.. श्रीरामकृष्ण परमहंसोपनिषदं ..
ॐ सह नाववतु .
सह नौ भुनक्तु .
सह वीर्यं करवावहै .
तेजस्वि नावधीतमस्तु मा विद्विषावहै ..
ॐ शान्तिः शान्तिः शान्तिः ..
ॐ अथ श्रीरामकृष्ण परमहंसोपनिषदं
व्याख्यास्यामः .
सैषाऽपरोक्षानुभवरूढा साधनप्रधाना च .. १..
निर्गुणं निराकारं च परं ब्रह्म .
तदेव भक्तजनानां शीतल भक्तेः प्रभावात्
सगुणः साकारः परमेश्वरो भवति हिममिव
जलात् शैत्यात् .
स एव परमेश्वरो निखिलजगदंतर्यामी च .. २..
राम-कृष्ण-शिव-विष्णु-गाॅडल्लेत्यादि
विविधनामभिर्निर्दिष्टं परंतत्त्वमपि स एव .
स एव लक्ष्मी-दुर्गा-काली-सरस्वतीत्यादि
देवीनामभिरपि निर्दिश्यते .. ३..
व्यवहारदशायां यत्र पुरुषोऽज्ञो द्वैतमिव
पश्यति तदा काल्यादि देव्यः परस्यैव ब्रह्मणः
शक्तय इति मन्तव्यम् . दाहिकशक्तिर्यथाग्नेः .
वस्तुतस्तु तयोरत्यंतमभेदः एव ..४..
परमेश्वरदर्शनमेव मानव जीवनस्य चरमोद्देशः .
तथैव मुक्तेः साध्यत्वात् .
परमेश्वरस्तु द्रष्टुं स्प्रष्टुं च शक्यः .
तेन सहालापोऽपि साध्यः .
सर्वे धर्माः समानास्तमेव गमयंति च .. ५..
अपि तु मायाजवनिकाच्छन्नः स सुखेन द्रष्टुं
न लभ्यः .
कामकांचन कामनैव माया .
तदपगमे सः स्वयमेवाविर्भवति मेघापायेंऽशुमानिव .
ज्ञानमिश्रित भक्तिश्च मायानाशोपायः .
स एव सर्वमित्यतो दीनदरिद्ररोग्यज्ञादीनां
नारायणदृष्ट्या सेवाऽप्यद्यतनकालेऽ-
अनुत्तमोपायश्चित्तशुद्धिद्वारा तं
साक्षात्कर्तुम् .. ६..
कथंचित्तं ज्ञात्वा दृष्ट्वा स्पृष्ट्वा
भवबन्धनाद्विमुक्ता भवत .
विमुक्ता भवतेत्युपनिषत् .. ७..
ॐ शान्तिः शान्तिः शान्तिः ..
.. इति स्वामी हर्षानन्द कृत उपनिशत्समाप्ता ..
Please send corrections to Sunder Hattangadi (sunderh@hotmail.com)
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com