||श्री रुद्रप्रश्नः ||
||नमकम् ||
ध्यानम्
आपातालनभःस्थलान्तभुवनब्रह्माण्डमाविस्फुर-
ज्ज्योतिः स्फाटिकलिङ्गमौलिविलसत् पूर्णेन्दुवान्तामृतैः |
अस्तोकाप्लुतमेकमीशमनिशं रुद्रानुवाकाञ्जपन्
ध्यायेदीप्सित सिद्धयेऽद्रुतपदं विप्रोऽभिषिञ्जेच्छिवम् ||
ब्रह्माण्डव्याप्तदेहा भसितहिमरुचा भासमाना भुजङ्गैः
कण्ठे कालाः कपर्दाकलित शशिकलाश्चण्डकोदण्डहस्ताः |
त्र्यक्षा रुद्राक्षमालाः प्रणतभयहराः शांभवा मूर्तिभेदाः
रुद्राः श्रीरुद्रसूक्तप्रकटितविभवा नः प्रयच्छन्तु सौख्यम् ||
||ओं नमो भगवते रुद्राय ||
नमस्ते रुद्रमन्यव उतोत इषवे नमः |
नमस्ते अस्तु धन्वने बाहुभ्या- मुत ते नमः ||१- १||
यात इषुः शिवतमा शिवं बभूव ते धनुः |
शिवा शरव्या या तव तया नो रुद्र मृडय ||१- २||
या ते रुद्र शिवा तनू- रघोराऽपापकाशिनी |
तया नस्तनुवा शन्तमया गिरिशंताभिचाकशीहि ||१- ३||
यामिषुं गिरिशंत हस्ते बिभर्ष्यस्तवे |
शिवां गिरित्र तां कुरु मा हिसीः पुरुषं जगत् ||१- ४||
शिवेन वचसा त्वा गिरिशाच्छा वदामसि |
यथा नः सर्वमिज्जगदयक्ष्मसुमना असत् ||१- ५||
अध्यवोचदधि वक्ता प्रथमो दैव्यो भिषक् |
अहीश्च सर्वाञ्जंभयन्त्सर्वाश्च यातुधान्यः ||१- ६||
असौ यस्ताम्रो अरुण उत बभ्रुः सुमंगलः |
ये चेमारुद्रा अभितो दिक्षु |
श्रिताः सहस्रशोऽवैषाहेड ईमहे ||१- ७||
असौ योऽवसर्पति नीलग्रीवो विलोहितः |
उतैनं गोपा अदृशन्नदृशन्नुदहार्यः |
उतैनं विश्वा भूतानि स दृष्टो मृडयाति नः ||१- ८||
नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे |
अथो ये अस्य सत्वानोऽहं तेभ्योऽकरन्नमः ||१- ९||
प्रमुंच धन्वनस्त्व- मुभयो- रार्त्नियो- र्ज्याम् |
याश्च ते हस्त इषवः परा ता भगवो वप ||१- १०||
अवतत्य धनुस्त्व सहस्राक्ष शतेषुधे |
निशीर्य शल्यानां मुखा शिवो नः सुमना भव ||१- ११||
विज्यं धनुः कपर्दिनो विशल्यो बाणवा उत |
अनेशन्नस्येषव आभुरस्य निषंगथिः ||१- १२||
या ते हेति- र्मीढुष्टम हस्ते बभूव ते धनुः |
तयाऽस्मान्विश्वतस्त्व- मयक्ष्मया परिब्भुज ||१- १३||
नमस्ते अस्त्वायुधायानातताय धृष्णवे |
उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने ||१- १४||
परि ते धन्वनो हेति- रस्मान्व्रुणक्तु विश्वतः |
अथो य इषुधिस्तवारे अस्मन्निधेहि तम् ||१- १५||
नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यंबकाय
त्रिपुरान्तकाय त्रिकाग्नि- कालाय कालाग्निरुद्राय var त्रिकालाग्नि
नीलकण्ठाय म्रुत्युंजयाय सर्वेश्वराय
सदाशिवाय श्रीमन्महादेवाय नमः ||२- ०||
नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो
वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः
सस्पिञ्चराय त्विषीमते पथीनां पतये नमो नमो
बभ्लुशाय विव्याधिनेऽन्नानां पतये नमो नमो
हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो
भवस्य हेत्यै जगतां पतये नमो नमो
रुद्रायातताविने क्षेत्राणां पतये नमो नमः
सूतायाहन्त्याय वनानां पतये नमो नमः ||२- १||
रोहिताय स्थपतये वृक्षाणां पतये नमो नमो
मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो
भुवंतये वारिवस्कृतायौषधीनां पतये नमो नम
उच्चैर्घोषायाक्रन्दयते पत्तीनां पतये नमो नमः
कृत्स्नवीताय धावते सत्वनां पतये नमः ||२- २||
नमः सहमानाय निव्याधिन आव्याधिनीनां
पतये नमो नमः
ककुभाय निषङ्गिणे स्तेनानां पतये नमो नमो
निषङ्गिण इषुधिमते तस्कराणां पतये नमो नमो
वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो
निचेरवे परिचरायारण्यानां पतये नमो नमः
सृकाविभ्यो जिघासद्भ्यो मुष्णतां पतये नमो नमो
ऽसिमद्भ्यो नक्तं चरद्भ्यः प्रकृन्तानां पतये नमो नम
उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नमः ||३- १||
इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम
आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो नम
आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो नमो
ऽस्यद्भ्यो विद्ध्यद्भ्यश्च वो नमो नम
आसीनेभ्यः शयानेभ्यश्च वो नमो नमः
स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नम-
स्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः
सभाभ्यः सभापतिभ्यश्च वो नमो नमो
अश्वेभ्योऽश्वपतिभ्यश्च वो नमः ||३- २||
नम आव्यधिनीभ्यो विविध्यन्तीभ्यश्च वो नमो नम
उगणाभ्यस्तृहतीभ्यश्च वो नमो नमो
गृत्सेभ्यो ग्रुत्सपतिभ्यश्च वो नमो नमो
व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो
गणेभ्यो गणपतिभ्यश्च वो नमो नमो
विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो
महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो
रथिभ्योऽरथेभ्यश्च वो नमो नमो रथेभ्यः ||४- १||
रथपतिभ्यश्च वो नमो नमः
सेनाभ्यः सेननिभ्यश्च वो नमो नमः
क्षत्तृभ्यः संग्रहीतृभ्यश्च वो नमो नम-
स्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः
कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः
पुञ्जिष्टेभ्यो निषादेभ्यश्च वो नमो नम
इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो
म्रुगयुभ्यः श्वनिभ्यश्च वो नमो नमः
श्वभ्यः श्वपतिभ्यश्च वो नमः ||४- २||
नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च
नमो नीलग्रीवाय च शितिकण्ठाय च
नमः कपर्दिने च व्युप्तकेशाय च
नमः सहस्राक्षाय च शतधन्वने च
नमो गिरिशाय च शिपिविष्टाय च
नमो मीढुष्टमाय चेषुमते च नमो ह्रस्वाय च वामनाय च
नमो बृहते च वर्षीयसे च
नमो वृद्धाय च संवृद्ध्वने च ||५- १||
नमो अग्रियाय च प्रथमाय च नम आशवे चाजिराय च
नमः शीघ्रियाय च शीभ्याय च
नम् ऊर्म्याय चावस्वन्याय च
नमः स्रोतस्याय च द्वीप्याय च ||५- २||
नमो ज्येष्ठाय च कनिष्ठाय च
नमः पूर्वजाय चापरजाय च
नमो मध्यमाय चापगल्भाय च
नमो जघन्याय च बुध्नियाय च
नमः सोभ्याय च प्रतिसर्याय च
नमो याम्याय च क्षेम्याय च
नम उर्वर्याय च खल्याय च
नमः श्लोक्याय चावसान्याय च
नमो वन्याय च कक्ष्याय च
नमः श्रवाय च प्रतिश्रवाय च ||६- १||
नम आशुषेणाय चाशुरथाय च
नमः शूराय चावभिन्दते च
नमो वर्मिणे च वरूथिने च
नमो बिल्मिने च कवचिने च
नमः श्रुताय च श्रुतसेनाय च ||६- २||
नमो दुन्दुभ्याय चाहनन्याय च नमो धृष्णवे च प्रमृशाय च
नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषुधिमते च
नमस्तीक्ष्णेषवे चायुधिने च नमः स्वायुधाय च सुधन्वने च
नमः स्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च
नमः सूद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च ||७- १||
नमः कूप्याय चावट्याय च नमो वर्ष्याय चावर्ष्याय च
नमो मेघ्याय च विद्युत्याय च नम ईघ्रियाय चातप्याय च
नमो वात्याय च रेष्मियाय च
नमो वास्तव्याय च वास्तुपाय च ||७- २||
नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च
नमः शङ्गाय च पशुपतये च नम उग्राय च भीमाय च
नमो अग्रेवधाय च दूरेवधाय च
नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो
नमस्ताराय नमः शंभवे च मयोभवे च
नमः शंकराय च मयस्कराय च
नमः शिवाय च शिवतराय च ||८- १||
नमस्तीर्थ्याय च कूल्याय च
नमः पार्याय चावार्याय च
नमः प्रतरणाय चोत्तरणाय च
नम आतार्याय चालाद्याय च
नमः शष्प्याय च फेन्याय च नमः
सिकत्याय च प्रवाह्याय च ||८- २||
नम इरिण्याय च प्रपथ्याय च
नमः किशिलाय च क्षयणाय च
नमः कपर्दिने च पुलस्तये च
नमो गोष्ठ्याय च गृह्याय च
नमस्तल्प्याय च गेह्याय च
नमः काट्याय च गह्वरेष्ठाय च
नमो हृदय्याय च निवेष्प्याय च
नमः पासव्याय च रजस्याय च
नमः शुष्क्याय च हरित्याय च
नमो लोप्याय चोलप्याय च ||९- १||
नम ऊर्व्याय च सूर्म्याय च
नमः पर्ण्याय च पर्णशद्याय च
नमोऽपगुरमाणाय चाभिघ्नते च
नम आख्खिदते च प्रख्खिदते च
नमो वः किरिकेभ्यो देवाना हृदयेभ्यो
नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो
नम आनिर्हतेभ्यो नम आमीवत्केभ्यः ||९- २||
द्रापे अन्धसस्पते दरिद्रन्नीललोहित |
एषां पुरुषाणामेषां पशूनां मा भेर्मारो मो एषां
किंचनाममत् ||१०- १||
या ते रुद्र शिवा तनूः शिवा विश्वाह भेषजी |
शिवा रुद्रस्य भेषजी तया नो मृड जीवसे ||१०- २||
इमारुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतिम् |
यथा नः शमसद्द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे
आस्मिन्ननातुरम् ||१०- ३||
मृडा नो रुद्रोतनो मयस्कृधि क्षयद्वीराय नमसा विधेम ते |
यच्छं च योश्च मनुरायजे पिता तदश्याम तव रुद्र प्रणीतौ ||१०- ४||
मा नो महान्तमुत मा नो अर्भकं
मा न उक्षन्त- मुत मा न उक्षितम् |
मा नो वधीः पितरं मोत मातरं प्रिया मा
नस्तनुवो रुद्र रीरिषः ||१०- ५||
मानस्तोके तनये मा न आयुषि मा नो गोषु
मा नो अश्वेषु रीरिषः |
वीरान्मा नो रुद्र भामितोऽवधी- र्हविष्मन्तो
नमसा विधेम ते ||१०- ६||
आरात्ते गोघ्न उत्त पूरुषघ्ने क्षयद्वीराय
सुम्नमस्मे ते अस्तु |
रक्षा च नो अधि च देव ब्रूह्यथा च नः
शर्म यच्छ द्विबर्हाः ||१०- ७||
स्तुहि श्रुतं गर्तसदं युवानं मृगन्न भीम- मुपहत्नुमुग्रम् |
म्रुडा जरित्रे रुद्र स्तवानो अन्यन्ते
अस्मन्निवपन्तु सेनाः ||१०- ८||
परिणो रुद्रस्य हेतिर्वृणक्तु परि त्वेषस्य दुर्मतिरघायोः |
अव स्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय
तनयाय म्रुडय ||१०- ९||
मीढुष्टम शिवतम शिवो नः सुमना भव |
परमे व्रुक्ष आयुधं निधाय कृत्तिं वसान
आचर पिनाकं विभ्रदागहि ||१०- १०||
विकिरिद विलोहित नमस्ते अस्तु भगवः |
यास्ते सहस्रहेतयोऽन्यमस्मन्निवपन्तु ताः ||१०- ११||
सहस्राणि सहस्रधा बाहुवोस्तव हेतयः |
तासामीशानो भगवः पराचीना मुखा कृधि ||१०- १२||
सहस्राणि सहस्रशो ये रुद्रा अधि भूम्याम् |
तेषासहस्रयोजनेऽवधन्वानि तन्मसि ||११- १||
अस्मिन् महत्यर्णवेऽन्तरिक्षे भवा अधि ||११- २||
नीलग्रीवाः शितिकण्ठाः शर्वा अधः क्षमाचराः ||११- ३||
नीलग्रीवाः शितिकण्ठा दिवरुद्रा उपश्रिताः ||११- ४||
ये वृक्षेषु सस्पिंजरा नीलग्रीवा विलोहिताः ||११- ५||
ये भूतानामधिपतयो विशिखासः कपर्दिनः ||११- ६||
ये अन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् ||११- ७||
ये पथां पथिरक्षय ऐलबृदा यव्युधः ||११- ८||
ये तीर्थानि प्रचरन्ति सृकावन्तो निषङ्गिणः ||११- ९||
य एतावन्तश्च भूयासश्च दिशो रुद्रा वितस्थिरे
तेषासहस्र- योजने | अवधन्वानि तन्मसि ||११- १०||
नमो रुद्रेभ्यो ये पृथिव्यां ये | अन्तरिक्षे
ये दिवि येषामन्नं वातो वर्षमिषव- स्तेभ्यो दश
प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो
नमस्ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि
तं वो जम्भे दधामि ||११- ११||
त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनम् |
उर्वारुकमिव बन्धनान्मृत्यो- र्मुक्षीय माऽमृतात् ||१||
यो रुद्रो अग्नौ यो अप्सु य ओषधीषु |
यो रुद्रो विश्वा भुवनाऽऽविवेश
तस्मै रुद्राय नमो अस्तु ||२||
तमुष्टुहि यः स्विषुः सुधन्वा यो विश्वस्य क्षयति भेषजस्य |
यक्ष्वामहे सौमनसाय रुद्रं नमोभिर्देवमसुरं दुवस्य ||३||
अयं मे हस्तो भगवानयं मे भगवत्तरः |
अयं मे विश्व- भेषजोऽय शिवाभिमर्शनः ||४||
ये ते सहस्रमयुतं पाशा मृत्यो मर्त्याय हन्तवे |
तान् यज्ञस्य मायया सर्वानव यजामहे |
मृत्यवे स्वाहा मृत्यवे स्वाहा ||५||
ओं नमो भगवते रुद्राय विष्णवे मृत्युर्मे पाहि |
प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकः |
तेनान्नेनाप्यायस्व ||६||
नमो रुद्राय विष्णवे मृत्युर्मे पाहि
||ओं शान्तिः शान्तिः शान्तिः ||
||इति श्रीकृष्णयजुर्वेदीय तैत्तिरीय संहितायां
चतुर्थकाण्डे पंचमः प्रपाठकः ||
||चमकप्रश्नः ||
अग्नाविष्णू सजोषसेमा वर्धन्तु वां गिरः |
द्युम्नैर्वाजेभिरागतम् ||
वाजश्च मे प्रसवश्च मे
प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे
स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे
ज्योतिश्च मे सुवश्च मे प्राणश्च मेऽपानश्च मे
व्यानश्च मेऽसुश्च मे चित्तं च म आधीतं च मे
वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रं च मे दक्षश्च मे
बलं च म ओजश्च मे सहश्च म आयुश्च मे
जरा च म आत्मा च मे तनूश्च मे शर्म च मे वर्म च मे
ऽङ्गानि च मेऽस्थानि च मे परूषि च मे
शरीराणि च मे ||१||
ज्यैष्ठ्यं च म आधिपथ्यं च मे मन्युश्च मे
भामश्च मेऽमश्च मेऽम्भश्च मे जेमा च मे महिमा च मे
वरिमा च मे प्रथिमा च मे वर्ष्मा च मे द्राघुया च मे
वृद्धं च मे वृद्धिश्च मे सत्यं च मे श्रद्धा च मे
जगच्च मे धनं च मे वशश्च मे त्विषिश्च मे क्रीडा च मे
मोदश्च मे जातं च मे जनिष्यमाणं च मे सूक्तं च मे
सुकृतं च मे वित्तं च मे वेद्यं च मे भूतं च मे
भविष्यच्च मे सुगं च मे सुपथं च म ऋद्धं च म ऋद्धिश्च मे
कॢप्तं च मे कॢप्तिश्च मे मतिश्च मे सुमतिश्च मे ||२||
शं च मे मयश्च मे प्रियं च मेऽनुकामश्च मे
कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे
वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे
यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे
विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च मे
सूश्च मे प्रसूश्च मे सीरं च मे लयश्च म ऋतं च मे
ऽमृतं च मेऽयक्ष्मं च मेऽनामयच्च मे जीवातुश्च मे
दीर्घायुत्वं च मेऽनमित्रं च मेऽभयं च मे सुगं च मे
शयनं च मे सूषा च मे सुदिनं च मे ||३||
ऊर्क्च मे सूनृता च मे पयश्च मे रसश्च मे
घृतं च मे मधु च मे सग्धिश्च मे सपीतिश्च मे
कृषिश्च मे वृष्टिश्च मे जैत्रं च म औद्भिद्यं च मे
रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे
विभु च मे प्रभु च मे बहु च मे भूयश्च मे
पूर्णं च मे पूर्णतरं च मेऽक्षितिश्च मे कूयवाश्च मे
ऽन्नं च मेऽक्षुच्च मे व्रीहियश्च मे यवाश्च मे माषाश्च मे
तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे
मसुराश्च मे प्रियंगवश्च मेऽणवश्च मे
श्यामाकाश्च मे नीवाराश्च मे ||४||
अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे
सिकताश्च मे वनस्पतयश्च मे हिरण्यं च मे
ऽयश्च मे सीसं च मे त्रपुश्च मे श्यामं च मे
लोहं च मेऽग्निश्च म आपश्च मे वीरुधश्च म
ओषधयश्च मे कृष्टपच्यं च मेऽकृष्टपच्यं च मे
ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्तां
वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे
वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे
ऽर्थश्च म एमश्च म इतिश्च मे गतिश्च मे ||५||
अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे
सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे
पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे
मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे
त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे
विष्णुश्च म इन्द्रश्च मेऽश्विनौ च म इन्द्रश्च मे
मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे
पृथिवी च म इन्द्रश्च मेऽन्तरीक्षं च म इन्द्रश्च मे
द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे
मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे ||६||
अशुश्च मे रश्मिश्च मेऽदाभ्यश्च मेऽधिपतिश्च म
उपाशुश्च मेऽन्तर्यामश्च म ऐन्द्रवायश्च मे
मैत्रावरुणश्च म आश्विनश्च मे प्रतिपस्थानश्च मे
शुक्रश्च मे मन्थी च म आग्रयणश्च मे वैश्वदेवश्च मे
ध्रुवश्च मे वैश्वानरश्च म ऋतुग्राहाश्च मे
ऽतिग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवाश्च मे
मरुत्वतीयाश्च मे माहेन्द्रश्च म आदित्यश्च मे
सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे
पात्नीवतश्च मे हारियोजनश्च मे ||७||
इध्मश्च मे बर्हिश्च मे वेदिश्च मे धिष्णियाश्च मे
स्रुचश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म
उपरवाश्च मे | अधिषवणे च मे द्रोणकलशश्च मे
वायव्यानि च मे पूतभृच्च मे आधवनीयश्च म
आग्नीध्रं च मे हविर्धानं च मे गृहाश्च मे सदश्च मे
पुरोडाशाश्च मे पचताश्च मेऽवभृथश्च मे
स्वगाकारश्च मे ||८||
अग्निश्च मे धर्मश्च मेऽर्कश्च मे सूर्यश्च मे
प्राणश्च मेऽश्वमेधश्च मे पृथिवी च मेऽ दितिश्च मे
दितिश्च मे द्यौश्च मे शक्क्वरीरङ्गुलयो दिशश्च मे
यज्ञेन कल्पन्तामृक्च मे साम च मे स्तोमश्च मे
यजुश्च मे दीक्षा च मे तपश्च म ऋतुश्च मे व्रतं च मे
ऽहोरात्रयोर्वृष्ट्या बृहद्रथन्तरे च मे यज्ञेन कल्पेताम् ||९||
गर्भाश्च मे वत्साश्च मे त्रविश्च मे त्रवी च मे
दित्यवाट् च मे दित्यौही च मे पञ्चाविश्च मे
पञ्चावी च मे त्रिवत्सश्च मे त्रिवत्सा च मे
तुर्यवाट् च मे तुर्यौही च मे पष्ठवाट् च मे पष्ठौही च म
उक्षा च मे वशा च म ऋषभश्च मे वेहश्च मे
ऽनड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पतां
प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पतां
व्यानो यज्ञेन कल्पतां चक्षुर्यज्ञेन कल्पता
श्रोत्रं यज्ञेन कल्पतां मनो यज्ञेन कल्पतां
वाग्यज्ञेन कल्पतामात्मा यज्ञेन कल्पतां
यज्ञो यज्ञेन कल्पताम् ||१०||
एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे
नव च म एकदश च मे त्रयोदश च मे पंचदश च मे
सप्तदश च मे नवदश च म एक विशतिश्च मे
त्रयोविशतिश्च मे पंचविशतिश्च मे
सप्तविशतिश्च मे नवविशतिश्च म
एकत्रिशच्च मे त्रयस्त्रिशच्च मे
चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे
विशतिश्च मे चतुर्विशतिश्च मेऽष्टाविशतिश्च मे
द्वात्रिशच्च मे षट्त्रिशच्च मे चत्वरिशच्च मे
चतुश्चत्वारिशच्च मेऽष्टाचत्वारिशच्च मे
वाजश्च प्रसवश्चापिजश्च क्रतुश्च सुवश्च मूर्धा च
व्यश्नियश्चान्त्यायनश्चान्त्यश्च भौवनश्च
भुवनश्चाधिपतिश्च ||११||
इडा देवहूर्मनुर्यज्ञनीर्बृहस्पतिरुक्थामदानि
शसिषद्विश्वेदेवाः सूक्तवाचः पृथिवीमातर्मा
मा हिसीर्मधु मनिष्ये मधु जनिष्ये मधु वक्ष्यामि
मधु वदिष्यामि मधुमतीं देवेभ्यो वाचमुद्यास
शुश्रूषेण्यां मनुष्येभ्यस्तं मा देवा अवन्तु
शोभायै पितरोऽनुमदन्तु ||
||ॐ शान्तिः शान्तिः शान्तिः ||
||इति श्री कृष्णयजुर्वेदीय तैत्तिरीय संहितायां
चतुर्थकाण्डे सप्तमः प्रपाठकः ||
Send corrections to P | P | Narayanaswami
at swami@math.mun.ca
%@@1
% File name : rudra.itx
%--------------------------------------------
% Text title : rudraprashnaH vinaasvaraaH
% Author : Vedic Tradition
% Language : Sanskrit
% Subject : philosophy/hinduism
% Description/comments :
% Transliterated by : P. P. Narayanaswami at swami@math.mun.ca
% Proofread by : P. P. Narayanaswami at swami@math.mun.ca
% Latest update : July 4, 1998, October 29, 2010, June 22, 2011
% Send corrections to : sanskrit@cheerful.com
%
% Special Instructions:
% i1h.hdr,ijag.inc,itrans.sty,multicol.sty,iarticle.sty
% Transliteration scheme: ITRANS 5.2
% Site access :
% http://sanskritdocuments.org
% http://sanskrit.gde.to/
%-----------------------------------------------------
% The text is to be used for personal studies and research only.
% Any use for commercial purpose is prohibited as a 'gentleman's'
% agreement.
% @@2
%
% Commands upto #indian and others with \ mark
% are needed for devanaagarii output and formatting.
%--------------------------------------------------------
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Some help is available at Notes
on Viewing and Creating Devanagari Documents with Unicode Support.
Some of the Unicode fonts for Devanagari are linked at http://devanaagarii.net and for
Sanskrit Transliteration/Diacritics are available at IndUni
Fonts.
Questions, comments? Write to sanskrit@cheerful.com .