.. ब्रह्मणकृतं श्रीराधास्तोत्रम् ..
ब्रह्मोवाच |
हे मातस्त्वत्पदाम्भोजं दृष्टं कृष्णप्रसादतः || १||
सुदुर्लभं च सर्वेषां भारते च विशेषतः |
षष्टिवर्षसहस्त्राणि तपस्तप्तं पुरा मया || २||
भास्करे पुष्करे तिर्थे कृष्णस्य परमात्मनः |
आजगाम वरं दातुं वरदाता हरिः स्वयम् || ३||
वरंवृणीष्वेत्युक्ते च स्वाभिष्टं च वृतं मुदा |
राधिकाचरणाम्होजं सर्वेषामपि दुर्लभम् || ४||
हे गुणातित मे स्न्हीघ्रमधुनैव प्रदर्शय |
मयेत्युक्तो हरिरयमुवाच मां तपस्विनम् || ५||
दर्शायिष्याम्मि काले च वत्सेदानीं क्समेति च |
न हीश्वराज्ञा विफला तेन दृष्टं पदाम्बुजम् || ६||
सर्वेषां वाञ्चितं मातर्गोलोके भारतेऽधुना |
सर्वा देव्यः प्रकृत्यंशा जन्याः प्राकृतिका ध्रुवम् || ७||
त्वं कृष्णाङ्गार्धसम्भूता तुल्या कृष्णेन सर्वतः |
श्रीकृष्णस्त्वमयं राधा वा हरीः स्वयम् || ८||
न हि वेदेषु मे दृष्ट इति केन निरूपितम् |
ब्रह्माण्डाद् बहिरूर्ध्वं च गोलोकोऽस्ति यथाम्बिके || ९||
वैकुण्ठशचाप्यजन्यश्च त्वमजन्या तथाम्बिके |
यथा समस्तब्रह्माण्डे श्रीकृष्णांशांश जीविनः || १०||
तथा शक्तिस्वरूपा त्वं तेषु सर्वेषु संस्थिता |
पुरुषाश्च हरेरंशास्वदंशा निखिलाः स्त्रियः || ११||
आत्मनो देहरूपा त्वमस्याधारस्वमेव हि |
अस्या नु प्राणैस्त्वं मातस्वत्प्राणैरयमीश्वरः || १२||
किमहो निर्मितः केन हेतुना शिल्पकारिणा |
नित्योऽयं च यथा कृष्णस्त्वं च नित्या तथाम्बिके || १३||
अस्यांशा त्वं त्वदंशो वाप्ययं केन निरूपितः |
अहं विधाता जगतां वेदानां जनकः स्वयम् || १४||
तं पठित्वा गुरुमुखाद् भवन्त्येव बुधा जनाः |
गुणानां वा स्तवानां ते शतांशं वक्तुमक्षमः || १५||
वेदो वा पण्दितो वान्यः को वा त्वां स्तोतुमीश्वरः |
स्तवानां जनकं ज्ञानं बुद्धिर्ज्ञानाम्बिका सदा || १६||
त्वं बुद्धेर्जननी मातः को वा त्वां स्तोतुमीश्वरः |
यद्वस्तु दृष्टं सर्वेषां तद्विवक्तुं बुधः क्समः || १७||
यददृष्टाश्रुतं वस्तु तन्निर्वक्तुं च कः क्षमः |
अहं महेशोऽनन्तश्च स्तोतुं त्वां कोऽपि न क्षमः || १८||
सरस्वती च वेदाश्च क्समः कः स्तोतुमीश्वरि |
यथागमं यथोक्तं च न मां निन्दितुमर्हसि || १९||
ईस्वराणामीस्वरस्य योग्यायोग्ये समा कृपा जनस्य |
प्रतिपाल्यस्य क्षणे दोषः क्षणे गुणः ||२०||
जननी जनको यो वा सर्वं क्समति स्नेहतः |
इत्युक्त्वा जगतां धाताअ तथौ च पुरतस्तयोः || २१||
प्रणम्य चरणाम्भोजं सर्वेसःआं वन्द्यमीप्सितम् |
ब्रह्मणा च कृतं स्तोत्रं त्रिसंध्यं यः पठेन्नरः |
राधामाधवयोः पादे भक्तिं दास्यं लभेद् ध्रुवम् || २२||
कर्मनिर्मूलनं कृत्वा मृत्युं जित्वा सुदुर्जयम् |
विलङ्घ्य सर्वलोकाश्च याति गोलोकमुत्तमम् || २३||
|| इति श्रीब्रह्मवैवर्ते ब्रह्मण कृतं श्रीराधास्तोत्रं सम्पुर्णं||
Encoded by Daniel Mohanpersad danielmohanpersad98@msn.com
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com