.. उद्धवकृता श्रीराधाप्रार्थना ..
उद्धव उवाच |
चेतनं कुरु कल्याणि जगन्मातर्नमोऽस्तुते |
त्वमेव प्राक्तनं सर्वं कृष्णं द्रक्ष्यसि साम्प्रतम् || १||
त्वत्तो विश्वं पवित्रं च त्वत्पादरजसा मही |
सुपवित्रं त्वद्वदनं पुण्यवत्यश्च गोपिकाः || २||
लोकास्त्वामेव गायन्ति गीतैर्मङ्गलसंस्तवैः |
त्वत्सुकीर्तिं च वेदाश्च सनकाद्याश्च संततम् || ३||
कृतपापहरां पुण्यां तीर्थपुजां च निर्मलाम् |
हरिभक्तिप्रदां भद्रां सर्वविघ्नविनाशिनीम् || ४||
त्वमेव राधा त्वं कृष्णस्त्वं पुमान् प्रकृतिः परा |
राधामाधवयोर्भेदो न पुराणे श्रुतौ तथा || ५ ||
|| इति श्रीब्रह्मवैवर्ते पुराणे श्रीकृष्णजन्मखण्डे
उद्धवक्रिता श्रीराधा प्रार्थना सम्पूर्णा ||
Encoded by Daniel Mohanpersad danielmohanpersad98@msn.com
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com