.. रामगीता ..
.. श्रीरामगीता ..
श्रीमहादेव उवाच ..
ततो जगन्मङ्गलमङ्गलात्मना
विधाय रामायणकीर्तिमुत्तमाम् .
चचार पूर्वाचरितं रघूत्तमो
राजर्षिवर्यैरभिसेवितं यथा .. १..
सौमित्रिणा पृष्ट उदारबुद्धिना
रामः कथाः प्राह पुरातनीः शुभाः .
राज्ञः प्रमत्तस्य नृगस्य शापतो
द्विजस्य तिर्यक्त्वमथाह राघवः .. २..
कदाचिदेकान्त उपस्थितं प्रभुं
रामं रमालालितपादपङ्कजम् .
सौमित्रिरासादितशुद्धभावनः
प्रणम्य भक्त्या विनयान्वितोऽब्रवीत् .. ३..
त्वं शुद्धबोधोऽसि हि सर्वदेहिना-
मात्मास्यधीशोऽसि निराकृतिः स्वयम् .
प्रतीयसे ज्ञानदृशां महामते
पादाब्जभृङ्गाहितसङ्गसङ्गिनाम् .. ४..
अहं प्रपन्नोऽस्मि पदाम्बुजं प्रभो
भवापवर्गं तव योगिभावितम् .
यथाञ्जसाज्ञानमपारवारिधिं
सुखं तरिष्यामि तथानुशाधि माम् .. ५..
श्रुत्वाथ सौमित्रवचोऽखिलं तदा
प्राह प्रपन्नार्तिहरः प्रसन्नधीः .
विज्ञानमज्ञानतमःप्रशान्तये
श्रुतिप्रपन्नं क्षितिपालभूषणः .. ६..
श्रीरामचन्द्र उवाच ..
आदौ स्ववर्णाश्रमवर्णिताः क्रियाः
कृत्वा समासादितशुद्धमानसः .
समाप्य तत्पूर्वमुपात्तसाधनः
समाश्रयेत्सद्गुरुमात्मलब्धये .. ७..
क्रिया श्रीरोद्भवहेतुरादृता
प्रियाप्रियौ तौ भवतः सुरागिणः .
धर्मेतरौ तत्र पुनः शरीरकम्
पुनः क्रिया चक्रवदीर्यते भवः .. ८..
अज्ञानमेवास्य हि मूलकारणं
तद्धानमेवात्र विधौ विधीयते .
विद्यैव तन्नाशविधौ पटीयसी
न कर्म तज्जं सविरोधमीरितम् .. ९..
नाज्ञानहानिर्न च रागसंक्षयो
भवेत्ततः कर्म सदोषमुद्भवेत् .
ततः पुनः संसृतिरप्यवारिता
तस्माद्बुधो ज्ञानविचारवान्भवेत् .. १०..
ननु क्रिया वेदमुखेन चोदिता
तथैव विद्या पुरुषार्थसाधनम् .
कर्तव्यता प्राणभृतः प्रचोदिता
विद्यासहायत्वमुपैति सा पुनः .. ११..
कर्माकृतौ दोषमपि श्रुतिर्जगौ
तस्मात्सदा कार्यमिदं मुमुक्षुणा .
ननु स्वतन्त्रा ध्रुवकार्यकारिणी
विद्य न किञ्चिन्मनसाप्यपेक्षते .. १२..
न सत्यकार्योऽपि हि यद्वदध्वरः
प्रकाङ्क्षतेऽन्यानपि कारकादिकान् .
तथैव विद्या विधितः प्रकाशितै-
र्विशिष्यते कर्मभिरेव मुक्तये .. १३..
केचिद्वदन्तीति वितर्कवादिन-
स्तदप्यसदृष्टविरोधकारणात् .
देहाभिमानादभिवर्धते क्रिया
विद्या गताहङ्कृतितः प्रसिध्द्यति .. १४..
विशुद्धविज्ञानविरोचनाञ्चिता
विद्यात्मवृत्तिश्चरमेति भण्यते .
उदेति कर्माखिलकारकादिभि-
र्निहन्ति विद्याखिलकारकादिकम् .. १५..
तस्मात्त्यजेत्कार्यमशेषतः सुधी-
र्विद्याविरोधान्न समुच्चयो भवेत् ..
आत्मानुसन्धानपरायणः सदा
निवृत्तसर्वेन्द्रियवृत्तिगोचरः .. १६..
यावच्छारीरादिषु माययात्मधी-
स्तावद्विधेयो विधिवादकर्मणाम् .
नेतीति वाक्यैरखिलं निषिध्य तत्
ज्ञात्वा परात्मानमथ त्यजेत्क्रियाः .. १७..
यदा परात्मात्मविभेदभेदकं
विज्ञानमात्मन्यवभाति भास्वरम् .
तदैव माया प्रविलीयतेऽञ्जसा
सकारका कारणमात्मसंसृतेः .. १८..
श्रुतिप्रमाणाभिविनाशिता च सा
कथं भविषत्यपि कार्यकारिणी .
विज्ञानमात्रादमलाद्वितीयत-
स्तस्मादविद्या न पुनर्भविष्यति .. १९..
यदि स्म नष्टा न पुनः प्रसूयते
कर्ताहमस्येति मतिः कथं भवेत् .
तस्मात्स्वतन्त्रा न किमप्यपेक्षते
विद्य विमोक्षाय विभाति केवला .. २०..
सा तैत्तिरीयश्रुतिराह सादरं
न्यासं प्रशस्ताखिलकर्मणां स्फुटम् .
एतावदित्याह च वाजिनां श्रुति-
र्ज्ञानं विमोक्षाय न कर्म साधनम् .. २१..
विद्यासमत्वेन तु दर्शितस्त्वया
क्रतुर्न दृष्टान्त उदाहृतः समः .
फलैः पृथक्त्वाद्बहुकारकैः क्रतुः
संसाध्यते ज्ञानमतो विपर्ययम् .. २२..
सप्रत्यवायो ह्यहमित्यनात्मधी-
रज्ञप्रसिद्धा न तु तत्त्वदर्शिनः .
तस्माद्बुधैस्त्याज्यमविक्रियात्मभि-
र्विधानतः कर्म विधिप्रकाशितम् .. २३..
श्रद्धान्वितस्तत्त्वमसीति वाक्यतो
गुरोः प्रसादादपि शुद्धमानसः .
विज्ञाय चैकात्म्यमथात्मजीवयोः
सुखी भवेन्मेरुरिवाप्रकम्पनः .. २४..
आदौ पदार्थावगतिर्हि कारणं
वाक्यार्थविज्ञानविधौ विधानतः .
तत्त्वम्पदार्थौ परमात्मजीवका-
वसीति चैकात्म्यमथानयोर्भवेत् .. २५..
प्रत्यक्परोक्षादि विरोधमात्मनो-
र्विहाय सङ्गृह्य तयोश्चिदात्मताम् .
संशोधितां लक्षणया च लक्षितां
ज्ञात्वा स्वमात्मानमथाद्वयो भवेत् .. २६..
एकात्मकत्वाज्जहती न सम्भवे-
त्तथाजहल्लक्षणता विरोधतः .
सोऽयम्पदार्थाविव भागलक्षणा
युज्येत तत्त्वम्पदयोरदोषतः .. २७..
रसादिपञ्चीकृतभूतसम्भवं
भोगालयं दुःखसुखादिकर्मणाम् .
शरीरमाद्यन्तवदादिकर्मजं
मायामयं स्थूलमुपाधिमात्मनः .. २८..
सूक्ष्मं मनोबुद्धिदशेन्द्रियैर्युतं
प्राणैरपञ्चीकृतभूतसम्भवम् .
भोक्तुः सुखादेरनुसाधनं भवेत्
शरीरमन्यद्विदुरात्मनो बुधाः .. २९..
अनाद्यनिर्वाच्यमपीह कारणं
मायाप्रधानं तु परं शरीरकम् .
उपाधिभेदात्तु यतः पृथक्स्थितं
स्वात्मानमात्मन्यवधारयेत्क्रमात् .. ३०..
कोशेष्वयं तेषु तु तत्तदाकृति-
र्विभाति सङ्गात्स्फतिकोपलो यथा .
असङ्गरूपोऽयमजो यतोऽद्वयो
विज्ञायतेऽस्मिन्परितो विचारिते .. ३१..
बुद्धेस्त्रिधा वृत्तिरपीह दृश्यते
स्वप्नादिभेदेन गुणत्रयात्मनः .
अन्योन्यतोऽस्मिन्व्यभिचारितो मृषा
नित्ये परे ब्रह्मणि केवले शिवे .. ३२..
देहेन्द्रियप्राणमनश्चिदात्मनां
सङ्घादजस्त्रं परिवर्तते धियः .
वृत्तिस्तमोमूलतयाज्ञलक्षणा
यावद्भवेत्तावदसौ भवोद्भवः .. ३३..
नेतिप्रमाणेन निराकृताखिलो
हृदा समास्वादितचिद्घनामृतः .
त्यजेदशेषं जगदात्तसद्रसं
पीत्वा यथाम्भः प्रजहाति तत्फलम् .. ३४..
कदाचिदात्मा न मृतो न जायते
न क्षीयते नापि विवर्धतेऽनवः .
निरस्तसर्वातिशयः सुखात्मकः
स्वयंप्रभः सर्वगतोऽयमद्वयः .. ३५..
एवंविधे ज्ञानमये सुखात्मके
कथं भवो दुःखमयः प्रतीयते .
अज्ञानतोऽध्यासवशात्प्रकाशते
ज्ञाने विलीयेत विरोधतः क्षणात् .. ३६..
यदन्यदन्यत्र विभाव्यते भ्रमा-
दध्यासमित्याहुरमुं विपश्चितः .
असर्पभूतेऽहिविभावनं यथा
रज्ज्वादिके तद्वदपीश्वरे जगत् .. ३७..
विकल्पमायारहिते चिदात्मके-
. अहङ्कार एष प्रथमः प्रकल्पितः .
अध्यास एवात्मनि सर्वकारणे
निरामये ब्रह्मणि केवले परे .. ३८..
इच्छादिरागादि सुखादिधर्मिकाः
सदा धियः संसृतिहेतवः परे .
यस्मात्प्रसुप्तौ तदभावतः परः
सुखस्वरूपेण विभाव्यते हि नः .. ३९..
अनाद्यविद्योद्भवबुद्धिबिम्बितो
जीवप्रकाशोऽयमितीर्यते चितः .
आत्माधियः साक्षितया पृथक्स्थितो
बुध्द्यापरिच्छिन्नपरः स एव हि .. ४०..
चिद्बिम्बसाक्ष्यात्मधियां प्रसङ्गत-
स्त्वेकत्र वासादनलाक्तलोहवत् .
अन्योन्यमध्यासवशात्प्रतीयते
जडाजडत्वं च चिदात्मचेतसोः .. ४१..
गुरोः सकाशादपि वेदवाक्यतः
सञ्जातविद्यानुभवो निरीक्ष्य तम् .
स्वात्मानमात्मस्थमुपाधिवर्जितं
त्यजेदशेषं जडमात्मगोचरम् .. ४२..
प्रकाशरूपोऽहमजोऽहमद्वयो-
. असकृद्विभातोऽहमतीव निर्मलः .
विशुद्धविज्ञानघनो निरामयः
सम्पूर्ण आनन्दमयोऽहमक्रियः .. ४३..
सदैव मुक्तोऽहमचिन्त्यशक्तिमा-
नतीन्द्रियज्ञानमविक्रियात्मकः .
अनन्तपारोऽहमहर्निशं बुधै-
र्विभावितोऽहं हृदि वेदवादिभिः .. ४४..
एवं सदात्मानमखण्डितात्मना
विचारमाणस्य विशुद्धभावना .
हन्यादविद्यामचिरेण कारकै
रसायनं यद्वदुपासितं रुजः .. ४५..
विविक्त आसीन उपारतेन्द्रियो
विनिर्जितात्मा विमलान्तराशयः .
विभावयेदेकमनन्यसाधनो
विज्ञानदृक्केवल आत्मसंस्थितः .. ४६..
विश्वं यदेतत्परमात्मदर्शनं
विलापयेदात्मनि सर्वकारणे .
पूर्णश्चिदानन्दमयोऽवतिष्ठते
न वेद बाह्यं न च किञ्चिदान्तरम् .. ४७..
पूर्वं समाधेरखिलं विचिन्तये-
दोङ्कारमात्रं सचराचरं जगत् .
तदेव वाच्यं प्रणवो हि वाचको
विभाव्यतेऽज्ञानवशान्न बोधतः .. ४८..
अकारसंज्ञः पुरुषो हि विश्वको
ह्युकारकस्तैजस ईर्यते क्रमात् .
प्राज्ञो मकारः परिपठ्यतेऽखिलैः
समाधिपूर्वं न तु तत्त्वतो भवेत् .. ४९..
विश्वं त्वकारं पुरुषं विलापये-
दुकारमध्ये बहुधा व्यवस्थितम् .
ततो मकारे प्रविलाप्य तैजसं
द्वितीयवर्णं प्रणवस्य चान्तिमे .. ५०..
मकारमप्यात्मनि चिद्घने परे
विलापयेत्प्राज्ञमपीह कारणम् .
सोऽहं परं ब्रह्म सदा विमुक्तिम-
द्विज्ञानदृङ् मुक्त उपाधितोऽमलः .. ५१..
एवं सदा जातपरात्मभावनः
स्वानन्दतुष्टः परिविस्मृताखिलः .
आस्ते स नित्यात्मसुखप्रकाशकः
साक्षाद्विमुक्तोऽचलवारिसिन्धुवत् .. ५२..
एवं सदाभ्यस्तसमाधियोगिनो
निवृत्तसर्वेन्द्रियगोचरस्य हि .
विनिर्जिताशेषरिपोरहं सदा
दृश्यो भवेयं जितषड्गुणात्मनः .. ५३..
ध्यात्वैवमात्मानमहर्निशं मुनि-
स्तिष्ठेत्सदा मुक्तसमस्तबन्धनः .
प्रारब्धमश्नन्नभिमानवर्जितो
मय्येव साक्षात्प्रविलीयते ततः .. ५४..
आदौ च मध्ये च तथैव चान्ततो
भवं विदित्वा भयशोककारणम् .
हित्वा समस्तं विधिवादचोदितं
भजेत्स्वमात्मानमथाखिलात्मनाम् .. ५५..
आत्मन्यभेदेन विभावयन्निदं
भवत्यभेदेन मयात्मना तदा .
यथा जलं वारिनिधौ यथा पयः
क्षीरे वियद्व्योम्न्यनिले यथानिलः .. ५६..
इत्थं यदीक्षेत हि लोकसंस्थितो
जगन्मृषैवेति विभावयन्मुनिः .
निराकृतत्वाच्छ्रुतियुक्तिमानतो
यथेन्दुभेदो दिशि दिग्भ्रमादयः .. ५७..
यावन्न पश्येदखिलं मदात्मकं
तावन्मदाराधनतत्परो भवेत् .
श्रद्धालुरत्यूर्जितभक्तिलक्षणो
यस्तस्य दृश्योऽहमहर्निशं हृदि .. ५८..
रहस्यमेतच्छ्रुतिसारसङ्ग्रहं
मया विनिश्चित्य तवोदितं प्रिय .
यस्त्वेतदालोचयतीह बुद्धिमान्
स मुच्यते पातकराशिभिः क्षणात् .. ५९..
भ्रातर्यदीदं परिदृश्यते जग-
न्मायैव सर्वं परिहृत्य चेतसा .
मद्भावनाभावितशुद्धमानसः
सुखी भवानन्दमयो निरामयः .. ६०..
यः सेवते मामगुणं गुणात्परं
हृदा कदा वा यदि वा गुणात्मकम् .
सोऽहं स्वपादाञ्चितरेणुभिः स्पृशन्
पुनाति लोकत्रितयं यथा रविः .. ६१..
विज्ञानमेतदखिलं श्रुतिसारमेकं
वेदान्तवेदचरणेन मयैव गीतम् .
यः श्रद्धया परिपठेद्गुरुभक्तियुक्तो
मद्रूपमेति यदि मद्वचनेषु भक्तिः .. ६२..
.. इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे पञ्चमः सर्गः ..
Please send corrections to Sunder Hattangadi
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com