.. श्री राधाकृष्ण सहस्रनाम स्तोत्रम् ..
सनत्कुमार उवाच -
किं त्वं नारद जानासि पूर्वजन्मनि यत्त्वया .
प्राप्तं भगवतः साक्षाच्छूलिनो युगलात्मकम् .. १..
कृष्णमन्त्ररहस्यं च स्मर विस्मृतिमागतम् .
सूत उवाच -
इत्युक्तो नारदो विप्राः कुमारेण तु धीमता .. २..
ध्याने विवेदाशु चिरं चरितं पूर्वजन्मनः .
ततश्चिरं ध्यानपरो नारदो भगवत्प्रियः .. ३..
ज्ञात्वा सर्वं सुवृत्तान्तं सुप्रसन्नाननोऽब्रवीत् .
भगवन्सर्ववृत्तान्तः पूर्वकल्पसमुद्भवः .. ४..
मम स्मृतिमनुप्राप्तो विना युगललम्भनम् ..
तच्छ्रुत्वा वचनं तस्य नारदस्य महात्मनः .. ५..
सनत्कुमारो भगवान् व्याजहार यथातथम् .
सनत्कुमार उवाच -
शृणु विप्र प्रवक्ष्यामि यस्मिञ्जन्मनि शूलिनः .. ६..
प्राप्तं कृष्णरहस्यं वै सावधानो भवाधुना .
अस्मात्सारस्वतात्कल्पात्पूर्वस्मिन्पञ्चविंशके .. ७..
कल्पे त्वं काश्यपो जातो नारदो नाम नामतः .
तत्रैकदा त्वं कैलासं प्राप्तः कृष्णस्य योगिनः .. ८..
सम्प्रष्टुं परमं तत्त्वं शिवं कैलासवासिनम् .
त्वया पृष्टो महादेवो रहस्यं स्वप्रकाशितम् .. ९..
कथया मास तत्त्वेन नित्यलीलानुगं हरेः .
ततस्तदन्ते तु पुनस्त्वया विज्ञापितो हरः .. १०..
नित्यां लीलां हरेर्द्रष्टुं ततः प्राह सदाशिवः .
गोपीजनपदस्यान्ते वल्लभेति पदं ततः .. ११..
चरणाच्छरणं पश्चात्प्रपद्ये इति वै मनुः .
मन्त्रस्यास्य ऋषिः प्रोक्तो सुरभिश्छन्द एव च .. १२..
गायत्री देवता चास्य बल्लवीवल्लभो विभुः .
प्रपन्नोऽस्मीति तद्भक्तौ विनियोग उदाहृतः .. १३..
नास्य सिद्धादिकं विप्र शोधनं न्यासकल्पनम् .
केवलं चिन्तनं सद्यो नित्यलीलाप्रकाशकम् .. १४..
आभ्यन्तरस्य धर्मस्य साधनं वच्मि साम्प्रतम् .. १५..
सङ्गृह्य मन्त्रं गुरुभक्तियुक्तो
विचिन्त्य सर्वं मनसा तदीहितम् .
कृपां तदीयां निजधर्मसंस्थो
विभावयन्नात्मनि तोषयेद्गुरुम् .. १६..
सतां शिक्षेत वै धर्मान्प्रपन्नानां भयापहान् .
ऐहिकामुष्मिकीचिन्ताविधुरान् सिद्धिदायकान् .. १७..
स्वेष्टदेवधिया नित्यं तोषयेद्वैष्णवांस्तथा .
भर्त्सनादिकमेतेषां न कदाचिद्विचिन्तयेत् .. १८..
पूर्वकर्मवशाद्भव्यमैहिकं भोग्यमेव च .
आयुष्यकं तथा कृष्णः स्वयमेव करिष्यति .. १९..
श्रीकृष्णं नित्यलीलास्थं चिन्तयेत्स्वधियानिशम् .
श्रीमदर्चावतारेण कृष्णं परिचरेत्सदा .. २०..
अनन्यचिन्तनीयोऽसौ प्रपन्नैः शरणार्थिभिः .
स्थेयं च देहगेहादावुदासीनतया बुधैः .. २१..
गुरोरवज्ञां साधूनां निन्दां भेदं हरे हरौ .
वेदनिन्दां हरेर्नामबलात्पापसमीहनम् .. २२..
अर्थवादं हरेर्नाम्नि पाषण्डं नामसङ्ग्रहे .
अलसे नास्तिके चैव हरिनामोपदेशनम् .. २३..
नामविस्मरणं चापि नाम्न्यनादरमेव च .
सन्त्यजेद् दूरतो वत्स दोषानेतान्सुदारुणान् .. २४..
प्रपन्नोऽस्मीति सततं चिन्तयेद्धृद्गतं हरिम् .
स एव पालनं नित्यं करिष्यति ममेति च .. २५..
तवास्मि राधिकानाथ कर्मणा मनसा गिरा .
कृष्णकान्तेति चैवास्मि युवामेव गतिर्मम .. २६..
दासाः सखायः पितरः प्रेयस्यश्च हरेरिह .
सर्वे नित्या मुनिश्रेष्ठ चिन्तनीया महात्मभिः .. २७..
गमनागमने नित्यं करोति वनगोष्ठयोः .
गोचारणं वयस्यैश्च विनासुरविघातनम् .. २८..
सखायो द्वादशाख्याता हरेः श्रीदामपूर्वकाः .
राधिकायाः सुशीलाद्याः सख्यो द्वात्रिंशदीरिताः .. २९..
आत्मानं चिन्तयेद्वत्स तासां मध्ये मनोरमाम् .
रूपयौवनसम्पन्नां किशोरीं च स्वलङ्कृताम् .. ३०..
नानाशिल्पकलाभिज्ञां कृष्णभोगानुरूपिणीम् .
तत्सेवनसुखाह्लादभावेनातिसुनिर्वृताम् .. ३१..
ब्राह्मं मुहूर्तमारभ्य यावदर्धनिशा भवेत् .
तावत्परिचरेत्तौ तु यथाकालानुसेवया .. ३२..
सहस्रं च तयोर्नाम्नां पठेन्नित्यं समाहितः .
एतत्साधनमुद्दिष्टं प्रपन्नानां मुनीश्वर .. ३३..
नाख्येयं कस्यचित्तुभ्यं मया तत्त्वं प्रकाशितम् .
सनत्कुमार उवाच -
ततस्त्वं नारद पुनः पृष्टवान्वै सदाशिवम् .. ३४..
नाम्नां सहस्रं तच्चापि प्रोक्तवांस्तच्छृणुष्व मे .
ध्यात्वा वृन्दावने रम्ये यमुनातीरसंगतम् .. ३५..
कल्पवृक्षं समाश्रित्य तिष्ठन्तं राधिकायुतम् .
पठेन्नामसहस्रं तु युगलाख्यं महामुने .. ३६..
देवकीनन्दनः शौरिर्वासुदेवो बलानुजः .
गदाग्रजः कंसमोहः कंससेवकमोहनः .. ३७..
भिन्नार्गलो भिन्नलोहः पितृबाह्याः पितृस्तुतः .
मातृस्तुतः शिवध्येयो यमुनाजलभेदनः .. ३८..
व्रजवासी व्रजानन्दी नन्दबालो दयानिधिः .
लीलाबालः पद्मनेत्रो गोकुलोत्सव ईश्वरः .. ३९..
गोपिकानन्दनः कृष्णो गोपानन्दः सतां गतिः .
बकप्राणहरो विष्णुर्बकमुक्तिप्रदो हरिः .. ४०..
बलदोलाशयशयः श्यामलः सर्वसुन्दरः .
पद्मनाभो हृषीकेशः क्रीडामनुजबालकः .. ४१..
लीलाविध्वस्तशकटो वेदमन्त्राभिषेचितः .
यशोदानन्दनः कान्तो मुनिकोटिनिषेवितः .. ४२..
नित्यं मधुवनावासी वैकुण्ठः सम्भवः क्रतुः .
रमापतिर्यदुपतिर्मुरारिर्मधुसूदनः .. ४३..
माधवो मानहारी च श्रीपतिर्भूधरः प्रभुः .
बृहद्वनमहालीलो नन्दसूनुर्महासनः .. ४४..
तृणावर्तप्राणहारी यशोदाविस्मयप्रदः .
त्रैलोक्यवक्त्रः पद्माक्षः पद्महस्तः प्रियङ्करः .. ४५..
ब्रह्मण्यो धर्मगोप्ता च भूपतिः श्रीधरः स्वराट् .
अजाध्यक्षः शिवाध्यक्षो धर्माध्यक्षो महेश्वरः .. ४६..
वेदान्तवेद्यो ब्रह्मस्थः प्रजापतिरमोघदृक् .
गोपीकरावलम्बी च गोपबालकसुप्रियः .. ४७..
बालानुयायी बलवान् श्रीदामप्रिय आत्मवान् .
गोपीगृहाङ्गणरतिर्भद्रः सुश्लोकमङ्गलः .. ४८..
नवनीतहरो बालो नवनीतप्रियाशनः .
बालवृन्दी मर्कवृन्दी चकिताक्षः पलायितः .. ४९..
यशोदातर्जितः कम्पी मायारुदितशोभनः .
दामोदरोऽप्रमेयात्मा दयालुर्भक्तवत्सलः .. ५०..
सुबद्धोलूखले नम्रशिरा गोपीकदर्थितः .
वृक्षभङ्गी शोकभङ्गी धनदात्मजमोक्षणः .. ५१..
देवर्षिवचनश्लाघी भक्तवात्सल्यसागरः .
व्रजकोलाहलकरो व्रजानदविवर्द्धनः .. ५२..
गोपात्मा प्रेरकः साक्षी वृन्दावननिवासकृत् .
वत्सपालो वत्सपतिर्गोपदारकमण्डनः .. ५३..
बालक्रीडो बालरतिर्बालकः कनकाङ्गदी .
पीताम्बरो हेममाली मणिमुक्ताविभूषणः .. ५४..
किङ्किणीकटकी सूत्री नूपुरी मुद्रिकान्वितः .
वत्सासुरपतिध्वंसी बकासुरविनाशनः .. ५५..
अघासुरविनाशी च विनिद्रीकृतबालकः .
आद्य आत्मप्रदः सङ्गी यमुनातीरभोजनः .. ५६..
गोपालमण्डलीमध्यः सर्वगोपालभूषणः .
कृतहस्ततलग्रासो व्यञ्जनाश्रितशाखिकः .. ५७..
कृतबाहुशृङ्गयष्टिर्गुञ्जालङ्कृतकण्ठकः .
मयूरपिच्छमुकुटो वनमालाविभूषितः .. ५८..
गैरिकाचित्रितवपुर्नवमेघवपुः स्मरः .
कोटिकन्दर्पलावण्यो लसन्मकरकुण्डलः .. ५९..
आजानुबाहुर्भगवान्निद्रारहितलोचनः .
कोटिसागरगाम्भीर्यः कालकालः सदाशिवः .. ६०..
विरञ्चिमोहनवपुर्गोपवत्सवपुर्द्धरः .
ब्रह्माण्डकोटिजनको ब्रह्ममोहविनाशकः .. ६१..
ब्रह्मा ब्रह्मेडितः स्वामी शक्रदर्पादिनाशनः .
गिरिपूजोपदेष्टा च धृतगोवर्द्धनाचलः .. ६२..
पुरन्दरेडितः पूज्यः कामधेनुप्रपूजितः .
सर्वतीर्थाभिषिक्तश्च गोविन्दो गोपरक्षकः .. ६३..
कालियार्तिकरः क्रूरो नागपत्नीडितो विराट् .
धेनुकारिः प्रलम्बारिर्वृषासुरविमर्दनः .. ६४..
मायासुरात्मजध्वंसी केशिकण्ठविदारकः .
गोपगोप्ता धेनुगोप्ता दावाग्निपरिशोषकः .. ६५..
गोपकन्यावस्त्रहारी गोपकन्यावरप्रदः .
यज्ञपत्न्यन्नभोजी च मुनिमानापहारकः .. ६६..
जलेशमानमथनो नन्दगोपालजीवनः .
गन्धर्वशापमोक्ता च शङ्खचूडशिरो हरः .. ६७..
वंशी वटी वेणुवादी गोपीचिन्तापहारकः .
सर्वगोप्ता समाह्वानः सर्वगोपीमनोरथः .. ६८..
व्यंगधर्मप्रवक्ता च गोपीमण्डलमोहनः .
रासक्रीडारसास्वादी रसिको राधिकाधवः .. ६९..
किशोरीप्राणनाथश्च वृषभानसुताप्रियः .
सर्वगोपीजनानन्दी गोपीजनविमोहनः .. ७०..
गोपिकागीतचरितो गोपीनर्तनलालसः .
गोपीस्कन्धाश्रितकरो गोपिकाचुम्बनप्रियः .. ७१..
गोपिकामार्जितमुखो गोपीव्यजनवीजितः .
गोपिकाकेशसंस्कारी गोपिकापुष्पसंस्तरः .. ७२..
गोपिकाहृदयालम्बी गोपीवहनतत्परः .
गोपिकामदहारी च गोपिकापरमार्जितः .. ७३..
गोपिकाकृतसंनीलो गोपिकासंस्मृतप्रियः .
गोपिकावन्दितपदो गोपिकावशवर्तनः .. ७४..
राधापराजितः श्रीमान्निकुञ्जेसुविहारवान् .
कुञ्जप्रियः कुञ्जवासी वृन्दावनविकासनः .. ७५..
यमुनाजलसिक्ताङ्गो यमुनासौख्यदायकः .
शशिसंस्तम्भनः शूरः कामी कामविजोहनः .. ७६..
कामाद्याः कामनाथश्च काममानसभेदनः .
कामदः कामरूपश्च कामिनी कामसञ्चयः .. ७७..
नित्यक्रीडो महालीलः सर्वः सर्वगतस्तथा .
परमात्मा पराधीशः सर्वकारणकारणः (orम्).. ७८..
गृहीतनारदवचा ह्यक्रूरपरिचिन्तितः .
अक्रूरवन्दितपदो गोपिकातोषकारकः .. ७९..
अक्रूरवाक्यसङ्ग्राही मथुरावासकारणः (orम्).
अक्रूरतापशमनो रजकायुःप्रणाशनः .. ८०..
मथुरानन्ददायी च कंसवस्त्रविलुण्ठनः .
कंसवस्त्रपरीधानो गोपवस्त्रप्रदायकः .. ८१..
सुदामगृहगामी च सुदामपरिपूजितः .
तन्तुवायकसंप्रीतः कुब्जाचन्दनलेपनः .. ८२..
कुब्जारूपप्रदो विज्ञो मुकुन्दो विष्टरश्रवाः .
सर्वज्ञो मथुरालोकी सर्वलोकाभिनन्दनः .. ८३..
कृपाकटाक्षदर्शी च दैत्यारिर्देवपालकः .
सर्वदुःखप्रशमनो धनुर्भङ्गी महोत्सवः .. ८४..
कुवलयापीडहन्ता दन्तस्कन्धबलाग्रणीः .
कल्परूपधरो धीरो दिव्यवस्त्रानुलेपनः .. ८५..
मल्लरूपो महाकालः कामरूपी बलान्वितः .
कंसत्रासकरो भीमो मुष्टिकान्तश्च कंसहा .. ८६..
चाणूरघ्नो भयहरः शलारिस्तोशलान्तकः .
वैकुण्ठवासी कंसारिः सर्वदुष्टनिषूदनः .. ८७..
देवदुन्दुभिनिर्घोषी पितृशोकनिवारणः .
यादवेन्द्रः सतांनाथो यादवारिप्रमर्द्दनः .. ८८..
शौरिशोकविनाशी च देवकीतापनाशनः .
उग्रसेनपरित्राता उग्रसेनाभिपूजितः .. ८९..
उग्रसेनाभिषेकी च उग्रसेनदयापरः .
सर्वसात्वतसाक्षी च यदूनामभिनन्दनः .. ९०..
सर्वमाथुरसंसेव्यः करुणो भक्तबान्धवः .
सर्वगोपालधनदो गोपीगोपाललालसः .. ९१..
शौरिदत्तोपवीती च उग्रसेनदयाकरः .
गुरुभक्तो ब्रह्मचारी निगमाध्ययने रतः .. ९२..
संकर्षणसहाध्यायी सुदामसुहृदेव च .
विद्यानिधिः कलाकोशो मृतपुत्रप्रदस्तथा .. ९३..
चक्री पाञ्चजनी चैव सर्वनारकिमोचनः .
यमार्चितः परो देवो नामोच्चारवशोऽच्युतः .. ९४..
कुब्जाविलासी सुभगो दीनबन्धुरनूपमः .
अक्रूरगृहगोप्ता च प्रतिज्ञापालकः शुभः .. ९५..
जरासन्धजयी विद्वान् यवनान्तो द्विजाश्रयः .
मुचुकुन्दप्रियकरो जरासन्धपलायितः .. ९६..
द्वारकाजनको गूढो ब्रह्मण्यः सत्यसङ्गरः .
लीलाधरः प्रियकरो विश्वकर्मा यशःप्रदः .. ९७..
रुक्मिणीप्रियसन्देशो रुक्मशोकविवर्द्धनः .
चैद्यशोकालयः श्रेष्ठो दुष्टराजन्यनाशनः .. ९८..
रुक्मिवैरूप्यकरणो रुक्मिणीवचने रतः .
बलभद्रवचोग्राही मुक्तरुक्मी जनार्दनः .. ९९..
रुक्मिणीप्राणनाथश्च सत्यभामापतिः स्वयम् .
भक्तपक्षी भक्तिवश्यो ह्यक्रूरमणिदायकः .. १००..
शतधन्वाप्राणहारी ऋक्षराजसुताप्रियः .
सत्राजित्तनयाकान्तो मित्रविन्दापहारकः .. १०१.
सत्यापतिर्लक्ष्मणाजित्पूज्यो भद्राप्रियङ्करः .
नरकासुरघाती च लीलाकन्याहरो जयी .. १०२..
मुरारिर्मदनेशोऽपि धरित्रीदुःखनाशनः .
वैनतेयी स्वर्गगामी अदित्य कुण्डलप्रदः .. १०३..
इन्द्रार्चितो रमाकान्तो वज्रिभार्याप्रपूजितः .
पारिजातापहारी च शक्रमानापहारकः .. १०४..
प्रद्युम्नजनकः साम्बतातो बहुसुतो विधुः .
गर्गाचार्यः सत्यगतिर्धर्माधारो धराधरः .. १०५..
द्वारकामण्डनः श्लोक्यः सुश्लोको निगमालयः .
पौण्ड्रकप्राणहारी च काशीराजशिरोहरः .. १०६..
अवैष्णवविप्रदाही सुदक्षिणभयावहः .
जरासन्धविदारी च धर्मनन्दनयज्ञकृत् .. १०७..
शिशुपालशिरश्छेदी दन्तवक्त्रविनाशनः .
विदूरथान्तकः श्रीशः श्रीदो द्विविदनाशनः .. १०८..
रुक्मिणीमानहारी च रुक्मिणीमानवर्द्धनः .
देवर्षिशापहर्ता च द्रौपदीवाक्यपालकः .. १०९..
दुर्वासोभयहारी च पाञ्चालीस्मरणागतः .
पार्थदूतः पार्थमन्त्री पार्थदुःखौघनाशनः .. ११०..
पार्थमानापहारी च पार्थजीवनदायकः .
पाञ्चालीवस्त्रदाता च विश्वपालकपालकः .. १११..
श्वेताश्वसारथिः सत्यः सत्यसाध्यो भयापहः .
सत्यसन्धः सत्यरतिः सत्यप्रिय उदारधीः .. ११२..
महासेनजयी चैव शिवसैन्यविनाशनः .
बाणासुरभुजच्छेत्ता बाणबाहुवरप्रदः .. ११३..
तार्क्ष्यमानापहारी च तार्क्ष्यतेजोविवर्द्धनः .
रामस्वरूपधारी च सत्यभामामुदावहः .. ११४..
रत्नाकरजलक्रीडो व्रजलीलाप्रदर्शकः .
स्वप्रतिज्ञापरिध्वंसी भीष्माज्ञापरिपालकः .. ११५..
वीरायुधहरः कालः कालिकेशो महाबलः .
वर्वरीषशिरोहारी वर्वरीषशिरःप्रदः .. ११६..
धर्मपुत्रजयी शूरदुर्योधनमदान्तकः .
गोपिकाप्रीतिनिर्बन्धनित्यक्रीडो व्रजेश्वरः .. ११७..
राधाकुण्डरतिर्धन्यः सदान्दोलसमाश्रितः .
सदामधुवनानन्दी सदावृन्दावनप्रियः .. ११८..
अशोकवनसन्नद्धः सदातिलकसङ्गतः .
सदागोवर्द्धनरतिः सदा गोकुलवल्लभः .. ११९..
भाण्डीरवटसंवासी नित्यं वंशीवटस्थितः .
नन्दग्रामकृतावासो वृषभानुग्रहप्रियः .. १२०..
गृहीतकामिनीरूपो नित्यं रासविलासकृत् .
वल्लवीजनसङ्गोप्ता वल्लवीजनवल्लभः .. १२१..
देवशर्मकृपाकर्ता कल्पपादपसंस्थितः .
शिलानुगन्धनिलयः पादचारी घनच्छविः .. १२२..
अतसीकुसुमप्रख्यः सदा लक्ष्मीकृपाकरः .
त्रिपुरारिप्रियकरो ह्युग्रधन्वापराजितः .. १२३..
षड्धुरध्वंसकर्ता च निकुम्भप्राणहारकः .
वज्रनाभपुरध्वंसी पौण्ड्रकप्राणहारकः .. १२४..
बहुलाश्वप्रीतिकर्ता द्विजवर्यप्रियङ्करः .
शिवसङ्कटहारी च वृकासुरविनाशनः .. १२५..
भृगुसत्कारकारी च शिवसात्त्विकताप्रदः .
गोकर्णपूजकः साम्बकुष्ठविध्वंसकारणः .. १२६..
वेदस्तुतो वेदवेत्ता यदुवंशविवर्द्धनः .
यदुवंशविनाशी च उद्धवोद्धारकारकः .. १२७..
राधा च राधिका चैव आनन्दा वृषभानुजा .
वृन्दावनेश्वरी पुण्या कृष्णमानसहारिणी .. १२८..
प्रगल्भा चतुरा कामा कामिनी हरिमोहिनी .
ललिता मधुरा माध्वी किशोरी कनकप्रभा .. १२९..
जितचन्द्रा जितमृगा जितसिंहा जितद्विपा .
जितरम्भा जितपिका गोविन्दहृदयोद्भवा .. १३०..
जितबिम्बा जितशुका जितपद्मा कुमारिका .
श्रीकृष्णाकर्षणा देवी नित्यं युग्मस्वरूपिणी .. १३१..
नित्यं विहारिणी कान्ता रसिका कृष्णवल्लभा .
आमोदिनी मोदवती नन्दनन्दनभूषिता .. १३२..
दिव्याम्बरा दिव्यहारा मुक्तामणिविभूषिता .
कुञ्जप्रिया कुञ्जवासा कुञ्जनायकनायिका .. १३३..
चारुरूपा चारुवक्त्रा चारुहेमाङ्गदा शुभा .
श्रीकृष्णवेणुसङ्गीता मुरलीहारिणी शिवा .. १३४..
भद्रा भगवती शान्ता कुमुदा सुन्दरी प्रिया .
कृष्णक्रीडा कृष्णरतिः श्रीकृष्णसहचारिणी .. १३५..
वंशीवटप्रियस्थाना युग्मायुग्मस्वरूपिणी .
भाण्डीरवासिनी शुभ्रा गोपीनाथप्रिया सखी .. १३६..
श्रुतिनिःश्वसिता दिव्या गोविन्दरसदायिनी .
श्रीकृष्णप्रार्थनीशाना महानन्दप्रदायिनी .. १३७..
वैकुण्ठजनसंसेव्या कोटिलक्ष्मीसुखावहा .
कोटिकन्दर्पलावण्या रतिकोटिरतिप्रदा .. १३८..
भक्तिग्राह्या भक्तिरूपा लावण्यसरसी उमा .
ब्रह्मरुद्रादिसंराध्या नित्यं कौतूहलान्विता .. १३९..
नित्यलीला नित्यकामा नित्यशृङ्गारभूषिता .
नित्यवृन्दावनरसा नन्दनन्दनसंयुता .. १४०..
गोपिकामण्डलीयुक्ता नित्यं गोपालसङ्गता .
गोरसक्षेपणी शूरा सानन्दानन्ददायिनी .. १४१..
महालीला प्रकृष्टा च नागरी नगचारिणी .
नित्यमाघूर्णिता पूर्णा कस्तूरीतिलकान्विता .. १४२..
पद्मा श्यामा मृगाक्षी च सिद्धिरूपा रसावहा .
कोटिचन्द्रानना गौरी कोटिकोकिलसुस्वरा .. १४३..
शीलसौन्दर्यनिलया नन्दनन्दनलालिता .
अशोकवनसंवासा भाण्डीरवनसङ्गता .. १४४..
कल्पद्रुमतलाविष्टा कृष्णा विश्वा हरिप्रिया .
अजागम्या भवागम्या गोवर्द्धनकृतालया .. १४५..
यमुनातीरनिलया शश्वद्गोविन्दजल्पिनी .
शश्वन्मानवती स्निग्धा श्रीकृष्णपरिवन्दिता .. १४६..
कृष्णस्तुता कृष्णवृता श्रीकृष्णहृदयालया .
देवद्रुमफला सेव्या वृन्दावनरसालया .. १४७..
कोटितीर्थमयी सत्या कोटितीर्थफलप्रदा .
कोटियोगसुदुष्प्राप्या कोटियज्ञदुराश्रया .. १४८..
मनसा शशिलेखा च श्रीकोटिसुभगाऽनघा .
कोटिमुक्तसुखा सौम्या लक्ष्मीकोटिविलासिनी .. १४९..
तिलोत्तमा त्रिकालस्था त्रिकालज्ञाप्यधीश्वरी .
त्रिवेदज्ञा त्रिलोकज्ञा तुरीयान्तनिवासिनी .. १५०..
दुर्गाराध्या रमाराध्या विश्वाराध्या चिदात्मिका .
देवाराध्या पराराध्या ब्रह्माराध्या परात्मिका .. १५१..
शिवाराध्या प्रेमसाध्या भक्ताराध्या रसात्मिका .
कृष्णप्राणार्पिणी भामा शुद्धप्रेमविलासिनी .. १५२..
कृष्णाराध्या भक्तिसाध्या भक्तवृन्दनिषेविता .
विश्वाधारा कृपाधारा जीवधारातिनायिका .. १५३..
शुद्धप्रेममयी लज्जा नित्यसिद्धा शिरोमणिः .
दिव्यरूपा दिव्यभोगा दिव्यवेषा मुदान्विता .. १५४..
दिव्याङ्गनावृन्दसारा नित्यनूतनयौवना .
परब्रह्मावृता ध्येया महारूपा महोज्ज्वला .. १५५..
कोटिसूर्यप्रभा कोटिचन्द्रबिम्बाधिकच्छविः .
कोमलामृतवागाद्या वेदाद्या वेददुर्लभा .. १५६..
कृष्णासक्ता कृष्णभक्ता चन्द्रावलिनिषेविता .
कलाषोडशसम्पूर्णा कृष्णदेहार्द्धधारिणी .. १५७..
कृष्णबुद्धिः कृष्णसारा कृष्णरूपविहारिणी .
कृष्णकान्ता कृष्णधना कृष्णमोहनकारिणी .. १५८..
कृष्णदृष्टिः कृष्णगोत्री कृष्णदेवी कुलोद्वहा .
सर्वभूतस्थितावात्मा सर्वलोकनमस्कृता .. १५९..
कृष्णदात्री प्रेमधात्री स्वर्णगात्री मनोरमा .
नगधात्री यशोदात्री महादेवी शुभङ्करी .. १६०..
श्रीशेषदेवजननी अवतारगणप्रसूः .
उत्पलाङ्कारविन्दाङ्का प्रसादाङ्का द्वितीयका .. १६१..
रथाङ्का कुञ्जराङ्का च कुण्डलाङ्कपदस्थिता .
छत्राङ्का विद्युदङ्का च पुष्पमालाङ्कितापि च .. १६२..
दण्डाङ्का मुकुटाङ्का च पूर्णचन्द्रा शुकाङ्किता .
कृष्णान्नाहारपाका च वृन्दाकुञ्जविहारिणी .. १६३..
कृष्णप्रबोधनकरी कृष्णशेषान्नभोजिनी .
पद्मकेसरमध्यस्था सङ्गीतागमवेदिनी .. १६४..
कोटिकल्पान्तभ्रूभङ्गा अप्राप्तप्रलयाच्युता .
सर्वसत्त्वनिधिः पद्मशङ्खादिनिधिसेविता .. १६५..
अणिमादिगुणैश्वर्या देववृन्दविमोहिनी .
सर्वानन्दप्रदा सर्वा सुवर्णलतिकाकृतिः .. १६६..
कृष्णाभिसारसङ्केता मालिनी नृत्यपण्डिता .
गोपीसिन्धुसकाशाह्वा गोपमण्डपशोभिनी .. १६७..
श्रीकृष्णप्रीतिदा भीता प्रत्यङ्गपुलकाञ्चिता .
श्रीकृष्णालिङ्गनरता गोविन्दविरहाक्षमा .. १६८..
अनन्तगुणसम्पन्ना कृष्णकीर्तनलालसा .
बीजत्रयमयी मूर्तिः कृष्णानुग्रहवाञ्छिता .. १६९..
विमलादिनिषेव्या च ललिताद्यर्चिता सती .
पद्मवृन्दस्थिता हृष्टा त्रिपुरापरिसेविता .. १७०..
वृन्तावत्यर्चिता श्रद्धा दुर्ज्ञेया भक्तवल्लभा .
दुर्लभा सान्द्रसौख्यात्मा श्रेयोहेतुः सुभोगदा .. १७१..
सारङ्गा शारदा बोधा सद्वृन्दावनचारिणी .
ब्रह्मानन्दा चिदानन्दा ध्यानानन्दार्द्धमात्रिका .. १७२..
गन्धर्वा सुरतज्ञा च गोविन्दप्राणसङ्गमा .
कृष्णाङ्गभूषणा रत्नभूषणा स्वर्णभूषिता .. १७३..
श्रीकृष्णहृदयावासमुक्ताकनकनालि(orसि)का .
सद्रत्नकङ्कणयुता श्रीमन्नीलगिरिस्थिता .. १७४..
स्वर्णनूपुरसम्पन्ना स्वर्णकिङ्किणिमण्डिता .
अशोषरासकुतुका रम्भोरूस्तनुमध्यमा .. १७५..
पराकृतिः परानन्दा परस्वर्गविहारिणी .
प्रसूनकबरी चित्रा महासिन्दूरसुन्दरी .. १७६..
कैशोरवयसा बाला प्रमदाकुलशेखरा .
कृष्णाधरसुधास्वादा श्यामप्रेमविनोदिनी .. १७७..
शिखिपिच्छलसच्चूडा स्वर्णचम्पकभूषिता .
कुङ्कुमालक्तकस्तूरीमण्डिता चापराजिता .. १७८..
हेमहारान्विता पुष्पाहाराढ्या रसवत्यपि .
माधुर्य्यमधुरा पद्मा पद्महस्ता सुविश्रुता .. १७९..
भ्रूभङ्गाभङ्गकोदण्डकटाक्षशरसन्धिनी .
शेषदेवा शिरस्था च नित्यस्थलविहारिणी .. १८०..
कारुण्यजलमध्यस्था नित्यमत्ताधिरोहिणी .
अष्टभाषवती चाष्टनायिका लक्षणान्विता .. १८१..
सुनीतिज्ञा श्रुतिज्ञा च सर्वज्ञा दुःखहारिणी .
रजोगुणेश्वरी चैव शरच्चन्द्रनिभानना .. १८२..
केतकीकुसुमाभासा सदा सिन्धुवनस्थिता .
हेमपुष्पाधिककरा पञ्चशक्तिमयी हिता .. १८३..
स्तनकुम्भी नराढ्या च क्षीणापुण्या यशस्विनी .
वैराजसूयजननी श्रीशा भुवनमोहिनी .. १८४..
महाशोभा महामाया महाकान्तिर्महास्मृतिः .
महामोहा महाविद्या महाकीर्तिर्महारतिः .. १८५..
महाधैर्या महावीर्या महाशक्तिर्महाद्युतिः .
महागौरी महासम्पन्महाभोगविलासिनी .. १८६..
समया भक्तिदाशोका वात्सल्यरसदायिनी .
सुहृद्भक्तिप्रदा स्वच्छा माधुर्यरसवर्षिणी .. १८७..
भावभक्तिप्रदा शुद्धप्रेमभक्तिविधायिनी .
गोपरामाभिरामा च क्रीडारामा परेश्वरी .. १८८..
नित्यरामा चात्मरामा कृष्णरामा रमेश्वरी .
एकानेकजगद्व्याप्ता विश्वलीलाप्रकाशिनी .. १८९..
सरस्वतीशा दुर्गेशा जगदीशा जगद्विधिः .
विष्णुवंशनिवासा च विष्णुवंशसमुद्भवा .. १९०..
विष्णुवंशस्तुता कर्त्री विष्णुवंशावनी सदा .
आरामस्था वनस्था च सूर्य्यपुत्र्यवगाहिनी .. १९१..
प्रीतिस्था नित्ययन्त्रस्था गोलोकस्था विभूतिदा .
स्वानुभूतिस्थिता व्यक्ता सर्वलोकनिवासिनी .. १९२..
अमृता ह्यद्भुता श्रीमन्नारायणसमीडिता .
अक्षरापि च कूटस्था महापुरुषसम्भवा .. १९३..
औदार्यभावसाध्या च स्थूलसूक्ष्मातिरूपिणी .
शिरीषपुष्पमृदुला गाङ्गेयमुकुरप्रभा .. १९४..
नीलोत्पलजिताक्षी च सद्रत्नकवरान्विता .
प्रेमपर्यङ्कनिलया तेजोमण्डलमध्यगा .. १९५..
कृष्णाङ्गगोपनाऽभेदा लीलावरणनायिका .
सुधासिन्धुसमुल्लासामृतास्यन्दविधायिनी .. १९६..
कृष्णचित्ता रासचित्ता प्रेमचित्ता हरिप्रिया .
अचिन्तनगुणग्रामा कृष्णलीला मलापहा .. १९७..
राससिन्धुशशाङ्का च रासमण्डलमण्डिनी .
नतव्रता सिंहरीच्छा सुमूर्तिः सुरवन्दिता .. १९८..
गोपीचूडामणिर्गोपी गणेड्या विरजाधिका .
गोपप्रेष्ठा गोपकन्या गोपनारी सुगोपिका .. १९९..
गोपधामा सुदामाम्बा गोपाली गोपमोहिनी .
गोपभूषा कृष्णभूषा श्रीवृन्दावनचन्द्रिका .. २००..
वीणादिघोषनिरता रासोत्सवविकासिनी .
कृष्णचेष्टा परिज्ञाता कोटिकन्दर्पमोहिनी .. २०१..
श्रीकृष्णगुणनागाढ्या देवसुन्दरिमोहिनी .
कृष्णचन्द्रमनोज्ञा च कृष्णदेवसहोदरी .. २०२..
कृष्णाभिलाषिणी कृष्णप्रेमानुग्रहवांछिता .
क्षेमा च मधुरालापा भ्रुवोमाया सुभद्रिका .. २०३..
प्रकृतिः परमानन्दा नीपद्रुमतलस्थिता .
कृपाकटाक्षा बिम्बोष्ठी रम्भा चारुनितम्बिनी .. २०४..
स्मरकेलिनिधाना च गण्डताटङ्कमण्डिता .
हेमाद्रिकान्तिरुचिरा प्रेमाद्या मदमन्थरा .. २०५..
कृष्णचिन्ता प्रेमचिन्ता रतिचिन्ता च कृष्णदा .
रासचिन्ता भावचिन्ता शुद्धचिन्ता महारसा .. २०६..
कृष्णादृष्टित्रुटियुगा दृष्टिपक्ष्मिविनिन्दिनी .
कन्दर्पजननी मुख्या वैकुण्ठगतिदायिनी .. २०७..
रासभावा प्रियाश्लिष्टा प्रेष्ठा प्रथमनायिका .
शुद्धा सुधादेहिनी च श्रीरामा रसमञ्जरी .. २०८..
सुप्रभावा शुभाचारा स्वर्णदी नर्मदाम्बिका .
गोमती चन्द्रभागेड्या सरयूस्ताम्रपर्णिसूः .. २०९..
निष्कलङ्कचरित्रा च निर्गुणा च निरञ्जना .
एतन्नामसहस्रं तु युग्मरूपस्य नारद .. २१०..
पठनीयं प्रयत्नेन वृन्दावनरसावहे .
महापापप्रशमनं वन्ध्यात्वविनिवर्तकम् .. २११..
दारिद्र्यशमनं रोगनाशनं कामदं महत् .
पापापहं वैरिहरं राधामाधवभक्तिदम् .. २१२..
नमस्तस्मै भगवते कृष्णायाकुण्ठमेधसे .
राधासङ्गसुधासिन्धौ नमो नित्यविहारिणे .. २१३..
राधादेवी जगत्कर्त्री जगत्पालनतत्परा .
जगल्लयविधात्री च सर्वेशी सर्वसूतिका .. २१४..
तस्या नामसहस्रं वै मया प्रोक्तं मुनीश्वर .
भुक्तिमुक्तिप्रदं दिव्यं किं भूयः श्रोतुमिच्छसि .. २१५..
.. इति श्रीबृहन्नारदीयपुराणे पूर्वभागे
बृहदुपाख्याने तृतीयपादे
राधाकृष्णसहस्रनामकथनं नाम
द्व्यशीतितमोऽध्यायः ..
Encoded by Kirk Wortman kirkwort@hotmail.com
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com