.. ब्रह्मेशशेषादिकृतं श्रीराधास्तोत्रं ..
|| अथ ब्रह्मेशशेषादिकृतम् श्रीराधास्तोत्रम् ||
षष्टिवर्षसहस्राणि दिव्यानि परमेश्वरि |
पुष्करे च तपस्तप्तं पुण्यक्षेत्रे च भारते || १ ||
त्वत्पादपद्ममधुरमधुलुब्धेन चेतसा |
मधुव्रतेन लोभेन प्रेरितेन मया सति || २ ||
तथापि न मया लब्धं त्वद्पादपदमीप्सितम् |
न दृष्टमपि स्वप्नेऽपि जाता वागशरीरिणी || ३ ||
वाराहे भारते वर्षे पुण्ये वृन्दावने वने |
सिद्धाश्रमे गणेशस्य पादपद्मं च द्रक्ष्यसि || ४ ||
राधामाधवयोर्दास्यं कुतो विषयिणस्तव |
निवर्तस्व महाभाग परमेतत् सुदुर्लभम् || ५ ||
इति श्रुत्वा निवृत्तोऽहं कुतो विषयिणस्तव |
निवर्तस्व महाभाग परमेतत् सुदुर्लभम् || ६ ||
श्रीमहादेव उवाच |
पद्मैः पद्मार्चितं पादपद्मं यस्य सुदुर्लभम् |
ध्यायन्ते ध्याननिष्टाश्च शश्वद् ब्रह्मादयः सुराः || ७ ||
मुनयो मनवश्चैव सिद्धाः सन्तश्च योगिनः |
द्रष्टुं नैव क्षमाः स्वप्ने भवती तस्य वक्षसि || ८ ||
अनत उवाच |
वेदाश्च वेदमाता च पुराणानि च सुव्रते |
अहं सरस्वती सन्तः स्तोतुं नालं च सन्ततम् || ९ ||
अस्माकं स्तवने यस्य भ्रभङ्गश्च सुदुर्लभभः |
तवैव भर्त्सने भीतश्चावयोरन्तरं हरिः || १० ||
|| इति श्रीब्रह्मवैवर्ते ब्रह्मेशशेषादिकृतं
श्रीराधास्तोत्रं सम्पूर्णम् ||
Encoded by Daniel Mohanpersad danielmohanpersad98@msn.com
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com