.. श्री रामचन्द्राष्टकम् ..
ॐ चिदाकारो धाता परमसुखदः पावनतनुर्-
मुनीन्द्रैर्योगीन्द्रैर्यतिपतिसुरेन्द्रैर्हनुमता |
सदा सेव्यः पूर्णो जनकतनयाङ्गः सुरगुरू
रमानाथो रामो रमतु मम चित्ते तु सततम् || १||
मुकुन्दो गोविन्दो जनकतनयालालितपदः
पदं प्राप्ता यस्याधमकुलभवा चापि शबरी |
गिरातीतोऽगम्यो विमलधिषणैर्वेदवचसा
रमानाथो रामो रमतु मम चित्ते तु सततम् || २||
धराधीशोऽधीशः सुरनरवराणां रघुपतिः
किरीटी केयूरी कनककपिशः शोभितवपुः |
समासीनः पीठे रविशतनिभे शान्तमनसो
रमानाथो रामो रमतु मम चित्ते तु सततम् || ३||
वरेण्यः शारण्यः कपिपतिसखश्चान्तविधुरो
ललाटे काश्मीरो रुचिरगतिभङ्गः शशिमुखः |
नराकारो रामो यतिपतिनुतः संसृतिहरो
रमानाथो रामो रमतु मम चित्ते तु सततम् || ४||
विरूपाक्षः काश्यामुपदिशति यन्नाम शिवदं
सहस्रं यन्नाम्नां पठति गिरिजा प्रत्युषसि वै |
स्वलोके गायन्तीश्वरविधिमुखा यस्य चरितं
रमानाथो रामो रमतु मम चित्ते तु सततम् || ५||
परो धीरोऽधीरोऽसुरकुलभवश्चासुरहरः
परात्मा सर्वज्ञो नरसुरगणैर्गीतसुयशाः |
अहल्याशापघ्नः शरकरऋजुःकौशिकसखो
रमानाथो रामो रमतु मम चित्ते तु सततम् || ६||
हृषीकेशः शौरिर्धरणिधरशायी मधुरिपुर्-
उपेन्द्रो वैकुण्ठो गजरिपुहरस्तुष्टमनसा |
बलिध्वंसी वीरो दशरथसुतो नीतिनिपुणो
रमानाथो रामो रमतु मम चित्ते तु सततम् || ७||
कविः सौमित्रीड्यः कपटमृगघाती वनचरो
रणश्लाघी दान्तो धरणिभरहर्ता सुरनुतः |
अमानी मानज्ञो निखिलजनपूज्यो हृदिशयो
रमानाथो रामो रमतु मम चित्ते तु सततम् || ८||
इदं रामस्तोत्रं वरममरदासेन रचितम्
उषःकाले भक्त्या यदि पठति यो भावसहितम् |
मनुष्यः स क्षिप्रं जनिमृतिभयं तापजनकं
परित्यज्य श्रेएष्ठं रघुपतिपदं याति शिवदम् || ९||
|| इति श्रीमद्रामदासपूज्यपादशिष्यश्रीमद्धं
सदासशिष्येणामरदासाख्यकविना विरचितं
श्रीरामचन्द्राष्टकं समाप्तम् ||
Visit http://www.webdunia.com for additional texts with Hindi meanings.
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com