|| Purushasukta || || पुरुषसूक्त || अथ पुरुषसूक्तम् || ॐ तच्छ\`ं योरावृ\'णीमहे | गा\`तुं य\`ज्ञाय\' | गा\`तुं य\`ज्ञप\'तये | दैवी\" स्व\`स्तिर\'स्तु नः | स्व\`स्तिर्मानु\'षेभ्यः | ऊ\`र्ध्वं जि\'गातु भेष\`जम् | शन्नो\' अस्तु द्वि\`पदे\" | शं चतु\'ष्पदे | ॐ शान्ति\`ः शान्ति\`ः शान्ति\'ः | हरिः ॐ | ॐ स\`हस्र\'शीर्षा\` पुरु\'षः | स\`ह\`स्रा\`क्षः स\`हस्र\'पात् | स भूमि\'ं वि\`श्वतो\' वृ\`त्वा | अत्य\'तिष्ठद्दशाङ्गु\`लम् | १ पुरु\'ष ए\`वेद{\m+} सर्वम्\" | यद्भू\`तं यच्च\` भव्यम्\". उ\`तामृ\'त\`त्वस्येशा\'नः | यदन्ने\'नाति\`रोह\'ति | २ ए\`तावा\'नस्य महि\`मा | अतो\` ज्याया{\m+}\'श्च\` पूरु\'षः | पादो\"ऽस्य\` विश्वा\' भू\`तानि\' | त्रि\`पाद\'स्या\`मृत\'ं दि\`वि | ३ त्रि\`पादू\`र्ध्व उदै\`त्पुरु\'षः | पादो\"ऽस्ये\`हाऽऽभ\'वा\`त्पुन\'ः | ततो\` विश्व\`ङ्व्य\'क्रामत् | सा\`श\`ना\`न\`श\`ने अ\`भि | ४ तस्मा\"द्वि\`राड\'जायत | वि\`राजो\` अधि\` पूरु\'षः | स जा\`तो अत्य\'रिच्यत | प\`श्चाद्भूमि\`मथो\' पु\`रः | ५ यत्पुरु\'षेण ह\`विषा\" | दे\`वा य\`ज्ञमत\'न्वत | व\`स\`न्तो अ\'स्यासी\`दाज्यम्\" | ग्री\`ष्म इ\`ध्मः श\`रद्ध\`विः | ६ स\`प्तास्या\'सन्परि\`धय\'ः | त्रिः स\`प्त स\`मिध\'ः कृ\`ताः | दे\`वा यद्य\`ज्ञं त\'न्वा\`नाः | अब\'ध्न\`न्पु\'रुषं प\`शुम् | ७ तं य\`ज्ञं ब\`र्हिषि\` प्रौक्षन्\' | पुरु\'षं जा\`तम\'ग्र\`तः | तेन\' दे\`वा अय\'जन्त | सा\`ध्या ऋष\'यश्च\` ये | ८ तस्मा\"द्य\`ज्ञात्स\'र्व\`हुत\'ः | संभृ\'तं पृषदा\`ज्यम् | प\`शू{\m+}स्ता{\m+}श्च\'क्रे वाय\`व्यान्\' | आ\`र\`ण्यान्ग्रा\`म्याश्च\` ये | ९ तस्मा\"द्य\`ज्ञात्स\'र्व\`हुत\'ः | ऋच\`ः सामा\'नि जज्ञिरे | छन्दा{\m+}\'सि जज्ञिरे\` तस्मा\"त् | यजु\`स्तस्मा\'दजायत | १० तस्मा\`दश्वा\' अजायन्त | ये के चो\'भ\`याद\'तः | गावो\' ह जज्ञिरे\` तस्मा\"त् | तस्मा\"ज्जा\`ता अ\'जा\`वय\'ः | ११ यत्पुरु\'ष\`ं व्य\'दधुः | क\`ति\`धा व्य\'कल्पयन् | मुख\`ं किम\'स्य\` कौ बा\`हू | कावू\`रू पादा\'वुच्येते | १२ ब्रा\`ह्म\`णो\"ऽस्य\` मुख\'मासीत् | बा\`हू रा\'ज\`न्य\'ः कृ\`तः | ऊ\`रू तद\'स्य\` यद्वैश्य\'ः | प\`द्भ्या{\m+} शू\`द्रो अ\'जायत | १३ च\`न्द्रमा\` मन\'सो जा\`तः | चक्षो\`ः सूर्यो\' अजायत | मुखा\`दिन्द्र\'श्चा\`ग्निश्च\' | प्रा\`णाद्वा\`युर\'जायत | १४ नाभ्या\' आसीद\`न्तरि\'क्षम् | शी\`र्ष्णो द्यौः सम\'वर्तत | प\`द्भ्यां भूमि\`र्दिश\`ः श्रोत्रा\"त् | तथा\' लो\`का{\m+} अ\'कल्पयन् | १५ वेदा\`हमे\`तं पुरु\'षं म\`हान्तम्\" | आ\`दि\`त्यव\'र्णं\` तम\'सस्तु\` पा\`रे | सर्वा\'णि रू\`पाणि\' वि\`चित्य\` धीर\'ः | नामा\'नि कृ\`त्वाऽभि\`वद\`न् यदास्ते\" | १६ धा\`ता पु\`रस्ता\`द्यमु\'दाज\`हार\' | श\`क्रः प्रवि\`द्वान्प्र\`दिश\`श्चत\'स्रः | तमे\`वं वि\`द्वान\`मृत\' इ\`ह भ\'वति | नान्यः पन्था\` अय\'नाय विद्यते | १७ य\`ज्ञेन\' य\`ज्ञम\'यजन्त दे\`वाः | तानि\` धर्मा\'णि प्रथ\`मान्या\'सन् | ते ह\` नाक\'ं महि\`मान\'ः सचन्ते | यत्र\` पूर्वे\' सा\`ध्याः सन्ति\' दे\`वाः | १८ || ॐ नमो नारा\'यणा\`य || || उत्तरनारायणम् || अ\`द्भ्यः संभू\'तः पृथि\`व्यै रसा\"च्च | वि\`श्वक\'र्मण\`ः सम\'वर्त\`ताधि\' | तस्य\` त्वष्टा\' वि\`दध\'द्रू\`पमे\'ति | तत्पुरु\'षस्य\` विश्व\`माजा\'न\`मग्रे\" | १ वेदा\`हमे\`तं पुरु\'षं म\`हान्तम्\" | आ\`दि\`त्यव\'र्णं\` तम\'स\`ः पर\'स्तात् | तमे\`वं वि\`द्वान\`मृत\' इ\`ह भ\'वति | नान्यः पन्था\' विद्य\`तेय\'ऽनाय | २ प्र\`जाप\'तिश्चरति\` गर्भे\' अ\`न्तः | अ\`जाय\'मानो बहु\`धा विजा\'यते | तस्य\` धीरा\`ः परि\'जानन्ति\` योनिम्\" | मरी\'चीनां प\`दमि\'च्छन्ति वे\`धस\'ः | ३ यो दे\`वेभ्य\` आत\'पति | यो दे\`वाना\"ं पु\`रोहि\'तः | पूर्वो\` यो दे\`वेभ्यो\' जा\`तः | नमो\' रु\`चाय\` ब्राह्म\'ये | ४ रुच\'ं ब्रा\`ह्मम् ज\`नय\'न्तः | दे\`वा अग्रे\` तद\'ब्रुवन् | यस्त्वै\`वं ब्रा\"ह्म\`णो वि\`द्यात् | तस्य\' दे\`वा अस\`न् वशे\" | ५ ह्रीश्च\' ते ल\`क्ष्मीश्च\` पत्न्यौ\" | अ\`हो\`रा\`त्रे पा\`र्श्वे | नक्ष\'त्राणि रू\`पम् | अ\`श्विनौ\` व्यात्तम्\" | इ\`ष्टम् म\'निषाण | अ\`मुं म\'निषाण | सर्व\'म् मनिषाण | ६ ॐ तच्छ\`ं योरावृ\'णीमहे | गा\`तुं य\`ज्ञाय\' | गा\`तुं यज्ञप\'तये | दैवी\"स्स्व\`स्तिर\'स्तु नः | स्व\`स्तिर्मानु\'षेभ्यः | ऊ\`र्ध्वं जि\'गातु भेष\`जम् | शन्नो\' अस्तु द्वि\`पदे\" | शं चतु\'ष्पदे | ॐ शान्ति\`ः शान्ति\`ः शान्ति\'ः | Encoded by Rajagopal Iyer rajsand at yahoo.com