.. रुद्रहृदयोपनिषत् ..
यद्ब्रह्म रुद्रहृदयमहाविद्याप्रकाशितम् .
तद्ब्रह्ममात्रावस्थानपदवीमधुना भजे ..
ॐ सह नाववतु .. सह नौ भुनक्तु .. सह वीर्यं करवावहै ..
तेजस्विनावधीतमस्तु मा विद्विषावहै ..
ॐ शान्तिः शान्तिः शान्तिः ..
हरिः ॐ ..
हृदयं कुण्डली भस्मरुद्राक्षगणदर्शनम् .
तारसारं महावाक्यं पञ्चब्रह्माग्निहोत्रकम् .. १..
प्रणम्य शिरसा पादौ शुको व्यासमुवाच ह .
को देवः सर्वदेवेषु कस्मिन्देवाश्च सर्वशः .. २..
कस्य शुश्रूषणान्नित्यं प्रीता देवा भवन्ति मे .
तस्य तद्वचनं श्रुत्वा प्रत्युवाच पिता शुकम् .. ३..
सर्वदेवात्मको रुद्रः सर्वे देवाः शिवात्मकाः .
रुद्रस्य दक्षिणे पार्श्वे रविर्ब्रह्मा त्रयोऽग्नयः .. ४..
वामपार्श्वे उमा देवी विष्णुः सोमोऽपि ते त्रयः .
या उमा सा स्वयं विष्णुर्यो विष्णुः स हि चन्द्रमाः .. ५..
ये नमस्यन्ति गोविन्दं ते नमस्यन्ति शङ्करम् .
येऽर्चयन्ति हरिं भक्त्या तेऽर्चयन्ति वृषध्वजम् .. ६..
ये द्विषन्ति विरूपाक्षं ते द्विषन्ति जनार्दनम् .
ये रुद्रं नाभिजानन्ति ते न जानन्ति केशवम् .. ७..
रुद्रात्प्रवर्तते बीजं बीजयोनिर्जनार्दनः .
यो रुद्रः स स्वयं ब्रह्मा यो ब्रह्मा स हुताशनः .. ८..
ब्रह्मविष्णुमयो रुद्र अग्नीषोमात्कं जगत् .
पुंलिङ्गं सर्वमीशानं स्त्रीलिङ्गं भगवत्युमा .. ९..
उमारुद्रात्मिकाः सर्वाः ग्रजाः स्थावरजङ्गमाः .
व्यक्तं सर्वमुमारूपमव्यक्तं तु महेश्वरम् .. १०..
उमा शङ्करयोगो यः स योगो विष्णुरुच्यते .
यस्तु तस्मै नमस्कारं कुर्याद्भक्तिसमन्वितः .. ११..
आत्मानं परमात्मानमन्तरात्मानमेव च .
ज्ञात्वा त्रिविधमात्मानं परमात्मानमाश्रयेत् .. १२..
अन्तरात्मा भवेद्ब्रह्मा परमात्मा महेश्वरः .
सर्वेषामेव भूतानां विष्णुरात्मा सनातनः .. १३..
अस्य त्रैलोक्यवृक्षस्य भूमौ विटपशाखिनः .
अग्रं मध्यं तथा मूलं विष्णुब्रह्ममहेश्वराः .. १४..
कार्यं विष्णुः क्रिया ब्रह्मा कारणं तु महेश्वरः .
प्रयोजनार्थं रुद्रेण मूर्तिरेका त्रिधा कृता .. १५..
धर्मो रुद्रो जगद्विष्णुः सर्वज्ञानं पितामहः .
श्रीरुद्र रुद्र रुद्रेति यस्तं ब्रूयाद्विचक्षणः .. १६..
कीर्तनात्सर्वदेवस्य सर्वपापैः प्रमुच्यते .
रुद्रो नर उमा नारी तस्मै तस्यै नमो नमः .. १७..
रुद्रो ब्रह्मा उमा वाणी तस्मै तस्यै नमो नमः .
रुद्रो विष्णुरुमा लक्ष्मीस्तस्मै तस्यै नमो नमः .. १८..
रुद्रः सूर्य उमा छाया तस्मै तस्यै नमो नमः .
रुद्रः सोम उमा तारा तस्मै तस्यै नमो नमः .. १९..
रुद्रो दिवा उमा रात्रिस्तस्मै तस्यै नमो नमः .
रुद्रो यज्ञ उमा वेदिस्तस्मै तस्यै नमो नमः .. २०..
रुद्रो वह्निरुमा स्वाहा तस्मै तस्यै नमो नमः .
रुद्रो वेद उमा शास्तं तस्मै तस्यै नमो नमः .. २१..
रुद्रो वृक्ष उमा वल्ली तस्मै तस्यै नमो नमः .
रुद्रो गन्ध उमा पुष्पं तस्मै तस्यै नमो नमः .. २२..
रुद्रोऽर्थ अक्षरः सोमा तस्मै तस्यै नमो नमः .
रुद्रो लिङ्गमुमा पीठं तस्मै तस्यै नमो नमः .. २३..
सर्वदेवात्मकं रुद्रं नमस्कुर्यात्पृथक्पृथक् .
एभिर्मन्त्रपदैरेव नमस्यामीशपार्वती .. २४..
यत्र यत्र भवेत्सार्धमिमं मन्त्रमुदीरयेत् .
ब्रह्महा जलमध्ये तु सर्वपापैः प्रमुच्यते .. २५..
सर्वाधिष्ठानमद्वन्द्वं परं ब्रह्म सनातनम् .
सच्चिदानन्दरूपं तदवाङ्मनसगोचरम् .. २६..
तस्मिन्सुविदिते सर्वं विज्ञातं स्यादिदं शुक .
तदात्मकत्वात्सर्वस्य तस्माद्भिन्नं नहि क्वचित् .. २७..
द्वे विद्ये वेदितव्ये हि परा चैवापरा च ते .
तत्रापरा तु विद्यैषा ऋग्वेदो यजुरेव च .. २८..
सामवेदस्तथाथर्ववेदः शिक्षा मुनीश्वर .
कल्पो व्याकरणं चैव निरुक्तं छन्द एव च .. २९..
ज्योतिषं च यथा नात्मविषया अपि बुद्धयः .
अथैषा परमा विद्या ययात्मा परमाक्षरम् .. ३०..
यत्तदद्रेश्यमग्राह्यमगोत्रं रूपवर्जितम् .
अचक्षुःश्रोत्रमत्यर्थं तदपाणिपदं तथा .. ३१..
नित्यं विभुं सर्वगतं सुसूक्ष्मं च तदव्ययम् .
तद्भूतयोनिं पश्यन्ति धीरा आत्मानमात्मनि .. ३२..
यः सर्वज्ञः सर्वविद्यो यस्य ज्ञानमयं तपः .
तस्मादत्रान्नरूपेण जायते जगदावलिः .. ३३..
सत्यवद्भाति तत्सर्वं रज्जुसर्पवदास्थितम् .
तदेतदक्षरं सत्यं तद्विज्ञाय विमुच्यते .. ३४..
ज्ञानेनैव हि संसारविनाशो नैव कर्मणा .
श्रोत्रियं ब्रह्मनिष्ठं स्वगुरुं गच्छेद्यथाविधि .. ३५..
गुरुस्तस्मै परां विद्यां दद्याद्ब्रह्मात्मबोधिनीम् .
गुहायां निहितं साक्षादक्षरं वेद चेन्नरः .. ३६..
छित्वाऽविद्यामहाग्रन्थिं शिवं गच्छेत्सनातनम् .
तदेतदमृतं सत्यं तद्बोद्धव्यं मुमुक्षिभिः .. ३७..
धनुस्तारं शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते .
अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् .. ३८..
लक्ष्यं सर्वगतं चैव शरः सर्वगतो मुखः .
वेद्धा सर्वगतश्चैव शिवलक्ष्यं न संशयः .. ३९..
न तत्र चन्द्रार्कवपुः प्रकाशते
न वान्ति वाताः सकला देवताश्च .
स एष देवः कृतभावभूतः
स्वयं विशुद्धो विरजः प्रकाशते .. ४०..
द्वौ सुपर्णौ शरीरेऽस्मिञ्जीवेशाक्ष्यौ सह स्थितौ .
तयोर्जीवः फलं भुङ्क्ते कर्मणो न महेश्वरः .. ४१..
केवलं साक्षिरूपेण विना भोगं महेश्वरः .
प्रकाशते स्वयं भेदः कल्पितो मायया तयोः .. ४२..
घटाकाशमठाकाशौ यथाकाशप्रभेदतः .
कल्पितौ परमौ जीवशिवरूपेण कल्पितौ .. ४३..
तत्त्वतश्च शिवः साक्षाच्चिज्जीवश्च स्वतः सदा .
चिच्चिदाकारतो भिन्ना न भिन्ना चित्त्वहानितः .. ४४..
चितश्चिन्न चिदाकारद्भिद्यते जडरूपतः .
भिद्यते चेज्जडो भेदश्चिदेका सर्वदा खलु .. ४५..
तर्कतश्च प्रमाणाच्च चिदेकत्वव्यवस्थितेः .
चिदेकत्वपरिज्ञाने न शोचति न मुह्यति .. ४६..
अद्वैतं परमानन्दं शिवं याति तु कैवलम् .. ४७..
अधिष्ठानं समस्तस्य जगतः सत्यचिद्घनम् .
अहमस्मीति निश्चित्य वीतशोको भवेन्मुनिः .. ४८..
स्वशरीरे स्वयं ज्योतिःस्वरूपं सर्वसाक्षिणम् .
क्षीणदोषाः प्रपश्यन्ति नेतरे माययावृताः .. ४९..
एवं रूपपरिज्ञानं यस्यास्ति परयोगिनः .
कुत्रचिद्गमनं नास्ति तस्य पूर्णस्वरूपिणः .. ५०..
आकाशमेकं संपूर्णं कुत्रचिन्नैव गच्छति .
तद्वत्स्वात्मपरिज्ञानी कुत्रचिन्नैव गच्छति .. ५१..
स यो ह वै तत्परमं ब्रह्म यो वेद वै मुनिः .
ब्रह्मैव भवति स्वस्थः सच्चिदानन्द मातृकः .. ५२..
इत्युपनिषत् ..
ॐ सह नाववतु .. सह नौ भुनक्तु .. सह वीर्यं करवावहै ..
तेजस्विनावधीतमस्तु मा विद्विषावहै ..
ॐ शान्तिः शान्तिः शान्तिः ..
इति रुद्रहृदयोपनिषत्समाप्ता ..
Encoded by Sunder Hattangadi (sunderh@hotmail.com)
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com