.. .. पिङ्गलागीता.. ..
१६८
य्
धर्माः पितामहेनोक्ता राजधर्माश्रिताः शुभाः .
धर्ममाश्रमिणां श्रेष्ठं वक्तुमर्हसि पार्थिव .. १..
भीस्म
सर्वत्र विहितो धर्मः स्वर्ग्यः सत्यफलं तपः .
बहु द्वारस्य धर्मस्य नेहास्ति विफला क्रिया .. २..
यस्मिन्यस्मिंस्तु विनये यो यो याति विनिश्चयम् .
स तमेवाभिजानाति नान्यं भरतसत्तम .. ३..
यथा यथा च पर्येति लोकतन्त्रमसारवत् .
तथा तथा विरागोऽत्र जायते नात्र संशयः .. ४..
एवं व्यवसिते लोके बहुदोषे युधिष्ठिर .
आत्ममोक्षनिमित्तं वै यतेत मतिमान्नरः .. ५..
य्
नष्टे धने वा दारे वा पुत्रे पितरि वा मृते .
यया बुद्ध्या नुदेच्छोकं तन्मे ब्रूहि पितामह .. ६..
भी
नष्टे धने वा दारे वा पुत्रे पितरि वा मृते .
अहो दुःखमिति ध्यायञ्शोकस्यापचितिं चरेत् .. ७..
अत्राप्युदाहरन्तीममितिहासं पुरातनम् .
यथा सेनजितं विप्रः कश्चिदित्यब्रवीद्वचः .. ८..
पुत्रशोकाभिसन्तप्तं राजानं शोकविह्वलम् .
विषन्नवदनं दृष्ट्वा विप्रो वचनमब्रवीत् .. ९..
किं नु खल्वसि मूढस्त्वं शोच्यः किमनुशोचसि .
यदा त्वामपि शोचन्तः शोच्या यास्यन्ति तां गतिम् .. १०..
त्वं चैवाहं च ये चान्ये त्वां राजन्पर्युपासते .
सर्वे तत्र गमिष्यामो यत एवागता वयम् .. ११..
सेनजित्
का बुद्धिः किं तपो विप्र कः समाधिस्तपोधन .
किं ज्ञानं किं श्रुतं वा ते यत्प्राप्य न विषीदसि .. १२..
ब्राह्मन
पश्य भूतानि दुःखेन व्यतिषक्तानि सर्वशः .
आत्मापि चायं न मम सर्वा वा पृथिवी मम .. १३..
यथा मम तथान्येषामिति बुद्ध्या न मे व्यथा .
एतां बुद्धिमहं प्राप्य न प्रहृष्ये न च व्यथे .. १४..
यथा काष्ठं च काष्ठं च समेयातां महोदधौ .
समेत्य च व्यपेयातां तद्वद्भूतसमागमः .. १५..
एवं पुत्राश्च पौत्राश्च ज्ञातयो बान्धवास्तथा .
तेषु स्नेहो न कर्तव्यो विप्रयोगो हि तैर्ध्रुवम् .. १६..
अदर्शनादापतितः पुनश्चादर्शनं गतः .
न त्वासौ वेद न त्वं तं कः सन्कमनुशोचसि .. १७..
तृष्णार्ति प्रभवं दुःखं दुःखार्ति प्रभवं सुखम् .
सुखात्सञ्जायते दुःखमेवमेतत्पुनः पुनः .
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् .. १८..
सुखात्त्वं दुःखमापन्नः पुनरापत्स्यसे सुखम् .
न नित्यं लभते दुःखं न नित्यं लभते सुखम् .. १९..
नालं सुखाय सुहृदो नालं दुःखाय शत्रवः .
न च प्रज्ञालमर्थानां न सुखानामलं धनम् .. २०..
न बुद्धिर्धनलाभाय न जाद्यमसमृद्धये .
लोकपर्याय वृत्तान्तं प्राज्ञो जानाति नेतरः .. २१..
बुद्धिमन्तं च मूढं च शूरं भीरुं जदं कविम् .
दुर्बलं बलवन्तं च भागिनं भजते सुखम् .. २२..
धेनुर्वत्सस्य गोपस्य स्वामिनस्तस्करस्य च .
पयः पिबति यस्तस्या धेनुस्तस्येति निश्चयः .. २३..
ये च मूढतमा लोके ये च बुद्धेः परं गताः .
ते नराः सुखमेधन्ते क्लिश्यत्यन्तरितो जनः .. २४..
अन्त्येषु रेमिरे धीरा न ते मध्येषु रेमिरे .
अन्त्य प्राप्तिं सुखामाहुर्दुःखमन्तरमन्तयोः .. २५..
ये तु बुद्धिसुखं प्राप्ता द्वन्द्वातीता विमत्सराः .
तान्नैवार्था न चानर्था व्यथयन्ति कदा चन .. २६..
अथ ये बुद्धिमप्राप्ता व्यतिक्रान्ताश्च मूढताम् .
तेऽतिवेलं प्रहृष्यन्ति सन्तापमुपयान्ति च .. २७..
नित्यप्रमुदिता मूढा दिवि देवगणा इव .
अवलेपेन महता परिदृब्धा विचेतसः .. २८..
सुखं दुःखान्तमालस्यं दुःखं दाक्ष्यं सुखोदयम् .
भूतिश्चैव श्रिया सार्धं दक्षे वसति नालसे .. २९..
सुखं वा यदि वा दुःखं द्वेष्यं वा यदि वा प्रियम् .
प्राप्तं प्राप्तमुपासीत हृदयेनापराजितः .. ३०..
शोकस्थान सहस्राणि हर्षस्थान शतानि च .
दिवसे दिवसे मूढमाविशन्ति न पण्डितम् .. ३१..
बुद्धिमन्तं कृतप्रज्ञं शुश्रूसुमनसूयकम् .
दान्तं जितेन्द्रियं चापि शोको न स्पृशते नरम् .. ३२..
एतां बुद्धिं समास्थाय गुप्तचित्तश्चरेद्बुधः .
उदयास्तमयज्ञं हि न शोकः स्प्रस्तुमर्हति .. ३३..
यन्निमित्तं भवेच्छोकस्त्रासो वा दुःखमेव वा .
आयासो वा यतोमूलस्तदेकाङ्गमपि त्यजेत् .. ३४..
यद्यत्त्यजति कामानां तत्सुखस्याभिपूर्यते .
कामानुसारी पुरुषः कामाननु विनश्यति .. ३५..
यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् .
तृष्णा क्षयसुखस्यैते नार्हतः सोदशीं कलाम् .. ३६..
पूर्वदेहकृतं कर्म शुभं वा यदि वाशुभम् .
प्राज्ञं मूढं तथा शूरं भजते यादृशं कृतम् .. ३७..
एवमेव किलैतानि प्रियाण्येवाप्रियाणि च .
जीवेषु परिवर्तन्ते दुःखानि च सुखानि च .. ३८..
तदेवं बुद्धिमास्थाय सुखं जीवेद्गुणान्वितः .
सर्वान्कामाञ्जुगुप्सेत सङ्गान्कुर्वीत पृष्ठतः .
वृत्त एष हृदि प्रौधो मृत्युरेष मनोमयः .. ३९..
यदा संहरते कामान्कूर्मोऽङ्गानीव सर्वशः .
तदात्मज्योतिरात्मा च आत्मन्येव प्रसीदति .. ४०..
किं चिदेव ममत्वेन यदा भवति कल्पितम् .
तदेव परितापार्थं सर्वं सम्पद्यते तदा .. ४१..
न बिभेति यदा चायं यदा चास्मान्न बिभ्यति .
यदा नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा .. ४२..
उभे सत्यानृते त्यक्त्वा शोकानन्दौ भयाभये .
प्रियाप्रिये परित्यज्य प्रशान्तात्मा भविष्यसि .. ४३..
यदा न कुरुते धीरः सर्वभूतेषु पापकम् .
कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा .. ४४..
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः .
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् .. ४५..
अत्र पिङ्गलया गीता गाथाः श्रूयन्ति पार्थिव .
यथा सा कृच्छ्रकालेऽपि लेभे धर्मं सनातनम् .. ४६..
सङ्केते पिङ्गला वेश्या कान्तेनासीद्विनाकृता .
अथ कृच्छ्रगता शान्तां बुद्धिमास्थापयत्तदा .. ४७..
पिन्गला
उन्मत्ताहमनुन्मत्तं कान्तमन्ववसं चिरम् .
अन्तिके रमणं सन्तं नैनमध्यगमं पुरा .. ४८..
एकस्थूनं नवद्वारमपिधास्याम्यगारकम् .
का हि कान्तमिहायान्तमयं कान्तेति मन्स्यते .. ४९..
अकामाः कामरूपेण धूर्ता नरकरूपिणः .
न पुनर्वञ्चयिष्यन्ति प्रतिबुद्धास्मि जागृमि .. ५०..
अनर्थोऽपि भवत्यर्थो दैवात्पूर्वकृतेन वा .
सम्बुद्धाहं निराकारा नाहमद्याजितेन्द्रिया .. ५१..
सुखं निराशः स्वपिति नैराश्यं परमं सुखम् .
आशामनाशां कृत्वा हि सुखं स्वपिति पिङ्गला .. ५२..
भी
एतैश्चान्यैश्च विप्रस्य हेतुमद्भिः प्रभाषितैः .
पर्यवस्थापितो राजा सेनजिन्मुमुदे सुखम् .. ५३..
.. इति पिङ्गलागीता समाप्ता ..
Please send corrections to Sunder Hattangadi(sunderh@hotmail.com OR sanskrit@cheerful.com);
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com