.. गणेशकृतं श्री राधा स्तोत्रम् ..
श्रीगणेश उवाच |
तव पूजा जगन्मातर्लोकशिक्षाकरी शुभे|
ब्रह्मस्वरूपा भवती कृष्णवक्षःस्थलस्थिता || १||
यत्पादपद्ममतुतलं ध्यायन्ते ते सुदुर्लभम् |
सुरा ब्रह्मेशशेषाद्या मुनीन्द्राः सनकादयः || २||
जिवन्मुक्ताश्च भक्ताश्च सिद्धेन्द्राः कपिलादयः |
तस्य प्राणाधिदेवि त्वं प्रिया प्राणाधिका परा || ३||
वामाङ्गनिर्मिता राधा दक्षिणाङ्गश्च माधवः |
महालक्ष्मीर्जगन्माता तव वामाङ्गनिर्मिता || ४||
वसोः सर्वनिवासस्य प्रसूस्त्वं परमेश्वरी |
वेदानां जगतामेव मूलप्रकृतिरीश्वरी || ५||
सर्वाः प्राकृतिका मातः सृष्ट्यां च त्वद्विभूतयः |
विश्वानि कार्यरूपाणि त्वं च कारणरूपिणी || ६||
प्रलये ब्रह्मणः पाते तन्निमेषो हरेरपि |
आदौ राधां समुच्चार्य पश्चात् कृष्णं परात्परम् || ७||
स एव पण्डितो योगी गोलोकं याति लीलया |
व्यतिक्रमे महापी ब्रह्महत्यां लभेद् ध्रुवम् || ८||
जगतां भवती माता परमात्मा पिता हरिः |
पितुरेव गुरुर्माता पूज्या वन्द्या परत्परा || ९||
भजते देवमन्यं वा कृष्णं वा सर्वकारणम् |
पुण्यक्षेत्रे महामूढो यदि निन्दा राधीकाम् || १०||
वंशहानिर्भवेत्तस्य दुःखशोकमिहैव च |
पच्यते निरते घोरे याव द्रदिवाकरौ || ११||
गुरुश्च ज्ञानोद्गिरणाज्ज्ञानं स्यान्मंत्रतंत्रयोः |
स च मन्त्रश्च तत्तन्त्रं भक्तिः स्याद् युवयोर्यतः || १२||
निशेव्य मन्त्रं देवानां जीवा जन्मनि जन्मनि |
भक्ता भवन्ति दुर्गायाः पादपद्मे सुदुर्लभे || १३||
निषेव्य मन्त्रं शम्भोश्च जगतां कारणस्य च |
तदा प्राप्नोति युवयोः पादपद्मं सुदुर्लभम् || १४||
युवयोः पादपद्मं च दुर्लभं प्राप्य पुण्यवान् |
क्षणार्धं षोडशांशं च न हि मुञ्चति दैवतः || १५||
भक्त्या च युवयोर्मन्त्रं गृहीत्वा वैष्णवादपि |
स्तवं वा कवचं वापि कर्ममूलनिकृन्तनम् || १६||
यो जपेत् परया भक्त्या पुण्यक्षेत्रे च भारते |
पुरुषाणां सहस्रं च स्वात्मना सार्धमुद्धरेत् || १७||
गुरुमभ्यर्च्य विधिवद् वस्त्रालंकारचन्दनैः |
कवचं धारयेद् यो हि विष्णुतुल्यो भवेद् ध्रुवम् || १८||
|| इति श्री ब्रह्मवैवर्ते गणेशकृतं श्रीराधास्तवनं सम्पूर्णम् ||
Encoded by Daniel Mohanpersad danielmohanpersad98@msn.com
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com