.. संस्कृताष्टकम् ..
अग्रतः संस्कृतं मेऽस्तु पृष्ठतो मेऽस्तु संस्कृतम् |
संस्कृतं हृदये मेऽस्तु विश्वमध्येऽस्तु संस्कृतम् || १||
संस्कृतं देवभाषाऽस्ति वेदभाषाऽस्ति संस्कृतम् |
प्राचीन- ज्ञान- भाषा च संस्कृतं भद्रमण्डनम् || २||
वेदान्तानां पुराणानां शास्त्राणां च तथैव च |
मंत्राणां तंत्रसूत्राणाम् आद्यभाषाऽस्ति संस्कृतम् || ३||
रामायणं महाकाव्यं महाभारतमेव च |
उभे च विश्वविख्याते संस्कृतस्य महानिधी || ४||
भासस्य कालिदासस्य भवभूतेश्च विश्रुता |
बाण- शूद्रक- हर्षाणाम् काव्यभाषाऽस्ति संस्कृतम् || ५||
प्राणभूतं च यत्तत्त्वं सारभूतं तथैव च |
संस्कृतौ भारतस्याऽस्य तन्मे यच्छतु संस्कृतम् || ६||
यत्र रामकथागानम् तत्राऽस्ते हनुमान् यथा |
संस्कृताध्ययनं यत्र तत्र संस्कृतिदर्शनम् || ७||
शृणुमः संस्कृतं नित्यं वदामः संस्कृतं तथा |
स्मरामः संस्कृतं नित्यं पठामः संस्कृतं तथा || ८||
रचनाकारः वसन्तः शंकरसुतः नानिवडेकरः |
\Large Composed by Mr. Vasant Shankar Nanivadekar
Mr. V. S. Nanivadekar
1/18 Goregaonkar Chawl,
Near Central Cinema,
Girgaon, Mumbai 400004 India
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com