.. रेणुकास्तोत्रम् ..
पाकामृतांशुमकुटाभरणा भवानी
शोकापहा नतजनस्य शुभाखिलाङ्गी .
कोकाकृतिस्तनभरा कुशलानि नित्यं
मूकाम्बिका मम तनोतु मुनीन्द्रवन्द्या ..
श्लोकस्याद्यन्तयोर्वाग्भवमुच्चार्य पठेदिति संप्रदायः .. ॐ..
कालाग्न्यादि शिवावसानमखिलं ते गुल्फदघ्नं शिवे
मूर्तिं कीर्तयितुं न कस्य रसना लज्जाम्बुधौ मज्जति .
तस्मात् त्वच्चरणैकदेशनखरज्योतिःस्फुलिङ्गा इव
स्फूर्जन्ति प्रभविष्णवश्च सततं ते पद्मनाभादयः .. १..
कल्पः कोऽपि स शांभवो विजयते मातस्त्वया कल्पितो
यत्रानल्पविकल्पजालविमुखः कश्चिद्विपश्चित् परः .
सा त्वं सत्त्ववतामपीह सुलभा नैवासि किं स्तूयसे
स्वच्छन्दं शिशवो यथा तव पुनः क्रीडन्ति वेदा इमे .. २..
लीलाचामरधारिणीसहचरीगत्या महासिद्धयो
नूनं वञ्चयितुं स्फुरन्ति भवतीकारुण्यशून्यं जनम् .
अम्ब त्वन्नयनाञ्चलं करुणया यस्मिन् परिक्रीडते
तस्य द्वारि निवारितोऽपि कुरुते सेवां सुराणां गणः .. ३..
आ पातालतलात् फणीश्वरशिरोरत्नांशुनीराजिता-
दा सर्वज्ञनिकेतनादपि शिखायौतांशुधौताङ्कणात् .
एकच्छत्रमवाप्य वैभवमहो दीव्यन्ति ते संततं
ये संध्याचलनिश्चलं तव पदं ध्यायन्ति गायन्ति च .. ४..
ये त्वामम्ब पलाशबिल्वकुसुमैरुल्लासिभिर्मल्लिका-
पुष्पैर्वा वनमल्लिकाविरचितैरुद्दामभिर्दामभिः .
मुग्धोन्मीलितमालतीभिरभितः संपूजयन्त्यादरात्
तेषामुद्धृतसौरभा प्रतिदिनं व्याजृम्भते भारती .. ५..
त्वां सह्याचलमौलिसुस्थितपदां श्री- एकवीराम्बिके
ये लिम्पन्ति सचन्द्रचन्दनरसैस्तेषां सुधास्राविणी .
वाणीविस्मयवर्ण्यमानगिरिशव्यालोलगङ्गाजल-
स्वच्छन्दोर्मितपरंपराविजयिनी वाणी नरीनृत्यति .. ६..
ये त्वां ब्राह्ममुहूर्तनिर्मलधियस्त्वाधारतश्चिन्तय-
न्त्यूर्ध्वं मूर्ध्नि सरोरुहेऽतिधवले पीयूषधारावृते .
ते मृत्युं सहसा विजित्य रचयन्त्युच्चैर्गतिं नित्यशः
प्रत्यादिष्टपुरःसुधाकरसुधाहंभावसंभाविताः .. ७..
यस्त्वां पश्यति तस्य नश्यति महापापान्धकारः क्षणात्
किं चार्धादपरे पुराणपुरुषप्राणप्रिये पार्वति .
मूर्ध्नस्तस्य ततो भवेत् कृतधियः श्री- एकवीराम्बिके
दृश्यन्ते न मनागपीह यदियं प्रत्यक्षमुद्योतसे .. ८..
किं योगेन किमर्चनेन किमथ ज्ञानेन किं कर्मणा
किं ध्यानेन किमिज्यया किमथवा दानेन किं दीक्षया .
दृश्यन्ते यदि सह्यशैलशिखरश्रीगर्विताः सर्वदा
मातः पार्वति रेणुके तव पदाम्भोजप्रभाविभ्रमाः .. ९..
हे सह्याचलनित्यकेलिरसिके कर्पूरकस्तूरिका-
विन्यस्तागरुकुङ्कुमैर्मलयजैस्त्वं चर्चिताभ्यर्चिता .
ते दीव्यन्ति सुरेन्द्रमुख्यविबुधश्रेणीकिरीटस्फुर-
न्माणिक्यप्रतिबिम्बितारुणपदस्थाः संप्रदाः संपदाम् .. १०..
हे सह्याद्रिविनिद्रलिङ्गवपुषि श्री- एकवीराम्बिके
त्वां कृष्णागरुगुग्गुलुप्रभृतिभिर्ये धूपयन्त्यादरात् .
ते कैलासनिवासिनीभिरभितः संचारितैश्चारुभि-
र्लीलाचामरमारुतैश्चिरतरं नन्दन्ति रुद्रा इव .. ११..
मातः शांभवि जृम्भितामृतशिलालिङ्गात्मिके रेणुके
त्वां सह्याद्रिशिरोविहारसुलभां नीराजयन्त्यादरात् .
ते बृन्दारकबृन्दवन्दितपदाश्चन्द्रार्कचूडामणि-
ज्योतिर्मेदुरमन्दिराङ्कणभुवो भूतिं लभन्तेऽद्भुताम् .. १२..
दूरादङ्गणरङ्गसंगतरजोराजीविराजद्वपु-
स्तुभ्यं यः प्रणिपत्तिमम्ब कुरुते कश्चित् कदाचित् क्वचित्.
संप्राप्य श्रियमिन्दुसुन्दरयशःसंदोहनिष्यन्दिनी-
मन्ते निर्विषयं स्वयं प्रविशति श्रीशांभवं वैभवम् .. १३..
त्वामुद्दिश्य कदापि कोऽपि किमपि क्वापि प्रपद्यन् नरो
भक्त्यावेशवशीकृतो जपति वा यो यज्जुहोत्यादरात् .
तत् तस्याक्षयमेव देवि भवति स्वर्गापवर्गप्रदं
त्वन्नामस्मरणं गतो विजयते सर्वोऽपि शर्वो जनः .. १४..
मातस्त्वच्चरणेन यास्यति चिरं रुद्रोऽपि भद्राशय-
श्चूडाचन्द्रकलामरीचिनिचयैराचान्तरत्नासनैः .
तत्त्वानामुपरि स्थितो विजयते वामादिभिर्नामभिः
श्रीकामेश्वरि दक्षपुत्रि गिरिजे त्वं रेणुके रक्ष माम् .. १५..
मातर्भैरवि भर्गपत्नि गिरिजे गायत्रि गोत्रात्मिके
दुर्गे गौरि सरस्वति त्रिणयने श्रीसिद्धलक्ष्मी धृते .
नित्ये मृत्युविकारहारिणि शिवे श्री- एकवीराम्बिके
सोऽहं ते शरणागतः करुणया त्वं रेणुके रक्ष माम् .. १६..
इति श्रीरेणुकास्तोत्रं समाप्तः..
पाकामृतांशुमकुटाभरणा भवानी
शोकापहा नतजनस्य शुभाखिलाङ्गी .
कोकाकृतिस्तनभरा कुशलानि नित्यं
मूकाम्बिका मम तनोतु मुनीन्द्रवन्द्या ..
श्लोकस्याद्यन्तयोर्वाग्भवमुच्चार्य पठेदिति संप्रदायः .. ॐ..
Encoded and proofread by Sridhar Seshagiri seshagir@egr.msu.edu
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com