिहीनः कृच्छ्रलब्धान्नपानः || ६||
प्रकथितमुनियोगे राजयोगो यदि स्या-
दशुभफलविपाकं सर्वमुन्मूल्य पश्चात् |
जनयति पृथिवीशं दीक्षितं साधुशीलं
प्रणतनृपहिरोभिः स्पृष्टपादाब्जयुग्मम् || ७||
चत्वारो द्युचराः खनाथसहिताः केन्द्रे त्रिकोणेऽथवा
सुस्थाने बलिनस्त्रयो यदि तदा सन्याससिद्धिर्भवेत्
सब्द्बाहुल्यवशाच्च तत्र सुशुभस्थानस्थितैस्तैर्वदेत्
प्रव्रज्यां महितां सताम्भिमतां चेदन्यथा निन्दिताम् || ८||
अष्टाविंशोऽध्यायः
उपसंहाराध्याय
संज्ञाध्यायः कारको वर्गसंज्ञो
वीर्याध्यायः कर्मजिवाऽथ योगः |
योगो राज्ञां राशिशीलो ग्रहाणां
मेषादिनां लग्नसम्प्राप्तशीलः || १||
भार्याभावो जातक कमिनीना
सूनुर्बालारिष्टयोगोऽथ रोगः |
भावस्तस्माद्द्वादशावाप्तभावा
निर्याणं स्याद् द्विग्रहाद्याश्च तस्मात् || २||
सूर्यादीनां यत्फलं तदृशाप्तं
भावादीनामीश्वराङ्का दशा च |
सूर्यादीनामन्तराख्या दशाऽथ
सव्यासव्या कालचक्रोऽष्टवर्गः || ३||
होरासारावाप्तयद्यष्टवर्गो
मान्द्यध्यायो गोचर स्यात्प्रव्रज्यः |
अध्यायानां विंशतिः सप्तयुक्तान्
जन्मन्येतद्गोलजं संवदामि || ४||
श्रीशालिवाटिजातेन मया मन्त्रेश्वरेण वै |
दैवज्ञेन द्विजाग्रेण सतां ज्योतिर्विदां मुदे || ५||
सुकुन्तलाम्बां सम्पूज्य सर्वभीष्टप्रदायिनीम् |
तत्कटाक्षविशेषेण कृता या फलदीपिका || ६||
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com