.. श्रीकृष्णकृतम् राधास्तोत्रम् ..
श्रीकृष्ण उवाच |
एवमेव प्रियोऽहं ते प्रमोदश्चैव ते मयि |
सुव्यक्तमद्य कापट्यवचनं ते वरानने || १ ||
हे कृष्ण त्वं मम प्राणा जीवात्मेति च संततम् |
ब्रूषे नित्यं तु यत् प्रेम्णा साम्प्रतं तद् गतं द्रुतम् || २ ||
अस्माकं वचनं सत्यं यद् व्रवीमिती तद् ध्रुवम् |
पञ्चप्राणाधिदेवी त्वं राधा प्राणधिकेति मे || ३ ||
शक्तो न रक्षितुं त्वां च यान्ति प्राणस्त्वया विना |
विनाधिष्ठातृदेवीं च को वा कुत्र च जीवति || ४ ||
महाविष्णोश्च माता त्वं मूलप्रकृतिरीश्वरी |
सगुणा त्वं च कलया निर्गुणा स्वयमेव तु || ५ ||
ज्योतीरूपा निराकारा भक्तानुग्रहविग्रहा |
भक्तानां रुचिवैचित्र्यन्नानामूर्तीश्च बिभ्रमती || ६ ||
महालक्ष्मिश्च वैकुण्ठे भारती च सतां प्रसूः |
पुण्यक्षेत्रे भारते च सती त्वं पार्वती तथा || ७ ||
तुलसी पुण्यरूपा च गङ्गा भुवनपावनी |
ब्रह्मलोके च सावित्री कलया त्वं वसुन्धरा || ८ ||
गोलोके राधिका त्वं च सर्वगोपालकेश्वरी |
त्वया विनाहं निर्जीवो ह्यशक्तः सर्वकर्मसु || ९ ||
शिवः शक्तस्त्वया शक्त्या शवाकारस्त्वया विना |
वेदकर्ता स्वयं ब्रह्मा वेदमात्रा त्वया सह || १० ||
नारायणस्त्वया लक्ष्म्या जगत्पाता जगत्पतिः |
फलं ददाति यज्ञश्च त्वया दक्षिणया सह || ११ ||
बिभर्ति सृष्टिं शेषश्च त्वां कृत्वा मस्तके भुवम् |
बिभर्ति गङ्गारूपां त्वां मूर्घ्नि गङ्गाधरः शिवः || १२ ||
शक्तिमच्च जगत् सर्वं शवरूपं त्वया विना |
वक्ता सर्वस्त्वया वाण्या सूतो मूकस्त्वया विना || १३ ||
यथा मृदा घटं कर्तुं कुलालः शक्तिमान् सदा |
सृष्टिं स्रष्टुं तथाहं च प्रकृत्या च त्वया सह || १४ ||
त्वया विना जडश्चाहं सर्वत्र च न शक्तिमान् |
सर्वशक्तिखरूपा त्वं समागच्छ ममान्तिकम् || १५ ||
वह्नौ त्वं दाहिका शक्तिर्नाग्निः शक्तस्त्वया विना |
शोभास्वरूपा चन्द्रे त्वं त्वां विना न स सुन्दरः || १६ ||
प्रभारूपा हि सूर्ये त्वं विना न स भानुमान् |
न कामः कामिनीबन्घुस्त्वया रत्या विना प्रिये || १७ ||
इत्येवं स्तवनं कृत्वा तां सम्प्राष जगत्प्रभुः |
देवा बभूवुः सथीकाः सभार्याः शक्तिसंयुताः || १८ ||
सस्त्रीकं च जगत् सर्वं बभूव् शैलकन्यके |
गोपीपूर्णश्च गोलोको बभूव तत्प्रसादतः || १९ ||
राजा च जगाम् गोलोकमिति स्तुत्वा हरिप्रियाम् |
श्रीकृष्णेन कृतं स्तोत्रं राधाया यः पठेन्नरः || २० ||
कृष्णभक्तिं च तद्दास्यं स प्राप्नोति न संसयः |
स्त्रीविच्छेदेयः शृणोति मासमेकमिदं शुचिः || २१ ||
अचिराल्लभते भार्यां सुशीलां सुन्दरीं सतीं |
भार्याहीनो भाग्यहीनो वर्षमेकं शृणोति यः || २२ ||
अचिराल्लभते भार्यां सुशीलां सुन्दरीं सतीं |
पुर मया च त्वं प्राप्ता स्तोत्रेणानेन पार्वति || २३ ||
मृतायां दक्षकन्यायामाज्ञया परमात्मनः |
स्तोत्रेणानेन सम्प्राप्ता सावित्री ब्रह्मणा पुरा || २४ ||
पुरा दुर्वाससः शापान्निःश्रीके देवतागणे |
स्तोत्रेणानेन देवैस्तैः सम्प्राप्ता श्रीः सुदुर्लभा || २५ ||
शृणोति वर्षमेकं च पुत्रार्थि लभते सुतम् |
महाव्याधी रोगमुक्तो भवेत् स्तोत्रप्रसादतः || २६ ||
कार्तिकीपूर्णमायां तु तां सम्पूज्य पठेत्तु यः |
अचलां श्रियमाप्नोति राजसूयफलं लभेत् || २७ ||
नारी शृणोति चेत् स्तोत्रं स्वामिसौभाग्यसंयुता |
भक्त्या शृणोति यः स्तोत्रं बन्धनान्मुच्यते ध्रुवम् || २८ ||
नित्यं पठति यो भक्त्या राधां सम्पूज्य भक्तितः |
स प्रयाति च गोलोकं निर्मुक्तो भवबनात् || २९ ||
इति श्रीब्रह्मवैवर्ते श्रिकृष्णकृष्णकृतं
श्रीराधास्तोत्रं सम्पूर्णम् |
Encoded by Daniel Mohanpersad danielmohanpersad98@msn.com
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com