.. राधाषोदशनामवर्णनम् ..
श्रीनारायण उवाच |
राधा रासेश्वरी रासवासिनी रसिकेश्वरी |
कृष्णप्राणाधिका कृष्णप्रिया कृष्णस्वरूपिणी || १||
कृष्णवामाङ्गसम्भूता परमान्दरूपिणी |
कृष्णा वृन्दावनी वृन्दा वृन्दावनविनोदिनी || २||
चन्द्रावली चन्द्रकान्ता शतचन्द्रप्रभानना |
नामान्येतानि साराणि तेषामभ्यन्तराणि च || ३||
राधेत्येवं च संसिद्धौ राकारो दानवाचकः |
स्वयं निर्वाणदात्री या सा राधा परिकीर्तिता || ४||
रासेसेश्वरस्य पत्नीयं तेन रासेश्वरी स्मृता |
रासे च वासो यस्याश्च तेन सा रासवासिनी || ५||
सर्वासां रसिकानां च देवीनामीश्वरी परा |
प्रवदन्ति पुरा सन्तस्तेन तां रसिकेश्वरीम् || ६||
प्राणाधिका प्रेयसी सा कृष्णस्य परमात्मनः |
कृष्णप्राणाधिका सा च कृष्णेन परिकीर्तिता || ७||
कृष्णास्यातिप्रिया कान्ता कृष्णो वास्याः प्रियः सदा |
सर्वैर्देवगणैरुक्ता तेन कृष्णप्रिया स्मृता || ८||
कृष्णरूपं संनिधातुं या शक्ता चावलीलया |
सर्वांशैः कृष्णसदृशी तेन कृष्णस्वरूपिणी || ९||
वामाङ्गार्धेन कृष्णस्य या सम्भूता परा सती |
कृष्णवामाङ्गसम्भूता तेन कृष्णेन कीर्तिता || १०||
परमानन्दराशिश्च स्वयं मूर्तिमती सती |
श्रुतिभिः कीर्तिता तेन परमानन्दरूपिणी || ११||
कृषिर्मोक्षार्थवचनो न एतोत्कृष्टवाचकः |
आकारो दातृवचनस्तेन कृष्णा प्रकीर्तिता || १२||
अस्ति वृन्दावनं यस्यास्तेन वृन्दावनी स्मृता |
वृन्दावनस्याधिदेवी तेन वाथ प्रकीर्तिता || १३||
सङ्घःसखीनां वृन्दः स्यादकारोऽप्यस्तिवाचकः |
सखिवृन्दोऽस्ति यस्याश्च सा वृन्दा परिकीर्तिता || १४||
वृन्दावने विनोदश्च सोऽस्या ह्यस्ति च तत्र वै |
वेदा वदन्ति तां तेन वृन्दावनविनोदिनीम् || १५||
नखचन्द्रावली वक्त्रचन्द्रोऽस्ति यत्र संततम् |
तेन चन्द्रवली सा च कृष्णेन परिकीर्तिता || १६||
कान्तिरस्ति चन्द्रतुल्या सदा यस्या दिवानिशम् |
सा चन्द्रकान्ता हर्षेण हरिणा परिकीर्तिता || १७||
शरच्चन्द्रप्रभा यस्स्याश्चाननेऽस्ति दिवानिशम् |
मुनिना कीर्तीता तेन शरच्चन्द्रप्रभानना || १८||
इदं षोडशनामोक्तमर्थव्याख्यानसंयुतम् |
नारायणेन यद्दत्तं ब्रह्मणे नाभिपङ्कजे||
ब्रह्मणा च पुरा दत्तं धर्माय जनकाय मे || १९||
धर्मेण कृपया दत्तं मह्यमादित्यपर्वणि |
पुष्करे च महातीर्थे पुण्याहे देवसंसदि||
राधाप्रभावप्रस्तावे सुप्रसन्नेन चेतसा || २०||
इदं स्तोत्रं महापुण्यं तुभ्यं दत्तं मया मुने |
निन्दकायावैष्णवाय न दातव्यं महामुने || २१||
यावज्जीवमिदं स्तोत्रं त्रिसंध्यं यः पठेन्नरः |
राधामाधवयोः पादपद्मे भक्तिर्भवेदिह || २२||
अन्ते लभेत्तयोर्दास्यं शश्वत्सहचरो भवेत् |
अणिमादिकसिधिं च सम्प्राप्य नित्यविग्रहम् || २३||
व्रतदानोपवाऐश्च सर्वैर्नियमपूर्वकैः |
चतुर्णां चैव वेदानां पाठैः सर्वार्थसंयुतैः || २४||
सर्वेषां यज्ञतीर्थानां करणैर्विधिवोधितः |
प्रदक्षिणेन भुमेश्च कृत्स्नाया एव सप्तधा || २५||
शरणागतरक्षायामज्ञानां ज्ञानदानतः |
देवानां वैष्णवानां च दर्शनेनापि यत् फलम् || २६||
तदेव स्तोत्रपाठस्य कलां नार्हति षोडशीम् |
स्तोत्रस्यास्य प्रभावेण जीवन्मुक्तो भवेन्नरः || २७||
इति श्रीब्रह्मवैवर्ते श्रीनारायणकृतं राधाषोडशनाम वर्णनम् |
Encoded by Daniel Mohanpersad danielmohanpersad98@msn.com
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com