.. श्रीरामाष्टकम् २ ..
कृतार्तदेववन्दनं दिनेशवंशनन्दनम् |
सुशोभिभालचन्दनं नमामि राममीश्वरम् || १||
मुनीन्द्रयज्ञकारकं शिलाविपत्तिहारकम् |
महाधनुर्विदारकं नमामि राममीश्वरम् || २||
स्वतातवाक्यकारिणं तपोवने विहारिणम् |
करे सुचापधारिणं नमामि राममीश्वरम् || ३||
कुरङ्गमुक्तसायकं जटायुमोक्षदायकम् |
प्रविद्धकीशनायकं नमामि राममीश्वरम् || ४||
प्लवङ्गसङ्गसम्मतिं निबद्धनिम्नगापतिम् |
दशास्यवंशसङ्क्षतिं नमामि राममीश्वरम् || ५||
विदीनदेवहर्षणं कपीप्सितार्थवर्षणम् |
स्वबन्धुशोककर्षणं नमामि राममीश्वरम् || ६||
गतारिराज्यरक्षणं प्रजाजनार्तिभक्षणम् |
कृतास्तमोहलक्षणं नमामि राममीश्वरम् || ७||
हृताखिलाचलाभरं स्वधामनीतनागरम् |
जगत्तमोदिवाकरं नमामि राममीश्वरम् || ८||
इदं समाहितात्मना नरो रघूत्तमाष्टकम् |
पठन्निरन्तरं भयं भवोद्भवं न विन्दते || ९||
|| इति श्रीपरमहंसस्वामिब्रह्मानन्दविरचितं श्रीरामाष्टकं सम्पूर्णम् ||
Visit http://www.webdunia.com for additional texts with Hindi meanings.
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com